OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 25, 2017

संस्कृत-वार्तावतारण-परिशीलन शिल्पशाला सम्पूर्णमभवत्।
                कोच्ची> छात्राणां कृते सर्वशिक्षा अभियानेन आयोजिता त्रिदिनात्मक संस्कृतवार्तावतारण शिल्पशाला सम्पूर्णा  अभवत्।  आधुनिकयुगे अन्तर्जालयुत-कार्यक्रमेषु संस्कृतभाषायाः स्थानं प्रथममेव इत्यस्य प्रमाणत्वेन आसीत् छात्राणां वार्ता प्रस्तुतिः। विविध भारतीय-भाषासु संस्कृतभाषायाः स्वाधीनता अत्यधिका अस्ति। अतः संस्कृताध्ययनं मातृभाषायाः स्वाभाविक वर्धनायभवति। 
             एरणाकुलं जनपदस्य विविधेभ्यः प्रदेशेभ्यः निर्वाचितान् उप विंशति छात्रान् उद्दिश्य आसीत् एतत् विशेषसत्रम् । दिनत्रयेण वार्तावतारणे कुशलतां प्राप्ता इति। छात्रैः अभिप्रेतम्I आधुनिककाले सर्वेषु कार्यक्रमेषु अवतारकाः आवश्यकाः अतः एतादृशकार्यक्रमाः कौशलवर्धनाय भविष्यन्ति इति BRC अध्यक्षया फौसिया महोदयया उक्तम्। रक्षाकर्तारः अपि एता दृश-नवीन कार्यक्रमस्य आयोजने सन्तुष्टाः अभवन्। समागमिष्यमाणे मेय् मासे नूतनतया वार्तावतारणशिल्पशाला आयोक्ष्यते इति कार्यक्रमाध्यक्षेण जोस् पेट् महोदयेन उक्तम्।
ईजिप्ट् राष्ट्रे इस्लामदेवालये भीकराक्रमणं - २३५ मरणानि। 
            केय्रो> ईजिप्ट् राष्ट्रस्य उत्तरसिना नाम प्रविश्यायां कस्मिंश्चित् इस्लामदेवालये दुरापन्ने भीकराक्रमणेन पञ्चत्रिंशदधिकद्विशतं विश्वासिजनाः मृताः।शताधिकाः आहताः च। इस्रायेल्-पालस्तीन् सीमायां 'बिल् अल् अब्द्' नगरे अल् रौदा मुस्लिम देवालये प्रार्थनावेलायामासीत् स्फोटनरूपम् आक्रमणम्। स्फोटनानन्तरं बहिः पलायितान् जनान् वाहनैः प्राप्ताः अक्रमिणः भुषुण्डिप्रयोगेणापि मारितवन्तः। ईजिप्त् राष्ट्रस्य चरित्रे जातं बृहत्तमं भीकराक्रमणं भवत्येतत्।
         आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम्। किन्तु  २०११ आरभ्य राष्ट्रे निरन्तरमाक्रमणं कुर्वन्तः ऐ एस् भीकराः एव अस्य भूमिकायामिति निगमनम्।

