OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, October 15, 2017

 हिमाचलप्रदेशविधानसभानिर्वाचनानि 
हिमाचलप्रदेश-विधानसभानिर्वाचनेभ्य: प्रत्याशिनाम् निर्णयाय भारतीयजनतापार्टीति दलस्य केन्द्रीय-निर्वाचनसमितेरुपवेशनं नवदिल्‍ल्यां दलस्य मुख्‍यालये समनुष्ठितम् । प्रधानमन्त्री नरेन्द्रमोदी दलाध्‍यक्ष: अमितशाह: केन्द्रीयमन्त्रिद्वयं जगतप्रकाशनड्डा अनन्तकुमारश्च उपवेशने भगग्रहणं कृतवन्त:। अष्टषष्टि:  सदस्‍यान्वितायै हिमाचलप्रदेशविधानसभायै नवम्बरमासस्य नवमे दिनाङ्के एकस्मिन् चरणे मतदानं भविष्यति  ।
गौरी लङ्केशहत्या – अपराधिनां रेखाचित्राणि बहिर्नीतानि। 
                 बङ्गलुरू > पत्रिकाप्रवर्तकायाः गौरी लङ्केशवर्यायाः हननविषये अपराधिन इति मन्वमानानां त्रयाणां रेखाचित्राणि अन्वेषणसङ्घेन बहिर्नीतानि। हत्यायाः  चत्वारिशत् दिनानाम् अनन्तरमेव चित्राणि प्रसिद्धीकृतानि। 
                 एतैः सह अपराधिषु अन्यतमः केनचन रक्तवर्णाङ्कितबैक्यानेन राजराजेश्वरीनगरस्थं गौरीलङ्केशस्य गृहं प्रति आगमनस्य चलनदृश्यमपि वार्तामाध्यमेभ्यः दत्तम्। अपराधिनाम् अभिग्रहणविषये सामान्यजनानां सम्पूर्णसहयोगः आवश्यक इति अन्वेषणसङ्घनेत्रा बि के सिंहवर्येण उक्तम्। 
    अक्रमिणः गौरीलङ्केशस्य भवनसमीपम् उषित्वा हननासूत्रणं कृतमिति मन्यते। किन्तु अपराधिनः अभिग्रहीतुं पर्याप्ताः सूचनाः न लब्धाः।

Saturday, October 14, 2017

एष्यन् क्रीडाचषकाय भारतेन योग्यता अवाप्ता। 
बङ्गुलुरु > भारतस्य पादकन्दुकमण्डलस्य पुरोगतिं सूचयन् ए एफ् सि एष्यन् चषकस्पर्धायाम् अर्हतां प्राप्तवत्। कण्ठीरवक्रीडाङ्कणे संवृत्तायां प्रतियोगितायां मक्कावु दलं एकं प्रति चत्वारः लक्ष्यकन्दुकाः प्राप्य एव भारतस्य अर्हतां प्राप्तवत्। ।

Friday, October 13, 2017

अमेरिकाराष्ट्रं युनस्को (UNESCO) नाम संयुक्त राष्ट्रसंस्थातः बहिर्गच्छति।
                   युनस्को ( United Nations Educational scientific and cultural organisations) नाम संस्थातः प्रतिनिवर्तितुं निरचिनोत्‌। इस्रायेल् राष्ट्रं विरुद्ध्य युनस्को तिष्टति इति उक्त्वा एव संस्थातः निर्गमनम्। यु एस् विदेश कार्यमन्त्रालयः एव  वार्तामिमां प्राकाशयत्‌। युनस्को संस्थां प्रति दीयमानम् आर्थिकसाहाय्यम् एकादशाधिक द्विसहस्रतमात् (२०११) संवत्सरादारभ्य अमेरिकया निवारितम्। पालस्तीनस्य  अनुकूलतया सदस्यराजैः अभिमत प्रदर्शनानन्तरमेव आसीत् एवं निर्णयः स्वीकृतः । इस्रयेल् नेतारं विरुद्ध्य सम्युक्तेङ्गितपत्रसमर्पणानन्तरं युनस्को समितिभ्यः इस्रयेलः स्वयं परित्यज्य बहिर्गतः आसीत्। युनस्कोसमित्याम् पालस्तीनस्य अङ्गत्वलब्ध्यनन्तरं सञ्जातः अमेरिकायाः  रोषः एव संवत्सरानन्तरं समितेः परित्यागपर्यन्तं प्रापयत्। इस्रयेलस्य विप्रतिपत्तिं विगणय्य आसीत् पालस्तीनस्य युनस्को प्रवेशः।

