OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, November 17, 2017

२२००० भिषजः सत्यग्रहं कुर्वन्ति। चिकित्सां अलब्ध्वा कर्णाटकाराज्ये षट् जनाः मृताः।
                बांग्लूरु> कर्णाटकाराज्ये चिकित्सां अलब्ध्वा षट् जनाः मृताः। राज्यसर्वकार नयं प्रति सर्वकारेतर आतुरालयानां संग्रामानन्तरमस्ति अवस्था एषा सञ्जाता। एते आतुरालयाः बहिस्तान् रुग्णान् चिकित्सां न ददति। सव्वकारं प्रति द्वाविंशति सहस्रं भिषजः संग्रामं कुर्वन्ति। कर्णाटकाराज्यसर्वकारेण सर्वकारेतर भिषजां कृते चतुर्दश अधिक व्यवस्थाः निर्मिताः । तेन हेतुना अस्ति भिषजां संग्रामः। ऐ एम् ए संस्थायाः नेतृत्वे त्रिशतं भिषजः सचिवालयस्य पुरतः संग्रामं कुर्वन्ति।
 दिल्ल्यां वाहनचालकानुमतिपत्रम् खाद्यवस्तुवितरणपत्रम् प्रभृति ४० लोकसेवानां गृहेष्ववाप्ति: 
          नवदिल्ली>दिल्लीप्रसाशनेन जातिप्रमाणपत्रं वाहनचालनानुमतिपत्रं समेत्य ४० लोकसेवानां प्रतिगृहेषु प्रेषणयोजना विनिर्मितास्ति । निर्णयोsयं गुरुवासरे सञ्जाते मन्त्रिमण्डलीयोपवेशने विहत:। एतदर्थं प्राशासनिकेतर संस्थाया: निर्धारणं भविष्यति, संस्थेsयम् उपभोक्ताकेन्द्रं निर्मास्यति । राजधान्यां ३-४ मासाभ्यन्तरे एव सेवाया: उद्घाटनं भविष्यतीति सम्भाव्यते । उपभोक्तृभि: एतदर्थं सामान्यशुल्कमपि प्रदातव्यम्। योजनाया: द्वितीये चरणे ३० सेवा: संयोजयिष्यन्ते। ३० सेवा: संयोजयिष्यन्ते।
बाल भारती पब्लिक विद्यालये संस्कृतगीतोत्सवस्य भव्यायोजनम्॥
 वार्ताहर: हेमन्त जोशी 
 मुख्यातिथि: थपलियालवर्य:
                  नव दिल्ली >सर् गंगाराम-चिकित्सालय-मार्गस्थे बाल भारती पब्लिक विद्यालये समायोजिते संस्कृत-गीतोत्सव-कार्यक्रमे बालकै:  विभिन्नाधुनिक-चलचित्रगीतानि  प्राचीन-स्तोत्राणि च साभिनयं स्वर-लय-ताल-पुरस्सरं प्रगीय सम्प्रस्तूय नैजी प्रतिभा विलक्षणप्रतिभा प्रदर्शिता । कार्यक्रमस्य शुभारम्भ: दीपप्रज्वालनपूर्वकं मातु: सरस्वत्या:   वन्दनया समभवत् । तत्पश्चात् प्रधानाचार्यवर्येण मुख्यातिथये विशिष्टातिथये च  स्मृतिचिह्नम् पादपं च प्रदाय  स्वागतपूर्वकम् अतिथिसत्कार: सम्पादित:।

