OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 23, 2017

एष्याचषकहोक्की - किरीटं भारताय। 
         धाक्का > एष्यन् मण्डल यष्टिकन्दुकस्पर्धायां भारतदलाय किरीटप्राप्तिः। दशसंवत्सराणां विरामवेलायाः अनन्तरमेव भारतस्य किरीटप्राप्तिः। रविवासरे प्रवृत्तायामन्तिमस्पर्धायां भारतम् एकं प्रति लक्ष्यकन्दुकद्वयेन मलेष्यां पराजितवत्। 
      रमण् दीप् सिंहः, ललित् उपाध्यायः इत्येतौ भारताय लक्ष्यकन्दुकमाप्तवन्तौ। २००३ तथा २००७ संवत्सरे च भारतेन इतः पूर्वम्  एष्याचषकं प्राप्तम्।

Sunday, October 22, 2017

भारतीयस्य तिरोधानान्वेषणप्रसङ्गे  अपहृता पाक्-माध्यमप्रवर्तका अधिगता। 
                    लाहोर् > पञ्चसंवत्सरेभ्यः पूर्वं पाकिस्थाने अप्रत्यक्षं भारतीयमधिकृत्य अन्वेषणप्रसङ्गे अज्ञातैरपहृता पाकिस्थानीया वार्तामाध्यमप्रवर्तका सीनत् षह्सादिया नामिका वर्षद्वयानन्तरम् अधिगता । 'डय्ली नयी खबर्', 'मेट्रो न्यूस् टि वि' इत्येतयोः वार्तामाध्यमयोः लेखिका भूयमाना सीनत् वर्या, पाकिस्थान् अफ्गानिस्थान् सीमायां बन्धनस्था आसीदिति Enforced Disappearance Commission संस्थायाः अध्यक्षः जावेद् इक्बाल् निगदितवान्। कयाचित् देशविरुद्धसंस्थया एव सा अपहृतेति तेनोक्तम्। 
     २०१५ ओगस्ट् मासे स्वगृहात् कार्यालयं प्रति गमनमार्गे लाहोरतः आसीत् सीनत् षह्सादिया अपहृता। पाकिस्थाने तिरोभूतस्य भारतीययन्त्रकलाभिज्ञस्य हमीद् अन्सारि नामकस्य तिरोधानमधिकृत्य अन्वेषणमध्ये आसीदियं घटना। तिरोधानमन्वेष्व्यम् इति पाक् सर्वोच्चनीतिपीठस्य मानवाधिकारविभागे अन्सारिणः मात्रे फौसियायै सीनत् वर्यया अभियाचिका समर्पिता आसीत्। तदनन्तरमेव सा अपहृता।