यु.एस् राष्ट्रेण द्वयोः बोम्बर् विमानयोः निरीक्षणकरोत्। 
                  वाषिङ्टण्> यु एस् व्योमसेनायाः बि १ बि बोम्बर विमानानि कोरिय सीमाप्रान्ते दृष्टानि। पश्चात् ते जप्पान् दक्षिण कोरिय व्योमसैनिकैः सह परिशीलनमपि अकुर्वन् ।
                  एतदभ्यन्तरे डोणाल्ड् ड्रम्पः उन्नत-सैनिकोपदेशकैः सह चर्चाम् अकरोत्।  वैटट्हौस् कार्यालये प्रवृत्तायाम्  चर्चायां  प्रतिरोध-कार्यदर्शी जयिंस् माट्टीसः, संयुक्त सैनिकाध्यक्षः डण्फास्ट च आसन् । फब्रुवरी अनन्तरं २२ मिसैल्स उत्तर कोरियदेशेन परीक्षितम्। दौ ज़प्पानस्य परिधाै आसीत् । अत्र हैट्रजन् विस्फोटकम् अपि अन्तर्भवति । ६ वारम् परीक्षणमासीत् । एते सर्वे विषया: ट्रम्पमहाशयस्य सान्निध्ये चर्चामकुर्वन् ।

Thursday, October 12, 2017

विदेशेषु भारतीयानां विजस्य कारणम् 
लघुतरा शिखावृद्धिः - वि के सिंहः।
               मुम्बै> विदेशराष्ट्रेषु कर्मकुर्वन्तं भारतीयानां विजयः तत्र ऋणधनस्य न्यूनतरा शिखावृद्धिः भवति इत्यनेनैव इति भारतविदेशकार्यसहमन्त्री वि के सिंहः अवदत्। मुद्रा ( Micro Units Development and Refinance Agency )  नाम योजनायाः अनुबन्धेन आयोजितायां आर्थिक संरम्भकानां मेलने भाषमाणः आसीत् सः। विदेशस्थाः भारतीयाः उत्तमरीत्या प्रयत्नं कुर्वन्तः सन्ति। एतस्य कारणं ललितमेव। तेषां आशयान् अवकाशान् च फलवद्रूपेण चालयितुं पर्याप्तं आर्थिक साहाय्यं ततः लभते। शिखावृद्धिरपि न्यूना भवति इत्यपि सिंहेन प्रोक्तम्।

