OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 11, 2017

पाकिस्थानेन सह सम्भाषणे भारतस्य निश्चयस्य व्यत्ययः नास्ति। भारत-विदेशकार्य मन्त्रालयः
         नवदिल्ली> केन्द्र विदेशकार्य मन्त्रालयेन उक्तं यत् पाकिस्थानेन सह अनुरञ्जन भाषणविषये भारतस्य पूर्व निश्चयः न व्यतिकरोति। भीकर-प्रवर्तनानि तेषां मिथः संस्थापितः बन्धः च परित्यज्य एव पाकिस्थानः चर्चायै आगन्तव्यम्। तथा एव चर्चा प्रकरणे पुरोगतिः भविष्यति इति मन्त्रालयस्य प्रवक्ता रविष् कुमारेण उक्तम्। सार्वजनिक निर्देशकतलेषु चतुश्चत्वारिंशत् (४४) तम उभय -विभाग-चर्चायै बुधवासरे पाकिस्थास्य प्रतिनिधी भुत्वा मेजर् जनरल् मुहम्मद् सयीद् भारतं प्राप्तवान् आसीत् । अवसरेस्मिन् वार्तामाध्यमानां प्रश्नस्य उत्तरं दत्तवानासीत् रवीष्कुमारः।

Friday, November 10, 2017

ऐ एस् भीकराः मरुभूमिं प्रति पलायिताः - सिरिया राष्ट्रस्य सर्वाण्यापि नगराणि स्वतन्त्रताम् प्राप्तानि ।
      वेयरुट्>  भीकरसंस्थया ऐ एस् (इस्लामिक् स्टेट्) अधीनसिरिया देशास्य अल्बु कमल् जनपदम् सिरियन् सेनाभिः प्रतिस्वीकृतम् अभवत् । रक्षाम् प्राप्ताः भीकराः मरुभूमिंप्रति पलायीताः अभवन् । इराखस्य सिरियाप्रदेशास्य सीमाप्रान्तान् आक्रम्य अधीनतां कृत्वा एव ऐ एस् दलेन खिलाफत्  रूपीकृता।
इराखदेशात् निष्कासिताः  एते भीकराः  सिरिया प्रर्दशेषु शिबिरं कृत्वा उषितवन्तः आसन्। सिरियन् सेनापि इदानीम् प्रत्याक्रमणम् अकरोत्। सिरियन् सैनिकैः सह सख्यसंघस्य साहाय्यमपि प्रदेशस्य अस्य विमोचनाय उपलब्धम् ।
राष्ट्रपति: नवम्बरस्य दशमे एकादशे च दिवसे मध्यप्रदेशस्य  यात्रां करिष्यति
         नवदिल्ली> राष्ट्रपते: रामनाथकोविन्दस्य   राष्ट्रपतिपदग्रहणानन्तरं प्रथमेयं मध्यप्रदेशयात्रा भविष्यति। राष्ट्रपति: नवम्बरस्य दशमे दिवाङ्के भोपाले कबीरप्रगतोत्सवं संबोधयिष्यति। असौ तत्र जीटीबीकॉम्प्लेक्सस्थले तात्याटोपे वर्यस्य भोपाले च रानी झल्करीबाई इत्यस्या: प्रतिमायां श्रद्धाञ्जलिं समर्पयिष्यति। नवम्बरस्य एकादशे दिवसे  राष्ट्रपति: अमरकण्टके इन्दिरागांधी राष्ट्रियजनजातीयविश्व-विद्यालयस्य  द्वितीयदीक्षान्तसमारोहं सम्बोधयिष्यति । 
नानो मिसैल् निर्माणं कृत्वा (निर्मीय) भारतीय विद्यार्थी प्रशंसा पात्रमभव् ।
 विश्वस्य अत्यन्तलघु नानो मिसैल् निर्मय  भारतीयविद्यार्थी डेचर्ला पाण्डुररङ्गा रोहित् प्रशंसायाः कार णभूतोभूत् । चेन्नै एस् आर् एं विश्वविद्यालयस्य विद्यार्थी भवति एष : । भीकरवाद विरुद्धप्रवर्तनाय सैनिकेभ्यः आरक्षकेभ्य: च प्रयत्नमिमं अत्यन्तम् उपकरिष्यति ၊ भीकरकेन्द्रं प्राप्तस्य मिसैलस्य (अणु अस्त्रस्य ) प्रयोगेण तत् विरुद्ध भीकर प्रवर्तनानि आचरितुं शक्नोति इति विद्यार्थी अकथयत् । अत्यन्त लघुमिसैल् भवति इति अस्य सविशेषता । छात्रस्य एषा प्राप्तिः  विश्वे प्रथमा प्रशंसनीया च।

