OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 12, 2017

आर्थिकमान्द्यम् अङ्गीकृत्य उपदेशकसमितिश्च। 
               नवदिल्ली > भारतम् आर्थिकमान्द्यग्रहणे इत्यङ्गीकृत्य प्रधानमन्त्रिणः आर्थिकोपदेशकार्यसमितिः। बुधवासरे सम्पन्ने उपदेशकसमित्याः प्रथमे उपवेशने एवायं निर्णयः जातः। आर्थिकमण्डलमभिवर्धयितुं दश मण्डलानि निर्णीतानीति उपदेशकसमित्यध्यक्षः बिबेक् देब्रोयी वर्यः वार्ताहरसम्मेलने अब्रवीत्।
भारतसीमायाः समीपे पाक्किस्थानस्य अण्वायुधसञ्चयः।
               नवदेहली> भारतसीमायाः समीपे पाक्किस्थानस्य अण्वायुधसञ्चयनाय गह्वराणि निर्मीयन्ते इति संस्तुतिः। दिल्लीतः ७५० कि.मी दूरे मियान्वाली मध्ये पाक्किस्थानेन गह्वराणि निर्मीयन्ते। अमृतसरतः मियान्वाली पर्यन्तं केवलं ३५० कि. मी दूरमेव वर्तते। 
 मियान्वाली मध्ये १४० अणुशस्त्राणि सञ्चयितुमस्ति पाक्किस्थानस्य पद्धतिः। तदर्थं दशमीट्टर उन्नतानि तथा दशमीट्टर विस्तृतानि च गह्वराणि पाक्किस्थानेन निर्मीयन्ते । एतानि बृहद्भिः वीथीभिः सुघटितानि सन्ति। 
                 प्रति गह्वरस्स विशेषतया द्वाराणि सन्ति। प्रतिगह्वरे द्वादशतः चतुर्विंशतिपर्यन्तं शस्त्राणि सञ्चयितुं शक्यते इति अस्ति रहस्या वार्ता।

