OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, October 6, 2017

कौमारपादकन्दुकमामाङ्कस्य अद्य प्रारम्भः। 
कोच्ची > सप्तदशवयसामधः वर्तितानां भुवनकौमारकाणां पादकन्दुकस्पर्धापरम्परायाः अद्य भारते प्रारम्भः क्रियते। प्रप्रथमतया एव भारतं कस्याश्चन विश्वचषकस्पर्धायाः आतिथ्यं वहति। सायं पञ्चवादने दिल्ल्यां जवाहरलाल नेहरू क्रीडाङ्कणे कोलम्बिया - घाना राष्ट्रयोः स्पर्धया 'अण्टर् - १७' विश्वचषक-पादकन्दुकस्पर्धानां समारम्भः भविष्यति।
     भारतस्य प्रथमप्रतियोगिता अमेरिक्कया सह रात्रौ अष्टवादने तत्रैव भविष्यति। भारतनायकस्य मणिप्पूर् स्वदेशीयस्य अमर्जित् सिह कियाम् नामकस्य नेतृत्वे भारतदलं पूर्णसज्जतामाप्तमस्ति। पोर्च्चुगल्  देशीयः मत्तरासी दलस्य परिशीलकः अस्ति।
गुजरात्ते इन्धनकर: न्यूनीकरिष्यतीति मुख्यमन्त्री विजय रुपानी।।
     नवदिल्ली>राज्ये पेट्रोल् डीसल् आदीनाम् इन्धनानां कृते स्वीक्रियमाण: कर: न्यूनीकरिष्यतीति गुजरात्तस्य मुख्यमन्त्री विजय रुपानी। इन्धनमूल्यन्यूनीकरणाय कृतं केन्द्रश्रमम् अतिरिच्य राज्यतलेपि मूल्यन्यूनीकरणं प्राबल्ये आनेतुं सर्वकारस्य श्रम: इत्यपि स: व्यक्तीकृतवान्। केन्द्रसर्वकारेण एक्सैस् मूल्यं न्यूनीकृतम्, तत: पेट्रोल् डीसल् इन्धननूल्ये रूप्यकद्वयस्य न्यूनता आगता। एतद्विहाय राज्यस्तरेपि करे न्यूनीकृते इन्धनमूल्यं न्यूनम् भवति। मूल्यनिर्णयाय राज्यै: आयोज्यमानमूल्यवर्धितकर: (वाट्) निर्णायक: चेदपि गुजरात्तसर्वकारस्य निर्णय: जनानां कृते महान् आश्वास: एव भवेत्। इन्धनमूल्ये आयोजितमूल्यवर्धितकरं न्यूनीकर्तुं केन्द्र पेट्रोलियम् मन्त्री धर्मेन्द्रप्रधान: राज्यानां कृते निर्देशं दत्तवानासीत्। एतदनुसृत्य करन्यूनीकरणाय यतमानम् प्रथमराज्यम् भवति गुजरात्त्।।
बलूचिस्थाने देवालये आत्मघातिनः आक्रमणेन १३ जनाः मारिताःI
बलूचिस्थानम् > पाकिस्थानस्य बलूचिस्थानमण्डण्डलस्थ माहम्मदीयानां देवालयेषु दुरापन्ने आत्मघातिनः आक्रमणेन त्रयोदशजनाः मारिताः बहवः क्षतजाः च अभवन्। जाल मागासि प्रदेशस्य देवालये एव आक्रमणं संवृत्तम्। उरुस्‌ नाम अचार-क्रियासन्दर्भे एव आक्रमणम् । विस्फोटकेन आगतं पुरुषं निवारयितुम् आरक्षकाः प्रयत्नं कृतवन्तः। किन्तु विस्फोटः अभवत्‌ । क्षतजान् आतुरालयं प्राविशत्। तेषां अवस्था गुरुतरा अस्ति।मृतानां संख्या वर्धिष्यते च इति आरक्षकाधिकारी असदुल्लाह् अवदत्। रक्षाप्रवर्तनाय सुरक्षायै च क्रियाविधयः स्वीकृताः सन्ति इति आभ्यन्तर मन्त्रिणा उक्तम्।
साहितीनोबेल् पुरस्कारः कसुवो इषिगुरो महाभागाय। 
                स्टोक् होम् > अस्य संवत्सरस्य साहितीनोबेल् पुरस्काराय जाप्पानवंशजः तथा आङ्गलेयसाहित्यकारः कसुवो इषिगुरो वर्यः अर्हति। १९८९ तमे संवत्सरे प्रकाशिताय 'दि रिमेन्स् आफ् दि डे' नामकाय आख्यायिकाग्रन्थाय एव पुरस्कारलब्धिः। पूर्वं अस्मै ग्रन्थाय मान् बुक्कर् पुरस्कारः अपि लब्धः आसीत्। सप्ताख्यायिकाः नैकेाः लघुकथाः अपि तस्य साहित्यसपर्यायाम् अन्तर्भवन्ति।

