OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, October 17, 2017

मण्डलकालसिद्धताववोकनाय केरलमुख्यमन्त्री शबरिगिरिं प्राप्तवान्। 
शबरिगिरिः > मासैकानन्तरम् आरभ्यमाणस्य शबरिगिरितीर्थाटनस्य सिद्धताम् अवलोकयितुं केरलस्य मुख्यमन्त्री पिणरायी विजयः ह्यः रात्रौ सन्निधानं प्राप्तवान्। रात्रौ अष्टवादने पम्पां प्राप्तं मुख्यमन्त्रिणं देवस्वं मन्त्री कटकंपिल्ली सुरेन्द्रः, देवस्वं समित्यध्यक्षः प्रयार् गोपालकृष्णः इत्यादयः स्वीकृतवन्तः। अतिथिमन्दिरे किञ्चित्कालविश्रान्त्यनन्तरं 'स्वामि अय्यप्पन्' मार्गेण पद्भ्यामेव तस्य प्रथमं शबरिगिर्यारोहणं कृतवान्। एकादशवादने सन्निधानं प्राप्तः च।
     अद्य सम्पद्यमाने उपवेशने मन्त्रिणः उद्योगस्थाश्च मुख्यमन्त्रिणं प्रति तीर्थाटनकालसिद्धताः विशदीकरिष्यन्ति। तदनन्तरं सन्निधाने पम्पायां च आयोज्यमानानां विविधानां योजनानां आधारशिलास्थापनं निर्माणप्रवर्तनोद्घाटनं च मुख्यमन्त्री निर्वक्ष्यति।
बगलूरु नगरे मन्दिरं विच्छिन्नं भूत्वा षट् जनाः मृताः।

               बगलूरु>बगलूरु नगरे एल् पी जी ग्यास् स्फोटनेन द्वि स्तर मन्दिरं विच्छिन्नं जातम्। अद्य प्रातःसप्तवादने  दुर्घटना जाता।  मृतेषु द्वौ जनौ प्रत्यभिज्ञातौ। उपरि स्तरवासिनौ कलावतीं (६८) रविचन्द्रं(३०) च प्रत्यभिज्ञातौ। तेषां परिवारे द्वौ बालकौ क्षतैः सह रक्षां प्राप्तवन्तौ। अधस्तराः परिवाराः मन्दिरावशिष्टेषु भवन्तीति दुर्घटना क्षेत्रस्य सन्दर्शनं कृत्वा कर्णाटका गृहमन्त्रिणा रामलिंगरेट्टिना उक्तम्।

 मृतानां परिवाराय पञ्चलक्षं रूप्यकं आर्थिकसाहाय्यं दास्यतीति नगरविकासमन्त्रिणा के जे जोर्ज् म.होदयेन उक्तम्। क्षतबाधितानां कृते पञ्चाशत् सहस्ररूप्यकाणि च दास्यति। अन्येषां कृते अन्वेषणं प्रचलति। क्षतबाधिताः समीपस्थं आतुरालयं प्रविष्टाः।