Thursday, November 9, 2017

उत्तराखण्डस्य स्थापनादिवसावसरे राज्यस्य  निवासिभ्य: प्रधानमन्त्रिण: अभिनन्दनम्
      नव दिल्ली>प्रधानमन्त्रिणा नरेन्द्रमोदिना उत्तराखण्डस्य नागरिकेभ्य: उत्तराखण्डस्थापनादिवसवसरे शुभाशंसा प्रदत्तास्ति।

मोदिनोक्तं “विकासस्य पथि समेधमानेभ्य: उत्तराखण्डस्य निवासिभ्य: राज्यस्य स्थापनादिवसस्य हार्दिक्य: शुभकामना: ” राज्यस्य स्थापनादिवसे उत्तराखण्डनिवासिभ्य: मम अभिनन्दनम्।
पथः पार्श्वे बन्धितानि यानानि परिस्थितेः भीषाम् उत्पादयन्ति । - विद्यार्थिनः उच्च-न्यायालये न्यायव्यवहारं दत्तवन्तः।

           कोच्ची> आरक्षाकालये ग्रहीतानि-वाहनानि परिस्थितेः  दोषमुद्पाद्य मार्गपार्श्वेषु वर्तन्ते। यानस्य लोहभागानाम् उपक्षयकारणेन सञ्जातस्य सार्वजनिक नष्टस्य परिरक्षणाय च छात्राः सार्वजनिक-निवेदनं दत्तवन्तः। 

          केरलस्य विविधेषु आरक्षकालयेषु न्यायव्यवहारेषु बद्धानि वाहनानि परिरक्षां विना द्रवीकृत्य नाशं यान्ति। अनेन कारणेन राष्ट्रधनस्य नष्टः भवति इति अध्ययनफलं प्रदर्श एव छात्रैः उच्चन्यायालये व्यवहारः पञ्जीकृतः। पेरिङ्डों वयक्कर पञ्चायत्तस्य तविडिश्शेरि सर्वकार-विद्यालयस्य विद्यार्थिभिः एव एवं न्याय-व्यवहाराय न्यायालयः प्राप्ताः। विद्यालयस्य सप्तमकक्ष्यायाः छात्रे  इ विस्मय, के पि अनुप्रिया, षष्ट कक्ष्यायाः  सि अनुश्री, पञ्चमकक्ष्यायाः के.जी नाथ् , एम् अञ्जली च मिलित्वा विषयेस्मिन् अध्ययनं कृत्वा अध्ययन-फलेन साकं न्याय-व्यवहारं कृतवन्तः।

      एतत् अध्ययनफलम् अनुसृत्य   केरलेषु प्रति संवत्सरं अष्टाधिक अष्टशतोत्तरैक सहस्रं टण् मितः (1808 ) लोहाः क्षयेण नाशं यान्ति।  नव-शताधिक त्रिपञ्चाशत्  सहस्रोत्तर त्रिचत्वारिंशत् लक्षाधिकत्रिकोटि (3,43,53,900 ) रुप्यकाणां नष्टः पुरातनलोहस्य  मूल्यत्वेन सङकलिते अपि अस्ति। न्यायव्यवहारेषु अन्तिमादेशाय जायमानं  कालदैर्ख्यम्  एव एतादृशनष्टस्य  कारणेषु प्रमुखम् इति । विद्यालयस्य अध्यापकस्य के सि सतीशस्य नेतृत्वे असीत्  छात्राणां विशेषाध्ययनम्।

