OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 9, 2017

अधीतविद्यालयाङ्कणात् मृत् स्वीकृत्य तिलकं धृत्वा मोदिन: गुजरात्तयात्रा।।
    वटनगरम्( गुजरात्)>जन्मदेशे गुजराते वटनगरे प्रधानमन्त्री भूत्वा प्रथमयात्रावेलायां नरेन्द्रमोदिन: उज्ज्वलस्वीकरणम्। अधीतविद्यालयाङ्कणं नत्वा तत: किञ्चित् मृत् स्वीकृत्य ललाटे तिलकं यदा धृतं तदा ग्रामीणा: आवेशभरिता: अभवन्। अहमदाबादत: शतम् कि मी दूरे, मोहसानामण्डले प्राचीन-बौद्धधर्मकेन्द्रत्वेन विराजिते वटनगरे विभिन्नविकसनायोजनानाम् उद्घाटनाय एव रविवासरे प्रात: प्रधानमन्त्री आगतवान्। गुञ्जा हेलिमैदानात् नगरम् प्रति षट् कि मी यात्रा एकघण्टादैर्घ्ययुता मार्गप्रदर्शनमेव अभवत्। गतनिर्वाचने नव आसन्देषु भा ज पाम् संग्राह्य त्रयस्त्रिंशत् आसन्दै: मण्डलग्रामसभाया: शासनम् कोण्ग्रसेन गृहीता मेहसाना पटेलसंवरणसमरस्य प्रधानकेन्द्रेषु एका। मोदिन: सन्दर्शनम् आगामि नियमसभानिर्वाचनं लक्ष्यीकृत्य प्रचारणत्वेन पर्यवर्तयत् भा ज पा नेतृभि:। मार्गपार्श्वेषु प्रधानमन्त्रिण: बाल्यकालं चित्रयन्ति बृहत् फलकानि, शतानां  जनानाम् पुष्पवृष्टि: 
बहुत्र वाहनं स्थगयित्वा प्रधानमन्त्री जनान् अभिवादयन्नासीत्। बाल्यकाले चायाविक्रीतम् रेल्स्थानकं तत्रत्यम् आपणञ्च कमनीयरीत्या अलङ्कृतवन्त:। पूर्वविद्यालयस्य बी एन् विद्यालयस्य पुरत: वाहनं स्थगयित्वा अटन् अङ्कणमेत्य स: आदरमर्पयत्। तत: नगरस्य पुरातनमन्दिरे हटकेश्वरमहादेवमन्दिरे च आरतिमर्पयत्। वयोवृद्धान् कुशलमपृच्छत्। "" अहम् किमपि अभवम् चेत् तत् एतस्मात् मृत: पठितपाठेभ्य: एव......"" समाजसम्मेलने स: अवदत्। जी एम् ई आर् एस् वैद्यकीयकलालयस्य पञ्चशतं कोटि रूप्यकव्ययेन निर्मितं नूतनभवनम् स: उद्घाटितवान्। केरलं तथा सप्तदशराज्येषु सम्पूर्णशिशुरोगप्रतिरोधकार्यक्रमस्य इन्द्रधनुष: राष्ट्रत लोद्था स: निरवहत्।।
धर्मपरे सौहार्दे केरलस्य पारम्पर्यः उज्वलः - राष्ट्रपतिः। 
कोल्लम् > धार्मिकं सौहार्दं केरलजनतायाः मध्ये दृढमिति राष्ट्रपतिः रामनाथकोविन्दः। केरलस्य तादृशः पारम्पर्यः उज्वल इति मातुः अमृतानन्दमयीदेव्याः ६४- तम जन्मदिनाघोषमनुबन्ध्य प्रारभ्यमाणानां त्रयाणां सेवायोजनानाम् उद्घाटनं कुर्वन् भाषमाणः आसीत् राष्ट्रपतिः।