Monday, October 16, 2017

सोमालियायां भीकराक्रमणं – मरणानि २३० जातानि।             
              मोगदिषु > सोमालियाराष्ट्रस्य राजधान्यां 'मोगदिषु' नामके नगरे दुरापादिते  विस्फोटने मृत्युमुपगतानां संख्या २३० जाता। ३०० तः अधिकाः जनाः व्रणिताः च। विस्फोटनाक्रमणस्य सूत्रधारित्वं अल् खायिदा संबन्धितायाः 'अल् षबाब्' नामिकायाः भीकरसंस्थायाः इति सोमालियन् सर्वकारेण आरोपितम्। किन्तु आक्रमणस्य उत्तरदायित्वं केनापि न स्वीकृतम्। नगरस्थं जनसम्मर्द्दभूतं आवाससमुच्चयं लक्ष्यीकृत्य आसीत् विस्फोटनम्। विस्फोटकवस्तुसम्पूर्णं ट्रक् यानं विस्फोटितमासीत्।
    सोमालियायां समीपकाले प्रवृत्तेषु स्फोटनेषु बृहत्तमं भवत्येतदिति अघिकृतैरुक्तम्। सर्वकारेण त्रिदिवसीयं औद्योगिकं दुःखाचरणं प्रख्यापितम्।
फिल्मनिर्माता लेखकटण्डन: पञ्चताङ्गत: 
             मुम्बै>फिल्मनिर्माता लेखकटण्डन: गतदिने मुम्बय्याम् अनारोग्यतावशात् पञ्चत्वे निलीन: । अष्टाशीतिवर्षीय: टण़्न: विगतपञ्चमासात् अस्वस्थ: आसीत् । तेन शारदा-प्रोफेसर-आम्रपाली-दुल्हन वही जो पिया मन भाये सदृशानां चलच्चित्राणां निर्देशनं कृतमासीत् । लेखकटण्डनेन " दिलदरिया अथ च फरमान" सन्निभा: प्रसारणधारावाहिका: अपि निर्मिता: आसन् । तस्यान्तिमसंस्कार: अद्य पवई क्षेत्रे सम्भविष्यति ।
स्वास्थ्यहानिकराणि ६००० औषधानि निरोधितानि।
         कोच्ची > कासः, ज्वरः मधुमेहः इत्यादीनां विविधानां रोगाणां चिकित्सार्थं सामान्यजनैः उपयुज्यमानानि षट्सहस्रं (६०००) औषधानि केन्द्र-स्वास्थ्य-मन्त्रालयेन निरुद्धानि। एतेषु चतु श्चत्वारिंशदधिक चतुस्सहस्रं (४४४) औषधसंयुक्तानि च अन्तर्भवन्ति। एतानि सम्युक्तानि उपयुज्य नूतनाया औषधनिर्माणं विक्रयणं च इतः परं न शक्यते। विगते वर्षे मार्च् मासस्य निरोधननान्तरं निरोधनं विरुध्य विविध उच्चन्यायालयेषु प्रचालिताः न्यायव्यवहाराः सर्वोच्च न्यायालयेन निवारिताः। अत एव पुनरपि औषध-नियन्त्रक-विभागस्य अन्तर्जाल पुटे विज्ञप्तिः प्रकाशिता अस्ति।

                 स्वास्थ्य-दोषकररीत्या एव निर्मातारः औषधनिर्माणं कुर्वन्ति इति एतदधिकृत्या अध्ययनं कृतवता समित्या  निरीक्षितम्। मधुमेहशान्तये उपयुज्यमानानि संयुक्तत्रयेण संकलितानि औषधानि स्वास्थ्यस्य दोषाय भवन्ति। उचन्यायालयस्य  'नियन्त्रण-निवारण'कालाभ्यन्तरेण  औषधानि सुलभाया विक्रीतानि इति अस्मिन् मण्डलस्थाः केचन प्रवर्तकाः वदन्ति।