                   अस्मिन्नवसरे बालभारती विद्यालये  सांस्कृतिक-कार्यक्रमस्यान्तर्गतं छात्रै: छात्राभिश्च संस्कृतगीताधारितं शास्त्रीय नृत्यमपि प्रदर्शितम् । कार्यक्रमेSस्मिन् द्वितीयकक्षात:  दशमीकक्षापर्यन्तं   छात्रै: छात्राभिश्च भागो भजित:। कार्यक्रमस्य अध्यक्षता विद्यालयस्य शिखरपुरुषेण  प्रधानाचार्येण श्री लक्ष्यवीरसहगलवर्येण सम्भालिता। कार्यक्रमेSत्र मुख्यातिथिरूपेण भारतसर्वकारस्य सूचनाप्रसारण मन्त्रालयस्य अन्तर्गतं प्रसारभारत्या: अंगभूताया: आकाशवाण्या:  वरिष्ठ कार्यक्रमनिष्पादकाधिकारी  प्रधानमन्त्रिण:  'मन की बात' कार्यक्रमस्य  संचालकश्च श्रीमान् पार्थसारथी थपलियाल:  समुपातिष्ठत।

                     उपप्रधानाचार्याया: श्रीमत्या: मीना मल्होत्रावर्याया:  मुख्याध्यापिकाया:  डॉक्टर सुनीता गेहानी वर्याया: च दिङ्निर्देशे समस्तकार्यक्रमस्य आयोजनम् नितान्तभव्यतया सुसम्पन्नम्। कार्यक्रमस्य संयोजनं  मञ्चसंचालनञ्च संस्कृत-शिक्षिका डॉक्टर ज्योत्स्ना श्रीवास्तव:  व्यधात्। कार्यक्रमे  युवराजभट्टराई, दीपक-शर्मा, सुमनकुमारझा, सोमा-गांगुली, संतोष-कुमारश्चेति शिक्षकै:  सविशेषं योगदानं प्रदत्तम्।

                     कार्यक्रमस्य  अन्ते गायकस्य पङ्कजझा वर्यस्य आधुनिकसंस्कृतगीतानां सुमधुरगुंजनेन  समग्रोSपि सभागारो  मंत्रमुग्धो जात:। मुख्यातिथिना श्रीपार्थ-सारथी-थपलियाल-महाभागेन निज-सम्बोधने  विद्यालयीयसांस्कृतिकगतिविधीन्  प्रशंसता  प्राचार्य:, अध्यापकगण:  अभिभावकाश्च सफलकार्यक्रमस्य  आयोजनार्थम् भृशं वर्धापिता:।
हिमाधिक्येन शीघ्रगमन-मार्गे ३० वाहनानि घट्टितानिI १८ जनानां मृतिः ।
बेय्जिङ्> कठिनहिमवातेन  चीनादेशस्य शीघ्र-गमनमार्गे उप त्रिंशत् (३०) वाहनानि मिथः घट्टितानि। पूर्व चीनादेशस्य अन् हुयि प्रविश्यायाः फुयाङ् नगरे बुधवासरे अतिप्रभाते एव आसीत् इयं दुर्घटना। दुर्घटनायां अष्टादश (१८)जनाः मारिताः एक विंशति जनाः क्षतजाः च। एतान् समीप स्थान् आतुरालयान् प्रविशन्l  दुर्घटनायां प्रविष्टेषु यानेषु अग्निबधा अभवत्। उप विंशति अग्निशमना वाहनानि मिलित्वा कृतेन कर्मेणा होरा त्रयाणान्तरमेव अग्निः रोधनाय अशक्यत