Thursday, October 5, 2017

लास् वेगस् अभिभावी गोलिकास्त्रप्रयोगस्य पूर्वस्मिन् दिने फिलिप्पीन्स् प्रति पञ्चषष्टिलक्षं रूप्यकाणि निरगमयत्।। 
           लास् वेगस् > रविवासरे लास् वेगस: द्यूतक्रीडाकेन्द्रे क्षणेनैकेन बहूनां हन्ता स्टीफन् पाडक: गोलिकास्त्रप्रयोगात् पूर्वस्मिन् दिने द्यूतकेन्द्रात् सम्पादितं एकलक्षं डोलर् ( पञ्चषष्टिलक्षं रूप्यकाणि ) फिलिप्पीन्स् प्रति निर्गमयत्। अक्रमं केन्द्रीकृत्य आरक्षकै: कृते अन्वेषणे एव प्रणयिन्या: मार्लू डान्ल्वो: स्वदेशं प्रति पाडक: बहुमूल्ययुतं धनम् प्रैषयदिति लक्षितम्। अक्रमकारिणम् पाडकं आरक्षका: गोलिकास्त्रेण मारितवन्त: चेदपि अक्रममधिकृत्य वादकरणाय प्रणयिनीं मार्लू डान्लूम् आरक्षका: अमरीकाम् प्रापितवन्त:।
रष्य देशस्य व्योमाक्रमणेन सिरियादेशे अष्ट त्रिंशत् (३८)जनाः मृताः।
बेय् रूट्> सिरियायां रष्यया कृते व्योमाक्रमणे शिशुभ्यः सह अष्ट त्रिंशत् जनाः मृताः। मृतेषु नवः शिशवः सन्ति। पूर्व सिरियायाः डयर् एसोर् प्रविश्यातः रक्षां प्राप्तुं प्रयतितवन्तः एव मृतवन्तः । यु फ्रट्टीस् नद्मा पारङ्गमन समये एव आक्रमणम्।
रष्यराष्ट्रस्य साह्येन सैन्यः इस्लामिक स्टेट् दलेन युद्धं क्रियमाणे प्रदेशतः प्राणरक्षारथं पलायिताः एव मृताः॥
भूग्रहणं विरुद्ध्य भूसमाधिम् आचरन्ति कृषकाः।
जयपुरम्> भूगाहणं विरुद्ध्य कृषकाणां नूतन समरस्पर्या। खनित्रेण भूमौ गर्तं निर्मीय तस्मिन् गर्ते अवतार्य कण्ठ पर्यन्तं मृत्भिः गर्तं पूरयित्वा घण्टाः पर्यन्तं गर्ते स्थित्वा आसन् कृषकाणां प्रतिषेधः। राजस्थान-राज्ये गृहसमुच्छय-निर्माणाय अतिन्यून मूल्यं दत्वा बलादेव भूग्रहणं क्रियते सर्वकारेण इति आरोपणम् उन्नीत्य आसीत् कृषकाणं विशेष समरः I सर्वकारस्य क्रियाविधिं विरुद्‌य त्रयश्चत्वारिंशत् (४३) कृषकाः भूसमाधि-सत्यग्रहम् अनुवर्तन्ते। गान्धिजयन्ती दिने आरब्धः अस्ति सत्यग्रहः। जयपुरात् विंशति किलोमीट्टर् दूरस्थे नन्दार् ग्रामे एव सर्वकारस्य भूग्रहणप्रक्रिया  प्रचलति। बृहदाकारे राज्ये द्वितीयं गृहसमुच्ययं भवति अत्रत्याः योजना । योजनायाः कृते प्रक्रियायाः आरम्भः २०१० संवत्सरे आरब्धम्‌ आसीत्।

