OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, November 15, 2017

GST- अद्य आरभ्य भक्ष्यशालायां भक्ष्यमूल्यं न्यूनं भविष्यति
            अनन्तपुरी> पण्यसेवन करः एकीकृतः इत्यनेन अद्य आरम्भ भक्ष्यालयेषु मूल्यं न्यूनंभाविष्यति। नवम्बर् मासस्य एकादश (१५) दिनाङ्कादारभ्य एकीकृत करः एव स्वीकर्तव्यः इति  पण्य सेवनकर-आयोगेन गत सप्ताहे मेलनं कृत्वा निश्चितः आसीत्। जि एस् टि प्रवेशानन्तरं वायु-शीतीकृत-भक्षयशालायां १८% अन्येषां १२% च आसीत् करप्रकारः। किन्तु भक्ष्यवस्तूनां वर्धितमूल्येन जनानां विप्रतिपत्ति विज्ञाय एव करप्रकारे पुनरालोकनं कृतम्। आयोगस्य निश्च्यानुसारं भक्ष्यवस्तुना सह अन्येषां वस्तूनां करः २८तः १८ % इति परिवर्तितः। चाक्कलेयं, केशफेनकं, स्वास्थ्य-पानीयाः, सौन्दर्यवर्धकवस्तूनि, हस्त घटी, काफी, विद्युत् कोशः च न्यूनमूल्यीकृतेषु अन्तर्भवन्ति।
वातावरणव्यत्ययः वैज्ञानिकानाम् अवधानाय निर्देशः
        न्यूयोर्क् >भूमेः उपस्थितिमधिकृत्य आविश्वे १८२ राष्ट्रेषु विद्यमानैः १५००० वैज्ञानिकैः  दीयमानः अवधाननिर्देश मधिकृत्य इदानीं पर्यालोच्यते। अत्यन्तमापत्करं पर्यावरण-व्यतियानं, वननशीकरणं, शुद्धजलदौर्लभ्यम् अनियन्त्रिता जनसंख्यावर्धना इत्यादीनि बहूनि अवस्थाभेदानि भूमेः मुख्या भीषा  इति जाग्रतानिर्देशेन सह  वैज्ञानिकानां पूर्व सूचना। अनया रीत्या गच्छति तर्हि अस्माकं भूमेः आयुः  अधिकं न भविष्यति इत्यपि वदन्ति ते। प्रथमं १९९२ तमे वर्षे अयं निर्देशः प्रकाशितः आसीत्। अस्मिन् १७०० वैज्ञानिकाः हस्ताक्षरमकुर्वन् च। तदनुसृत्य अनन्तरं प्रसिद्धीकृते निर्देशे १८२ राष्ट्रेभ्यः १५००० वैज्ञानिकाः हस्ताक्षरं कृतवन्तः।
राजधान्यां  सप्तत्रिंशत्तमं भारतान्ताराष्ट्रियवाणिज्यमेलकं प्रारब्धम्  
      नवदिल्ली >  मङ्गलवासरात् देशस्य राजधान्यां नवदिल्ल्यां ''प्रगतिमैदान'' इत्यत्र सप्तत्रिंशत्तमं 
भारतान्ताराष्ट्रियवाणिज्यमेलकं प्रारब्धम् । राष्ट्रपति: रामनाथगोविन्द: मेलकम् उद्घाटितवान् । चतुर्दश दिवसीयमेलकस्यायोजन भारतवाणिज्यसंवर्धनसङ्घटनेन विधीयते । ऐषम: मेलकस्य विषय:  "स्टार्ट अप इंडिया, स्टैंडअप इंडिया" इति वर्तते ।