Thursday, November 16, 2017

श्री श्री रविशङ्करः योगिना सह चर्चां कृतवान् - अद्य अयोध्यां सम्प्राप्नोति। 
          लख्नौ > बाबरी मस्जिद् - रामजन्मभूमि तर्कपरिहाराय माध्यस्थ्यं वोढुं स्वयमेव सिद्धः जीवनकलाचार्यः श्रीश्री रविशङ्करः उत्तरप्रदेशमुख्यमन्त्रिणा योगि आदित्यनाथेन सह चर्चां कृतवान्। लख्नौ मध्ये मुख्यमन्त्रिणः औद्योगिकभवने आसीत् अर्धहोरापर्यन्तं चर्चा। अयोध्या प्रकरणे चर्चया रूपीक्रियमाणः समवायः वा न्यायालयविधिः वा यत् उपपाद्यते ततदस्माभिः माननीयमिति यू पि सर्वकारस्य अभीप्सितिः। प्रश्नपरिहार एव स्वस्य लक्ष्यं,  वैयक्तिकं किमपि प्रयोजनं नाभिलषतीति रविशङ्कर् महोदयेनापि स्पष्टीकृतम्। किन्तु रविशङ्करस्य माध्यस्थप्रयत्नः वि एछ् पि संघटनेन सन्देहेन वीक्ष्यते।
सिम्बाब्वे राष्ट्रे सैन्य नियन्त्रितशासनं - राष्ट्रतिः मुगाबे गार्हिकबन्धने।
            हरारे > सिम्बाब्वे राष्ट्रे राष्ट्रपति 'रोबर्ट् मुगाबे' सैनिकैः गृहे बन्धितः। नवत्रिंशत् (९३) वयस्कः एषः इदानीं सुरक्षितः इति सैनिकवक्त्रा उक्तम्। मुगाबे महोदयं परितः विद्यमानाः अधार्मिकाः राष्ट्रं नाशयन्ति। तान् प्रति लक्षीकृत्य एव क्रियाविधयः आजोजिताः इत्युक्त्वा 'मेजर् जनरल्' 'मोयो' दूरदर्शन-वाहिन्यां प्रत्यक्षः अभवत्।
पूर्वस्मिन् वासरे चीनदेश सन्दर्शान सन्दर्भे सिंबाब्वे राष्ट्रस्य  सैनिकाध्यक्षः 'कोण्स्टान्टिनो चिवेन्कः' शासनदलेषु शेधाय सज्जीकरणं क्रियते इति अवदत्। गतवासरे बहिर्त्यक्तः उपराष्ट्रपतिः 'एमेर्सन् नन्गाग्व महोदयं राष्ट्रपति पदे प्रतिष्टातुं प्रयन्नः प्रचलति इति पाश्चात्यदेशस्य वार्तामाध्यमानि आवेदयन्ति।
अन्तरिक्षमलिनीकरणेन  क्लिश्यते-१५०० कोटि सञ्चिचितधननं न उपयुज्यते।
       नवदिल्ली> राष्ट्रराजधानी कठिनवायुप्रदूषणेन क्लेशः अनुभूयते तथापि प्रदूषित-परिहाराय आकलितं पञ्च-शताधिकैकसहस्रं(१५००) रुप्यकाणि (हरिताश्वासधनं) नव दिल्ली सर्वकारेण नोपयुक्तानि इति वार्ता बहिरागच्छति।  दिल्यां आगतवत्द्भ्यः भारवाहनेभ्यः आकलितानि भवन्ति एतानि धनानि। सर्वोच्च न्यायालयस्य आदेशानुसारमेव आकलनं प्रचायाल्यते। परिस्थिति-दोषपरिहारधनं, प्रतिलिट्टर् अग्नितैलस्यकृते स्वीकृतं अधि-मूल्यं च अस्मिन् सञ्चिचितनिधौ अन्तर्भवति।
         दक्षिण दिली नगर पालिका द्वारा आकलितं इदं धनं वाहनविभागस्य कृते दीयते इति PTI संस्थया आवेदितम्। वायुप्रदूषण निरोधाय २००७ दिसंबर् मासे षीलादीक्षित् महाभागया अग्नितैलाय अतिमुल्य-स्वीकार सम्प्रदायः आयोजितः I