Wednesday, October 11, 2017

उत्तरकोरियराष्ट्रस्य अन्तर्जालचोरेण दक्षिणकोरियस्य युद्धतन्त्राणि चोरितानि।
           सोल्> दक्षिण कोरिय राष्ट्रस्य तन्त्रप्रधान - युद्धतन्त्राणि उत्तरकोरिय राष्ट्रेण चोरितानि । तेषां प्रतिरोध श्रृङ्खलां प्रविश्य एवम् अकरोत्। सेप्तमबर् मासे दक्षिण-कोरिय-देशस्य जालपुटं प्रविश्य एवं चोरणम् अकरोत् इति। तस्य राष्ट्रस्य डमोक्राट्टिक् संस्थायाः नेता री चोल् हि अकथयत्। 235 जिगाबैट् परिमिताः सञ्चिकाः तैः  अपहृता। ताः सञ्चिकाः ओपरेषन् प्लान्  5015 इति नाम्ना सूचिताः भवन्ति।  कोरियराष्ट्रयोः मध्ये युद्धं भविष्यति तर्हि कथं कार्याणि अग्रे नेतव्यम् उत्तरकोरियस्य अध्यक्षं केन प्रकारेण मारणीयमिति पद्धत्यां विशदयति।
गुर्जरे महाराष्ट्रे हिमाचले च इन्धनकरः न्यूनीकृतः।
                      अहम्मदाबादः>  शिलातैलानां करः न्यूनीकरणीयम् इति केन्द्र सर्वकास्य निर्देशानुसारं गुर्जरः महाराष्ट्रं हिमाचलप्रदेशः च करः न्यूनीकृतः। करस्य न्यूनीकरणे गुर्जरः प्रथमतया निश्चितवान् I  महाराष्ट्रराज्येन सह हिमाचलप्रदेशः च करन्यूनीकरणे केन्द्रसर्वकारस्य निर्देशां पालितवान्। करन्यूनीकरणेन राज्यसर्वकारस्य 2,316 कोटि रुप्यकाणां अयनष्टः भविष्यति इति मुख्यमन्त्रिणा विजयरूपाण्या उक्तम्। महाराष्ट्र राज्यस्य आये तु 2,600 कोटि रुप्यकाणां नष्टः भविष्यति इति मुख्यमन्त्रिणा देवेन्द्रफट्नाविसा उक्तम्।
शिलातैल मूल्यम् - गुर्जरे
 पेट्रोल् लिट्टर्-  2.93 , डीसल् 2.72
द्वितीय ट्वण्टी २० आस्ट्रेलिया राष्ट्रस्य अष्ट विक्कट् विजयम्। हेण्टिक्वसाय अर्धशतम्।
             गुहावत्ती>भारत आस्ट्रेलिया द्वितीय ट्वण्टी २० स्पर्धायां भारतं प्रति आस्ट्रेलिया राष्ट्रस्य अष्ट विक्कट् विजयम्। विजयप्रतीक्षायां क्रीडितस्य आस्ट्रेलियायाः केवलं आरोण् फिञ्जस्य तथा डेविड् वार्णस्य च विक्कट् नष्टौ जातौ। ६२ धावनेन सह मोयिसस् हेण्डिक्वस् तथा ४८ धावनेन सह ड्राविस् हेड् च आस्ट्रेलियां विजयं नीतवन्तौ। द्वौ मिलित्वा १५.३ ओवर मध्ये विजयं प्राप्तवन्तौ।
  पूर्वं भारतस्य क्रीडा ११८ धावने समापितमासीत्। भारत बाट्टिड् श्रेण्यां केदार जादव्, एम् एस् धोणी, हार्दिक् पाण्ड्या, कुल्दीप् यादव् इत्येते अड्कद्वयं प्राप्तवन्तः।
वेङ्ङरायाम् अद्य उपनिर्वाचनम्। 
मलप्पुरम् > केरले वेङ्ङरा विधानसभामण्डले अद्य उपनिर्वाचनं भविष्यति। त्रयः मुख्यधारादलस्थानाशिनः अभिव्याप्य षट् स्थानाशिनः प्रतियोगितामण्डले जनमतं अभिवाञ्छन्तः सन्ति। 
     के एन् ए खादरः [यूडिएफ्], पि पि बषीरः [एल् डि एफ्], के जनचन्द्रः [भाजपा] इत्येते प्रमुखदलस्थानाशिनः। वामदलसर्वकारस्य अधिकारप्राप्त्यनन्तरं प्रवृत्तमानं प्रथमम् उपनिर्वाचनं भवत्येतत्। तत्रत्यः सामाजिकः पि के कुञ्ञालिक्कुट्टिः लोकसभासामाजिकरूपेण चितः इत्यतः उपनिर्वाचनं सञ्जातम्।
गोध्रा गणहत्या - मृत्युदण्डं जीवपर्यन्तं कृतम्। 
अहम्मदाबाद् > गुजरातराज्ये गोध्रा गणहत्याप्रकरणे एकादशानाम् अपराधिनां मृत्युदण्डनविधिः उच्चन्यायालयेन जीवपर्यन्तरूपेण परिवर्तितः। २००२तमे संवत्सरे अयोध्यातः रेल् यानेन प्रतिनिवर्तितवन्तः कर्सेवकाः आक्रमणविधेयाः भूत्वा अग्निना दग्धाः इत्यस्मिन् प्रकरणे एवायं परिष्कृतविधिः। 
    २०१५ मेय्मासे एव वादप्रकरणः पूर्तीकृतः तथापि सार्धद्विसंवत्सरात्परमेव विधिः समागतः।