        अस्मिन् वर्षे मेलेके वियतनामराष्ट्रां सहयोगिराष्ट्रं विद्यते। झारखण्डश्च सहयोगिराज्यत्वेन सम्मिलितो वर्तते । मेलके द्वाविंशति: देशानां सप्तसहस्राधिक प्रतिभागिन: निजोत्पादानां प्रदर्शनं करिष्यन्ति ।  राज्यकेन्द्रशासितप्रदेशस्वयंसाहाय्यसमूहसमेता: लघुमध्ययमशीर्षवाणिज्यसमवाया नां विनिर्माणोद्यमानां वैविध्यं मेलके अस्मिन् दृष्टिपथमायास्यति । सामान्यजनानां प्रतिभागसंवर्धनाय व्यावसायिकदिनानां संख्या पञ्चदिनतो दिनचतुष्टयात्मिका विहितास्ति । नागरिकेभ्य: १८-२७ दिनाङ्कं यावत् प्रवेशावुमति: प्रदत्तास्ति।
कलिफोर्णिय देशो भुषुण्डिप्रयोगः त्रयः मारिताः।
                 रेड् ब्लफ् (U S)> उत्तर कलिफोर्णियदेशे टेहाम कौण्टि प्रदेशे भुषुण्डिप्रयोगेण त्रयः मारिताः। विद्यालय-छात्राः अपि क्षतजाः अभवन्I आक्रमणकारी आरक्षकाणां गोलिका प्रहारेण हतः । प्रादेशिसमयः प्रभाते अष्टवादने आसीत् इयं घटना। समीपस्थ गृहे एव आक्रमणस्य आरम्भः अभवत्। पश्चात् विद्यालयं प्रति व्याप्तम् इति च प्रादेशिक वार्ता माध्यमैः आवेदितम्। क्षतजाः छात्राः एकाक्षविमानमार्गण आतुरालयम् प्रविष्टाः। न भीकराणाम् आक्रमणम् इति प्राथमिक निगमनम्।

Tuesday, November 14, 2017

शिशवः बहवः अदर्शनं गताः भवन्ति।
          कोच्ची> भारते अष्टनिमेषाभ्यन्तरे एकः शिशुः इति गणितप्रकारेण नष्टाः भवन्ति। केन्द्र-वनिता शिशु-क्षेम -मन्त्रालयस्य अन्तर्जालपुटे प्रकाशित-विवरणानुसारं दक्षिणस्यां दिशि केरलेऽपि प्रतिदिनं त्रयः शिशवः एवं अधार्मिकैः अपहृत्य कुत्रापि अन्तर्धानं गताः नष्टाः भवन्ति।

अप्रत्यक्षाः के?
         पितरं विरुद्ध्य अनिष्टेन गृहं परित्यज्य गतवन्तः एव अप्रत्यक्षेषु अधिके भवन्ति।   एते राष्ट्रस्य विविधेषुकोणेषु बालश्रमिक-रूपेण कालं यापयन्ति। केचन भिक्षुकसंघस्य निर्देशम् अनुसृत्य भिक्षाटनं कृत्वा नरकपीडां अनुभवन्ति । बालिकाः तु निकृष्टकर्मसु नीताः भवन्ति। काश्चन राष्ट्रान्तरं नीताः। अन्ये अन्तरावयवमुमुषिषुभिः जनैः बलादपहृताः वा पीडिताः वा उत मारिताः वा भवन्ति। मोचनद्रव्यस्यकृते बालापहरणे जाते  पक्षनियामकविधानम् अपि पञ्चीकृतम् अस्ति।
एवं स्थिते बालकबालिकयोः सुरक्षायै आधारपत्रस्य जीवमात्रक सौविध्यानि उपयोक्तव्यानि।  बालकेन सह गमनाय सर्वत्र  संलक्ष्य एव अनुज्ञा दातव्या। एवं चेत् बालकेन सह कः अनुगच्छति इति ज्ञातुं प्रभवति इति एकः उपायः । शिशूनां संरक्षणाय नूतनानि उपायानि करणीयानि।
अद्य शिशुदिनम्। आभारतम् अद्य शिशुदिनम् आधुष्यते। 