     भारतं प्रति आगतवन्तः क्रैस्तवाः प्रथमं केरले एव प्राप्ताः। प्रथमः इस्लामदेवालयः अपि केरले एव वर्तते। जूताः रोमन् देशीयाश्च केरलं प्राप्ताः। ते सर्वे अपि परस्परविश्वासेन सहवर्तित्वेन च अन्येषां धार्मिकव्यवस्थाम् आदृत्य उषितवन्तः च। राष्ट्रपतिः केरलस्य धार्मिकपारम्पर्यं प्रशंस्य उक्तवान्। 
     केरलस्य आध्यात्मिकपारम्पर्यमपि राष्ट्रपतेः प्रशंसायै पात्रीभूतमभवत्। श्रीशङ्करः, श्रीनारायणगुरुः, अय्यन्कालिः इत्यादयः आध्यात्मिकतया सह सामाजिकपरिष्करणाय अपि प्रयत्नं कृतवन्तः आसन्निति राष्ट्रपतिना उक्तम्।
१००कोटि रुप्यकाणां जीवामृतं योजना।
         करुनागप्पल्ली> जीवामृतम् योजना भारतस्य राष्ट्रपतिना रामनाथ कोविन्देन भारतग्रामेभ्यः स्मर्पिता। आराष्ट्रं पञ्चसहस्रं ग्रामेषु शुद्धजलदानाय नूतना पद्धतिः इयम्। अमृतानन्दमयी मठस्य योजनेयम्। शतकोटि रुप्यकाणि एव अस्याः व्ययः। पेयजलं शुद्धीकृत्य वितरणमेव अनया योजनया उद्दिश्यते । बाह्यस्थलेषु मल-मूत्र-विसर्जनं विना स्वच्छग्रामस्य पट्टिकायाम् अन्तर्गतेषु द्वादश ग्रामेभ्यः राष्ट्रपतिना प्रमाणपत्रं वितीरितम्। मठस्य स्वाश्रयग्राम-विकसनपद्धतेः 'अमृतसेर्व्'स्य भागतया भवति इयं योजना। अमृता इन्स्टिट्यूट् द्वारा कृते द्विसहस्रं निशुल्कशल्यचिकित्सायाः प्रमाणपत्राणि च राष्ट्रपतिना वितीरितानि। त्रिपञ्चाशत् रुप्यकाणां व्ययेन द्विशतं हृदयशास्त्रक्रियाः सप्ततिः मस्तिष्कशास्त्रक्रिया: विंशतिः वृक्कपरिमार्जन शस्त्रक्रिया च अस्मिन् अन्तर्भवन्ति। गोश्रीपुरस्थ अमृता आतुरालयेन त्रिचत्वारिंशत् जनानां कृते निशुल्केन श्ल्यचिकित्सा दत्ता इति।  उत्तमम् अनुकरणीयं कार्यमिति राष्ट्रपतिना प्रोक्तम्। फरीदाबाद् नगरे अमृतानन्दमयीमठेन निर्मीयमाणः नूतनः आतुरालयः सेवनस्य सान्त्वनस्य च मण्डलेषु अग्रिमस्थानार्हाः भविष्यति इति च राष्ट्रपतिना रामनाथकोविन्देन प्रोक्तम्॥
आणवविरुद्धसंघाय शान्तिनोबेल् पुरस्कारः ।
स्टोक्होम् > शान्त्यै नोबेल् पुरस्कारः आणवविरुद्धसमवायाय इन्टर्नाषणल् काम्पैन् टु अबोलिष् न्यूक्लियर् वेपण् (I C A N) इत्यस्य कृते I
आणवायुधनिरोधनसन्धेः कृते वादिनां संघटनानां समवायोयम् । 468 [अष्टषष्ट्यधिकचतुश्शतम्] संघटनाः अस्मिन् समवाये अङ्गानि भवन्ति । जनीवा एव केन्द्रस्थानम् । एकोत्तरशतं राष्ट्रेषु संघटना प्रवर्तते ।
कान्सर् रोगस्य कृते उपयुज्यमानाः औषधानि निष्फलानि इति अनुसन्धानफलम्।

