OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, November 6, 2017

मानवसंसाधन-विकासमन्त्रालय: विद्यालयीय-शिक्षामवलम्ब्य कार्यशालामायोजयिष्यति 
               नवदिल्ली> मानवसंसाधनविकासमन्त्रालयस्य विद्यालयशिक्षासाक्षरताविभागाभ्यां शिक्षाक्षेत्रे प्रमुखविषयेषु विवेचनायै विभिन्नस्वयंसेविसंघटनानि निजीक्षेत्राणि व्यक्तिगतस्तरे च समेषां संयोजनाय विद्यालयशिक्षाविषये द्विदिवसीयकार्यशाला समायोजयिष्यते।
               केन्द्रीयमानवसंसाधनविकासमन्त्री प्रकाशजावडेकर: विद्यालयशिक्षासाक्षरताराज्यमन्त्री उपेन्द्रकुशवाहा उच्चशिक्षाराज्यमन्त्री डा. सत्यपालसिंहश्च अस्यां राष्ट्रियकार्यशालाम् उपस्थिता: भविष्यन्ति ।

              कार्यशालेयं डिजिटलशिक्षा शारीरिकशिक्षा मूल्यशिक्षा जीवनकौशलशिक्षा प्रायोगिकज्ञानकेन्द्रिता च भविष्यति ।  कार्यशालायां निर्मितकार्ययोजनाया: विवरणं मानवसंसाधनमन्त्रिणे प्रदास्यते ।
पण्य-सेवनकरस्य श्रेण्यनुपातः नूनं न्यूनं कारयति।
            नव दिल्ली> शुक्रवासरे आयोक्ष्यमाणे जी एस् टि आयोगेन बहुनाम् उत्पन्नानां कराहरणश्रेणी न्यूनीकरिष्यते। प्रतिशतं अष्टाविंशतिः (२८ %) करमूल्ययुक्तानां नित्योपयोगवस्तूनां मूल्यं १८% इति न्यूनं भविष्यति। पण्य-सेवनकरेषु उन्नत मूल्यक्रमः २८% एव भवति। शताधिकानां उत्पन्नानां करः समीपकाले न्यूनीकृतम् आसीत्I करस्य पुनर्निर्णयाय निर्देशः आयोगेन पूर्वं अङ्गीकृतम्। केन्द्र मन्त्री अरुण्जैटिली आयोगस्य अध्यक्षः भवति। राज्यानां वित्तमन्त्रिणः अस्मिन् आयोगे अङ्गाः एव।  लघु व्यवसायिभिः निर्मिताभिः वस्तूनां करः एव न्यूनीकरणेषु प्रथमतया भविष्यति।
यु एस् राष्ट्रे देवालये गोलिका प्रहारः - २७ जनाः हताः।
                 वाषिङ्टण् > यु एस् राष्ट्रस्य टेक्सस् मध्ये प्रार्थना वेलायां आक्रमकारिणा क्रियमाणे गोलिकाप्रहारे सप्तविंशति (२७)जनाः मारिताः सङ्ख्याधिकाः जनाः क्षतजाः च। अन्टोणियो प्रदेशस्य समीपे विल्सण् कौण्डि सतर्लान्ट् स्प्रिङ्स् मध्ये वर्तमाने 'फस्ट् बाप्तिस्ट्' देवालये एव दुर्घटना। प्रादेशिकसमयः ह्यः प्रभाते ११.३० वादने एव आक्रमणः अभवत्I प्रार्थनावेलायाम् आगतः आक्रमणकारी अतिचटुलतया गोलिका प्रहारं कृतवान् आसीत्।  गोलिका प्रहारशब्दाः बहुवारं निमिषाभ्यन्तरेण अनुवर्तिताः  इति प्रदेशवासी अवदत्l  अधुना लभ्यमानायाः  सूचनायाः अनुसारेण अक्रमी अपि मृतः। एफ् बि ऐ संस्थया अत्र अन्वेषणमारब्धम्।
मुद्रापत्रनिरोधः - ३५००० निजीयसंस्थया निक्षिप्ताः राशिः १७००० कोटिः।
              नवदिल्ली > मुद्रापत्रस्य निर्मूल्यकरणानन्दरं पञ्चत्रिंशत् सहस्रं (३५००) नामावशेषित निजीय संस्थाः वित्तकोशेषु सप्तदशसहस्र कोटि रुप्यकाणि न्यक्षिपन्। सर्वकारेण पूर्वमेव एतस्याः संस्थायाः पञ्जीकरणं विलोपितम् आसीत् । किन्तु एतैः एव वित्तलेखेषु अधिकतया घनं निक्षिप्तम् इति सर्वकारेण प्रकाशिते आवेदने व्यक्तीक्रियते।
                समीपकाले २.२४ लक्षम् उद्योग संस्थानां पञ्जीकरणं त्रिसंवत्सरं यावत् निरस्तमासीत्। एतेषु एकस्याः संस्थायाः २१३४ वित्तलेखाः सन्तीति प्रत्यभिज्ञाताः । २०१६ नवंबर् मासस्य अष्टमदिन-पर्यन्तं यावत्कालं मुद्रापत्रविनिमयः नासीत् तावत् कालेषु  वित्तलेखात् २४८४ कोटि रुप्यकाणि एव प्रत्याहरितानि। ५६ वित्तकोशानां ५८००० वित्तलेखानि सूक्ष्मावलोकनं कृत्वा एव सर्वकारस्य आवेदनम्।