     नवदिल्ली>भारतस्य राष्ट्रपतिना राम् नाथ् कोविन्देन तथा प्रधानमन्त्रिणा  नरेन्द्रमोदिना शिशुभ्यः बालिका-बालकेभ्यश्च सर्वेभ्यः शुभाशंसाः अर्पिताः। भारते विविध-राज्येषु तत्तत्प्रदेशस्थैः मुख्यमन्त्रिभिः  शिशु-दिनीयसमारोहस्य उद्‌घाटनं क्रियते। क्रीडा विनोदैः पदसञ्चलनादि शोभायात्रया च दिनमिदं शिशूनां चित्तेषु सामोदं विलसेत् इत्यत्र न वर्तते कोऽपि  सन्देहः। भारतस्य प्रथमस्य प्रधानमन्त्रिणः जवहर् लाल् नेहृ वर्यस्य जन्मदिनमेव शिशु दिनत्वेन पर्वायते।

Monday, November 13, 2017


लोकराष्ट्राणाम् पुरत: शक्ति: प्रकटीकृता भारतेन -राजनाथ सिंहः

     लख्नौ>लोकराष्ट्राणाम् पुरत: स्वीयशक्ति: भारतेन प्रकटीकृतेति केन्द्राभ्यन्तरमन्त्री राजनाथसिंह:। अग्रे शक्तराष्ट्राणाम् पट्टिकायामेव भारतस्य स्थानम्, लोकराष्ट्रै: तत् अवगतम् अङ्गीकृतमित्यपि तेन भाषणे योजितम्। लख्नौ मध्ये कस्याश्चन माध्यमसंस्थाया: नेतृत्वे आयोजिते कार्यक्रमे भाषमाण: आसीत् स:। राष्ट्रान्तरतले भारतस्य प्राधान्यम् वर्धितमेव। लोक एव महत्सु साम्पत्तिकशक्तिषु अग्रगण्यस्थानमाप्तम् भारतेन यच्च लोकराष्ट्रै: प्रत्यभिज्ञातम् च। भारतम् इत: परं दुर्बलराष्ट्राणाम् पट्टिकायां नास्त्येव। कानिचनविमर्शनानि एव इदानीम् अस्माकम् पुरत: सन्ति। किम् अवाप्तुं वयम् ऐच्छाम तत्तु प्राप्तवन्त: एव इति च स: सूचितवान्।