Wednesday, October 4, 2017

भीकराक्रमणस्य लक्ष्यः श्रीनगरविमाननिलयः।
श्रीनगरम्> गतदिने श्रीनगरे दुरापन्नेन भीकराक्रमणेन श्रीनगरस्थं विमान-निलयः लक्षीकृतः इति आवेदनम् आगतम्। मङ्गलवासरे अतिप्रातः श्रीनगरविमाननिलयसमीपे सीमासेनायाः स्थानेषु  दुरापन्ने आत्मघातिभीकरेण विमाननिलयः लक्षीकृतः इति प्रमाणं लब्धम्। आक्रमणे द्वौ सैनिकौ वीरमृत्युं प्राप्तौ। त्रयः भीकराः सेनया मारिताः च। CRPF, BSF सैनिकाः एव विमाननिलयस्य सुरक्षाकार्याणि कुर्वन्ति इत्यनेन विमाननिलयं प्रवेष्टुम् अशक्तैः भीकरैः बी एस् एफ् केन्द्रः आक्रमितः इति अनुमीयते। जय् षे इ मुहम्मदस्य अफ्सल् गुरु स्क्वाड् विभागः अस्याः घटनायाः पृष्टतः इति सूचना लब्धा।

रयिल्यानस्य पुरतः स्वच्छायाग्रहणम्। त्रयः छात्राः मृताः
बङ्गलूरु> धावन्तीं रेल्यनस्य पुरतः स्थित्वा स्वच्छायाग्रहणे निरताः छात्राः मृताः। प्रभाते सार्ध नववादने एव घाटना। जवेन आगतानां रयिल् यानस्य पुरतः स्थित्वा स्वच्छाया ग्रहणं कृतम् इति आरक्षकाः वदन्ति। एतदधिकृत्य अन्वेषणानि प्रचलन्ति।
वण्टर् ल नाम स्थलजल-क्रीडाक्षेत्रे क्रीडनानन्तरं समीपस्थं रेल् पथे स्वच्छायाग्रहणाय आगतवन्तः आसन्। मृतयोः द्वौ बाङ्गळूरु नेषणल् कलाशालायाः विद्यार्थिनौ स्तः।  बाङ्गलूरुनगरे स्वच्छायाग्रहणभ्रमेन आपन्ना द्वितीया घटना भवति इयम्। पूर्वं एन् सि सि विद्यार्थिनः नद्यां स्नानस्य स्वच्छाया ग्रहणसमये एकः निमज्जनेन मारितः। अनन्तरं ग्रहीतस्य चित्रस्य पुनरालोकनसमये एव सतीर्थ्यस्य मृतिः गृहीतचित्रेषु दृष्टवन्तः आसन्।

Tuesday, October 3, 2017

जैवघटिका रहस्यगवेषणाय संघत्रयान् वैद्यशास्त्र नोबेल् पुरस्कारः।
स्टोक्केम्> वैद्यशास्त्र नैपुण्याय २०१७ तमस्य नोबेल् पुरस्काराय अमेरिक्का शास्रकाराः जेफ्री सी होल्, मैक्केल् रोस् बाष्, मैक्केल् डब्ल्यू यड् इत्येते अर्हाः अभवन्। 
    मनुष्येषु जन्तुषु सस्येषु च वर्तमानस्य जैवघटिकारस्य (biological click/circadian  Rhythm) कार्यरहस्यान् विश्वे  ते आनीतवन्तः। अस्मै निपुणताय अयं पुरस्कारः इति नोबेल् पुरस्कारसमितिः अवदत्। एकादशलक्षं डोलर् अस्ति पुरस्कारधनम्। प्रतिवर्षं वैद्यशास्त्र नैपुण्याय प्रदत्तेन पुरस्कारेण सह नोबेल् पुरस्कारः प्रख्यापनं प्राभते।
  जैवघटिकारो नाम कः?
अहोरात्रं भूमौ सर्वजीवजालानां परिवर्तनं संभवति। तदनुसृत्य सर्वे तेषां शारीरिकक्रियाः क्रमीकुर्वन्ति। तत्सर्वं कोपि न जानाति।
   कथं जैवघटिकारः प्रत्येकजीविं क्रमीकरोति इति अन्वेषणं अष्टादशशतके आरब्धम्। किन्तु अन्वेषणस्य अस्य निर्णायकं निर्णयं विंशति शतके एव जातम्। नोबेल् पुरस्कारजेताः एते त्रयः अस्मिन् विषये बहु कार्याणि कृतवन्तः। परिस्थित्यनुसारं प्रति जीवी स्व जैवघटिकारस्य स्थिरीकरणाय तन्मात्राप्रवर्तनमधिकृत्य  आसीत् तेषाम् अनुसन्धानम्।विभिन्नैः  समयक्षेत्रैः  सञ्चारेण जातस्य जेट् लागस्यापि समाधानं दातुं तेषां अनुसन्धानं सुशकं अभवत्। एवं निरन्तरेण गमनेन यात्रिकानां बह्व्यः स्वास्थ्यसमस्याः जायन्ते। जैवघटिकारस्य तुलनराहित्यमस्ति तस्य हेतुः। किन्तु दैनन्दिन जैवघटिकारस्य प्रवर्तनानां हेतुरूपस्य जीनस्य पृथक्करणेन अस्य परिहारमपि सञ्जातम्।
फलमक्षिकाभ्यः पीरीयड् जीनिति निर्णायकस्य जीनस्य पृथक्करणं जातम्।