Friday, November 24, 2017

इस्रायेल्स्य प्रधानमन्त्री भारतं आगमिष्यति।
            जेरुसलेम्- इस्रायेल् राष्ट्रस्य प्रधानमन्त्रिणा बेञ्चमिन् नेतन्याहू वर्येण भारतं  सन्दृक्ष्यते। जनुवरिमासस्य १४ तमे दिनाङ्के एव तस्य सन्दर्शनम्। चतुर्दिवसीय-सन्दर्शनमेव सज्जीकृतम् वर्तते।  भारतप्रधानमन्त्रिणः नरेन्द्रमोदी वर्यस्य इस्रायेल् सन्दर्शनानन्तरं षण्मासमतीतम् । 
२००३ तमे वर्षे तदानीन्तनः प्रधानमन्त्री एरियल् षारोण् महाभागः भारतपर्यटनं कृतवानासीत्। ततः १५ संवत्सरानन्दरमेव अधुनातनः प्रधानमन्त्री भारतं आगमिष्यति। द्विनवत्यधिकनव शतोत्तरैकसहस्र (१९९२ ) तमे संवत्सरे नयतन्त्रबन्धस्थापनानन्तरं भारतं संदृश्यमानः द्वितीयः प्रधानमन्त्री भवति बेञ्चमिन् नेतन्याहू इत्यस्ति विशेषता।
वातावरण -परिवर्तनेन अग्नि पर्वतविस्फोटनानि अधिकतया भवितुमर्न्ति।
               लन्टन्> वातावरणव्यत्ययस्य परिणामफलेन अधिकतया अग्निपर्वत-विस्फोटनानि भविष्यन्ति इति अध्ययनम्। आगोलतपनाधिक्योन हिमखण्डानि द्रवीकृतानि भवितुमर्हन्ति। अग्निपर्वतमण्डलेषु एव द्रवीकरणं अधिकतया  भविष्यति। अत एव तत्र अधिकतया  विस्फोटनानि भवितुमर्हति।
भौमोपरि मण्डले वायुमर्दे जायमानं व्यत्ययम् अन्गिपर्वतविस्फोटनं वर्धापयति।
ऑण्लैन् आधारीकृत्य कर्मसु भारतं प्रथमस्थाने
        अन्तर्जाल-माध्यमद्वारा स्वेच्छाया कर्मकुर्वत्सु भारतीयाः एव अधिकाः इति अध्ययनफलम्। ओक्सफोड् विश्वविद्यालयस्य अन्तर्जालसंस्थया कृतेषु अध्ययनेषु अन्तर्जालद्वारा कर्मसु २४% भारतीयाः व्यापृताः सन्ति। बंगलादेशे १६% (द्वितीयं स्थानं)अमेरिका १२% (तृतीयंस्थानं) फिलिप्पैन्स् यु के च पृष्टतः च स्तः। विविधेषु राज्येषु विविधकर्ममण्डलेषु प्रवर्तनं केन्द्रीकृतम्। भारतस्य अन्तर्जाल कर्मकराः प्रतिशतं पञ्च-पञ्चाशत् कर्माणि सोफ्ट्वेर् अनुबन्धतया एव भवति । वित्तमण्डलेषु वाणिज्य-मण्डलेषु नियमोपदेश मण्डलेषु च यु के राष्ट्रसमुच्चयः एव पुरतः तिष्टति।
         ऑण् लैन् वेदिकेति विख्याताः फीवर्, फ्रीलान्सर्,  गुरु, पीप्पिल्, पेर् अवर्  इति प्रमृतीनां विवरणसञ्चयान् अपग्रथनंकृवा एव अध्ययनावेदनं निर्मितम्।

Thursday, November 23, 2017

आयकरनियमः समूलं  परिष्क्रियते। 
        नवदिल्ली > आयकरस्य शासनविधिं समग्रं परिष्कर्तुं केन्द्रसर्वकारेण षडङ्गसमितिः नियुक्ता। पञ्चाशत्संवत्सराणां प्राचीनतमम् अधुनातनविधिं राष्ट्रस्य नवीनार्थिकार्हतामनुसृत्य परिष्कर्तुमेव निर्देशः कृतः। केन्द्र प्रत्यक्षकरसमित्यङ्गः अरबिन्द् मोदी भवत्यस्याः समित्याः अध्यक्षः।
मानवमूल्य-संरक्षणाय संस्कृत अध्ययनम् आवश्यकम् - उत्तरप्रदेशराज्यमन्त्री  डॉ. वाचस्पति मिश्रः