Wednesday, November 15, 2017

GST- अद्य आरभ्य भक्ष्यशालायां भक्ष्यमूल्यं न्यूनं भविष्यति
            अनन्तपुरी> पण्यसेवन करः एकीकृतः इत्यनेन अद्य आरम्भ भक्ष्यालयेषु मूल्यं न्यूनंभाविष्यति। नवम्बर् मासस्य एकादश (१५) दिनाङ्कादारभ्य एकीकृत करः एव स्वीकर्तव्यः इति  पण्य सेवनकर-आयोगेन गत सप्ताहे मेलनं कृत्वा निश्चितः आसीत्। जि एस् टि प्रवेशानन्तरं वायु-शीतीकृत-भक्षयशालायां १८% अन्येषां १२% च आसीत् करप्रकारः। किन्तु भक्ष्यवस्तूनां वर्धितमूल्येन जनानां विप्रतिपत्ति विज्ञाय एव करप्रकारे पुनरालोकनं कृतम्। आयोगस्य निश्च्यानुसारं भक्ष्यवस्तुना सह अन्येषां वस्तूनां करः २८तः १८ % इति परिवर्तितः। चाक्कलेयं, केशफेनकं, स्वास्थ्य-पानीयाः, सौन्दर्यवर्धकवस्तूनि, हस्त घटी, काफी, विद्युत् कोशः च न्यूनमूल्यीकृतेषु अन्तर्भवन्ति।
वातावरणव्यत्ययः वैज्ञानिकानाम् अवधानाय निर्देशः
        न्यूयोर्क् >भूमेः उपस्थितिमधिकृत्य आविश्वे १८२ राष्ट्रेषु विद्यमानैः १५००० वैज्ञानिकैः  दीयमानः अवधाननिर्देश मधिकृत्य इदानीं पर्यालोच्यते। अत्यन्तमापत्करं पर्यावरण-व्यतियानं, वननशीकरणं, शुद्धजलदौर्लभ्यम् अनियन्त्रिता जनसंख्यावर्धना इत्यादीनि बहूनि अवस्थाभेदानि भूमेः मुख्या भीषा  इति जाग्रतानिर्देशेन सह  वैज्ञानिकानां पूर्व सूचना। अनया रीत्या गच्छति तर्हि अस्माकं भूमेः आयुः  अधिकं न भविष्यति इत्यपि वदन्ति ते। प्रथमं १९९२ तमे वर्षे अयं निर्देशः प्रकाशितः आसीत्। अस्मिन् १७०० वैज्ञानिकाः हस्ताक्षरमकुर्वन् च। तदनुसृत्य अनन्तरं प्रसिद्धीकृते निर्देशे १८२ राष्ट्रेभ्यः १५००० वैज्ञानिकाः हस्ताक्षरं कृतवन्तः।
राजधान्यां  सप्तत्रिंशत्तमं भारतान्ताराष्ट्रियवाणिज्यमेलकं प्रारब्धम्  
      नवदिल्ली >  मङ्गलवासरात् देशस्य राजधान्यां नवदिल्ल्यां ''प्रगतिमैदान'' इत्यत्र सप्तत्रिंशत्तमं 
भारतान्ताराष्ट्रियवाणिज्यमेलकं प्रारब्धम् । राष्ट्रपति: रामनाथगोविन्द: मेलकम् उद्घाटितवान् । चतुर्दश दिवसीयमेलकस्यायोजन भारतवाणिज्यसंवर्धनसङ्घटनेन विधीयते । ऐषम: मेलकस्य विषय:  "स्टार्ट अप इंडिया, स्टैंडअप इंडिया" इति वर्तते ।