Sunday, November 5, 2017

द्विशतं परिष्काराः अपि आविष्क्रियन्ते । लक्ष्यं तु उद्योगसौहृदराष्ट्रम् इति स्थानप्राप्तिः । 
         मुम्बै> उद्योगसौहृदराष्ट्राणां श्रेण्यां प्रथमपञ्चाशन्नामसु अन्तर्भवितुं महत्‍परिष्काराय केन्द्रसर्वकारः सज्जः भवति । औद्योगिकस्तरेषु आगामि संवत्सरेषु केन्द्रसर्वकारः द्विशताधिकपरिष्कारान्  आविष्कर्तुं चिकीर्षति इति Industrial policy & promotion इति विभागस्य सचिवं रमेष् अभिषेकम् उद्धृत्य  P.T.I. वार्तामाध्यमद्वारा आवेदितम्। 

         द्वाविंशत्युत्तरशतं परिष्काराः एव गतवर्षे प्रयोगपथमानीताः । ते विश्ववित्तकोशस्य आवेदने प्रतिफलिताः इति च रमेष् अभिषेक् वदति । अस्मिन् वर्षे नवति परिष्कारा: औद्योगिकस्तरम् आनीताः ।
भगिनी राणी मरिया 'संस्तुता' जाता। 
             इन्डोर् > सर्वं येशुदेवं समर्प्य सेवनमार्गे सञ्चरन्त्याः यत् बलिदानित्वं जातं, तत् अभिवन्द्य कत्तोलिक्का परमाधिकारसभया यदुद्घुष्टं , तदनुसारेण सा संस्तुता भवति।   सा ईशवीया उपासिका  सिस्टर् राणी मरिया इति ख्याता। सहस्रशः क्रैस्तविश्वासिनां सान्निध्ये शनिवासरे प्रभाते दशवादने मध्यप्रदेशस्य इन्डोर् प्रदेशस्थे 'सेन्ट् पोल्' उच्चतरविद्यालयाङ्कणे संवृत्ते कार्यक्रमे फ्रान्सिस् मार्पाप्पा वर्यस्य प्रख्यापः प्रतिपुरुषेण कर्दिनाल् डो. आञ्जलो अमात्तो वर्येण  प्रस्तुतः। प्रतिसंवत्सरं फेब्रुवरी २५ दिनाङ्कः राणी मरियायाः  पुण्यदिनत्वेन चरिष्यति। संस्तुतानां गणे सिस्टर् राणीमरिया भारतसभायाः प्रथमा बलिदानिनी भवति।