पुरस्कारजेतारः।

जेफ्री सी होल्।
१९४५ तमे वर्षे न्यूयोर्क् मध्ये जननम्। ब्राण्डयिस् विश्वविद्यालये गवेषणसमये एव रोस् बाषिना सह पीरीयड् जीन् गवेषणे सजीवः जातः। इदानीं विरमितः। कें ब्ट्रिट्ज् मध्ये विश्रमजीवनम्।

मैक्केल् रोस्बाष्।
१९४४ ओक्लहोम् मध्ये जननम्। ब्रान्डयिस् विश्वविद्यालये इदानमपि गवेषकः।  त्रि सप्ततिः आयुः।

मैक्कल् डब्ल्यू यड्।
१९४९ मयामी मध्ये जननम्। रोक्के फेल्लर विश्वविद्यालये गवेषकः अध्यापकश्च। अष्टषष्टिः आयुः।
शिलातैलस्य करः न्यूनीकृतः 
नवदिल्ली> प्रेट्रोल् डीसल् तैलयोः करः केन्द्रसर्वकारेण न्यूनीकृतः। लिट्टर् मितस्य रुप्यकद्वयं न्यूनीकृतमस्ति। नूतनं मूल्यम् श्वः आरभ्य प्रबलं भविष्यति। 
कोच्ची मेट्रो - द्वितीयतलोद्ङाटनम् अद्य। 
कोच्ची > कोच्चीमेट्रोद्वारा नगरदृश्यानि अनुभवामः, अद्य आरभ्य। पालारिवट्टंतः महाराजास् चत्वरपर्यन्तं विद्यमानायाः रेल् यानयोजनायाः द्वितीयश्रेण्याः प्रथमं 'फ्लाग् ओफ्' कर्म अद्य प्रभाते १०.३० वादने जवर्लाल् नेहरु क्रीडाङ्कणे केन्द्रमन्त्रिणः हर्दीपसिंहपुरिवर्यस्य सान्निध्ये मुख्यमन्त्री पिणरायि विजयः निर्वक्ष्यति। अनन्तरं मुख्यमन्त्री संघश्च ततः महारास् चत्वरपर्यन्तं मेट्रोमार्गेण यात्रां कृत्वा ११ वादने एरणाकुलं 'टौण् हाल्' मध्ये आयोज्यमाने सम्मेलने यात्रासेवनस्य उद्घाटनप्रख्यापनं करिष्यति। ततः प्रभृति मेट्रोयात्रा   आरभ्यते। मध्याह्नेन सञ्चारव्यवस्था क्रमानुगतां प्राप्स्यतीति मेट्रो अधिकारिभिः उक्तम्। 
    मेट्रो सञ्चारपथस्य सर्वे नियमसभासामाजिकाः, विपक्षनेता रमेश् चेन्नित्तला , प्रोफ.के वि तोमस् एम् पि, मेट्रो योजनायाः मख्योपदेष्टा ई श्रीधरप्रभृतयः उद्घाटनसम्मेलने भागभागित्वं वक्ष्यन्ति।
अमेरिक्कायां लास् वेगस् मध्ये भुषुण्डिप्रयोगेण उपषष्टिजनाः मृताः। 
       लास् वेगस् > अमेरिक्कायां लास् वेगस् मध्ये कञ्चन संगीतकार्यक्रमं प्रति कृते भुषुण्डिप्रयोगे उपषष्टि जनाः मृत्युमुपगताः। पञ्चशताधिकजनाः व्रणिताः। 
    अमेरिक्कायाः प्रमुखं विनोदसञ्चारकेन्द्रं भवति लास् वेगास्। अत्रत्ये कस्मिंश्चन स्थाने प्रवृत्तमानस्य सङ्गीतोत्सवस्य समापनदिने कार्यक्रममास्वदितुं त्रिशत्सहस्राधिकं जनाः सन्निहिताः आसन्। तान् लक्ष्यीकृत्य समीपस्थस्य भवनसमुच्चयस्य द्वात्रिंशत्तमात् तलात् स्टीफन् पडोक्क् नामकः आधुनिकयन्त्रशतघ्निमुपयुज्य अनेकवारं शस्त्रप्रयोगमकरोत्। प्रकोपनस्य कारणं किमिति अज्ञातं वर्तते। अक्रमी पश्चात् आरक्षकैः निहतः। 
   लास् वेगास् नगरस्थाः भारतीयाः सुरक्षिताः वर्तन्ते इति भारतीयविदेशकार्यमन्त्रालयेन निगदितम्।
असमे पुनरपि जलोपप्लवः, ७८००० जनाः दुरितबाघिताः।
               गुवाहति > असमस्य पञ्चसु जनपदेषु पुनरपि जलोपप्लवः। अष्टाशीति सहस्रं (७८०००) जनाः प्रलयबाधिताः अभवन्I समीपस्थराज्येषु मेघालय अरुणाचलप्रदेशेषु सम्भूताः वर्षाः एव जलोपप्लवस्य कारणम्। लिखिंपुरः, दक्षिणसल्मारः, गोल्परः, होजायि, कर् बी आङ् लोङ् जनपदेषु एव जलोपप्लवे अधिक्यः।
               प्रलयबाधित जनपदेषु  अष्टादश (१८) दुरित निवारणशिबिराः उद्घाटिताः। नवसहस्रं जनाः शिबिराश्रिताः सन्ति इति PTI संस्थया विज्ञाप्यते । गोल्पारयां एकचत्वारिंशत् सहस्रं जनाः प्रलयेन बाधिताः सन्ति। संवत्सरेस्मिन् द्वितीयः जलोपप्लवः भवति एषः। पूर्वकालीन प्रलये षट्सप्तति जनाः (७६) मृताः आसन्।