        जयपुरम्> दाऊ स्थित जगद्गुरु रामानंदाचार्य: राजस्थान संस्कृत विश्वविद्यालयस्य श्रीरामानंदाचार्य: सभागारेस्मिन् मंगलवासरे एकदिवसीय राष्ट्रिय: शोध-संगोष्ठी: अभवत्। सङ्गोष्ठया: विषयः "संस्कृतसाहित्यस्य मूलतत्त्वविमर्श:" आसीत्। सङ्गोष्ठयां मञ्चे मुख्यातिथि: विधायक: श्री मोहन लाल गुप्ता दीक्षान्त भाषणाय  केंद्रीय: संस्कृत आयोगस्य सदस्य: देवर्षि कलानाथ: शास्त्री विश्वविद्यालयस्य कार्यवाहक-कुलसचिव: श्री सम्बसदाशिवमूर्ति: च आसन्। सङ्गोष्ठया: संयोजिका साहित्य च विभागाध्यक्षा डॉ. स्नेहलता शर्मा उक्तवती यत् सङ्गोष्ठया: विशिष्टातिथि: उत्तरप्रदेश-संस्कृत-संस्थानस्य अध्यक्ष: राज्यमंत्री च डॉ. वाचस्पति मिश्रवर्येण उक्तं यत् मूल्य संरक्षणस्य संस्कृत अध्ययनम् आवश्यकमस्ति। सङ्गोष्ठया: अध्यक्ष: विश्वविद्यालयस्य कुलपति: प्रो. विनोद: शास्त्रीवर्येण उक्तं यत् भारतीय संस्कृति: विश्वस्य प्राचीन संस्कृति: प्रथमश्च संस्कृति: अस्ति। एतदर्थं जीवने प्रत्येकं मनुष्यं आध्यात्मिक मूल्याणां प्रयोग: करणीयः। आध्यात्मिक मूल्यात् जीवनम् अग्रे गच्छति। सङ्गोष्ठयां शाश्वत: मूल्यं धर्मः-कर्मः मोक्ष-भारतीय-आचार-दर्शन: आदिभौतिक: आदिवैदिक: एवं आध्यात्मिक मूल्याणाम् विचाराः व्यक्तं कृतवन्तः। सङ्गोष्ठया: अंतिमे कुलसचिव महोदयेन आगन्तुकनाम् स्वागतम् धन्यवादश्च ज्ञापितम्।