Sunday, November 12, 2017

 अन्तरिक्षमलिनीकरणम्-सम-विषम-संख्या सम्प्रदायं कारयितुं देहली-सर्वकाराय विशेषानुमतिः।
नवदिल्ली> अन्तरिक्षमलिनीकरणम् अत्यधिकं बाधमाने देहलीनगरे स्वीयवाहनानां उपयोग विषये सम-विषम-संख्या सम्प्रदायं कारयितुं देहली-सर्वकारस्य कृते देशीय-हरित- ट्रिब्यूणल् विशेषानुमतिम् अदात्। नवंबर् मासस्य त्रयोदश दिनादारभ्य  सप्तदशदिनाङ्क पर्यन्तमेव नियमः अयं पाल्यते। प्रातः अष्टवादनादारभ्य सायम् अष्टवादन-पर्यन्तमेव यानानि नियन्त्रितानि। वाहनानां संख्यासु विद्यमानानां अन्तिम संख्यामाधारीकृत्यैव सम-विषम-संख्या सम्प्रदायः भविष्यति। दिन-व्यवहित-दिनेषु एव सम-विषम-संख्यायुतानि यानानि पथि प्रवेश्यन्ति।
             सि- एन् - जि इत्यनेन प्रर्वर्तमानानि वाहनानि,  रुग्णवाहनानि,(आम्बुलन्स्) अग्नि शामकसेना-वाहनानि च नियमादस्मात् बाहीकानि भविष्यन्ति। इतः प्रागपि देहल्यां नियन्त्रणमिदमागतमासीत् । तदानीं द्विचक्रिकारूढान् सर्वकार्योद्योगिनः, स्त्रीजनान् च परित्यजन्‌ । किन्तु इदानीं एतेषामपि  नियमः अयं अनुवर्तते एव। नगर्यां वायो: गुणाः अत्यन्तं नष्टा: चेदपि कुतः नियन्त्रणमिदं कारयितुं विलम्बो जातः इति विषये, नियन्त्रणात् किमर्थं बहून् यात्रिकान् परित्यजन्ति इति विषये च देशीय-हरित-ट्रिब्यूणल् सर्वकारं प्रति प्रश्नयन्ति।
        देहली नगरस्य समीपस्थ प्रवेशानाञ्च वायु मलिनीकरणस्य न्यूनीकरणाय सम-विषम-संख्या संप्रदायः पर्याप्तो वा इति विषयमधिकृत्य चर्चाकरणाय आहूतात्   विशेषसमावेशात् पश्चादेव विषयो-यं तैः प्रकटीकृतः ।       नियन्तणविषये पुनः चर्चाकरणाय अद्यापि सायं त्रिवादने विशिष्टसमावेशः आयोजितः अस्ति।
'आसियान्' उच्चशिखरसम्मेलनम् अद्य प्रारभते। 
            मनिला > दक्षिण-पूर्वेष्यन् राष्ट्राणां सङ्गमस्य 'आसियान्' नामकस्य एकत्रिंशः उच्चशिखरसम्मेलनं फिलिप्पीन्स् राष्ट्रस्य राजधान्यां मनिलायाम् अद्य प्रारभते। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी सम्मेलनार्थम् अद्य एव प्रस्थास्यति।  अमेरिक्कायाः राष्ट्रपतिः डोणाल्ड् ट्रम्पः अपि भागभागित्वं करिष्यति। 
    रोहिङ्ग्यन् समस्या, दक्षिणचीनासमुद्रविषयः, आतङ्कवादः इत्यादयः चर्च्यमानविषयाः भविष्यन्तीति मन्यते। उच्चशिखराय आसियान् सङ्घस्य दश राष्ट्रप्रतिनिधयः फिलिप्पीन्स् प्राप्स्यन्ति। 
    आस्ट्रेलिया, चीना, भारतं, जापान्, न्युसिलान्ट्, दक्षिणकोरिया, रष्या, यू एस्, कानडा, यूरोप्यन् यूणियन् इत्येतानि अङ्गराष्ट्राणि भवन्ति।
हरियाणा-राज्यस्य कलाः संस्कृतिः इतिहासश्च  
                                                              - बलदेवानन्द-सागरः  
हरियाणा अर्थात् परमात्मनः निवास-स्थानम्  -
             सम्प्रति हिमालयस्य मुकुटवन्तं विशालम् आधुनिकञ्च भारतदेशं  सरलतया अवगन्तुं शक्यते, अस्य च वैभव-ज्ञानं सुकरञ्चेति नूनं गूगल्-कारणात् प्रतीयते परन्तु यावदवधि अस्य देशस्य कलाः संस्कृतिम् इतिहासञ्च सम्पूर्णतया हृदयङ्गमं नैव कुर्मः तावदवधि महतो भारतस्य बोधः नैवास्ति सुकरः | विशेषेण भारतस्य पृथक्-पृथक् राज्यानि अवगन्तुं तत्तद्-राज्यानां कलानां संस्कृतेः इतिहासस्य च गभीरतया हृदयङ्गमीकरणं परमावश्यकम् |
               “हरियाणा” अर्थात् हरेः [परमात्मनः] निवास-स्थानम् | मन्ये, सर्वे जानन्ति एव यत् “हरि व्यापक सर्वत्र समाना” अर्थात् “हरिः व्यापकः सर्वत्र समानः” | सः परमात्मा सर्वव्यापी किन्तु यस्याः भूमेः नाम एव हरेः निवासत्वेन ख्यातम् सा भूमिः कियती गरीयसी महत्वाधायिनी चास्तीति तु अनुभव-विषयः | शाब्दिक-व्याख्यया एवमवगन्तुं शक्यते यत् - हरि + अयन [अयण], तद्धि पूर्वं ‘हर्ययनम्’- रूपेण [‘हर्ययणम्’- रूपेण वा] प्रयुक्तमासीत्, अनन्तरं भाषित-भाषायां ‘हरियाणा’-नाम्ना
सुधर्मा भारतस्य संस्कृतपत्रिका 
      अस्याः संरक्षणस्य दायित्वं कस्य? अस्माकम् एव। पश्यतु अयं चलनमुद्रिकाखण्डः I