दुबाय् 'समर्थः' भविष्यति असमर्थाः बहिर्गन्तव्यम्।

             दुबाय् > दुबयदेशस्य सर्वकारसेवनानि सर्वाणि अत्याधुनिके संविधाने परिवर्तते इत्यस्मात् संगणकापणनि सर्वाणि कीलितानि भविष्यन्ति इत्याशाङ्का I नवम्बरमासादारभ्य गृह - कौटम्बिक विसा आपि ऑणलैन मार्गेण भविष्यति ।
            विश्वस्य 'स्मार्ट्' नगररूपेण दुबाय् नगरस्य परिवर्तनाय तीव्रयत्नः प्रचलति। अतः एषा आशङका अस्थाने न स्यात्। किन्तु बहूनां सामान्य कर्मकराणां तु  उद्योगनष्ट-विषये महती आशङ्का।
पूर्वं एमिरेट्स् अभिज्ञानपत्राणां स्वास्थ्यक्षमतापत्राणां च आवेदनपत्रग्रहणम् बृहत् सङ्गणकापणं प्रति परिवर्तितमासीत्I बृहदापणाय १५०० पादपरिमिता विस्तृता भूमिः आवश्यकी इत्यस्ति मानदण्डः। एषः नियमः अपि उद्योगनष्टाय भविष्यति। भारतीयाः बहवः तत्र कर्मकराः भवन्ति च।
आर्थिकमान्द्यम् अङ्गीकृत्य उपदेशकसमितिश्च। 
               नवदिल्ली > भारतम् आर्थिकमान्द्यग्रहणे इत्यङ्गीकृत्य प्रधानमन्त्रिणः आर्थिकोपदेशकार्यसमितिः। बुधवासरे सम्पन्ने उपदेशकसमित्याः प्रथमे उपवेशने एवायं निर्णयः जातः। आर्थिकमण्डलमभिवर्धयितुं दश मण्डलानि निर्णीतानीति उपदेशकसमित्यध्यक्षः बिबेक् देब्रोयी वर्यः वार्ताहरसम्मेलने अब्रवीत्।
भारतसीमायाः समीपे पाक्किस्थानस्य अण्वायुधसञ्चयः।
               नवदेहली> भारतसीमायाः समीपे पाक्किस्थानस्य अण्वायुधसञ्चयनाय गह्वराणि निर्मीयन्ते इति संस्तुतिः। दिल्लीतः ७५० कि.मी दूरे मियान्वाली मध्ये पाक्किस्थानेन गह्वराणि निर्मीयन्ते। अमृतसरतः मियान्वाली पर्यन्तं केवलं ३५० कि. मी दूरमेव वर्तते। 
 मियान्वाली मध्ये १४० अणुशस्त्राणि सञ्चयितुमस्ति पाक्किस्थानस्य पद्धतिः। तदर्थं दशमीट्टर उन्नतानि तथा दशमीट्टर विस्तृतानि च गह्वराणि पाक्किस्थानेन निर्मीयन्ते । एतानि बृहद्भिः वीथीभिः सुघटितानि सन्ति। 
                 प्रति गह्वरस्स विशेषतया द्वाराणि सन्ति। प्रतिगह्वरे द्वादशतः चतुर्विंशतिपर्यन्तं शस्त्राणि सञ्चयितुं शक्यते इति अस्ति रहस्या वार्ता।