Monday, October 2, 2017

उष़ुन्नालवैदिकाय जन्मग्रामस्य प्रेमनिर्भरं स्वीकरणम्। 
कोच्ची > भीकरेभ्यः मोचितः सन् केरलं सम्प्राप्ताय फादर् टोम् उष़ुन्नालिल् वैदिकाय जन्मग्रामः पाला रामपुरं ग्रामः प्रेमोष्मलं स्वीकरणम् आयोजयत्। 
     सायं सार्धपञ्चवादने जन्मग्रामसमीपस्थं पालानगरं सम्प्राप्तः उष़ुन्नालवैदिकः ततः वाहनव्यूहस्य अनुगमनेन रामपुरं ग्रामहृदयम् आनीतः। अनावरणेन जीप् यानेन रामपुरं देवालयं गच्छन्तं तं वीथीपार्शयोः प्रतीक्षमाणाः सहस्रशः जनाः हर्षारवेण अभिवाद्यं समर्पितवन्तः। कृतज्ञतापुरस्सरं प्रत्यभिवाद्यं कुर्वन् रामपुरं फरोना देवालयं प्राप्तः उष़ुन्नालः सहस्रशानां ग्रामीणानां बन्धुजनानां च सान्निध्ये कुर्बानाराधनां समर्पितवान्। तत्र कारागारदुरितेभ्यः मोचनं सम्प्राप्तमित्यस्मै जगदीश्वराय कृतज्ञतां प्रकाशितवान्। ततः प्रवृत्ते सम्मेलने सः आत्मनः मोचनाय इतःपर्यन्तम् अहोरात्रं प्रार्थनापूर्णचित्तानां तद्देशवासिनां बान्धवानां च कृते धन्यवादं समर्पितवान्। 
    सामाजिकाः के एम् माणी, रोषि अगस्टिन् , जोस् के माणी इत्यादयाः प्रमुखाः स्वीकरणसम्मेलने$स्मिन् भागं स्वीकृतवन्तः!
आतङ्कवादिनः प्रवेशयितुं पाकिस्तानदेशात् भारतं प्रति सुरङ्ग: ।
श्रीनगरम् > जम्मूकाश्मीरस्थे अर्णियाप्रदेशे सीम्नि चतुर्दशपाददीर्घमितं सुरुङ्गं सैन्यम् अपश्यत् । पाकिस्तानप्रदेशात् निर्मितस्य सुरङ्गस्यान्तः संशोध्य आयुधसञ्चयं गृहीतवन्तः I 
अन्ताराष्ट्रसीमाप्रदेशे दमानायां सैन्येन कृते शुचीकरणप्रवर्तनमध्ये एव सुरङ्गः दृष्टिगोचर : जातः। दशहर - दीपावली - आचरणवेलायाम् आतङ्कवादिन: भारतं प्रवेशयितुमेव सुरङ्गनिर्माणमिति सैनिकवृत्तान्तानि । 
एतदतिरिच्य सैन्याय जनेभ्यश्च जाग्रतानिर्देशः दत्त: ।
सीम्नि सुरङ्गान्तरम् अस्ति वेति सैन्यं शोधितवान् । सप्तमासाभ्यन्तरे दृष्टिगोचरतां गतः द्वितीयः सुरङ्गः एषः। आतङ्कवादिनः अनधिकृतप्रवेशं कृत्वा भारतम् आक्रान्तुम् परिश्रम्य एव एतन्निर्मितवन्तः ।
GST श्रेणिः न्यूनीकर्तुं शक्यते- अरुण् जैटिली।
           फरीदाबाद् >पण्यसेवनकरश्रेणिं न्यूनीकरिष्यति इति  केन्द्रधनमन्त्री अरुण् जैटिली।  आयनष्टं परिहृत्य एव न्यूनीकरणम् इति तेन व्यक्तीकृतम्। फरीदाबादे National Academy of customs in direct taxes and Nurcotics संस्थायाः स्थापकदिनपर्वणि भाषमाणः आसीत् सः। पण्यसेवनकरं सक्षमं कर्तुं प्रतिदिनं प्रयतते। अधिकतया  नूतनाः योजनाः समारभ्य प्रवर्तयितुं शाक्यते इदानीन्तन-व्यवस्थाम् परिष्कृत्य अधस्थितानां करदायिनां भारं लघूकर्तुं प्रयतते।