Wednesday, November 22, 2017

अन्ताराष्ट्रन्यायालये भारतस्य विजयः
न्यायाधिपपदे पुनरपि दलवीर भण्डारिः।

              न्यूयोर्क्> भारतस्य नयतन्त्रविजयः। अन्ताराष्ट्र न्यायालयस्य न्यायाधिप-निर्वाचने नाटकान्तता। ब्रिट्टणं पश्चात्कृत्य भारतस्य दलवीर भण्डारिवर्यः न्यायाधिपपदमारूढवान् । सप्ततिवयस्कः भण्डारिवर्यः ब्रिट्टणस्य क्रिस्तफर् ग्रीन्वुड् वर्यम् एव प्रतिस्पर्धितवान् इति अत्र निदर्शनात्मकमिदं, यद्  भारतस्य नयतन्त्रचतुरतायाः विजयः अभूदिति। सार्वजनिक सभायाः त्रिनवत्यधिक एकशतं सम्मतिदानेषु त्र्यशीत्यधिक एकशतम् (१९३/१८३) सम्मतिदानानि तथा रक्षा समित्याः पञ्चदश सम्मतिदानानि च  लब्ध्वा भण्डारी महाभागः विजयी अभवत्। । आगामि नवसंवत्सरपर्यन्तं न्यायाधिपत्वं वोढूं शक्यते भण्डारिवर्याय।
होमियो वैद्यानां  स्वस्य चिकित्सालये औषध विक्रयणाय बाधा नास्ति।
                     कोच्ची > केन्द्र-स्वास्थ्य-कुटुम्बक्षेम-मन्त्रालयेन 'ड्रग्स् आन्ट् कोस्मटिक् आक्ट्' इति नियमः परिष्कृतः। परिष्कृत-नियमे होमियो वैद्यानां स्वस्य चिकित्सालये अन्षां वैद्यानां औषधि निर्देशानुसारं औषधविक्रयणे एव बाधा अस्ति। औषधविपणन-केन्द्रस्य अनुबन्धतया वर्तिष्यमाणे चिकित्सालये औषधविपणने भाागं कर्तुं अपि वैद्यकानां न नशक्यते। अलोप्पति औषध विपणनालये इतः आरभ्य होमियो औषधानां च विक्रयणं शक्यते। होमियो औषधनाम विक्रयणे औषध-निर्देशलेखने च वैद्याः कुमार्गं अवलम्ब्यते इति विज्ञाय एव अयं नियमः। अलोप्पति औषधविपणनालये विशेष अनुमतिं विना विक्रयणं शक्यते। किन्तु पञ्जीकृतः होमियो औषधपरिज्ञानार्जितः तस्मिन् विक्रयणकेन्द्रे निश्चयेन भवितव्यः इत्यस्ति केन्द्रमन्त्रालयस्य परिष्कृत नियम व्यवस्थायाम्॥
सिम्बाब्वे-अध्यक्षः रोबर्ट् मुगाबे त्यागपत्रम् अयच्छत् । 
         हरारे > सिम्बाब्वे-अध्यक्षः रोबर्ट् मुगाबे त्यागपत्रम् समर्पितवान् । व्यवहाराभिशम्सनारम्भानन्तरमेव त्यागपत्रं समर्पितवान् I [१९८०] अशीत्युत्तरनवशतोत्तरैकसहस्रतमवर्षाद् आरभ्य सः सिम्बाब्वे-अध्यक्षः आसीत् । सनु.पि. एफ् इति स्वदलं त्रिनवतिवयोयुक्तं मुगाबे महाशयम् अध्यक्षस्थानात् निष्कासितवत् । पश्चात् एमेष़्सण् नन्गाग्व दलनेतृत्‍वेन निर्वाचितः । मुगाबे इत्‍यस्य अनारोग्यं परिगणय्य स्वभार्या ग्रेय्स्, तस्याः सहचराश्च अधिकारं स्वायत्तीकृत्य स्वराज्यं मुष्णातुं करिष्यमाणं मोषणप्रयत्नम् अवरोद्धुमेवेति तदीयदलस्य आरोपः । मुगाबेपत्नीं ग्रेय्स् इत्यमुं च दलात् निष्कासितवन्तः । तदभ्यन्तरे यदा मुगाबे त्यागपत्रं दातुम् असनद्ध: आसीत्। तदा व्यवहाराभियोगस्य प्रारम्भं लोकसभासदस्याः स्वीकुर्वन्ति स्म।
कोच्चीमध्ये विमानं भग्नं पतितम्। 
             कोच्ची > नाविकसेनायाः पुरुषरहितविमानं निरीक्षणडयनवेलायां कोच्च्यां वेल्लिङ्टण् द्वीपे भग्नंपतितम्। इस्रायेलनिर्मितस्य विमानस्येयं दुर्घटना। यन्त्ररोगः अस्ति कारणमिति नाविकसेनायाः प्राथमिकनिर्णयः। 
          विल्लिङ्टण् द्वीपे कस्यांश्चन निजीयेन्धनसम्भरणशालायां ह्यः प्रभाते सार्धदशवादने विमानं पतितम्। शाला इन्धनरहिता आसीत् इत्यतः महान् दुरन्तः अपगतः। दशसंवत्सराणि यावत् नाविकसेनया इदं विमानं उपयुज्यमानमासीत्।

Tuesday, November 21, 2017

जनसञ्चारमाध्यमेन प्रतियोगितया संस्कृतशिक्षणम्
आमुखपटले संस्कृतसाहित्य ज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता
         जनसञ्चारमाध्यमेन शिक्षणाय संस्कृतस्य प्रचाराय-प्रसाराय च आमुखपटले संस्कृतसाहित्य-ज्ञानवर्धकं जीवंत प्रश्नोत्तरी प्रतियोगिता संस्कृतं जनभाषा भवेत् इति आमुखपटलसमूहे प्रति रविवासरे भविष्यति। एषा प्रतियोगिता प्रति रविवासरे रात्रौ नववादनत: सार्धनववादन पर्यन्तम् भविष्यति। प्रतियोगितायां संस्कृत-सहित्यस्य प्रश्नाः आगमिष्यति। प्रतियोगिताया: आयोजनं जगदीश: डाभी, पण्डितः दीपक: शास्त्री, अमित: ओली. मञ्जु भट्टाचार्य, डॉ. सन्ध्या ठाकुर च कृतवन्त:। पुरस्कारस्य प्रयोजक: दैनिक संस्कृत समाचारपत्रम् 'विश्वस्य वृत्तान्तम्' अस्ति। गत रविवासरे  १९/११/२०१७ तमे दिनाङ्के प्रथमा प्रतियोगितायां आहत्य २७० जनाः उपस्थिता: आहत्य च २५० जनाः उत्तराणि दत्तवन्तः तेषु नियमानुसारेण सम्यक्तया त्रयः जनाः उत्तरं दत्तवन्त: तेषां नामानि --
प्रथम विजेता कृष्णकांत: पंचारिया, द्वितीय विजेता धीरज: शास्त्री, तृतीय विजेता राहुल: शर्मा च ।
      सर्वेभ्यः विजेतृभ्य: विश्वस्य वृत्तान्तं नाम संस्कृत-समाचारपत्रपक्षत: एक मास पर्यन्तम् ई-समाचारपत्रं निशुल्कं भविष्यति।
     आगामी द्वितीया प्रतियोगिता २६/११/२०१७ तमे दिनाङ्के रात्रौ ९:०० वादने भविष्यति।
तीर्थस्थानेषु GST नियमस्य बाधा अस्ति वा? 
 