Saturday, October 21, 2017

धूमयानेषु ओषजनसंभरणी स्थापनीया। 
              नवदेहली > सर्वेषु पट्टिकायानेषु ओषजनसंभरणीः  स्थापयितुं सर्वोच्चन्यायालयनिर्देशः I मुख्यन्यायाधीशस्य दीपक्मिश्रमहोदयस्य अध्यक्षत्वेन निश्चितेन संघेनैव एषः निर्देश: प्रस्तुतः आसीत्|  धूमयानेषु यात्रिकाणामकस्माद्रोगे जाते सति सपदि दीयमानां वैद्यसेवाम् अधिकृत्‍य AlMS वैद्यैः सह चर्चित्वा यथोचितकरणाय रेलविभागं न्यायालयः आदिशत् ।
धूमयानेषु आपातकालीनचिकित्सासुविधामाविष्कर्तुम् यद्यपि अयतन्त तथापि पूर्णरूपेण विजयं नालभन्त इति रेलविभागः न्यायालयम् उदबोधयत् । यानस्य कम्पनं, वेगता, शब्दः च अत्र विघ्नकारकाः आसन् । सर्वेषु यानेषु वैद्यनियोगः असाध्यः इति च रेलविभाग: न्यायालयम् उदबोधयत् ।
अस्मिन्नेव सन्दर्भे श्वासोच्छ्वासविघ्न इव आपत्कालीनसन्दर्भेषु उपयोक्तुं सर्वेषु धूमयानेषु ओषजनसंभरणीः स्थापयितुं न्यायालयः निर्दिशति स्म। यात्रिकाणां रोगबाधायां रेलविभागकर्मकराः आकस्मिकरोगावस्थां समीपस्थनिस्थानकाधिकरिणः विज्ञापयेयुः। अविलम्बेन चिकित्सालाभः कर्तव्य: च इति न्यायालयः अवदत् ।
प्रोफ.तुरवूर् विश्वंभरः दिवंगतः। 
                कोच्ची > प्रशस्तः वाग्मी तथा च  संस्कृतपण्डितः प्रोफ. तुरवूर् विश्वंभरः (७४) दिवंगतः। अर्बुदरोगबाधया कोच्चीस्थे निजीयातुरालये चिकित्सार्थं प्रवेशितः आसीत्। 
              भारतीयतत्वशास्त्रेषु वेदेतिहासपुराणादिषु अगाधपाण्डित्यमार्जितः सः एतेषां ग्रन्थानां ललितैः व्याख्यानैः केरलीयानां मध्ये श्रद्धेयः अभवत्।  कला-साहित्य-संस्कृति-तत्त्वचिन्तादिषु अनेकानि लेखनानि अनेन प्रकाशितानि सन्ति। मलयालं, संस्कृतं, आङ्गलेयभाषासु पाण्डित्यमवाप्तवान् सः ग्रीक् लाटिन् भाषयोरपि विज्ञः आसीत्।

Friday, October 20, 2017

एष्याचषकहोक्की - भारतम् अतिश्रेष्ठचतुष्टयव्भागे प्राप्तम्। 
              धाक्का > बङ्गलादेशे प्रवृत्तमानायाम् एष्याचषकयष्टिकन्दुकक्रीडायां भारतेन अतिश्रेष्ठचतुष्टविभागं (Super-4 round) प्राप्तम्। गतदिने संवृत्ते मत्सरे मलेष्याराष्ट्रं द्वयं प्रति षट् लक्ष्यकन्दुकानां विजयेनैव एतच्छ्रेष्ठपदं प्राप्तम्। 
              आकाश् दीपसिंहः , हर्मनप्रीत् सिंहः, एस् के उत्तप्पा, गुर्जन्त् सिंहः, एस् वि सुनिल्, सर्दार् सिंहः इत्येते भारताय लक्ष्यकन्दुकान् समार्जितवन्तः।
सुप्रधानां साङ्केतिक-विद्यां भारत-नाविकसेनायै दातुं यु एस् सन्नद्धः।
              वाषिङ्टण् >  विमानवाहिनी नौकासु उपयुज्यमाना 'इमाल्स्' नाम विद्युत्कान्तिक विद्या भारतनाविकसेनायै दातुं निश्चितम् इति यू एस् शासनसभया उक्तम्। यु एस् स्टेट् सेक्रट्टरि टिलेर्सणस्य भारतसन्दर्शनात् पूर्वप्रकरणरूपेण भवति अयं निश्चयः।
             इमाल्स् विद्यायाः हस्तान्तरीकरणम् अभिलष्य भारतेन भूतपूर्वराष्ट्रपतये ओबामावर्याय पत्रं प्रेषितम्। 'जनरल् आटोमिक् संस्थ'या रचिता इमाल्स् विद्या अधुनापि अमेरिकायाः विमानवाहिनीषु उपयुज्यते। विद्युत्कान्तिक-शक्तिमुपयुज्य विमानवाहिन्याः लघुधावन-पथादपि बृहदाकारकं युद्ध -विमानान्यपि विनाक्लेशं उड्डाययितुं शक्यते।  प्रावर्तयितुं सौविध्यम् , अनुरक्षणाय न्यूनव्ययः च अस्याः विशेषतासु प्रधाने भवतः। विनाविलम्बं नवदिल्यां कार्यालयः उद्घाटयिष्यति तदर्थं योजना प्रचाल्यते इति जनरल् आटोमिक् संस्थ'या उक्तम्।