           करेण आयः  स्वाभाविकरीत्या भविष्यति। तदा नूतनपरिष्कारः भविष्यति इति च तेन उक्तम्। 
प्रगतिः वित्ताश्रिता भवति | नूतनानि सौविध्यानि जनानां कृते आयोजयितुं धनोपार्जनमार्गः  करः एव , लब्धं धनं एतदर्थं उपयोक्तव्यम् इति धनर्मन्त्रिणा उक्तम्।
सीम्नायां जनाः स्वदेशं त्यक्त्त्वा  चीनराष्ट्रं प्रति गन्तुम् सन्दर्भः मा भवतु - राजनाथसिंहः ।
               जोषिमठ् (उत्तराखण्ड्)>चीनदेशस्य सीमनि विद्यमानेषु ग्रामेषु वर्तमानाः भारतीयाः भरतस्य सम्पदः इति केन्द्र- आभ्यन्तरमन्त्री राजनाथ् सिंहः अवदत्। भारतस्य सीमासुरक्षायाम्  शङ्काकुलाः एते जनाः चीनं प्रति वासाय न गच्छन्ति इति तत्स्थैः आरक्षकैरेव निर्णीतं भवतु इति भारत-टिबट् आरक्षकाः राजनाथसिंहेन आदिष्टाः। जोषिमठस्य प्रथमे शिबिरे ITBP सेनाङ्गान् अभिसम्बोधनं कृत्वा भाषमाणः आसीत् सः। 
               सीमाप्रदेशवासिनां जनानाम् उपरि सर्वकारस्य सम्पूर्ण विश्वासः अस्ति इति राजनाथसिंह: अवदत् । अत एव सीमावासिनां जनानां प्राधान्यं दादव्यम् इति च तेन आदिष्टाः।  सीम्नां जनाः चीनं प्रति वासाय गच्छन्ति चेत् भारतस्य सुरक्षायाः भीषा एव भवति इति च तेनाेक्तम्। दिनचतुष्टयस्य सन्दर्शनाय उत्तराघण्डं प्राप्तवानासीत् सः।
               नरेन्द्रमोदिना नीयमानस्य सर्वकारस्य हृदयस्य केन्द्रस्थाने एव सीमाजनानां स्थानमिति सः अवदत् । अतःप्रदेशवासिभ्यः सह सौहृदम् स्थापनीयम् , तेषां समस्याः अवगन्तुं विशेषशिबिरादयः आयोजनीयाः इत्यपि तेन उक्तम्।