     एरुमेली- केरलम्> पण्य-सेवनकरः इति यः वर्तते नियमः, सः प्रावर्तिकः सर्वत्र,  किन्तु एरुमेली तीर्थाटन केन्द्रे भोज्यवस्तूनां अधिकं मूल्यमेव दातव्यम्। परिच्छदोत्पन्नानां मूल्ये एव अनियन्त्रितवर्धनम्।  केरलात् बहिः आन्ध्राप्रदेशं कर्णाटकं तमिळ् नाट्  राज्येभ्यः तीर्थाटकाः एरुमेली देशम् आगत्य एव शबरि गिरि तीर्थाटनाय  गच्छन्ति। केरलेषु विद्यमानेषु तीर्था स्थानेषु जनानाम् आगमनस्य गणनानुसारं प्रथम स्थाने भवति शबरि-गिरी तीर्थस्थानम् । तत्रैव भवति  एतादृशाधिकधनापहरणाद्यधर्माः इति श्रद्धेयः अंशः ।
उपराष्ट्रपतिः अद्य केरले। 
कोच्ची > भारतस्य उपराष्ट्रपतिः वेङ्कय्यनायिडु महोदयः द्विदिवसीयसन्दर्शनार्थम् अद्य केरलं प्राप्नोति। उपराष्ट्रपतिस्थानारोहणानन्तरम् अस्य प्रथमं केरलसन्दर्शनं भवत्येतत्।  त्रिषु कार्यक्रमेषु उपराष्ट्रपतिः भागभागित्वं करिष्यति।  सायं चतुर्वादने कोच्चीनगरे 'इन्डियन् फिषरीस् आन्ड् अक्वा कल्चर फोरम्' सः उद्घाटनं करिष्यति।