Sunday, October 15, 2017

 छत्तीसगढराज्ये माओवादिभिरात्मसमर्पणं कृतम् 
छत्तीसगढ़े बस्तरसम्भागस्य नारायणपुरजनपदे नव माओवादिभि: आत्मसमर्पणं कृतम्। तैः निजायुधयानि  वरिष्ठाधिकारिभ्यः समर्पितानि ।एते माओवादिनः "प्रतिबन्धितस्य जनमिलिशियागुल्मस्य सदस्याः आसन्। सैन्याधिकारिभिः उक्तं यत् आत्मसमर्पणं कृतवद्भ्य: माओवादिभ्यः राज्यप्रशासनस्य पुनर्वासनीतेः अनुसारमावश्यकं सहाय्यं दीयते।
वेङ्ङरायां के एन् ए खादरः विजयीभूतः। 
वेङ्ङ्ररा > केरले वेङ्ङरा राज्यविधानसभायां प्रवृत्ते उपनिर्वाचने ऐक्यजनाधिपत्यदलस्य [यू डि एफ्] स्थानाशी के एन् ए खादरः विजयं प्राप्तवान्। मुख्यप्रतियोगिनः वामपक्षदलस्य [एल् डि एफ्] स्थानाशिनः पि पि बषीरात् २३३१० मताधिक्येन एव खादरस्य विजयः। मुस्लिम्लीग् दलस्य स्थानाशिनि के एन् ए खादरे ६५,२२७ मतदानानि प्राप्ते सति सि पि एम् दलस्य पि पि बषीरः ४१,९१७ मतदानानि प्राप्तवान्।  
   भा ज पा दलस्य के जनचन्द्रः ५७२८ मतानि प्राप्य चतुर्थस्थानमवाप्तवान्। तृतीयस्थानं एस् डि पि ऐ दलस्य के सि नसीरेण प्राप्तम्।
 हिमाचलप्रदेशविधानसभानिर्वाचनानि 
हिमाचलप्रदेश-विधानसभानिर्वाचनेभ्य: प्रत्याशिनाम् निर्णयाय भारतीयजनतापार्टीति दलस्य केन्द्रीय-निर्वाचनसमितेरुपवेशनं नवदिल्‍ल्यां दलस्य मुख्‍यालये समनुष्ठितम् । प्रधानमन्त्री नरेन्द्रमोदी दलाध्‍यक्ष: अमितशाह: केन्द्रीयमन्त्रिद्वयं जगतप्रकाशनड्डा अनन्तकुमारश्च उपवेशने भगग्रहणं कृतवन्त:। अष्टषष्टि:  सदस्‍यान्वितायै हिमाचलप्रदेशविधानसभायै नवम्बरमासस्य नवमे दिनाङ्के एकस्मिन् चरणे मतदानं भविष्यति  ।
गौरी लङ्केशहत्या – अपराधिनां रेखाचित्राणि बहिर्नीतानि। 
                 बङ्गलुरू > पत्रिकाप्रवर्तकायाः गौरी लङ्केशवर्यायाः हननविषये अपराधिन इति मन्वमानानां त्रयाणां रेखाचित्राणि अन्वेषणसङ्घेन बहिर्नीतानि। हत्यायाः  चत्वारिशत् दिनानाम् अनन्तरमेव चित्राणि प्रसिद्धीकृतानि। 
                 एतैः सह अपराधिषु अन्यतमः केनचन रक्तवर्णाङ्कितबैक्यानेन राजराजेश्वरीनगरस्थं गौरीलङ्केशस्य गृहं प्रति आगमनस्य चलनदृश्यमपि वार्तामाध्यमेभ्यः दत्तम्। अपराधिनाम् अभिग्रहणविषये सामान्यजनानां सम्पूर्णसहयोगः आवश्यक इति अन्वेषणसङ्घनेत्रा बि के सिंहवर्येण उक्तम्। 
    अक्रमिणः गौरीलङ्केशस्य भवनसमीपम् उषित्वा हननासूत्रणं कृतमिति मन्यते। किन्तु अपराधिनः अभिग्रहीतुं पर्याप्ताः सूचनाः न लब्धाः।

Saturday, October 14, 2017

एष्यन् क्रीडाचषकाय भारतेन योग्यता अवाप्ता। 
बङ्गुलुरु > भारतस्य पादकन्दुकमण्डलस्य पुरोगतिं सूचयन् ए एफ् सि एष्यन् चषकस्पर्धायाम् अर्हतां प्राप्तवत्। कण्ठीरवक्रीडाङ्कणे संवृत्तायां प्रतियोगितायां मक्कावु दलं एकं प्रति चत्वारः लक्ष्यकन्दुकाः प्राप्य एव भारतस्य अर्हतां प्राप्तवत्। ।

Friday, October 13, 2017

अमेरिकाराष्ट्रं युनस्को (UNESCO) नाम संयुक्त राष्ट्रसंस्थातः बहिर्गच्छति।
                   युनस्को ( United Nations Educational scientific and cultural organisations) नाम संस्थातः प्रतिनिवर्तितुं निरचिनोत्‌। इस्रायेल् राष्ट्रं विरुद्ध्य युनस्को तिष्टति इति उक्त्वा एव संस्थातः निर्गमनम्। यु एस् विदेश कार्यमन्त्रालयः एव  वार्तामिमां प्राकाशयत्‌। युनस्को संस्थां प्रति दीयमानम् आर्थिकसाहाय्यम् एकादशाधिक द्विसहस्रतमात् (२०११) संवत्सरादारभ्य अमेरिकया निवारितम्। पालस्तीनस्य  अनुकूलतया सदस्यराजैः अभिमत प्रदर्शनानन्तरमेव आसीत् एवं निर्णयः स्वीकृतः । इस्रयेल् नेतारं विरुद्ध्य सम्युक्तेङ्गितपत्रसमर्पणानन्तरं युनस्को समितिभ्यः इस्रयेलः स्वयं परित्यज्य बहिर्गतः आसीत्। युनस्कोसमित्याम् पालस्तीनस्य अङ्गत्वलब्ध्यनन्तरं सञ्जातः अमेरिकायाः  रोषः एव संवत्सरानन्तरं समितेः परित्यागपर्यन्तं प्रापयत्। इस्रयेलस्य विप्रतिपत्तिं विगणय्य आसीत् पालस्तीनस्य युनस्को प्रवेशः।