Saturday, November 11, 2017

पाकिस्थानेन सह सम्भाषणे भारतस्य निश्चयस्य व्यत्ययः नास्ति। भारत-विदेशकार्य मन्त्रालयः
         नवदिल्ली> केन्द्र विदेशकार्य मन्त्रालयेन उक्तं यत् पाकिस्थानेन सह अनुरञ्जन भाषणविषये भारतस्य पूर्व निश्चयः न व्यतिकरोति। भीकर-प्रवर्तनानि तेषां मिथः संस्थापितः बन्धः च परित्यज्य एव पाकिस्थानः चर्चायै आगन्तव्यम्। तथा एव चर्चा प्रकरणे पुरोगतिः भविष्यति इति मन्त्रालयस्य प्रवक्ता रविष् कुमारेण उक्तम्। सार्वजनिक निर्देशकतलेषु चतुश्चत्वारिंशत् (४४) तम उभय -विभाग-चर्चायै बुधवासरे पाकिस्थास्य प्रतिनिधी भुत्वा मेजर् जनरल् मुहम्मद् सयीद् भारतं प्राप्तवान् आसीत् । अवसरेस्मिन् वार्तामाध्यमानां प्रश्नस्य उत्तरं दत्तवानासीत् रवीष्कुमारः।

Friday, November 10, 2017

ऐ एस् भीकराः मरुभूमिं प्रति पलायिताः - सिरिया राष्ट्रस्य सर्वाण्यापि नगराणि स्वतन्त्रताम् प्राप्तानि ।
      वेयरुट्>  भीकरसंस्थया ऐ एस् (इस्लामिक् स्टेट्) अधीनसिरिया देशास्य अल्बु कमल् जनपदम् सिरियन् सेनाभिः प्रतिस्वीकृतम् अभवत् । रक्षाम् प्राप्ताः भीकराः मरुभूमिंप्रति पलायीताः अभवन् । इराखस्य सिरियाप्रदेशास्य सीमाप्रान्तान् आक्रम्य अधीनतां कृत्वा एव ऐ एस् दलेन खिलाफत्  रूपीकृता।
इराखदेशात् निष्कासिताः  एते भीकराः  सिरिया प्रर्दशेषु शिबिरं कृत्वा उषितवन्तः आसन्। सिरियन् सेनापि इदानीम् प्रत्याक्रमणम् अकरोत्। सिरियन् सैनिकैः सह सख्यसंघस्य साहाय्यमपि प्रदेशस्य अस्य विमोचनाय उपलब्धम् ।
राष्ट्रपति: नवम्बरस्य दशमे एकादशे च दिवसे मध्यप्रदेशस्य  यात्रां करिष्यति
         नवदिल्ली> राष्ट्रपते: रामनाथकोविन्दस्य   राष्ट्रपतिपदग्रहणानन्तरं प्रथमेयं मध्यप्रदेशयात्रा भविष्यति। राष्ट्रपति: नवम्बरस्य दशमे दिवाङ्के भोपाले कबीरप्रगतोत्सवं संबोधयिष्यति। असौ तत्र जीटीबीकॉम्प्लेक्सस्थले तात्याटोपे वर्यस्य भोपाले च रानी झल्करीबाई इत्यस्या: प्रतिमायां श्रद्धाञ्जलिं समर्पयिष्यति। नवम्बरस्य एकादशे दिवसे  राष्ट्रपति: अमरकण्टके इन्दिरागांधी राष्ट्रियजनजातीयविश्व-विद्यालयस्य  द्वितीयदीक्षान्तसमारोहं सम्बोधयिष्यति । 
नानो मिसैल् निर्माणं कृत्वा (निर्मीय) भारतीय विद्यार्थी प्रशंसा पात्रमभव् ।
 विश्वस्य अत्यन्तलघु नानो मिसैल् निर्मय  भारतीयविद्यार्थी डेचर्ला पाण्डुररङ्गा रोहित् प्रशंसायाः कार णभूतोभूत् । चेन्नै एस् आर् एं विश्वविद्यालयस्य विद्यार्थी भवति एष : । भीकरवाद विरुद्धप्रवर्तनाय सैनिकेभ्यः आरक्षकेभ्य: च प्रयत्नमिमं अत्यन्तम् उपकरिष्यति ၊ भीकरकेन्द्रं प्राप्तस्य मिसैलस्य (अणु अस्त्रस्य ) प्रयोगेण तत् विरुद्ध भीकर प्रवर्तनानि आचरितुं शक्नोति इति विद्यार्थी अकथयत् । अत्यन्त लघुमिसैल् भवति इति अस्य सविशेषता । छात्रस्य एषा प्राप्तिः  विश्वे प्रथमा प्रशंसनीया च।