Monday, November 20, 2017

रागिंग्-विद्यार्थिन्यः १३लक्षं दण्डितः।
पट्न> बीहारस्य धर्भंग वैद्यकलाशलायाः आतुरालयस्य प्रथम तृतीय अर्धाभागांश (semester) विभागस्य चतुर्पञ्चाशत् (५४) विद्यार्थिन्यः रागिङ्दोषेण त्रयोदशलक्षं रुप्यकाणि दण्डितानि। प्रति व्यक्तेः पञ्चविंशति सहस्रं दण्डः। अस्य मासस्य पञ्चिविंशति दिनाङ्कात् पूर्वं दण्डितशुल्कं समर्पणीयम्। नो चेत् षण्मासपर्यन्तं कलाशाला प्रवेशे बाधा भविष्यति। दोषमधिकृय सूचनानि बहिर्गता इत्यनेन आरक्षकालये न्यायव्यवहाराय सन्दर्भः च भविष्यति।
 व्यवहारास्पदा घटना एकादश दिनाङ्कात् आरब्धा। छात्रावासे प्रौढाः विद्यार्थिन्यः निर्बन्धितया माम्  अपीडयन् इत्युक्त्वा प्रथमार्धकालीनस्य विद्यार्थिनी भारतीयवैद्य आयोगास्य पुरतः व्यवहारं दत्तवती । आयोगस्य निर्देशानुसारं कलाशालाधिकारिणाः अन्वेषणम् अकुर्वन् । धटना सत्यमिति विज्ञातम्। किन्तु का दोषं कृतवती इति वक्तुं या कापि न उद्युक्ता इति एकैकां दोषिणीं पञ्च-विंशति-सहस्रं रुण्यकाणि अदण्डयत् च । तथापि घटनायाः विशदांशानि निरीक्ष्यन्ते इति आरक्षक विभागेन उक्तं च ।.
शासनपक्षनेतृत्वात् रोबर्ट् मुगाबे बहिष्कृतः। 
          हरारे > सिंबाब्वे राष्ट्रे ३७ संवत्सराणि पर्यन्तं विद्यमानः 'मुगाबेयुगः' अस्तं करोति इति सूचयन् शासनदलस्य 'सानु-पि एफ्' इत्यस्य नेतृस्थानात् राष्ट्रपतिः रोबर्ट् मुगाबे बहिः नीतः। 
     मुगाबे वर्येण बहिष्कृतः भूतपूर्वः उपराष्ट्रपतिः एमेष़सण् एम्नान् गाग्व वर्यः नेतृत्वपदे नियुक्तः। "नवयुगस्य उदयः भवत्विदानीम्। मुगाबे वर्यः कार्षिकवृत्तिं स्वीकुर्वन् कालयापनं करोतु" इत्येव दलस्य वरिष्ठनेत्रा उक्तम्।
मार्गहीनो जातः मुगाबे- राजनैतिक-दलाध्यक्षपदात् भ्रष्टः
                हरारे > सिम्बाब् वे राष्ट्रस्य सेनया अधिकारः बलाद् ग्रहीत्वानन्तरं गृहबन्धने आसीनः रोबर्ट् मुगाबे स्थानभ्रष्टः अभवत्। दलाध्यक्षपदं परित्यक्तुं गृहबन्धने आसीनः अपि सः न सज्जः। किन्तु सेनया तस्य सप्तत्रिंशत् संवत्सराणां शासनस्य अन्त्यम् कृतम् I भूतपूर्व उपाध्यक्षः एमेर्सन्  नन्गाग्व महाभागः एवभवति दलस्य नूतनाध्यक्षः। त्रिनवतिवयस्कः मुगाबे आसीत् विश्वस्य वयोधिकः राष्ट्रपतिः ।  ब्रिटन् देशतः स्वतन्त्रता प्राप्त्यनन्तरं एतावत्कालं राष्ट्रशासनम् अनेनेव कृतम् आसीत्।
इन्दिरा गान्धीमहाभागायाः धर्म: भारतीयाः सर्वे समानाः इति आसीत्  - सोणिया गन्धी ।
          नव दिल्ली> भूतपूर्व प्रधानमन्द्रिणी इन्दिरा गान्धी महाभागायाः जन्मशताब्दे ऐक्यभारत सन्देशेन सह कॉण्ग्रस् राजनैतिक-दलाध्यक्षा सोणिया गान्धी । भारतीयाः सर्वे भारत सुताः इति आसीत् तस्याः धर्मःI जाति-धर्मभेदानुसारं जनान् भेद्धुं सा कदापि न प्रयतितवती इति सोणियामहाभागया उक्तम्। भारतीयाः सर्वे समानाः इति उक्त्वा धर्मनिरपेक्षतायै प्रयतितवती । विपक्षदलस्य नेत्रा वाजपेयि महोदयः दुर्गा शक्त्याः दुर्गा इत्युक्त्वा सा इन्दिरा अभिनन्दिता।
          जन्मदिनसंवत्सरपर्वणि इन्दिरा गान्धी मेम्मोरियल् ट्रस्ट् इति संस्थया आयोजिते छायाग्राही-चित्रस्य प्रदर्शनोद्घाटनं कुर्विता भाषमाणा आसीत् सा। भूतपूर्व राष्ट्रपतिः प्रणाब् मुखर्जी, भूतपूर्व प्रधानमन्त्री मनमोहन सिंहः च भागं ग्रहीतवन्तौ ।