Saturday, November 4, 2017

तृणमूलकांग्रेसदलस्य मुकुलरॉयः भाजपादले समाविष्टः
                   नव दिल्ली > तृणमूलकांग्रेसदलस्य पूर्वनेता मुकुलरॉयः ह्यः भारतीयजनतापार्टीति दले समाविष्टः। तेन नवदिल्ल्यां भाजपामुख्यालये केन्‍द्रीयमंत्रिणः रविशंकरप्रसादस्यर पश्चिमबंगालभाजपाप्रभारिणः कैलाशविजयवर्गीयस्य़ उपस्थितौ दलसदस्यता स्वीकृता । भाजपादलं धर्मनिरपेक्षदलं प्रतिपादयता तेनोक्तं यत् इतः पूर्वं तृणमूलकांग्रेसदलेन भाजपादलेन सह संयुतिः कृतासीत् , यतोहि तद्दलं भाजपादलस्य समर्थनं विना स्थातुं समर्थः नैवासीत् । शारदाप्रवञ्चनाप्रकरणविषये तेनोक्तं यत् विधिः निजकार्यं करोति । रविशंकरप्रसादेन रॉयस्य भाजपादले स्‍वागतं विदधता प्रतिपादितं यत् अनेन राज्‍ये भाजपादलस्य स्थितिः भद्रतरा भविष्यति।
कृष्ण सोप्ति महोदयायै ज्ञानपीठ पुरस्कार : I
       अस्य वर्षस्य ज्ञानपीठपुरस्कारं हिन्दी भाषासाहित्य कारिणी कृष्णा सोप्ति महोदया प्राप्तवती । साहित्य मण्डले अस्या : योगदानमादृत्य एषा पुरस्कृता।
   हिन्दी भाषायां बहवीः कथाः कादम्बरर्यः च अनया उलिखत् । पञ्चदशोतरिद्वसहस्र (२०२५ )तमे  वर्षै प्रवर्त दाद्री कलापकारणेन एषा सर्वकारै: सह विरोध प्रस्तावं कृतवती आसीत् । अनेन कारणेन पुरस्कारान् प्रतिदत्तवती अपि। दशोत्तरद्विसहस्रतमे महाभागेयम्
पद्मभूषण् निराकृतवती आसीत् । सिन्दगीनाम ग्रन्थाय आशीत्युत्तर नवदश सहस्रे अक्कादमी पुरस्कारम् लब्द म् । सादित्याक्कादमी फेललोषिप्पपि षडनवत्युत्तर नवदश सहस्रतमे अनया प्राप्ता।
द्विनवति वयस्का अनया इदानीं पाक्कस्थान राष्ट्र विद्यमान गुजरात ग्रामे जन्म प्राप्तवती । एकाशी त्युत्तर नवदशतमे शिरोमणी पुरस्कारः तथा हिन्दी अक्कादमी शलाका पुरस्कारश्च अनया प्राप्ता आस्ति।

Friday, November 3, 2017

चेन्नैनगरे अतिवर्षा अनुवर्तते। विद्यालयानां विरामः
                  चेन्नै > चेन्नैमध्ये तथा प्रान्तप्रदेशेषु तीरदेशेषु च  दिनचत्वारं यावत् वर्षा अनुवर्तते। जलोपप्लवः भविष्यति इत्यनेन जनाः जाग्रत् भवतु इति राष्ट्रिय दुरन्तनिवारण आयोगेन पूर्वसूचना विज्ञापिता। चेन्नै मध्ये ह्यः प्रभाते वृष्टिः न्यूना अभवत् चेदपि रात्रौ च वर्षा  अनुवर्तितमासीत्। नगरस्य सर्वेष्वपिभागोषु रूक्षः जलोपप्लवः गतागत क्लेशः च अभवत्। मिम्नप्रदेशाः इदानीमपि जलेनप्लाविता भवति ।  किन्तु पेयजलस्य स्रोतांसि जलसम्पन्ना भवति । ' पून्दि' चोळवारं, रड्हिल्स् चेम्परम्बाक्कम् इत्येतासु जलसम्भरणिषु जलविधानं सप्तशतं ७०० कुबिक् पादमितम् अभवत्।  पेयजलाभावेन दूयमानेषु समाश्सावास्पदं भविष्यति इयं वर्षा। दिनद्वयं यावत् वृष्टिः भविष्यति इति वातावरण-निरीक्षण -संस्थया उक्तम्।
एस् बि ऐ वित्तकोशेन भवन - वाहनाभ्यां ऋणस्य शिखावृद्धिः न्यूनीकृता।
                 मुम्बै> राष्ट्रस्य बृहत्तमवित्तकोशेन एस् बि ऐ संस्थया भवन-वाहनाभ्यं दीयमानाय ऋणधनस्य शिखावृद्धिः न्यूनीकृता। भवनऋणस्य ८.३०% वाहन ऋणस्य ८.७०% च भवतः। अनया विपण्यां न्यूनतमा शिखावृद्धिभूता वित्तकोश-संस्था इति ख्यातिः एस् बि ऐ वित्त-कोशाय लभते। नवम्बर मासस्य प्रथम दिनाङ्कात्  आरभ्य इयं सुविधा प्रबला अभवत् इति वित्तकोशेन ज्ञाप्यते। 