Thursday, October 19, 2017

कोच्चीमध्ये अन्ताराष्ट्रीया आयुर्वेदसङ्गोष्ठी प्रदर्शनं च सञ्चाल्यते। 
                कोच्ची > केरलस्य आयुर्वेदमण्डलं लोकराष्ट्राणां पुरतः अवतारयितुं २०१८ फेब्रुवरिमासे अन्ताराष्ट्रसङ्गोष्ठी आयुर्वेदप्रदर्शनं च आयोजयिष्यतीति केरलस्य स्वास्थ्यमन्त्रिणी के के शैलजा अब्रवीत्। कोच्चीनगरे राष्ट्रियायुर्वेददिनाचरणस्य राज्यस्तरीयोद्घाटनं कुर्वन् भाषमाणा आसीत् सा। चतुर्दिवसीयसङ्गोष्ठी भविष्यति। 
                आयुर्वेदगवेषणं, चिकित्सा, रोगप्रतिरोधः, औषधनिर्माणं, औषधसस्यकृषिः, आयुर्वेदाध्ययनम् इत्यादिषु आयुवेदमण्डलेषु विदग्धाः च सङ्गोष्ठ्यां भागभागित्वं करिष्यन्ति।
रक्षासमित्यां स्थिराङ्गत्वम्; निर्णायकौ चैना रष्या च - यू एस्।। 
    वाषिङ्टण्> ऐक्यराष्ट्रसभाया: रक्षासमित्यां भारतं स्थिराङ्गं भवति इत्येतत् वीटो अधिकारस्य नोपयोगीकरणेन सह सम्बद्ध्येति यू एन्नस्य अमेरिकाप्रतिनिधि: नीकि हालि। वीटो अङ्गीकारयुते चैनां रष्यां च परामृश्य एव भारतस्य चिरकालावश्यम् पुरस्कृत्य नीकि प्रतिकरणम् अदात्। वाषिङ्टणे यू एस् - भारतसौहृदसमित्या आयोजिते कार्यक्रमे भाषमाण: आसीत् नीकि। रक्षासमित्या: प्रस्तुतघटनाम् परिष्कर्तुं विभिन्नमनोभावम् प्रदर्शयत: एते राष्ट्रे। वीटो अधिकारमुल्लङ्घ्य एव तिष्ठति ऐक्यराष्ट्ररक्षासमिति:।यू एस् ,यू के , फ्रान्स्, रष्या,चैना एतेषां स्थिराङ्गानां राष्ट्राणमेव वीटो अधिकार:। किन्तु अधिकारमेतम् उपेक्षितुं अङ्गानि सम्मतिं न दत्तवन्त:। रक्षासमितिविपुलीकरणाय अमरीका अनुकूला। किन्तु यू एस् कोण्ग्रस् मध्ये अधिकतया वक्तुं किमपि नास्तीत्यपि हालि: उक्तवान्।

Wednesday, October 18, 2017

निर्दिष्टगुणाभावः छात्राभावः - ८०० यन्त्रवैज्ञानिक-कलालयाः पिधास्यते ।
              बंगळूरु> आगामि शैक्षिकसंवत्सरे राष्ट्रे आहत्य अष्टशतम् (८००) यन्त्रवैज्ञानिक-कलालयाः पिधातुं राष्ट्रिय वैज्ञानिक-शैक्षिकायोगेन (AICTE) निर्दिष्टः। छात्राभावः, शिक्षायै मूल्यराहित्यम् च कारणत्वेन वदति। आयोगस्य अङ्कुशादेशः नियमावली च पालयितुम् असमर्थाः कलालयाधिकारिणः स्वयमेव पिधानं कुर्वन्ति च । ईदृशकारणेन पञ्चाशदधिकशतम् कला शालाः प्रतिसंवत्सरं पिधानं कुर्वन्तीति  आयोगाध्यक्षः अनिल् दत्तात्रेयसहस्रबुद्धे महोदयेन उक्तम्।