Tuesday, October 10, 2017

गोश्रीपुरे स्पानिष् 'गोल्' 
प्रथमपादे कन्दुकत्रयात् पुरतः।

कोच्ची> बार्सलोण आक्कादमीतः चत्वार: रयल् मड्रिड्तः पञ्च क्रीडकाः आसन् चेदपि प्रथमक्रीडायां विवर्णाः अभवन् स्पेयिन् देशस्थाः। मङ्गलवारस्य स्पर्धा तेषां भाविनिर्णयाय भविष्यति। अतः प़राजयः इति चिन्तयतुम् अशक्ताः ते। प्रथम क्रीडायाम् उत्तरकोरियां पराजित्य तिष्ठति नैजीरिय । तेषां कृते अपि भाविनिर्णयात्मकं भवति अनन्तरक्रीडा । स्पर्धा ब्रसीलेन सह इत्यनेन मङ्गलवासरस्य स्पर्धायां विजित्य पूर्वपादक्रीडायां स्थानप्राप्तिः एव तेषां लक्ष्यम्।
कोङ्गोदेशे भारतस्य शान्तिसेनायाः सैनिकस्थानं प्रति आक्रमणम्।
नवदेहली> ऐक्यराष्ट्र सभायाः शान्ति दौत्यस्य भागतया कोंको देशे सेवनं कुर्वाणः भारतीयानां प्रति गोलिका प्रहारः उत्तर किवु प्रविश्यायाः लुबोरोय् प्रदेशतः एव आक्रमणम्। विगते शुक्रवासरे एव घटना जाता। वार्ताविनिमय संस्थया ए एफ् पि एव वार्ता आवेदिता। द्वाै सैनिकाै व्रणितौI भारतसैन्यस्य प्रत्याक्रमणेन द्वौ आक्रमकारिणौ हतौ। ऐक्यराष्ट्रसंस्थायाः शान्तिदौत्यस्य अनुबन्धतया २६६४ भारतसैनिकाः कोङ्गोयां सन्ति। तद्देशीयसासुध-संघस्य मायिमायि नामकस्य उपत्रिंशत् अङ्गाः शान्तिसेनां विरुद्ध्य प्रक्रमे भागभाजः अभवन्।
अशान्तिबाधितमण्डलेषु सामान्यजनानां सुरक्षाकार्येषु, विरुद्ध दलानाम् उपरि प्रतिक्रियायै च साहाय्यः भारत सैनिकैः कोंगोदेशो क्रियते। कोंगोदेशास्य पूर्वदेशप्रविश्यायां सङ्घर्षः वर्धितः अस्ति।
 सुरक्षाबलेन जैश-ए-मोहम्‍मद इत्यातंकिगुल्मस्य प्रमुखः उमरखालिदः मारितः 
              बारमूला>जम्‍मूकश्‍मीरस्य बारामूला जनपदस्य लडूरा क्षेत्रे गतदिने सुरक्षाबलानां संयुक्तदलेन जैश-ए-मोहम्‍मद इत्यातंकिगुल्मस्य प्रमुखः उमरखालिदः मारितः । जम्‍मूकश्‍मीरस्य आरक्षिमहानिदेशकेन एस्.पी.वैद्येन आतंकवादिनः मृत्युः सुरक्षाबलानां साफल्यत्वेन वर्णितः। तेनोदीरितं यत् असौ कश्‍मीरस्य उत्तरक्षेत्रे सुुरक्षाबलानां स्थात्रेषु आक्रमणे अथ च आरक्षकेषु आक्रमणविधाने सम्मिलितः आसीत् ।
            अवधैयमस्ति यत् आतंकवादी उमरखालिदः पाकिस्तानीयः नागरिकः आसीत् विगत वर्षत्रयेभ्यः च तस्मिन् क्षेत्रे सक्रियः आसीत् ।