लन्टन् > यूरोप्यन् मेडिसिन् रिसर्च् एजन्सी द्वारा आयोजितस्य निरीक्षणस्य फलः कान्सर् रोगस्य औषधानां निष्फलता व्यक्ती क्रियते । २००९- २०१३ संवत्सराभ्यन्तरेषु अंगीकृतेषु औषधेषु ४७% शतांशः औषधानि निष्भलानि एव।

लन्टनस्य किङ्स् कलाशाला,  लन्टन्स्कूल्  आफ् इक्कणोमिक्स् च मिलित्वा प्रकाशिते  पठनफले एव एतत् वस्तुताः लिखिताः ।  विपण्यां लभ्यमानेषु औषधेषु २३/११  एव फलप्रदाः। 

Sunday, October 8, 2017

भीकरतां विरुद्ध्य प्रवर्तयतु। नोचेत् क्रियाविधयः भविष्यन्ति नूनम्।
          वाषिङ्टण् > भीकरतायै साह्यं क्रियमाणं पाकिस्थानमुद्दिश्य अमेरिकायाः पूर्वसूचना I
क्रियाविधीनां पूर्वकार्यरूपेण द्वौ नयतन्त्र अद्योगिनौ पाकिस्थानं प्रेषयिष्यतः। राष्ट्रपतेः नयतन्त्र उपदेशकौ सन्धिविग्रहकार्यस्थः रेक्स् टिलेर्सण्,  प्रतिरोध-कार्यस्थः जिम् माट्टिस् च अस्य मासस्य अन्तिमवारे पाकिस्थानं यास्यतः।
          पाकिस्थानः आतङ्कवादिभिः सुरक्षितवासाय स्थानं कल्पयति, रीतिषु व्यतिलोमः कर्तयः, नो चेत् क्रियाविधयः भविष्यन्ति इति पूर्व सूचना एव पाकिस्थानाय प्रदास्यते। उभौ पाकिस्थानस्य प्रधानमन्त्रिणा तथा सैनिकाधिकारिणा सह सम्भाषणं करिष्यतः।

Saturday, October 7, 2017

'फिफा अण्डर् - १७' पादकन्दुकस्पर्धा – भारतस्य निराशा। 
             नवदिल्ली > विश्वकौमारस्य कन्दुककेल्यां भारतस्य  पराभवेन प्रारम्भः। भारतस्य प्रथमस्पर्धायां वीर्ययुक्तं अमेरिक्का दलं प्रति प्रत्युत्तररहितानां त्रयाणां लक्ष्यकन्दुकानां पराजयः अभवत्। क्रीडायाः पूर्वार्धे दण्डार्हताडनेन (Penalty kick) अमेरिक्का तेषां प्र कमलक्ष्यकन्दुकं नायकेन जोष् सार्जन्टेन प्राप्तम्। ततः उत्तरार्धे लक्ष्यकन्दुकद्वयमपि प्राप्तम्।