Wednesday, October 11, 2017

उत्तरकोरियराष्ट्रस्य अन्तर्जालचोरेण दक्षिणकोरियस्य युद्धतन्त्राणि चोरितानि।
           सोल्> दक्षिण कोरिय राष्ट्रस्य तन्त्रप्रधान - युद्धतन्त्राणि उत्तरकोरिय राष्ट्रेण चोरितानि । तेषां प्रतिरोध श्रृङ्खलां प्रविश्य एवम् अकरोत्। सेप्तमबर् मासे दक्षिण-कोरिय-देशस्य जालपुटं प्रविश्य एवं चोरणम् अकरोत् इति। तस्य राष्ट्रस्य डमोक्राट्टिक् संस्थायाः नेता री चोल् हि अकथयत्। 235 जिगाबैट् परिमिताः सञ्चिकाः तैः  अपहृता। ताः सञ्चिकाः ओपरेषन् प्लान्  5015 इति नाम्ना सूचिताः भवन्ति।  कोरियराष्ट्रयोः मध्ये युद्धं भविष्यति तर्हि कथं कार्याणि अग्रे नेतव्यम् उत्तरकोरियस्य अध्यक्षं केन प्रकारेण मारणीयमिति पद्धत्यां विशदयति।
गुर्जरे महाराष्ट्रे हिमाचले च इन्धनकरः न्यूनीकृतः।
                      अहम्मदाबादः>  शिलातैलानां करः न्यूनीकरणीयम् इति केन्द्र सर्वकास्य निर्देशानुसारं गुर्जरः महाराष्ट्रं हिमाचलप्रदेशः च करः न्यूनीकृतः। करस्य न्यूनीकरणे गुर्जरः प्रथमतया निश्चितवान् I  महाराष्ट्रराज्येन सह हिमाचलप्रदेशः च करन्यूनीकरणे केन्द्रसर्वकारस्य निर्देशां पालितवान्। करन्यूनीकरणेन राज्यसर्वकारस्य 2,316 कोटि रुप्यकाणां अयनष्टः भविष्यति इति मुख्यमन्त्रिणा विजयरूपाण्या उक्तम्। महाराष्ट्र राज्यस्य आये तु 2,600 कोटि रुप्यकाणां नष्टः भविष्यति इति मुख्यमन्त्रिणा देवेन्द्रफट्नाविसा उक्तम्।
शिलातैल मूल्यम् - गुर्जरे
 पेट्रोल् लिट्टर्-  2.93 , डीसल् 2.72
द्वितीय ट्वण्टी २० आस्ट्रेलिया राष्ट्रस्य अष्ट विक्कट् विजयम्। हेण्टिक्वसाय अर्धशतम्।
             गुहावत्ती>भारत आस्ट्रेलिया द्वितीय ट्वण्टी २० स्पर्धायां भारतं प्रति आस्ट्रेलिया राष्ट्रस्य अष्ट विक्कट् विजयम्। विजयप्रतीक्षायां क्रीडितस्य आस्ट्रेलियायाः केवलं आरोण् फिञ्जस्य तथा डेविड् वार्णस्य च विक्कट् नष्टौ जातौ। ६२ धावनेन सह मोयिसस् हेण्डिक्वस् तथा ४८ धावनेन सह ड्राविस् हेड् च आस्ट्रेलियां विजयं नीतवन्तौ। द्वौ मिलित्वा १५.३ ओवर मध्ये विजयं प्राप्तवन्तौ।
  पूर्वं भारतस्य क्रीडा ११८ धावने समापितमासीत्। भारत बाट्टिड् श्रेण्यां केदार जादव्, एम् एस् धोणी, हार्दिक् पाण्ड्या, कुल्दीप् यादव् इत्येते अड्कद्वयं प्राप्तवन्तः।
वेङ्ङरायाम् अद्य उपनिर्वाचनम्। 
मलप्पुरम् > केरले वेङ्ङरा विधानसभामण्डले अद्य उपनिर्वाचनं भविष्यति। त्रयः मुख्यधारादलस्थानाशिनः अभिव्याप्य षट् स्थानाशिनः प्रतियोगितामण्डले जनमतं अभिवाञ्छन्तः सन्ति। 
     के एन् ए खादरः [यूडिएफ्], पि पि बषीरः [एल् डि एफ्], के जनचन्द्रः [भाजपा] इत्येते प्रमुखदलस्थानाशिनः। वामदलसर्वकारस्य अधिकारप्राप्त्यनन्तरं प्रवृत्तमानं प्रथमम् उपनिर्वाचनं भवत्येतत्। तत्रत्यः सामाजिकः पि के कुञ्ञालिक्कुट्टिः लोकसभासामाजिकरूपेण चितः इत्यतः उपनिर्वाचनं सञ्जातम्।
गोध्रा गणहत्या - मृत्युदण्डं जीवपर्यन्तं कृतम्। 
अहम्मदाबाद् > गुजरातराज्ये गोध्रा गणहत्याप्रकरणे एकादशानाम् अपराधिनां मृत्युदण्डनविधिः उच्चन्यायालयेन जीवपर्यन्तरूपेण परिवर्तितः। २००२तमे संवत्सरे अयोध्यातः रेल् यानेन प्रतिनिवर्तितवन्तः कर्सेवकाः आक्रमणविधेयाः भूत्वा अग्निना दग्धाः इत्यस्मिन् प्रकरणे एवायं परिष्कृतविधिः। 
    २०१५ मेय्मासे एव वादप्रकरणः पूर्तीकृतः तथापि सार्धद्विसंवत्सरात्परमेव विधिः समागतः।