यु.एस् राष्ट्रेण द्वयोः बोम्बर् विमानयोः निरीक्षणकरोत्। 
                  वाषिङ्टण्> यु एस् व्योमसेनायाः बि १ बि बोम्बर विमानानि कोरिय सीमाप्रान्ते दृष्टानि। पश्चात् ते जप्पान् दक्षिण कोरिय व्योमसैनिकैः सह परिशीलनमपि अकुर्वन् ।
                  एतदभ्यन्तरे डोणाल्ड् ड्रम्पः उन्नत-सैनिकोपदेशकैः सह चर्चाम् अकरोत्।  वैटट्हौस् कार्यालये प्रवृत्तायाम्  चर्चायां  प्रतिरोध-कार्यदर्शी जयिंस् माट्टीसः, संयुक्त सैनिकाध्यक्षः डण्फास्ट च आसन् । फब्रुवरी अनन्तरं २२ मिसैल्स उत्तर कोरियदेशेन परीक्षितम्। दौ ज़प्पानस्य परिधाै आसीत् । अत्र हैट्रजन् विस्फोटकम् अपि अन्तर्भवति । ६ वारम् परीक्षणमासीत् । एते सर्वे विषया: ट्रम्पमहाशयस्य सान्निध्ये चर्चामकुर्वन् ।

Thursday, October 12, 2017

विदेशेषु भारतीयानां विजस्य कारणम् 
लघुतरा शिखावृद्धिः - वि के सिंहः।
               मुम्बै> विदेशराष्ट्रेषु कर्मकुर्वन्तं भारतीयानां विजयः तत्र ऋणधनस्य न्यूनतरा शिखावृद्धिः भवति इत्यनेनैव इति भारतविदेशकार्यसहमन्त्री वि के सिंहः अवदत्। मुद्रा ( Micro Units Development and Refinance Agency )  नाम योजनायाः अनुबन्धेन आयोजितायां आर्थिक संरम्भकानां मेलने भाषमाणः आसीत् सः। विदेशस्थाः भारतीयाः उत्तमरीत्या प्रयत्नं कुर्वन्तः सन्ति। एतस्य कारणं ललितमेव। तेषां आशयान् अवकाशान् च फलवद्रूपेण चालयितुं पर्याप्तं आर्थिक साहाय्यं ततः लभते। शिखावृद्धिरपि न्यूना भवति इत्यपि सिंहेन प्रोक्तम्।