               नूतनतया ऋणस्वीकारेभ्यः एव प्रथमतया न्यूनीकरणस्य  आनुकूल्यं लभतेI अन्येषां तु निश्चितकालानन्तरम् एव आनुकूल्यवितरणं भविष्यति। एतदनुसृत्य निष्कृत्यायकारिभ्यः वनिताभ्यः ३० लक्षपर्यन्तेभ्यः भवनऋणस्य कृते ८.३०% इति शिखावृद्धिः पुनर्निर्णीतम्। एतदधिरिच्य प्रधानमन्त्री आवास योजनानुसारं अर्हानां कृते २.६७ कोटि रुप्यकाणाम् अर्थसाहाय्यः च लभते।
के. सच्चिदानन्दाय 'एष़ुत्तच्छन्' पुरस्कारः। 
               अनन्तपुरी > केरलराज्यसर्वकारस्य परमोन्नताय साहित्यपुरस्कारत्वेन विद्यमानाय 'एषुत्तच्छन्' पुरस्काराय केरलीयकविः, विमर्शकः, विवर्तनकारश्च के. सच्चिदानन्दः अर्हति। पञ्चलक्षं रूप्यकाणि प्रशस्तिपत्रं च पुरस्काररूपेण दीयन्ते। 
    अध्यापकः प्रभाषकः संघाटकः इत्यादिमण्डलेषु स्वप्रतिभां प्रकाशितवतः सच्चिदानन्दस्य कविताः नैकाः भारतीयभाषाः विदेशभाषाः च प्रति अनूदिताः वर्तन्ते। बहवः यूरोप्यन् लाटिनमेरिक्कन् कविताः अनेन कैरलीं प्रति भाषान्तरं कृताः।