Wednesday, November 8, 2017


राष्‍ट्रियान्‍वेषणाभिकरणेन आतङ्कवादिभ्य: आर्थिकसौविध्यप्रदानप्रकरणे नवजना: निगडिता:
नवदिल्ली>  राष्‍ट्रियान्‍वेषणाभिकरणेन जम्‍मूकश्‍मीरे आतङ्कवादिभ्य: आर्थिकसौविध्यप्रदानप्रकरणे षडत्रिंशत् कोट्याधिकपुरातनधनपत्राणि स्वायत्तीकृतानि। आरोपे नव जनाश्च निगडिता: । आधिकारिकाधिसूचनानुसारेण एते जना: नवदिल्ल्यां निगडिता: सन्ति।
एन् ऐ ए इत्यस्य वरिष्ठाधिकारिणोक्तं यत् आतङ्किभ्य: आर्थिकसाहाय्यप्रदानप्रकरणे निगडितेभ्य: पृथक्तावादिभ्य: पृथक्तावादिभ्यः लब्दां सूचनामनुसृत्य कोटिश: पुरातनमुद्रापत्राणि इदानीमपि वर्तन्ते । अत: प्राप्तसूचनानुसारेण कश्मीरस्य संदिग्धजना: यदा सोमवारे पुरातानमुद्रापत्राणि परिवर्तयितुं दिल्ल्यां समायाता: तदा एते दिल्ल्या: कनॉटप्लेसक्षेत्रे निगडिता:  ।
अन्तरीक्षमलिनीकरणः - दिल्याम् स्वास्थ्य सूचना।
            नवदिल्ली > अन्तरीक्षमलिनीकरणस्य आधिक्येन नवदिल्यां सर्वकारेण स्वास्थ्य सूचना प्रसारिता । कठिना धूमपटलेन विद्यालयेभ्यः दिनत्रयपर्यन्तं विराम: ख्यापितः। जनाः गृहात् बहिः मा गच्छन्तु इति निशितनिर्देशः प्रदत्तः। राजधानीस्थानि  निर्माण प्रवर्तना न्यखिलं निवारितम्। 

        .सोमवासरे सायाह्नादारभ्य अन्तरीक्षे रुक्षतरधूम-पटलानि आविर्भुतानि। २०० मीट्टर् अधिकतया किमपि द्रष्टुं न शक्यते। सुरक्षितावस्थातः दशगुणितो भवति इदानीन्तन मलिनीकरणमानः। दिल्षाद् गार्डन्, द्वारका, आनन्दविहारं इत्येतेषु प्रदेशेषु मलिनीकरणमानः भयानकरीत्या भवति इत्यनेन विरामदानाय निश्चयः स्वीकृतः आसन्। सर्वकारसंस्थासु च विरामः प्रख्यापितः।
पञ्चाब् हरियान इत्येदेषु प्रदेशेष्वपि धूमपटलाः व्याप्यन्ते। तत्रापि मलिगीकरणस्य मानः परिधिम् उल्लङ्घ्यते इति वातावरण निरीक्षण केन्द्रण उक्तम्।

Tuesday, November 7, 2017

करदाने असहिष्णुतया विदेश-वित्तालयेषु निक्षेपः। पारडैस् प्रमाणेषु ७१४ भारतीयाः। 
प्रमुखाः अमिताभ् बच्चः, आर् के सिन्ह, नीरा राडिय, जयन्त् सिन्हश्च।
           नवदिल्ली> भूमौ भारतेन सह अशीत्यधिकशतंराष्ट्रेषु राष्ट्रप्रमुखाः प्रमुखाः व्यक्तयः निजीय संस्थाः च कराश्वासदायकेषु एकोन-विंशतिराष्ट्रेषु कृतासु धननिक्षेपस्य प्रमाणपत्राणि बहिरानीतानि। १९५० आरभ्य गतवर्ष पर्यन्तेभ्यः प्रतिवार्ताः एव प्रकाशितेषु सन्ति। भारतव्योमयानमन्त्री जयन्तसिन्हः भा ज पा दलस्य राज्यसभाङ्गः, अर् के सिन्हः, महानटः अमिताभ् बच्चः। कोण्ग्रस् नेतुः वयलार् रवेः पुत्रः रविकृष्णः, वीरप्पमोय्लि इत्यस्य पुत्रःहर्षमोय्लिः, 2G स्पेक्ट्रं नाम विषयस्य मध्यवर्तिनी नीरा राडिया, व्यवसायी  विजय् मल्य च पट्टिकायाम् अन्तर्भूताः प्रमुखाः। अस्यां पट्टिकायाम् आहत्य ७१४जनानां नामानि सन्ति इति जर्मनी देशस्था सूड् डोय् चे सैटुङ् नाम पत्रिकया प्रकाशिता पारडैस् नाम प्रमाणपत्राणि व्यक्तीक्रियते। 