        अस्मिन् वर्षे मेलेके वियतनामराष्ट्रां सहयोगिराष्ट्रं विद्यते। झारखण्डश्च सहयोगिराज्यत्वेन सम्मिलितो वर्तते । मेलके द्वाविंशति: देशानां सप्तसहस्राधिक प्रतिभागिन: निजोत्पादानां प्रदर्शनं करिष्यन्ति ।  राज्यकेन्द्रशासितप्रदेशस्वयंसाहाय्यसमूहसमेता: लघुमध्ययमशीर्षवाणिज्यसमवाया नां विनिर्माणोद्यमानां वैविध्यं मेलके अस्मिन् दृष्टिपथमायास्यति । सामान्यजनानां प्रतिभागसंवर्धनाय व्यावसायिकदिनानां संख्या पञ्चदिनतो दिनचतुष्टयात्मिका विहितास्ति । नागरिकेभ्य: १८-२७ दिनाङ्कं यावत् प्रवेशावुमति: प्रदत्तास्ति।
कलिफोर्णिय देशो भुषुण्डिप्रयोगः त्रयः मारिताः।
                 रेड् ब्लफ् (U S)> उत्तर कलिफोर्णियदेशे टेहाम कौण्टि प्रदेशे भुषुण्डिप्रयोगेण त्रयः मारिताः। विद्यालय-छात्राः अपि क्षतजाः अभवन्I आक्रमणकारी आरक्षकाणां गोलिका प्रहारेण हतः । प्रादेशिसमयः प्रभाते अष्टवादने आसीत् इयं घटना। समीपस्थ गृहे एव आक्रमणस्य आरम्भः अभवत्। पश्चात् विद्यालयं प्रति व्याप्तम् इति च प्रादेशिक वार्ता माध्यमैः आवेदितम्। क्षतजाः छात्राः एकाक्षविमानमार्गण आतुरालयम् प्रविष्टाः। न भीकराणाम् आक्रमणम् इति प्राथमिक निगमनम्।

Tuesday, November 14, 2017

शिशवः बहवः अदर्शनं गताः भवन्ति।
          कोच्ची> भारते अष्टनिमेषाभ्यन्तरे एकः शिशुः इति गणितप्रकारेण नष्टाः भवन्ति। केन्द्र-वनिता शिशु-क्षेम -मन्त्रालयस्य अन्तर्जालपुटे प्रकाशित-विवरणानुसारं दक्षिणस्यां दिशि केरलेऽपि प्रतिदिनं त्रयः शिशवः एवं अधार्मिकैः अपहृत्य कुत्रापि अन्तर्धानं गताः नष्टाः भवन्ति।

अप्रत्यक्षाः के?
         पितरं विरुद्ध्य अनिष्टेन गृहं परित्यज्य गतवन्तः एव अप्रत्यक्षेषु अधिके भवन्ति।   एते राष्ट्रस्य विविधेषुकोणेषु बालश्रमिक-रूपेण कालं यापयन्ति। केचन भिक्षुकसंघस्य निर्देशम् अनुसृत्य भिक्षाटनं कृत्वा नरकपीडां अनुभवन्ति । बालिकाः तु निकृष्टकर्मसु नीताः भवन्ति। काश्चन राष्ट्रान्तरं नीताः। अन्ये अन्तरावयवमुमुषिषुभिः जनैः बलादपहृताः वा पीडिताः वा उत मारिताः वा भवन्ति। मोचनद्रव्यस्यकृते बालापहरणे जाते  पक्षनियामकविधानम् अपि पञ्चीकृतम् अस्ति।
एवं स्थिते बालकबालिकयोः सुरक्षायै आधारपत्रस्य जीवमात्रक सौविध्यानि उपयोक्तव्यानि।  बालकेन सह गमनाय सर्वत्र  संलक्ष्य एव अनुज्ञा दातव्या। एवं चेत् बालकेन सह कः अनुगच्छति इति ज्ञातुं प्रभवति इति एकः उपायः । शिशूनां संरक्षणाय नूतनानि उपायानि करणीयानि।
अद्य शिशुदिनम्। आभारतम् अद्य शिशुदिनम् आधुष्यते। 

     नवदिल्ली>भारतस्य राष्ट्रपतिना राम् नाथ् कोविन्देन तथा प्रधानमन्त्रिणा  नरेन्द्रमोदिना शिशुभ्यः बालिका-बालकेभ्यश्च सर्वेभ्यः शुभाशंसाः अर्पिताः। भारते विविध-राज्येषु तत्तत्प्रदेशस्थैः मुख्यमन्त्रिभिः  शिशु-दिनीयसमारोहस्य उद्‌घाटनं क्रियते। क्रीडा विनोदैः पदसञ्चलनादि शोभायात्रया च दिनमिदं शिशूनां चित्तेषु सामोदं विलसेत् इत्यत्र न वर्तते कोऽपि  सन्देहः। भारतस्य प्रथमस्य प्रधानमन्त्रिणः जवहर् लाल् नेहृ वर्यस्य जन्मदिनमेव शिशु दिनत्वेन पर्वायते।