   अवशयसुविधा नास्ति, पञ्च वर्षाणि यावत् प्रतिशतं ३० छात्रान् अलभमानाः कलाशालाः पिधानं करणीयम् इत्येव आदेशः। २०१५-२०१७ संवत्सरेषु ४१० कलाशालाः पिधातुम् अनुज्ञा दत्ता आसीत् । पानठ्यप्रणाल्याः नूतनत्वं नास्तीति छात्राभावस्य कारणंम् इति मन्यते। शिक्षकेभ्यः परिशीलनं दत्वा गुणवर्धनं कर्तुं क्रिया विधयः स्वीकर्तुं आयोगेन निश्चितम् च।
मलिनीकरणस्य  उत्तुङ्गश्रृङ्गे दिल्ली।
           नवदिल्ली > अन्तरीक्ष-मलिनीकरणेन अतिगुरुतरायां विषमयायाम् अवस्थायां पतित्‍वा दिल्लीदेशः। द्रुतपरिहाराय सर्वकारः कटीबद्धाः अभवत्। दिनाभ्यन्तरेण यानानां स्थगननिस्थान-शुल्कः चतुर्गुणितः वर्धापयिष्यते। हेमन्तकालस्य मलिनी करणानुसारं क्रियाविधयः स्वीकर्तुं 'ग्रेडड् आक्षन् प्लान् स्थिरीकृता अस्ति।  इदानीं डीसल् वैद्युतोत्पादन यन्त्रम् निरुद्धम्।  बदर् पुरस्थ ताप वैद्युतनिलयः पिधानं कृतम्।  वायुशुद्धतायाः मानं दृष्टवा एव मलिनीकरणनियन्त्रणाधिकार संस्थया (EPCA) निर्णयः स्वीकृतः।  इतः आपद्करावस्थायां वायुः भविष्यति चेत् कार् यानस्यापि गृहात् बहिरानेतुं नियन्त्रणं भविष्यति। अस्मिन्नभ्यन्तरे शब्द-मलिनीकरणमपि न्यूनीकर्तुं क्रियाविधयः आरब्धः।  राज्यान्तर बस् याननिस्थानेषु होण् शब्दमुद्पादकेभ्यः पुलुत कूकू    रवेन यात्रिकान् आहूतेभ्यः यानस्य प्रबन्धकानां च ५००, १०० च दण्डयितुं निश्चितम्। एतदर्थम् आदेशः दिल्ली गतागतविभागेन (DTIDC) विज्ञापितः।
केरले राज्यतलविद्यालयीयकायिकमेला शुक्रवासरे आरभ्यते। 
           कोट्टयम् > केरलस्य एकषष्टितमा  राज्यतलविद्यालयीयकामेला शुक्रवासरे कोट्टयं जनपदे पालानगरे आरभ्यते। कायिकताराणां विभागनिर्णये समग्रं परिष्करणं अस्मात्संवत्सरादारभ्य प्रवृत्तम्। 
    पूर्वसंवत्सरेषु वयः अध्ययनस्तरश्च 'सीनियर्', 'जूनियर', 'सब्जूनियर्' विभागानां मानदण्डः आसीत्। परन्तु अस्मात्संवत्सरादारभ्य पूर्वोक्तविभागेषु केवलं वयः एव मानदण्डः कृतः। उपजिल्लातलादारभ्य परिष्कृतमानदण्डमनुसृत्य एवासीत् स्पर्धाः चालिताः। कायिकाध्यापकानां बहुकालं यावत् निवेदनमनुसृत्यैव इदं परिवर्तनम्।