Friday, October 6, 2017

कौमारपादकन्दुकमामाङ्कस्य अद्य प्रारम्भः। 
कोच्ची > सप्तदशवयसामधः वर्तितानां भुवनकौमारकाणां पादकन्दुकस्पर्धापरम्परायाः अद्य भारते प्रारम्भः क्रियते। प्रप्रथमतया एव भारतं कस्याश्चन विश्वचषकस्पर्धायाः आतिथ्यं वहति। सायं पञ्चवादने दिल्ल्यां जवाहरलाल नेहरू क्रीडाङ्कणे कोलम्बिया - घाना राष्ट्रयोः स्पर्धया 'अण्टर् - १७' विश्वचषक-पादकन्दुकस्पर्धानां समारम्भः भविष्यति।
     भारतस्य प्रथमप्रतियोगिता अमेरिक्कया सह रात्रौ अष्टवादने तत्रैव भविष्यति। भारतनायकस्य मणिप्पूर् स्वदेशीयस्य अमर्जित् सिह कियाम् नामकस्य नेतृत्वे भारतदलं पूर्णसज्जतामाप्तमस्ति। पोर्च्चुगल्  देशीयः मत्तरासी दलस्य परिशीलकः अस्ति।
गुजरात्ते इन्धनकर: न्यूनीकरिष्यतीति मुख्यमन्त्री विजय रुपानी।।
     नवदिल्ली>राज्ये पेट्रोल् डीसल् आदीनाम् इन्धनानां कृते स्वीक्रियमाण: कर: न्यूनीकरिष्यतीति गुजरात्तस्य मुख्यमन्त्री विजय रुपानी। इन्धनमूल्यन्यूनीकरणाय कृतं केन्द्रश्रमम् अतिरिच्य राज्यतलेपि मूल्यन्यूनीकरणं प्राबल्ये आनेतुं सर्वकारस्य श्रम: इत्यपि स: व्यक्तीकृतवान्। केन्द्रसर्वकारेण एक्सैस् मूल्यं न्यूनीकृतम्, तत: पेट्रोल् डीसल् इन्धननूल्ये रूप्यकद्वयस्य न्यूनता आगता। एतद्विहाय राज्यस्तरेपि करे न्यूनीकृते इन्धनमूल्यं न्यूनम् भवति। मूल्यनिर्णयाय राज्यै: आयोज्यमानमूल्यवर्धितकर: (वाट्) निर्णायक: चेदपि गुजरात्तसर्वकारस्य निर्णय: जनानां कृते महान् आश्वास: एव भवेत्। इन्धनमूल्ये आयोजितमूल्यवर्धितकरं न्यूनीकर्तुं केन्द्र पेट्रोलियम् मन्त्री धर्मेन्द्रप्रधान: राज्यानां कृते निर्देशं दत्तवानासीत्। एतदनुसृत्य करन्यूनीकरणाय यतमानम् प्रथमराज्यम् भवति गुजरात्त्।।
बलूचिस्थाने देवालये आत्मघातिनः आक्रमणेन १३ जनाः मारिताःI
बलूचिस्थानम् > पाकिस्थानस्य बलूचिस्थानमण्डण्डलस्थ माहम्मदीयानां देवालयेषु दुरापन्ने आत्मघातिनः आक्रमणेन त्रयोदशजनाः मारिताः बहवः क्षतजाः च अभवन्। जाल मागासि प्रदेशस्य देवालये एव आक्रमणं संवृत्तम्। उरुस्‌ नाम अचार-क्रियासन्दर्भे एव आक्रमणम् । विस्फोटकेन आगतं पुरुषं निवारयितुम् आरक्षकाः प्रयत्नं कृतवन्तः। किन्तु विस्फोटः अभवत्‌ । क्षतजान् आतुरालयं प्राविशत्। तेषां अवस्था गुरुतरा अस्ति।मृतानां संख्या वर्धिष्यते च इति आरक्षकाधिकारी असदुल्लाह् अवदत्। रक्षाप्रवर्तनाय सुरक्षायै च क्रियाविधयः स्वीकृताः सन्ति इति आभ्यन्तर मन्त्रिणा उक्तम्।
साहितीनोबेल् पुरस्कारः कसुवो इषिगुरो महाभागाय। 
                स्टोक् होम् > अस्य संवत्सरस्य साहितीनोबेल् पुरस्काराय जाप्पानवंशजः तथा आङ्गलेयसाहित्यकारः कसुवो इषिगुरो वर्यः अर्हति। १९८९ तमे संवत्सरे प्रकाशिताय 'दि रिमेन्स् आफ् दि डे' नामकाय आख्यायिकाग्रन्थाय एव पुरस्कारलब्धिः। पूर्वं अस्मै ग्रन्थाय मान् बुक्कर् पुरस्कारः अपि लब्धः आसीत्। सप्ताख्यायिकाः नैकेाः लघुकथाः अपि तस्य साहित्यसपर्यायाम् अन्तर्भवन्ति।