दुबाय् 'समर्थः' भविष्यति असमर्थाः बहिर्गन्तव्यम्।

             दुबाय् > दुबयदेशस्य सर्वकारसेवनानि सर्वाणि अत्याधुनिके संविधाने परिवर्तते इत्यस्मात् संगणकापणनि सर्वाणि कीलितानि भविष्यन्ति इत्याशाङ्का I नवम्बरमासादारभ्य गृह - कौटम्बिक विसा आपि ऑणलैन मार्गेण भविष्यति ।
            विश्वस्य 'स्मार्ट्' नगररूपेण दुबाय् नगरस्य परिवर्तनाय तीव्रयत्नः प्रचलति। अतः एषा आशङका अस्थाने न स्यात्। किन्तु बहूनां सामान्य कर्मकराणां तु  उद्योगनष्ट-विषये महती आशङ्का।
पूर्वं एमिरेट्स् अभिज्ञानपत्राणां स्वास्थ्यक्षमतापत्राणां च आवेदनपत्रग्रहणम् बृहत् सङ्गणकापणं प्रति परिवर्तितमासीत्I बृहदापणाय १५०० पादपरिमिता विस्तृता भूमिः आवश्यकी इत्यस्ति मानदण्डः। एषः नियमः अपि उद्योगनष्टाय भविष्यति। भारतीयाः बहवः तत्र कर्मकराः भवन्ति च।
आर्थिकमान्द्यम् अङ्गीकृत्य उपदेशकसमितिश्च। 
               नवदिल्ली > भारतम् आर्थिकमान्द्यग्रहणे इत्यङ्गीकृत्य प्रधानमन्त्रिणः आर्थिकोपदेशकार्यसमितिः। बुधवासरे सम्पन्ने उपदेशकसमित्याः प्रथमे उपवेशने एवायं निर्णयः जातः। आर्थिकमण्डलमभिवर्धयितुं दश मण्डलानि निर्णीतानीति उपदेशकसमित्यध्यक्षः बिबेक् देब्रोयी वर्यः वार्ताहरसम्मेलने अब्रवीत्।
भारतसीमायाः समीपे पाक्किस्थानस्य अण्वायुधसञ्चयः।
               नवदेहली> भारतसीमायाः समीपे पाक्किस्थानस्य अण्वायुधसञ्चयनाय गह्वराणि निर्मीयन्ते इति संस्तुतिः। दिल्लीतः ७५० कि.मी दूरे मियान्वाली मध्ये पाक्किस्थानेन गह्वराणि निर्मीयन्ते। अमृतसरतः मियान्वाली पर्यन्तं केवलं ३५० कि. मी दूरमेव वर्तते। 
 मियान्वाली मध्ये १४० अणुशस्त्राणि सञ्चयितुमस्ति पाक्किस्थानस्य पद्धतिः। तदर्थं दशमीट्टर उन्नतानि तथा दशमीट्टर विस्तृतानि च गह्वराणि पाक्किस्थानेन निर्मीयन्ते । एतानि बृहद्भिः वीथीभिः सुघटितानि सन्ति। 
                 प्रति गह्वरस्स विशेषतया द्वाराणि सन्ति। प्रतिगह्वरे द्वादशतः चतुर्विंशतिपर्यन्तं शस्त्राणि सञ्चयितुं शक्यते इति अस्ति रहस्या वार्ता।

Wednesday, October 11, 2017

उत्तरकोरियराष्ट्रस्य अन्तर्जालचोरेण दक्षिणकोरियस्य युद्धतन्त्राणि चोरितानि।
           सोल्> दक्षिण कोरिय राष्ट्रस्य तन्त्रप्रधान - युद्धतन्त्राणि उत्तरकोरिय राष्ट्रेण चोरितानि । तेषां प्रतिरोध श्रृङ्खलां प्रविश्य एवम् अकरोत्। सेप्तमबर् मासे दक्षिण-कोरिय-देशस्य जालपुटं प्रविश्य एवं चोरणम् अकरोत् इति। तस्य राष्ट्रस्य डमोक्राट्टिक् संस्थायाः नेता री चोल् हि अकथयत्। 235 जिगाबैट् परिमिताः सञ्चिकाः तैः  अपहृता। ताः सञ्चिकाः ओपरेषन् प्लान्  5015 इति नाम्ना सूचिताः भवन्ति।  कोरियराष्ट्रयोः मध्ये युद्धं भविष्यति तर्हि कथं कार्याणि अग्रे नेतव्यम् उत्तरकोरियस्य अध्यक्षं केन प्रकारेण मारणीयमिति पद्धत्यां विशदयति।
गुर्जरे महाराष्ट्रे हिमाचले च इन्धनकरः न्यूनीकृतः।
                      अहम्मदाबादः>  शिलातैलानां करः न्यूनीकरणीयम् इति केन्द्र सर्वकास्य निर्देशानुसारं गुर्जरः महाराष्ट्रं हिमाचलप्रदेशः च करः न्यूनीकृतः। करस्य न्यूनीकरणे गुर्जरः प्रथमतया निश्चितवान् I  महाराष्ट्रराज्येन सह हिमाचलप्रदेशः च करन्यूनीकरणे केन्द्रसर्वकारस्य निर्देशां पालितवान्। करन्यूनीकरणेन राज्यसर्वकारस्य 2,316 कोटि रुप्यकाणां अयनष्टः भविष्यति इति मुख्यमन्त्रिणा विजयरूपाण्या उक्तम्। महाराष्ट्र राज्यस्य आये तु 2,600 कोटि रुप्यकाणां नष्टः भविष्यति इति मुख्यमन्त्रिणा देवेन्द्रफट्नाविसा उक्तम्।
शिलातैल मूल्यम् - गुर्जरे
 पेट्रोल् लिट्टर्-  2.93 , डीसल् 2.72