Tuesday, October 17, 2017

मण्डलकालसिद्धताववोकनाय केरलमुख्यमन्त्री शबरिगिरिं प्राप्तवान्। 
शबरिगिरिः > मासैकानन्तरम् आरभ्यमाणस्य शबरिगिरितीर्थाटनस्य सिद्धताम् अवलोकयितुं केरलस्य मुख्यमन्त्री पिणरायी विजयः ह्यः रात्रौ सन्निधानं प्राप्तवान्। रात्रौ अष्टवादने पम्पां प्राप्तं मुख्यमन्त्रिणं देवस्वं मन्त्री कटकंपिल्ली सुरेन्द्रः, देवस्वं समित्यध्यक्षः प्रयार् गोपालकृष्णः इत्यादयः स्वीकृतवन्तः। अतिथिमन्दिरे किञ्चित्कालविश्रान्त्यनन्तरं 'स्वामि अय्यप्पन्' मार्गेण पद्भ्यामेव तस्य प्रथमं शबरिगिर्यारोहणं कृतवान्। एकादशवादने सन्निधानं प्राप्तः च।
     अद्य सम्पद्यमाने उपवेशने मन्त्रिणः उद्योगस्थाश्च मुख्यमन्त्रिणं प्रति तीर्थाटनकालसिद्धताः विशदीकरिष्यन्ति। तदनन्तरं सन्निधाने पम्पायां च आयोज्यमानानां विविधानां योजनानां आधारशिलास्थापनं निर्माणप्रवर्तनोद्घाटनं च मुख्यमन्त्री निर्वक्ष्यति।
बगलूरु नगरे मन्दिरं विच्छिन्नं भूत्वा षट् जनाः मृताः।

               बगलूरु>बगलूरु नगरे एल् पी जी ग्यास् स्फोटनेन द्वि स्तर मन्दिरं विच्छिन्नं जातम्। अद्य प्रातःसप्तवादने  दुर्घटना जाता।  मृतेषु द्वौ जनौ प्रत्यभिज्ञातौ। उपरि स्तरवासिनौ कलावतीं (६८) रविचन्द्रं(३०) च प्रत्यभिज्ञातौ। तेषां परिवारे द्वौ बालकौ क्षतैः सह रक्षां प्राप्तवन्तौ। अधस्तराः परिवाराः मन्दिरावशिष्टेषु भवन्तीति दुर्घटना क्षेत्रस्य सन्दर्शनं कृत्वा कर्णाटका गृहमन्त्रिणा रामलिंगरेट्टिना उक्तम्।

 मृतानां परिवाराय पञ्चलक्षं रूप्यकं आर्थिकसाहाय्यं दास्यतीति नगरविकासमन्त्रिणा के जे जोर्ज् म.होदयेन उक्तम्। क्षतबाधितानां कृते पञ्चाशत् सहस्ररूप्यकाणि च दास्यति। अन्येषां कृते अन्वेषणं प्रचलति। क्षतबाधिताः समीपस्थं आतुरालयं प्रविष्टाः।

Monday, October 16, 2017

सोमालियायां भीकराक्रमणं – मरणानि २३० जातानि।             
              मोगदिषु > सोमालियाराष्ट्रस्य राजधान्यां 'मोगदिषु' नामके नगरे दुरापादिते  विस्फोटने मृत्युमुपगतानां संख्या २३० जाता। ३०० तः अधिकाः जनाः व्रणिताः च। विस्फोटनाक्रमणस्य सूत्रधारित्वं अल् खायिदा संबन्धितायाः 'अल् षबाब्' नामिकायाः भीकरसंस्थायाः इति सोमालियन् सर्वकारेण आरोपितम्। किन्तु आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम्। नगरस्थं जनसम्मर्द्दभूतं आवाससमुच्चयं लक्ष्यीकृत्य आसीत् विस्फोटनम्। विस्फोटकवस्तुसम्पूर्णं ट्रक् यानं विस्फोटितमासीत्।
    सोमालियायां समीपकाले प्रवृत्तेषु स्फोटनेषु बृहत्तमं भवत्येतदिति अघिकृतैरुक्तम्। सर्वकारेण त्रिदिवसीयं औद्योगिकं दुःखाचरणं प्रख्यापितम्।
फिल्मनिर्माता लेखकटण्डन: पञ्चताङ्गत: 
             मुम्बै>फिल्मनिर्माता लेखकटण्डन: गतदिने मुम्बय्याम् अनारोग्यतावशात् पञ्चत्वे निलीन: । अष्टाशीतिवर्षीय: टण़्न: विगतपञ्चमासात् अस्वस्थ: आसीत् । तेन शारदा-प्रोफेसर-आम्रपाली-दुल्हन वही जो पिया मन भाये सदृशानां चलच्चित्राणां निर्देशनं कृतमासीत् । लेखकटण्डनेन " दिलदरिया अथ च फरमान" सन्निभा: प्रसारणधारावाहिका: अपि निर्मिता: आसन् । तस्यान्तिमसंस्कार: अद्य पवई क्षेत्रे सम्भविष्यति ।
स्वास्थ्यहानिकराणि ६००० औषधानि निरोधितानि।
         कोच्ची > कासः, ज्वरः मधुमेहः इत्यादीनां विविधानां रोगाणां चिकित्सार्थं सामान्यजनैः उपयुज्यमानानि षट्सहस्रं (६०००) औषधानि केन्द्र-स्वास्थ्य-मन्त्रालयेन निरुद्धानि। एतेषु चतु श्चत्वारिंशदधिक चतुस्सहस्रं (४४४) औषधसंयुक्तानि च अन्तर्भवन्ति। एतानि सम्युक्तानि उपयुज्य नूतनाया औषधनिर्माणं विक्रयणं च इतः परं न शक्यते। विगते वर्षे मार्च् मासस्य निरोधननान्तरं निरोधनं विरुध्य विविध उच्चन्यायालयेषु प्रचालिताः न्यायव्यवहाराः सर्वोच्च न्यायालयेन निवारिताः। अत एव पुनरपि औषध-नियन्त्रक-विभागस्य अन्तर्जाल पुटे विज्ञप्तिः प्रकाशिता अस्ति।