Monday, October 9, 2017

नमस्ते शब्दं पाठयित्वा चीनदेशस्य सैनिकानां सौहृदं सम्पादितवती निर्मला सीताराम महाभगा।
          डाङटोक्>चीनदेशास्य सैनिकानाम् पुरतः 'नमस्ते' उक्त्वा, तस्य शब्दस्य अर्थं  च पाठयित्वा प्रतिरोधमन्त्री निर्मला सीताराम: श्रद्धापात्रमभवत् । सिक्किम देशे भारत चैनयोः सीमा प्रदेशसन्दर्शनवेलायां चीनस्य सैनिकै: सह सम्भाषमाणा आसीत् सा।
          चीनस्य सैनिकानां समीपममागत्य यदा सम्भाषणम् अकरोत् तदा सा नमस्ते शब्दस्य व्युत्पत्तिमपि बोधितवती  (पाठितवती ) I  ते सैनिकाः निर्मलामहोदयया सह सौह्वद सम्भाषणमपि अकुर्वन् ।   नमस्ते शब्दस्य अर्थम् ज्ञापायित्वा समानः चीनभाषाशब्द: क: इत्यापि पृष्टवती महाभागा ।
        प्रतिरोधमन्त्रालयकार्यालयस्य ट्विट्टर द्वारा अस्य आशयसंवादस्य वार्ता प्रकाशिता ၊
अधीतविद्यालयाङ्कणात् मृत् स्वीकृत्य तिलकं धृत्वा मोदिन: गुजरात्तयात्रा।।
    वटनगरम्( गुजरात्)>जन्मदेशे गुजराते वटनगरे प्रधानमन्त्री भूत्वा प्रथमयात्रावेलायां नरेन्द्रमोदिन: उज्ज्वलस्वीकरणम्। अधीतविद्यालयाङ्कणं नत्वा तत: किञ्चित् मृत् स्वीकृत्य ललाटे तिलकं यदा धृतं तदा ग्रामीणा: आवेशभरिता: अभवन्। अहमदाबादत: शतम् कि मी दूरे, मोहसानामण्डले प्राचीन-बौद्धधर्मकेन्द्रत्वेन विराजिते वटनगरे विभिन्नविकसनायोजनानाम् उद्घाटनाय एव रविवासरे प्रात: प्रधानमन्त्री आगतवान्। गुञ्जा हेलिमैदानात् नगरम् प्रति षट् कि मी यात्रा एकघण्टादैर्घ्ययुता मार्गप्रदर्शनमेव अभवत्। गतनिर्वाचने नव आसन्देषु भा ज पाम् संग्राह्य त्रयस्त्रिंशत् आसन्दै: मण्डलग्रामसभाया: शासनम् कोण्ग्रसेन गृहीता मेहसाना पटेलसंवरणसमरस्य प्रधानकेन्द्रेषु एका। मोदिन: सन्दर्शनम् आगामि नियमसभानिर्वाचनं लक्ष्यीकृत्य प्रचारणत्वेन पर्यवर्तयत् भा ज पा नेतृभि:। मार्गपार्श्वेषु प्रधानमन्त्रिण: बाल्यकालं चित्रयन्ति बृहत् फलकानि, शतानां  जनानाम् पुष्पवृष्टि: 
बहुत्र वाहनं स्थगयित्वा प्रधानमन्त्री जनान् अभिवादयन्नासीत्। बाल्यकाले चायाविक्रीतम् रेल्स्थानकं तत्रत्यम् आपणञ्च कमनीयरीत्या अलङ्कृतवन्त:। पूर्वविद्यालयस्य बी एन् विद्यालयस्य पुरत: वाहनं स्थगयित्वा अटन् अङ्कणमेत्य स: आदरमर्पयत्। तत: नगरस्य पुरातनमन्दिरे हटकेश्वरमहादेवमन्दिरे च आरतिमर्पयत्। वयोवृद्धान् कुशलमपृच्छत्। "" अहम् किमपि अभवम् चेत् तत् एतस्मात् मृत: पठितपाठेभ्य: एव......"" समाजसम्मेलने स: अवदत्। जी एम् ई आर् एस् वैद्यकीयकलालयस्य पञ्चशतं कोटि रूप्यकव्ययेन निर्मितं नूतनभवनम् स: उद्घाटितवान्। केरलं तथा सप्तदशराज्येषु सम्पूर्णशिशुरोगप्रतिरोधकार्यक्रमस्य इन्द्रधनुष: राष्ट्रत लोद्था स: निरवहत्।।
धर्मपरे सौहार्दे केरलस्य पारम्पर्यः उज्वलः - राष्ट्रपतिः। 