लोकराष्ट्रेषु विद्यमानानां व्यावसायिक प्रमुखानां तथा राष्ट्र प्रमुखानां च अनियम-रहस्य निक्षेपाणां प्रतिवार्ताः 'पानमा प्रमाणपत्रम्' इति प्रमाणीकृतपत्र द्वारा बहिरानेतुं प्रयत्नं कृतवता देलन एव अस्य प्रमाणस्य पृष्टभूमौ प्रयतितवन्तः। International Consortium of investigative journalist (ICIJ) इति भवति अस्य दलस्य नाम ।
प्रकाशितानां प्रमाणानाम् आधारेण क्रियाविधयः स्वीकर्तुं केन्द्रधनमन्त्रालयेन आयकरविभाग: आदिष्टः अस्ति।
वार्ता-माध्यमानाम् अधिकारदुर्विनियोगः दण्डार्हः। प्रधानमन्त्री नरेन्द्रमोदी।
           चेन्नै>माध्यमस्वतन्त्रता वस्तुतारहितानां अनृतानां लेखनस्वतन्त्रता नास्तीति प्रधानमन्त्री नरेन्द्रमोदी। सर्वकारस्य तथा न्यायालयानां च उत्तरदायित्वमिव तादृशं उत्तरदायित्वं माध्यमानामपि वर्तते। जनहितं लक्ष्यीकृत्य स्यात् माध्यमानां प्रवर्तिः। समान्य जनानां हिताय श्रद्धया बुद्ध्या च माध्यम-स्वतन्त्रता  उपयोक्तव्या। माध्यमानां स्वास्थ्यं मात्सर्यं जनाधिपत्यं शाक्तीकारयति। मोदिना उक्तम्।
           मह्त्मजिं उद्धृत्य माध्यमाः स्वाधिकारस्य दिर्विनियोगं न समीचीनमिति मोदिना उक्तम्। लिखितानि कार्याणि वस्तुतापराणि इति दृढीकर्तुं  लेखकानां उत्तरदायित्वं अस्तीति मोदिः अस्मारयत्। चैनै नगरे दिनतन्ती समाचारपत्रस्य पञ्चसप्तति वार्षिकाघोषे भागभाक् कुर्वन्नासीत् सः।  प्रधानमन्त्रिणः भाषणस्य प्रसक्तभागाः।
* राष्ट्रीयदलानां परितः इदानीं माध्यमाः प्रवर्तन्ते। भारतं तावत् राजनैतिक दलप्रवर्तकाः न । १२५ कोटि जनाः सन्ति भारतम्। माध्यमाः तेषां हितानां अहितानां वार्ताः अपि प्रतिवेदनीयाः।
* संप्रेषणीयानां लिखितानां च वार्तानां विश्वास्यता माध्यमानां उत्तरदायित्वमेव। सर्वासां वार्ताणां   निरूपणं जनाः कुर्युः। विश्वासयोग्यानां माध्यमानां प्रवर्तिः जनाधिपत्यस्य शोभां वर्धयति।
* व्यक्तयः माध्यमानां प्रवर्तकाः सन्तिरपि तेषां लक्ष्यं धर्म च सांस्कृतिक सामान्यमेव। समाधानेन पर्ष्करणानि आनेतुं प्रयतन्तानि उपकरणानि भवन्ति माध्यमानि इति विद्वांसः वदन्ति। न्यायायमिव चयितसर्वकारमिव सामाजिकं उत्तरदायित्वं माध्यमैः अपि प्रदर्शनीयम्।

Monday, November 6, 2017

मानवसंसाधन-विकासमन्त्रालय: विद्यालयीय-शिक्षामवलम्ब्य कार्यशालामायोजयिष्यति 
               नवदिल्ली> मानवसंसाधनविकासमन्त्रालयस्य विद्यालयशिक्षासाक्षरताविभागाभ्यां शिक्षाक्षेत्रे प्रमुखविषयेषु विवेचनायै विभिन्नस्वयंसेविसंघटनानि निजीक्षेत्राणि व्यक्तिगतस्तरे च समेषां संयोजनाय विद्यालयशिक्षाविषये द्विदिवसीयकार्यशाला समायोजयिष्यते।
               केन्द्रीयमानवसंसाधनविकासमन्त्री प्रकाशजावडेकर: विद्यालयशिक्षासाक्षरताराज्यमन्त्री उपेन्द्रकुशवाहा उच्चशिक्षाराज्यमन्त्री डा. सत्यपालसिंहश्च अस्यां राष्ट्रियकार्यशालाम् उपस्थिता: भविष्यन्ति ।