Monday, November 13, 2017


लोकराष्ट्राणाम् पुरत: शक्ति: प्रकटीकृता भारतेन -राजनाथ सिंहः

     लख्नौ>लोकराष्ट्राणाम् पुरत: स्वीयशक्ति: भारतेन प्रकटीकृतेति केन्द्राभ्यन्तरमन्त्री राजनाथसिंह:। अग्रे शक्तराष्ट्राणाम् पट्टिकायामेव भारतस्य स्थानम्, लोकराष्ट्रै: तत् अवगतम् अङ्गीकृतमित्यपि तेन भाषणे योजितम्। लख्नौ मध्ये कस्याश्चन माध्यमसंस्थाया: नेतृत्वे आयोजिते कार्यक्रमे भाषमाण: आसीत् स:। राष्ट्रान्तरतले भारतस्य प्राधान्यम् वर्धितमेव। लोक एव महत्सु साम्पत्तिकशक्तिषु अग्रगण्यस्थानमाप्तम् भारतेन यच्च लोकराष्ट्रै: प्रत्यभिज्ञातम् च। भारतम् इत: परं दुर्बलराष्ट्राणाम् पट्टिकायां नास्त्येव। कानिचनविमर्शनानि एव इदानीम् अस्माकम् पुरत: सन्ति। किम् अवाप्तुं वयम् ऐच्छाम तत्तु प्राप्तवन्त: एव इति च स: सूचितवान्।