कोल्लम् > धार्मिकं सौहार्दं केरलजनतायाः मध्ये दृढमिति राष्ट्रपतिः रामनाथकोविन्दः। केरलस्य तादृशः पारम्पर्यः उज्वल इति मातुः अमृतानन्दमयीदेव्याः ६४- तम जन्मदिनाघोषमनुबन्ध्य प्रारभ्यमाणानां त्रयाणां सेवायोजनानाम् उद्घाटनं कुर्वन् भाषमाणः आसीत् राष्ट्रपतिः।
     भारतं प्रति आगतवन्तः क्रैस्तवाः प्रथमं केरले एव प्राप्ताः। प्रथमः इस्लामदेवालयः अपि केरले एव वर्तते। जूताः रोमन् देशीयाश्च केरलं प्राप्ताः। ते सर्वे अपि परस्परविश्वासेन सहवर्तित्वेन च अन्येषां धार्मिकव्यवस्थाम् आदृत्य उषितवन्तः च। राष्ट्रपतिः केरलस्य धार्मिकपारम्पर्यं प्रशंस्य उक्तवान्। 
     केरलस्य आध्यात्मिकपारम्पर्यमपि राष्ट्रपतेः प्रशंसायै पात्रीभूतमभवत्। श्रीशङ्करः, श्रीनारायणगुरुः, अय्यन्कालिः इत्यादयः आध्यात्मिकतया सह सामाजिकपरिष्करणाय अपि प्रयत्नं कृतवन्तः आसन्निति राष्ट्रपतिना उक्तम्।
१००कोटि रुप्यकाणां जीवामृतं योजना।
         करुनागप्पल्ली> जीवामृतम् योजना भारतस्य राष्ट्रपतिना रामनाथ कोविन्देन भारतग्रामेभ्यः स्मर्पिता। आराष्ट्रं पञ्चसहस्रं ग्रामेषु शुद्धजलदानाय नूतना पद्धतिः इयम्। अमृतानन्दमयी मठस्य योजनेयम्। शतकोटि रुप्यकाणि एव अस्याः व्ययः। पेयजलं शुद्धीकृत्य वितरणमेव अनया योजनया उद्दिश्यते । बाह्यस्थलेषु मल-मूत्र-विसर्जनं विना स्वच्छग्रामस्य पट्टिकायाम् अन्तर्गतेषु द्वादश ग्रामेभ्यः राष्ट्रपतिना प्रमाणपत्रं वितीरितम्। मठस्य स्वाश्रयग्राम-विकसनपद्धतेः 'अमृतसेर्व्'स्य भागतया भवति इयं योजना। अमृता इन्स्टिट्यूट् द्वारा कृते द्विसहस्रं निशुल्कशल्यचिकित्सायाः प्रमाणपत्राणि च राष्ट्रपतिना वितीरितानि। त्रिपञ्चाशत् रुप्यकाणां व्ययेन द्विशतं हृदयशास्त्रक्रियाः सप्ततिः मस्तिष्कशास्त्रक्रिया: विंशतिः वृक्कपरिमार्जन शस्त्रक्रिया च अस्मिन् अन्तर्भवन्ति। गोश्रीपुरस्थ अमृता आतुरालयेन त्रिचत्वारिंशत् जनानां कृते निशुल्केन श्ल्यचिकित्सा दत्ता इति।  उत्तमम् अनुकरणीयं कार्यमिति राष्ट्रपतिना प्रोक्तम्। फरीदाबाद् नगरे अमृतानन्दमयीमठेन निर्मीयमाणः नूतनः आतुरालयः सेवनस्य सान्त्वनस्य च मण्डलेषु अग्रिमस्थानार्हाः भविष्यति इति च राष्ट्रपतिना रामनाथकोविन्देन प्रोक्तम्॥
आणवविरुद्धसंघाय शान्तिनोबेल् पुरस्कारः ।
स्टोक्होम् > शान्त्यै नोबेल् पुरस्कारः आणवविरुद्धसमवायाय इन्टर्नाषणल् काम्पैन् टु अबोलिष् न्यूक्लियर् वेपण् (I C A N) इत्यस्य कृते I
आणवायुधनिरोधनसन्धेः कृते वादिनां संघटनानां समवायोयम् । 468 [अष्टषष्ट्यधिकचतुश्शतम्] संघटनाः अस्मिन् समवाये अङ्गानि भवन्ति । जनीवा एव केन्द्रस्थानम् । एकोत्तरशतं राष्ट्रेषु संघटना प्रवर्तते ।
कान्सर् रोगस्य कृते उपयुज्यमानाः औषधानि निष्फलानि इति अनुसन्धानफलम्।