              कार्यशालेयं डिजिटलशिक्षा शारीरिकशिक्षा मूल्यशिक्षा जीवनकौशलशिक्षा प्रायोगिकज्ञानकेन्द्रिता च भविष्यति ।  कार्यशालायां निर्मितकार्ययोजनाया: विवरणं मानवसंसाधनमन्त्रिणे प्रदास्यते ।
पण्य-सेवनकरस्य श्रेण्यनुपातः नूनं न्यूनं कारयति।
            नव दिल्ली> शुक्रवासरे आयोक्ष्यमाणे जी एस् टि आयोगेन बहुनाम् उत्पन्नानां कराहरणश्रेणी न्यूनीकरिष्यते। प्रतिशतं अष्टाविंशतिः (२८ %) करमूल्ययुक्तानां नित्योपयोगवस्तूनां मूल्यं १८% इति न्यूनं भविष्यति। पण्य-सेवनकरेषु उन्नत मूल्यक्रमः २८% एव भवति। शताधिकानां उत्पन्नानां करः समीपकाले न्यूनीकृतम् आसीत्I करस्य पुनर्निर्णयाय निर्देशः आयोगेन पूर्वं अङ्गीकृतम्। केन्द्र मन्त्री अरुण्जैटिली आयोगस्य अध्यक्षः भवति। राज्यानां वित्तमन्त्रिणः अस्मिन् आयोगे अङ्गाः एव।  लघु व्यवसायिभिः निर्मिताभिः वस्तूनां करः एव न्यूनीकरणेषु प्रथमतया भविष्यति।
यु एस् राष्ट्रे देवालये गोलिका प्रहारः - २७ जनाः हताः।
                 वाषिङ्टण् > यु एस् राष्ट्रस्य टेक्सस् मध्ये प्रार्थना वेलायां आक्रमकारिणा क्रियमाणे गोलिकाप्रहारे सप्तविंशति (२७)जनाः मारिताः सङ्ख्याधिकाः जनाः क्षतजाः च। अन्टोणियो प्रदेशस्य समीपे विल्सण् कौण्डि सतर्लान्ट् स्प्रिङ्स् मध्ये वर्तमाने 'फस्ट् बाप्तिस्ट्' देवालये एव दुर्घटना। प्रादेशिकसमयः ह्यः प्रभाते ११.३० वादने एव आक्रमणः अभवत्I प्रार्थनावेलायाम् आगतः आक्रमणकारी अतिचटुलतया गोलिका प्रहारं कृतवान् आसीत्।  गोलिका प्रहारशब्दाः बहुवारं निमिषाभ्यन्तरेण अनुवर्तिताः  इति प्रदेशवासी अवदत्l  अधुना लभ्यमानायाः  सूचनायाः अनुसारेण अक्रमी अपि मृतः। एफ् बि ऐ संस्थया अत्र अन्वेषणमारब्धम्।
मुद्रापत्रनिरोधः - ३५००० निजीयसंस्थया निक्षिप्ताः राशिः १७००० कोटिः।
              नवदिल्ली > मुद्रापत्रस्य निर्मूल्यकरणानन्दरं पञ्चत्रिंशत् सहस्रं (३५००) नामावशेषित निजीय संस्थाः वित्तकोशेषु सप्तदशसहस्र कोटि रुप्यकाणि न्यक्षिपन्। सर्वकारेण पूर्वमेव एतस्याः संस्थायाः पञ्जीकरणं विलोपितम् आसीत् । किन्तु एतैः एव वित्तलेखेषु अधिकतया घनं निक्षिप्तम् इति सर्वकारेण प्रकाशिते आवेदने व्यक्तीक्रियते।
                समीपकाले २.२४ लक्षम् उद्योग संस्थानां पञ्जीकरणं त्रिसंवत्सरं यावत् निरस्तमासीत्। एतेषु एकस्याः संस्थायाः २१३४ वित्तलेखाः सन्तीति प्रत्यभिज्ञाताः । २०१६ नवंबर् मासस्य अष्टमदिन-पर्यन्तं यावत्कालं मुद्रापत्रविनिमयः नासीत् तावत् कालेषु  वित्तलेखात् २४८४ कोटि रुप्यकाणि एव प्रत्याहरितानि। ५६ वित्तकोशानां ५८००० वित्तलेखानि सूक्ष्मावलोकनं कृत्वा एव सर्वकारस्य आवेदनम्।