Thursday, October 5, 2017

लास् वेगस् अभिभावी गोलिकास्त्रप्रयोगस्य पूर्वस्मिन् दिने फिलिप्पीन्स् प्रति पञ्चषष्टिलक्षं रूप्यकाणि निरगमयत्।। 
           लास् वेगस् > रविवासरे लास् वेगस: द्यूतक्रीडाकेन्द्रे क्षणेनैकेन बहूनां हन्ता स्टीफन् पाडक: गोलिकास्त्रप्रयोगात् पूर्वस्मिन् दिने द्यूतकेन्द्रात् सम्पादितं एकलक्षं डोलर् ( पञ्चषष्टिलक्षं रूप्यकाणि ) फिलिप्पीन्स् प्रति निर्गमयत्। अक्रमं केन्द्रीकृत्य आरक्षकै: कृते अन्वेषणे एव प्रणयिन्या: मार्लू डान्ल्वो: स्वदेशं प्रति पाडक: बहुमूल्ययुतं धनम् प्रैषयदिति लक्षितम्। अक्रमकारिणम् पाडकं आरक्षका: गोलिकास्त्रेण मारितवन्त: चेदपि अक्रममधिकृत्य वादकरणाय प्रणयिनीं मार्लू डान्लूम् आरक्षका: अमरीकाम् प्रापितवन्त:।
रष्य देशस्य व्योमाक्रमणेन सिरियादेशे अष्ट त्रिंशत् (३८)जनाः मृताः।
बेय् रूट्> सिरियायां रष्यया कृते व्योमाक्रमणे शिशुभ्यः सह अष्ट त्रिंशत् जनाः मृताः। मृतेषु नवः शिशवः सन्ति। पूर्व सिरियायाः डयर् एसोर् प्रविश्यातः रक्षां प्राप्तुं प्रयतितवन्तः एव मृतवन्तः । यु फ्रट्टीस् नद्मा पारङ्गमन समये एव आक्रमणम्।
रष्यराष्ट्रस्य साह्येन सैन्यः इस्लामिक स्टेट् दलेन युद्धं क्रियमाणे प्रदेशतः प्राणरक्षारथं पलायिताः एव मृताः॥
भूग्रहणं विरुद्ध्य भूसमाधिम् आचरन्ति कृषकाः।
जयपुरम्> भूगाहणं विरुद्ध्य कृषकाणां नूतन समरस्पर्या। खनित्रेण भूमौ गर्तं निर्मीय तस्मिन् गर्ते अवतार्य कण्ठ पर्यन्तं मृत्भिः गर्तं पूरयित्वा घण्टाः पर्यन्तं गर्ते स्थित्वा आसन् कृषकाणां प्रतिषेधः। राजस्थान-राज्ये गृहसमुच्छय-निर्माणाय अतिन्यून मूल्यं दत्वा बलादेव भूग्रहणं क्रियते सर्वकारेण इति आरोपणम् उन्नीत्य आसीत् कृषकाणं विशेष समरः I सर्वकारस्य क्रियाविधिं विरुद्‌य त्रयश्चत्वारिंशत् (४३) कृषकाः भूसमाधि-सत्यग्रहम् अनुवर्तन्ते। गान्धिजयन्ती दिने आरब्धः अस्ति सत्यग्रहः। जयपुरात् विंशति किलोमीट्टर् दूरस्थे नन्दार् ग्रामे एव सर्वकारस्य भूग्रहणप्रक्रिया  प्रचलति। बृहदाकारे राज्ये द्वितीयं गृहसमुच्ययं भवति अत्रत्याः योजना । योजनायाः कृते प्रक्रियायाः आरम्भः २०१० संवत्सरे आरब्धम्‌ आसीत्।

Wednesday, October 4, 2017

भीकराक्रमणस्य लक्ष्यः श्रीनगरविमाननिलयः।
श्रीनगरम्> गतदिने श्रीनगरे दुरापन्नेन भीकराक्रमणेन श्रीनगरस्थं विमान-निलयः लक्षीकृतः इति आवेदनम् आगतम्। मङ्गलवासरे अतिप्रातः श्रीनगरविमाननिलयसमीपे सीमासेनायाः स्थानेषु  दुरापन्ने आत्मघातिभीकरेण विमाननिलयः लक्षीकृतः इति प्रमाणं लब्धम्। आक्रमणे द्वौ सैनिकौ वीरमृत्युं प्राप्तौ। त्रयः भीकराः सेनया मारिताः च। CRPF, BSF सैनिकाः एव विमाननिलयस्य सुरक्षाकार्याणि कुर्वन्ति इत्यनेन विमाननिलयं प्रवेष्टुम् अशक्तैः भीकरैः बी एस् एफ् केन्द्रः आक्रमितः इति अनुमीयते। जय् षे इ मुहम्मदस्य अफ्सल् गुरु स्क्वाड् विभागः अस्याः घटनायाः पृष्टतः इति सूचना लब्धा।

रयिल्यानस्य पुरतः स्वच्छायाग्रहणम्। त्रयः छात्राः मृताः
बङ्गलूरु> धावन्तीं रेल्यनस्य पुरतः स्थित्वा स्वच्छायाग्रहणे निरताः छात्राः मृताः। प्रभाते सार्ध नववादने एव घाटना। जवेन आगतानां रयिल् यानस्य पुरतः स्थित्वा स्वच्छाया ग्रहणं कृतम् इति आरक्षकाः वदन्ति। एतदधिकृत्य अन्वेषणानि प्रचलन्ति।
वण्टर् ल नाम स्थलजल-क्रीडाक्षेत्रे क्रीडनानन्तरं समीपस्थं रेल् पथे स्वच्छायाग्रहणाय आगतवन्तः आसन्। मृतयोः द्वौ बाङ्गळूरु नेषणल् कलाशालायाः विद्यार्थिनौ स्तः।  बाङ्गलूरुनगरे स्वच्छायाग्रहणभ्रमेन आपन्ना द्वितीया घटना भवति इयम्। पूर्वं एन् सि सि विद्यार्थिनः नद्यां स्नानस्य स्वच्छाया ग्रहणसमये एकः निमज्जनेन मारितः। अनन्तरं ग्रहीतस्य चित्रस्य पुनरालोकनसमये एव सतीर्थ्यस्य मृतिः गृहीतचित्रेषु दृष्टवन्तः आसन्।