Thursday, November 2, 2017

यानदुर्घटनानां निष्कृतिदानाय मानदण्डं विधाय सर्वोच्चन्यायालयः। 
               नवदिल्ली > यानदुर्घटनाभिः हतेभ्यः निष्कृतिं निर्णेतुं सर्वोच्चन्यायालयेन नूतनः मानदण्डः निर्दिष्टः। हतानां 'भविष्त्कालसाध्यताम्' अपि परिगणय्य तेषामायः कथं निश्चितव्यमित्यस्य मार्गरेखा एव न्यायालयस्य शासनसंहितापीठेन निर्दिष्टा। 
     हतभाग्यः स्थिरकर्मयुक्तः तथा ऊनचत्वारिंशद्वयस्कः चेत् तस्य वेतनेन सह प्रतिशतं पञ्चाशच्च योजयित्वा एव तस्य भविष्यत्कालायः निर्णेतव्यः। यदि हतः ४०-५० वयस्कः वेतनेन सह ३०% अधिकतया योजयितव्यम्! वयः ५०-६० तर्हि १५% अधिकतया योजयितव्यम्! 
   यदि हतः ऊन४०वयस्कः तथा निजीयकर्मकरः स्थिरवेतनयुक्तश्च तर्हि वेतनस्य ४०% अपि अधिकतया योजयितव्यम्!
यू पि तापनिलये स्फोटनं - २० मरणानि। 
           रायबरेली > उत्तरप्रदेशस्थे राय्बरेलिप्रविश्यायां 'नाषणल् तेर्मल् पवर् कोर्परेशन्' संस्थायाः अधीनत्वे विद्यमाने तापनिलये संवृत्ते विस्फोटने विंशतिः कर्मकराः मृताः, शतप्रायाः क्षताः च। दुरन्तबाधितानां संख्या अधिकतरा स्यादिति उत्तरप्रदेशस्य मुख्यगृहसचिवेन उक्तम्। 
         रायबरेल्यां ऊंचहार् क्षेत्रस्थे २९ संवत्सराणि प्राचीने तापनिलयस्थे क्वथननालिका (Boiler) एव विस्फोटिता। २१० मेगावाट् शेषियुक्ताः पञ्च एककानि (unit) अत्र विद्यन्ते। ५०० मेगावाट् शेषियुक्तं एककान्तरमपि गते मार्च् मासे प्रवर्तनमारब्धमासीत्। अस्मिन् विद्यमानं क्वथनपेटकमासीत् विस्फोटितम्। देशीयदुरन्तसेनया रक्षाप्रवर्तनमारब्धम्। मृतानाम् आश्रितानां कृते लक्षद्वयरूप्यकाणां क्षतिसाहाय्यं मुख्यमन्त्रिणा योगि आदित्यनाथेन  प्रस्तुतम्।
जनप्रतिनिधयः अपराधी स्थानं भूत्वा १३००० न्यायव्यवहाराः। शीघ्रतर-न्यायालयाय निर्देशः।
                  नव-दिल्ली > जनप्रतिनिधयः अपराधी स्थाने भूत्वा त्रयोदशसहस्रं न्याय व्यवहाराः विविधन्यायालयेषु सन्ति। ईदृशव्यवहारेषु विलम्बं विना विधिप्रस्तावः अनिवार्यः अतः शीघ्रतर विशेषन्यायालयानां विन्यास: कर्तव्यः इति सर्वोच्च न्यायालयेन आदिष्टः।  ईदृश-व्यवहारेषु एकसंवत्सराभ्यन्तरेण निर्णयः प्रस्ताव्यः काल विलम्बः मा भवितव्यः इत्यपि न्यायालयेन निर्दिष्टः। महापराधित्व-व्यवहारे दण्डितानां सामाजिकानां निर्वाचने  स्पर्धितुं आजीवनं बाधा भवतु इति निर्वाचनाध्यक्षेण न्यवेदितम्। किन्तु विषयेस्मिन् केन्द्रसर्वकारेण अभिमतः न प्रकाशितः।  विशदानां क्रिया विधीनां मार्गरेखा दिसम्बर त्रयोदशदिनाभ्यन्तरेण समर्पणीया इति न्ययाधीशस्य रञ्जन् गोगोय् वर्यस्य आध्यक्षे आयोजितः नीतिपीठः आदिशत्।