Sunday, November 5, 2017

द्विशतं परिष्काराः अपि आविष्क्रियन्ते । लक्ष्यं तु उद्योगसौहृदराष्ट्रम् इति स्थानप्राप्तिः । 
         मुम्बै> उद्योगसौहृदराष्ट्राणां श्रेण्यां प्रथमपञ्चाशन्नामसु अन्तर्भवितुं महत्‍परिष्काराय केन्द्रसर्वकारः सज्जः भवति । औद्योगिकस्तरेषु आगामि संवत्सरेषु केन्द्रसर्वकारः द्विशताधिकपरिष्कारान्  आविष्कर्तुं चिकीर्षति इति Industrial policy & promotion इति विभागस्य सचिवं रमेष् अभिषेकम् उद्धृत्य  P.T.I. वार्तामाध्यमद्वारा आवेदितम्। 

         द्वाविंशत्युत्तरशतं परिष्काराः एव गतवर्षे प्रयोगपथमानीताः । ते विश्ववित्तकोशस्य आवेदने प्रतिफलिताः इति च रमेष् अभिषेक् वदति । अस्मिन् वर्षे नवति परिष्कारा: औद्योगिकस्तरम् आनीताः ।
भगिनी राणी मरिया 'संस्तुता' जाता। 
             इन्डोर् > सर्वं येशुदेवं समर्प्य सेवनमार्गे सञ्चरन्त्याः यत् बलिदानित्वं जातं, तत् अभिवन्द्य कत्तोलिक्का परमाधिकारसभया यदुद्घुष्टं , तदनुसारेण सा संस्तुता भवति।   सा ईशवीया उपासिका  सिस्टर् राणी मरिया इति ख्याता। सहस्रशः क्रैस्तविश्वासिनां सान्निध्ये शनिवासरे प्रभाते दशवादने मध्यप्रदेशस्य इन्डोर् प्रदेशस्थे 'सेन्ट् पोल्' उच्चतरविद्यालयाङ्कणे संवृत्ते कार्यक्रमे फ्रान्सिस् मार्पाप्पा वर्यस्य प्रख्यापः प्रतिपुरुषेण कर्दिनाल् डो. आञ्जलो अमात्तो वर्येण  प्रस्तुतः। प्रतिसंवत्सरं फेब्रुवरी २५ दिनाङ्कः राणी मरियायाः  पुण्यदिनत्वेन चरिष्यति। संस्तुतानां गणे सिस्टर् राणीमरिया भारतसभायाः प्रथमा बलिदानिनी भवति।

Saturday, November 4, 2017

तृणमूलकांग्रेसदलस्य मुकुलरॉयः भाजपादले समाविष्टः
                   नव दिल्ली > तृणमूलकांग्रेसदलस्य पूर्वनेता मुकुलरॉयः ह्यः भारतीयजनतापार्टीति दले समाविष्टः। तेन नवदिल्ल्यां भाजपामुख्यालये केन्‍द्रीयमंत्रिणः रविशंकरप्रसादस्यर पश्चिमबंगालभाजपाप्रभारिणः कैलाशविजयवर्गीयस्य़ उपस्थितौ दलसदस्यता स्वीकृता । भाजपादलं धर्मनिरपेक्षदलं प्रतिपादयता तेनोक्तं यत् इतः पूर्वं तृणमूलकांग्रेसदलेन भाजपादलेन सह संयुतिः कृतासीत् , यतोहि तद्दलं भाजपादलस्य समर्थनं विना स्थातुं समर्थः नैवासीत् । शारदाप्रवञ्चनाप्रकरणविषये तेनोक्तं यत् विधिः निजकार्यं करोति । रविशंकरप्रसादेन रॉयस्य भाजपादले स्‍वागतं विदधता प्रतिपादितं यत् अनेन राज्‍ये भाजपादलस्य स्थितिः भद्रतरा भविष्यति।