Tuesday, October 3, 2017

जैवघटिका रहस्यगवेषणाय संघत्रयान् वैद्यशास्त्र नोबेल् पुरस्कारः।
स्टोक्केम्> वैद्यशास्त्र नैपुण्याय २०१७ तमस्य नोबेल् पुरस्काराय अमेरिक्का शास्रकाराः जेफ्री सी होल्, मैक्केल् रोस् बाष्, मैक्केल् डब्ल्यू यड् इत्येते अर्हाः अभवन्। 
    मनुष्येषु जन्तुषु सस्येषु च वर्तमानस्य जैवघटिकारस्य (biological click/circadian  Rhythm) कार्यरहस्यान् विश्वे  ते आनीतवन्तः। अस्मै निपुणताय अयं पुरस्कारः इति नोबेल् पुरस्कारसमितिः अवदत्। एकादशलक्षं डोलर् अस्ति पुरस्कारधनम्। प्रतिवर्षं वैद्यशास्त्र नैपुण्याय प्रदत्तेन पुरस्कारेण सह नोबेल् पुरस्कारः प्रख्यापनं प्राभते।
  जैवघटिकारो नाम कः?
अहोरात्रं भूमौ सर्वजीवजालानां परिवर्तनं संभवति। तदनुसृत्य सर्वे तेषां शारीरिकक्रियाः क्रमीकुर्वन्ति। तत्सर्वं कोपि न जानाति।
   कथं जैवघटिकारः प्रत्येकजीविं क्रमीकरोति इति अन्वेषणं अष्टादशशतके आरब्धम्। किन्तु अन्वेषणस्य अस्य निर्णायकं निर्णयं विंशति शतके एव जातम्। नोबेल् पुरस्कारजेताः एते त्रयः अस्मिन् विषये बहु कार्याणि कृतवन्तः। परिस्थित्यनुसारं प्रति जीवी स्व जैवघटिकारस्य स्थिरीकरणाय तन्मात्राप्रवर्तनमधिकृत्य  आसीत् तेषाम् अनुसन्धानम्।विभिन्नैः  समयक्षेत्रैः  सञ्चारेण जातस्य जेट् लागस्यापि समाधानं दातुं तेषां अनुसन्धानं सुशकं अभवत्। एवं निरन्तरेण गमनेन यात्रिकानां बह्व्यः स्वास्थ्यसमस्याः जायन्ते। जैवघटिकारस्य तुलनराहित्यमस्ति तस्य हेतुः। किन्तु दैनन्दिन जैवघटिकारस्य प्रवर्तनानां हेतुरूपस्य जीनस्य पृथक्करणेन अस्य परिहारमपि सञ्जातम्।
फलमक्षिकाभ्यः पीरीयड् जीनिति निर्णायकस्य जीनस्य पृथक्करणं जातम्।

पुरस्कारजेतारः।

जेफ्री सी होल्।
१९४५ तमे वर्षे न्यूयोर्क् मध्ये जननम्। ब्राण्डयिस् विश्वविद्यालये गवेषणसमये एव रोस् बाषिना सह पीरीयड् जीन् गवेषणे सजीवः जातः। इदानीं विरमितः। कें ब्ट्रिट्ज् मध्ये विश्रमजीवनम्।

मैक्केल् रोस्बाष्।
१९४४ ओक्लहोम् मध्ये जननम्। ब्रान्डयिस् विश्वविद्यालये इदानमपि गवेषकः।  त्रि सप्ततिः आयुः।

मैक्कल् डब्ल्यू यड्।
१९४९ मयामी मध्ये जननम्। रोक्के फेल्लर विश्वविद्यालये गवेषकः अध्यापकश्च। अष्टषष्टिः आयुः।
शिलातैलस्य करः न्यूनीकृतः 
नवदिल्ली> प्रेट्रोल् डीसल् तैलयोः करः केन्द्रसर्वकारेण न्यूनीकृतः। लिट्टर् मितस्य रुप्यकद्वयं न्यूनीकृतमस्ति। नूतनं मूल्यम् श्वः आरभ्य प्रबलं भविष्यति।