Sunday, November 12, 2017

 अन्तरिक्षमलिनीकरणम्-सम-विषम-संख्या सम्प्रदायं कारयितुं देहली-सर्वकाराय विशेषानुमतिः।
नवदिल्ली> अन्तरिक्षमलिनीकरणम् अत्यधिकं बाधमाने देहलीनगरे स्वीयवाहनानां उपयोग विषये सम-विषम-संख्या सम्प्रदायं कारयितुं देहली-सर्वकारस्य कृते देशीय-हरित- ट्रिब्यूणल् विशेषानुमतिम् अदात्। नवंबर् मासस्य त्रयोदश दिनादारभ्य  सप्तदशदिनाङ्क पर्यन्तमेव नियमः अयं पाल्यते। प्रातः अष्टवादनादारभ्य सायम् अष्टवादन-पर्यन्तमेव यानानि नियन्त्रितानि। वाहनानां संख्यासु विद्यमानानां अन्तिम संख्यामाधारीकृत्यैव सम-विषम-संख्या सम्प्रदायः भविष्यति। दिन-व्यवहित-दिनेषु एव सम-विषम-संख्यायुतानि यानानि पथि प्रवेश्यन्ति।
             सि- एन् - जि इत्यनेन प्रर्वर्तमानानि वाहनानि,  रुग्णवाहनानि,(आम्बुलन्स्) अग्नि शामकसेना-वाहनानि च नियमादस्मात् बाहीकानि भविष्यन्ति। इतः प्रागपि देहल्यां नियन्त्रणमिदमागतमासीत् । तदानीं द्विचक्रिकारूढान् सर्वकार्योद्योगिनः, स्त्रीजनान् च परित्यजन्‌ । किन्तु इदानीं एतेषामपि  नियमः अयं अनुवर्तते एव। नगर्यां वायो: गुणाः अत्यन्तं नष्टा: चेदपि कुतः नियन्त्रणमिदं कारयितुं विलम्बो जातः इति विषये, नियन्त्रणात् किमर्थं बहून् यात्रिकान् परित्यजन्ति इति विषये च देशीय-हरित-ट्रिब्यूणल् सर्वकारं प्रति प्रश्नयन्ति।
        देहली नगरस्य समीपस्थ प्रवेशानाञ्च वायु मलिनीकरणस्य न्यूनीकरणाय सम-विषम-संख्या संप्रदायः पर्याप्तो वा इति विषयमधिकृत्य चर्चाकरणाय आहूतात्   विशेषसमावेशात् पश्चादेव विषयो-यं तैः प्रकटीकृतः ।       नियन्तणविषये पुनः चर्चाकरणाय अद्यापि सायं त्रिवादने विशिष्टसमावेशः आयोजितः अस्ति।
'आसियान्' उच्चशिखरसम्मेलनम् अद्य प्रारभते। 
            मनिला > दक्षिण-पूर्वेष्यन् राष्ट्राणां सङ्गमस्य 'आसियान्' नामकस्य एकत्रिंशः उच्चशिखरसम्मेलनं फिलिप्पीन्स् राष्ट्रस्य राजधान्यां मनिलायाम् अद्य प्रारभते। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी सम्मेलनार्थम् अद्य एव प्रस्थास्यति।  अमेरिक्कायाः राष्ट्रपतिः डोणाल्ड् ट्रम्पः अपि भागभागित्वं करिष्यति। 
    रोहिङ्ग्यन् समस्या, दक्षिणचीनासमुद्रविषयः, आतङ्कवादः इत्यादयः चर्च्यमानविषयाः भविष्यन्तीति मन्यते। उच्चशिखराय आसियान् सङ्घस्य दश राष्ट्रप्रतिनिधयः फिलिप्पीन्स् प्राप्स्यन्ति। 
    आस्ट्रेलिया, चीना, भारतं, जापान्, न्युसिलान्ट्, दक्षिणकोरिया, रष्या, यू एस्, कानडा, यूरोप्यन् यूणियन् इत्येतानि अङ्गराष्ट्राणि भवन्ति।
हरियाणा-राज्यस्य कलाः संस्कृतिः इतिहासश्च  
                                                              - बलदेवानन्द-सागरः  
हरियाणा अर्थात् परमात्मनः निवास-स्थानम्  -
             सम्प्रति हिमालयस्य मुकुटवन्तं विशालम् आधुनिकञ्च भारतदेशं  सरलतया अवगन्तुं शक्यते, अस्य च वैभव-ज्ञानं सुकरञ्चेति नूनं गूगल्-कारणात् प्रतीयते परन्तु यावदवधि अस्य देशस्य कलाः संस्कृतिम् इतिहासञ्च सम्पूर्णतया हृदयङ्गमं नैव कुर्मः तावदवधि महतो भारतस्य बोधः नैवास्ति सुकरः | विशेषेण भारतस्य पृथक्-पृथक् राज्यानि अवगन्तुं तत्तद्-राज्यानां कलानां संस्कृतेः इतिहासस्य च गभीरतया हृदयङ्गमीकरणं परमावश्यकम् |
               “हरियाणा” अर्थात् हरेः [परमात्मनः] निवास-स्थानम् | मन्ये, सर्वे जानन्ति एव यत् “हरि व्यापक सर्वत्र समाना” अर्थात् “हरिः व्यापकः सर्वत्र समानः” | सः परमात्मा सर्वव्यापी किन्तु यस्याः भूमेः नाम एव हरेः निवासत्वेन ख्यातम् सा भूमिः कियती गरीयसी महत्वाधायिनी चास्तीति तु अनुभव-विषयः | शाब्दिक-व्याख्यया एवमवगन्तुं शक्यते यत् - हरि + अयन [अयण], तद्धि पूर्वं ‘हर्ययनम्’- रूपेण [‘हर्ययणम्’- रूपेण वा] प्रयुक्तमासीत्, अनन्तरं भाषित-भाषायां ‘हरियाणा’-नाम्ना
सुधर्मा भारतस्य संस्कृतपत्रिका 
      अस्याः संरक्षणस्य दायित्वं कस्य? अस्माकम् एव। पश्यतु अयं चलनमुद्रिकाखण्डः I