Tuesday, October 10, 2017

गोश्रीपुरे स्पानिष् 'गोल्' 
प्रथमपादे कन्दुकत्रयात् पुरतः।

कोच्ची> बार्सलोण आक्कादमीतः चत्वार: रयल् मड्रिड्तः पञ्च क्रीडकाः आसन् चेदपि प्रथमक्रीडायां विवर्णाः अभवन् स्पेयिन् देशस्थाः। मङ्गलवारस्य स्पर्धा तेषां भाविनिर्णयाय भविष्यति। अतः प़राजयः इति चिन्तयतुम् अशक्ताः ते। प्रथम क्रीडायाम् उत्तरकोरियां पराजित्य तिष्ठति नैजीरिय । तेषां कृते अपि भाविनिर्णयात्मकं भवति अनन्तरक्रीडा । स्पर्धा ब्रसीलेन सह इत्यनेन मङ्गलवासरस्य स्पर्धायां विजित्य पूर्वपादक्रीडायां स्थानप्राप्तिः एव तेषां लक्ष्यम्।
कोङ्गोदेशे भारतस्य शान्तिसेनायाः सैनिकस्थानं प्रति आक्रमणम्।
नवदेहली> ऐक्यराष्ट्र सभायाः शान्ति दौत्यस्य भागतया कोंको देशे सेवनं कुर्वाणः भारतीयानां प्रति गोलिका प्रहारः उत्तर किवु प्रविश्यायाः लुबोरोय् प्रदेशतः एव आक्रमणम्। विगते शुक्रवासरे एव घटना जाता। वार्ताविनिमय संस्थया ए एफ् पि एव वार्ता आवेदिता। द्वाै सैनिकाै व्रणितौI भारतसैन्यस्य प्रत्याक्रमणेन द्वौ आक्रमकारिणौ हतौ। ऐक्यराष्ट्रसंस्थायाः शान्तिदौत्यस्य अनुबन्धतया २६६४ भारतसैनिकाः कोङ्गोयां सन्ति। तद्देशीयसासुध-संघस्य मायिमायि नामकस्य उपत्रिंशत् अङ्गाः शान्तिसेनां विरुद्ध्य प्रक्रमे भागभाजः अभवन्।
अशान्तिबाधितमण्डलेषु सामान्यजनानां सुरक्षाकार्येषु, विरुद्ध दलानाम् उपरि प्रतिक्रियायै च साहाय्यः भारत सैनिकैः कोंगोदेशो क्रियते। कोंगोदेशास्य पूर्वदेशप्रविश्यायां सङ्घर्षः वर्धितः अस्ति।
 सुरक्षाबलेन जैश-ए-मोहम्‍मद इत्यातंकिगुल्मस्य प्रमुखः उमरखालिदः मारितः 
              बारमूला>जम्‍मूकश्‍मीरस्य बारामूला जनपदस्य लडूरा क्षेत्रे गतदिने सुरक्षाबलानां संयुक्तदलेन जैश-ए-मोहम्‍मद इत्यातंकिगुल्मस्य प्रमुखः उमरखालिदः मारितः । जम्‍मूकश्‍मीरस्य आरक्षिमहानिदेशकेन एस्.पी.वैद्येन आतंकवादिनः मृत्युः सुरक्षाबलानां साफल्यत्वेन वर्णितः। तेनोदीरितं यत् असौ कश्‍मीरस्य उत्तरक्षेत्रे सुुरक्षाबलानां स्थात्रेषु आक्रमणे अथ च आरक्षकेषु आक्रमणविधाने सम्मिलितः आसीत् ।
            अवधैयमस्ति यत् आतंकवादी उमरखालिदः पाकिस्तानीयः नागरिकः आसीत् विगत वर्षत्रयेभ्यः च तस्मिन् क्षेत्रे सक्रियः आसीत् ।

Monday, October 9, 2017

नमस्ते शब्दं पाठयित्वा चीनदेशस्य सैनिकानां सौहृदं सम्पादितवती निर्मला सीताराम महाभगा।
          डाङटोक्>चीनदेशास्य सैनिकानाम् पुरतः 'नमस्ते' उक्त्वा, तस्य शब्दस्य अर्थं  च पाठयित्वा प्रतिरोधमन्त्री निर्मला सीताराम: श्रद्धापात्रमभवत् । सिक्किम देशे भारत चैनयोः सीमा प्रदेशसन्दर्शनवेलायां चीनस्य सैनिकै: सह सम्भाषमाणा आसीत् सा।
          चीनस्य सैनिकानां समीपममागत्य यदा सम्भाषणम् अकरोत् तदा सा नमस्ते शब्दस्य व्युत्पत्तिमपि बोधितवती  (पाठितवती ) I  ते सैनिकाः निर्मलामहोदयया सह सौह्वद सम्भाषणमपि अकुर्वन् ।   नमस्ते शब्दस्य अर्थम् ज्ञापायित्वा समानः चीनभाषाशब्द: क: इत्यापि पृष्टवती महाभागा ।
        प्रतिरोधमन्त्रालयकार्यालयस्य ट्विट्टर द्वारा अस्य आशयसंवादस्य वार्ता प्रकाशिता ၊