Thursday, November 9, 2017

उत्तराखण्डस्य स्थापनादिवसावसरे राज्यस्य  निवासिभ्य: प्रधानमन्त्रिण: अभिनन्दनम्
      नव दिल्ली>प्रधानमन्त्रिणा नरेन्द्रमोदिना उत्तराखण्डस्य नागरिकेभ्य: उत्तराखण्डस्थापनादिवसवसरे शुभाशंसा प्रदत्तास्ति।

मोदिनोक्तं “विकासस्य पथि समेधमानेभ्य: उत्तराखण्डस्य निवासिभ्य: राज्यस्य स्थापनादिवसस्य हार्दिक्य: शुभकामना: ” राज्यस्य स्थापनादिवसे उत्तराखण्डनिवासिभ्य: मम अभिनन्दनम्।
पथः पार्श्वे बन्धितानि यानानि परिस्थितेः भीषाम् उत्पादयन्ति । - विद्यार्थिनः उच्च-न्यायालये न्यायव्यवहारं दत्तवन्तः।

           कोच्ची> आरक्षाकालये ग्रहीतानि-वाहनानि परिस्थितेः  दोषमुद्पाद्य मार्गपार्श्वेषु वर्तन्ते। यानस्य लोहभागानाम् उपक्षयकारणेन सञ्जातस्य सार्वजनिक नष्टस्य परिरक्षणाय च छात्राः सार्वजनिक-निवेदनं दत्तवन्तः। 

          केरलस्य विविधेषु आरक्षकालयेषु न्यायव्यवहारेषु बद्धानि वाहनानि परिरक्षां विना द्रवीकृत्य नाशं यान्ति। अनेन कारणेन राष्ट्रधनस्य नष्टः भवति इति अध्ययनफलं प्रदर्श एव छात्रैः उच्चन्यायालये व्यवहारः पञ्जीकृतः। पेरिङ्डों वयक्कर पञ्चायत्तस्य तविडिश्शेरि सर्वकार-विद्यालयस्य विद्यार्थिभिः एव एवं न्याय-व्यवहाराय न्यायालयः प्राप्ताः। विद्यालयस्य सप्तमकक्ष्यायाः छात्रे  इ विस्मय, के पि अनुप्रिया, षष्ट कक्ष्यायाः  सि अनुश्री, पञ्चमकक्ष्यायाः के.जी नाथ् , एम् अञ्जली च मिलित्वा विषयेस्मिन् अध्ययनं कृत्वा अध्ययन-फलेन साकं न्याय-व्यवहारं कृतवन्तः।

      एतत् अध्ययनफलम् अनुसृत्य   केरलेषु प्रति संवत्सरं अष्टाधिक अष्टशतोत्तरैक सहस्रं टण् मितः (1808 ) लोहाः क्षयेण नाशं यान्ति।  नव-शताधिक त्रिपञ्चाशत्  सहस्रोत्तर त्रिचत्वारिंशत् लक्षाधिकत्रिकोटि (3,43,53,900 ) रुप्यकाणां नष्टः पुरातनलोहस्य  मूल्यत्वेन सङकलिते अपि अस्ति। न्यायव्यवहारेषु अन्तिमादेशाय जायमानं  कालदैर्ख्यम्  एव एतादृशनष्टस्य  कारणेषु प्रमुखम् इति । विद्यालयस्य अध्यापकस्य के सि सतीशस्य नेतृत्वे असीत्  छात्राणां विशेषाध्ययनम्।

Wednesday, November 8, 2017