                 स्वास्थ्य-दोषकररीत्या एव निर्मातारः औषधनिर्माणं कुर्वन्ति इति एतदधिकृत्या अध्ययनं कृतवता समित्या  निरीक्षितम्। मधुमेहशान्तये उपयुज्यमानानि संयुक्तत्रयेण संकलितानि औषधानि स्वास्थ्यस्य दोषाय भवन्ति। उचन्यायालयस्य  'नियन्त्रण-निवारण'कालाभ्यन्तरेण  औषधानि सुलभाया विक्रीतानि इति अस्मिन् मण्डलस्थाः केचन प्रवर्तकाः वदन्ति।

Sunday, October 15, 2017

 छत्तीसगढराज्ये माओवादिभिरात्मसमर्पणं कृतम् 
छत्तीसगढ़े बस्तरसम्भागस्य नारायणपुरजनपदे नव माओवादिभि: आत्मसमर्पणं कृतम्। तैः निजायुधयानि  वरिष्ठाधिकारिभ्यः समर्पितानि ।एते माओवादिनः "प्रतिबन्धितस्य जनमिलिशियागुल्मस्य सदस्याः आसन्। सैन्याधिकारिभिः उक्तं यत् आत्मसमर्पणं कृतवद्भ्य: माओवादिभ्यः राज्यप्रशासनस्य पुनर्वासनीतेः अनुसारमावश्यकं सहाय्यं दीयते।
वेङ्ङरायां के एन् ए खादरः विजयीभूतः। 
वेङ्ङ्ररा > केरले वेङ्ङरा राज्यविधानसभायां प्रवृत्ते उपनिर्वाचने ऐक्यजनाधिपत्यदलस्य [यू डि एफ्] स्थानाशी के एन् ए खादरः विजयं प्राप्तवान्। मुख्यप्रतियोगिनः वामपक्षदलस्य [एल् डि एफ्] स्थानाशिनः पि पि बषीरात् २३३१० मताधिक्येन एव खादरस्य विजयः। मुस्लिम्लीग् दलस्य स्थानाशिनि के एन् ए खादरे ६५,२२७ मतदानानि प्राप्ते सति सि पि एम् दलस्य पि पि बषीरः ४१,९१७ मतदानानि प्राप्तवान्।  
   भा ज पा दलस्य के जनचन्द्रः ५७२८ मतानि प्राप्य चतुर्थस्थानमवाप्तवान्। तृतीयस्थानं एस् डि पि ऐ दलस्य के सि नसीरेण प्राप्तम्।