Wednesday, November 1, 2017

कोच्ची मेट्रो योजनायै राष्ट्रियपुरस्कारः। 
नवदिल्ली > वरिष्ठानुबन्धगतागतश्रृङ्खलायाः समर्प्यमाणः राष्ट्रिय पुरस्कारः केरलस्य कोच्ची मेट्रो रेल्यानयोजनायै ।  मेट्रो यात्रामनुबन्ध्य बस् यानसेवनं, 'जल मेट्रो', त्रिचक्रिकासेवनानि इत्यादयः संयोज्य वरिष्ठं सामाजिकगतागतसंविधानस्य आयोजनायै एवायं पुरस्कारः। केन्द्रनगरविकसनमन्त्रालयेन आयोजितः अयं पुरस्कारः नवम्बर् षष्ठदिनाङ्के हैदराबादे उपराष्ट्रपतिना वैङ्कय्य नायिडुवर्येण सम्मानीयते।
      अस्मै पुरस्काराय ४६ नगराणि प्रतिस्पर्धितानि। राष्ट्रस्य नगरान्तराणां कोच्ची मेट्रो योजनायाः संयोजितसंचरणसुविधा आदर्शभूता भवतीति पुरस्कारनिर्णयसमित्या प्रकीर्तितम्।
‘मन की बात’ [37] “मनोगतम्” [37] (प्रसारण-तिथि: 29.10.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]
- बलदेवानन्द-सागरः
             मम प्रियाः देश-वासिनः ! नमस्कारः | दीपावल्याः षण्णां दिनानाम् अनन्तरम् आयोज्यमानं “महापर्व छठ”- इति अस्मदीय- देशे अतितरां निष्ठा-नियम-पुरस्सरं आयोज्यमानेषु पर्वसु अन्यतमं वर्तते, यस्मिन् पानाशनतः वेशभूषां यावत्, प्रत्येक-विषयेषु पारंपरिक-नियमाः अनुपाल्यन्ते | छठ-पूजायाः अनुपम-पर्व, प्रकृत्या प्रकृतेः उपासनया च पूर्णरूपेण सम्बद्धं वर्तते | एकतः आदिदेवः सूर्यः जलञ्च, छठ-महापर्वणः उपासनायाः केन्द्रीभूतौ विषयौ वर्तेते, अपरतश्च वेत्रेभ्यः मृत्तिकायाश्च निर्मितानि भाण्डानि कंदमूलानि च, अस्य पूजन-पद्धत्या संयुक्ताः अभिन्नाः सामग्र्यः सन्ति | आस्थायाः अस्मिन् महापर्वणि उदीयमानस्य सूर्यस्य उपासना, तथा च, अस्तंगम्यमानस्य सूर्यस्य पूजायाः सन्देशः अद्वितीय-संस्कारेण परिपूर्णोsस्ति | संसारोsयं उदीयमानान् सर्वदा पूजयति, किन्तु छठ-पूजा अस्मान् तेषामपि आराधनानुष्ठानार्थं संस्कारयति येषां अस्तंगमनं प्रायः सुनिश्चितम् |

            अस्माकं जीवने स्वच्छतायाः महत्वस्य अभिव्यक्तिः अपि अस्मिन् उत्सवे समाविष्टास्ति | छठ-पर्वणः प्राक्, संपूर्णस्य गृहस्य स्वच्छता, युगपदेव, नद्याः तडागस्य पल्वलस्य च तटेषु, पूजा-स्थलानाम् अर्थात् घट्टानामपि स्वच्छता, पूर्णोत्साहेन सर्वेsपि सम्भूय कुर्वन्ति | सूर्यस्य वंदना वा छठ-पूजा पर्यावरणसंरक्षण- स्य, रोगनिवारणस्य अनुशासनस्य च पर्व अस्ति यस्य उल्लेखः ऋग्वेदेsपि लभ्यते | ऋग्वेदे प्रोक्तम् –“सूर्य आत्मा जगतस्थुषश्च’‘ अर्थात् सूर्यः एव जगतः आत्मानं, शक्तिं चेतनाञ्च जागरयति |
             सामान्यरूपेण केचन जनाः याचयित्वा आदानं हि हीन-भावत्वेन परिगणयन्ति, परन्तु षष्ठी-पूजायां प्रातःकालिकस्य अर्घ्य-प्रदानस्य पश्चात् प्रसादं याचयित्वा अशनस्य एका विशिष्टा
केरळ संस्कृताध्यापक फेडरेषन् - राज्यसरीमेयलनं फेब्रुवरि मासे
                कासरगोड् > केरलीय संस्कृताध्यापक फेडरेषन् इति संस्थायाः राज्यस्तरीयं महा-मेलनम् आगामीवर्षस्य फेब्रुवरि मासे २२-२४ दिनाङ्केषु  कासरगोड् जनपदे आयोक्ष्यते। एतत्सम्मेलनम् अभिलक्ष्य स्वागतसंघस्य रूपवत्करणं सम्पन्नम्।  योगे∫स्मिन् रषीद् पूरणम् अध्यक्षभाषणमकरोत्। ऐ.वि. भट्टः योगस्य उद्घाटकः आसीत्। डा. के सुनिलकुमार्, के.के.गिरीषकुमार्, नीलमन शङ्करः, हरिकृष्णः, के.टि. मधु, के. कृष्णप्रसाद्, के गणेषकुमार्, इ.ए. अरुण् कुमार. के  च भाषणं कृतवन्तः।
केरलीयानां संस्कृताध्यापकानां प्रजातन्त्रेतरमण्डले प्रवर्तमाना [KSTF(D&P)] भवति इयम् समितिः इत्यस्ति अस्याः विशेषताI