लन्टन् > यूरोप्यन् मेडिसिन् रिसर्च् एजन्सी द्वारा आयोजितस्य निरीक्षणस्य फलः कान्सर् रोगस्य औषधानां निष्फलता व्यक्ती क्रियते । २००९- २०१३ संवत्सराभ्यन्तरेषु अंगीकृतेषु औषधेषु ४७% शतांशः औषधानि निष्भलानि एव।

लन्टनस्य किङ्स् कलाशाला,  लन्टन्स्कूल्  आफ् इक्कणोमिक्स् च मिलित्वा प्रकाशिते  पठनफले एव एतत् वस्तुताः लिखिताः ।  विपण्यां लभ्यमानेषु औषधेषु २३/११  एव फलप्रदाः। 

Sunday, October 8, 2017

भीकरतां विरुद्ध्य प्रवर्तयतु। नोचेत् क्रियाविधयः भविष्यन्ति नूनम्।
          वाषिङ्टण् > भीकरतायै साह्यं क्रियमाणं पाकिस्थानमुद्दिश्य अमेरिकायाः पूर्वसूचना I
क्रियाविधीनां पूर्वकार्यरूपेण द्वौ नयतन्त्र अद्योगिनौ पाकिस्थानं प्रेषयिष्यतः। राष्ट्रपतेः नयतन्त्र उपदेशकौ सन्धिविग्रहकार्यस्थः रेक्स् टिलेर्सण्,  प्रतिरोध-कार्यस्थः जिम् माट्टिस् च अस्य मासस्य अन्तिमवारे पाकिस्थानं यास्यतः।
          पाकिस्थानः आतङ्कवादिभिः सुरक्षितवासाय स्थानं कल्पयति, रीतिषु व्यतिलोमः कर्तयः, नो चेत् क्रियाविधयः भविष्यन्ति इति पूर्व सूचना एव पाकिस्थानाय प्रदास्यते। उभौ पाकिस्थानस्य प्रधानमन्त्रिणा तथा सैनिकाधिकारिणा सह सम्भाषणं करिष्यतः।

Saturday, October 7, 2017

'फिफा अण्डर् - १७' पादकन्दुकस्पर्धा – भारतस्य निराशा। 
             नवदिल्ली > विश्वकौमारस्य कन्दुककेल्यां भारतस्य  पराभवेन प्रारम्भः। भारतस्य प्रथमस्पर्धायां वीर्ययुक्तं अमेरिक्का दलं प्रति प्रत्युत्तररहितानां त्रयाणां लक्ष्यकन्दुकानां पराजयः अभवत्। क्रीडायाः पूर्वार्धे दण्डार्हताडनेन (Penalty kick) अमेरिक्का तेषां प्र कमलक्ष्यकन्दुकं नायकेन जोष् सार्जन्टेन प्राप्तम्। ततः उत्तरार्धे लक्ष्यकन्दुकद्वयमपि प्राप्तम्।