OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 27, 2017

सौदिराष्ट्रे वनिताभ्यः यानचालनाय अनुज्ञा।
रियाद् > सौदिराष्ट्रे यानचालनाय वनिताभ्यः अनुज्ञां दत्वा राज्ञः सल्मानस्य आदेशः। १०१८तमे जूण्मासतः आदेशः प्रबलः भविष्यति इति राष्ट्रस्य दृश्यवाहिनिना आवेदितः I आदेशस्य प्रवर्तनाय आभन्तर-धन-कर्म-सार्वजनिक-विभागानां प्राधिनित्येन सह उन्नताधिकार-समितिः अपि आयोजिता।  तैः त्रिंशत् दिनाभ्यन्तरेण आवेदनं करणीयम्।
शनिवासरे आयोजिते राष्ट्रियदिनाघोषे रियादस्य  'राज -फहदः' नाम क्रीडाङ्कणे इदं प्रथमतया शतशतं विनताः अपि मिलिताः इति श्रद्धेयः आसीत्। इतः पूर्वं सार्वजनिकमेलने स्त्री पुरुषाणाम् एकत्र मेलनं निसस्तमासीत्।
अद्य केरले लक्ष्यकन्दुकताडनमहोत्सवः। 
          कोच्ची > 'फिफा अण्टर् १७' भुवनचषकपादकन्दुकस्पर्धायाः प्रचारणार्थं केरले सर्वत्र अद्य दशलक्षं लक्ष्यकन्दुकाः प्रहार्यन्ते। केरलस्य सर्वेषु ग्रामेषु निश्चितस्थानेषु सज्जीकृतानि लक्ष्यकन्दुकस्थानानि लक्ष्यीकृत्य आबालवृद्धम् आराधकैः अद्य सायं त्रिवादनादारभ्य सप्तवादनपर्यन्तं दशलक्षं लक्ष्यकन्दुकाः पातयिष्यन्ते। 
          तिरुवनंतपुरं सेन्ट्रल् स्टेडियं मध्ये आयोज्यमाने कार्यक्रमे मुख्यमन्त्री पिणरायी विजयः उद्घाटनं करिष्यति। ९४१ ग्रामेषु , ८७ नगरेषु, ६ महानगरेषु तथा सर्वेषु विद्यालयेषु कलालयेषु च लक्ष्यकन्दुकस्तम्भाः एतदर्थं सज्जीकृताः सन्ति।
GST नाम करव्यवस्थायाम् आयोज्य मृत्तैलस्य मूल्यनियन्त्रणम् ।
‍                 त्रिश्शिव पेरूर्> मृत्तैलानां मूल्यं पण्यकर सेवननियमे अन्तर्भावयति चेत् (जि एस् टि ) मुल्यनियन्त्रणं शक्यते इति पेट्रोलियं मन्त्री धर्मेन्द्र -प्रधानः अवदत्I एतदर्थं पेट्रोलियंमन्त्रालयः केन्द्रसर्वकाराय पत्रं प्रेषितवान् इति मन्त्रिणा वार्तासम्मेलने उक्तम्।
                आयः न्यूनीकृत्य मूल्यं न्यूनीकर्तुम्   मृत्तैलशालाः आदिष्टाः च। राज्यसर्वकारेण तेषां आयवर्धनाय करः २६% तः ३४% इति वर्धितः।  एतदेव मूल्यवर्धनस्य मुख्यं कारणम् इति सः अवदत्।

Tuesday, September 26, 2017

‘मन की बात’ अथवा “मनोगतम्” Episode 36  (प्रसारण-तिथि:- 24.09.2017) 

[“मन की बात”- “मनोगतम्” - इति कार्यक्रमस्य संस्कृत-भाषिकानुवादः ]                                
भाषान्तर-कर्ता -   डॉ. बलदेवानन्द सागर 

मम प्रियाः देश-वासिनः !
             भवद्भ्यः सर्वेभ्यः नमस्कारः | आकाशवाणी-माध्यमेन ‘मन की बात’ इति ‘मनोगतम्’ प्रसारयन् वर्ष-त्रयं पूर्णतां नीतवान् | अद्य इदं षट्-त्रिंशत्तमम् आख्यानं वर्तते | ‘मन की बात’ इति प्रसारणं हि, भारतस्य सकारात्मक-शक्त्या, देशस्य प्रत्येकमपि कोणेषु संभरिताभिः भावनाभिः, इच्छाभिः, अपेक्षाभिः, कुत्रचिच्च परिदेवनैः, समुच्छलद्भिः जनानां मनोभावैः च, साकं मां संयोजितवत् | अमुना प्रसारण-व्याजेन एतैः सर्व-विध-भावैः साकं आत्मानं संयोजयितुम् अद्भुतमेकम् अवसरमहं प्राप्तवान् | नाहं कदापि एतद् अवोचम् यत् इदं हि मम मनोगतं वर्तते | इदं मनोगतं हि देशवासिनां मनोभिः मनोभावैः च सार्धं संपृक्तम् अस्ति | तेषाम् आशाभिः अपेक्षाभिः च साकं संपृक्तं वर्तते | मनकी बात-प्रसारणे यान् विषयान् अहं प्रस्तौमि, ते विषयाः देशस्य प्रायेण प्रत्येकमपि कोणेभ्यः जनैः प्रेषितेषु विविध-विषयेषु प्रायेण अन्यतमान् कांश्चन एव अत्र उपस्थापयितुं प्रभवामि, परञ्च अहन्तु बहु लाभान्वितो भवामि | भवतु नाम ईमेल्-माध्यमं वा दूरभाष-सन्देशः, आहोस्वित् भवतु Mygov, वा NarendraModiApp - इति, एतान् विविधान् विषयान् अहम् अवाप्नोमि | एतेषु अधिसंख्यन्तु मह्यं प्रेरणादायि एव, अधिकतमाः च विषयाः भवन्ति प्रशासन-परिष्कारार्थम् |
सम्पद्मण्डलं श्रेयस्कर्तुं उपदेशकसमितिः। 
नवदिल्ली > राष्ट्रस्य आर्थिकस्थितिम् अवलोकयितुम् अपेक्षिताः क्रियाविधयः निर्देष्टुं च आर्थिकोपदेशसमितिः प्रधानमन्त्रिणा नरेन्द्रमोदिना रूपवत्कृता। वृद्धिमाने न्यूने अङ्किते सत्वरपदक्षेपाणां निर्देशाय एव समित्याः रूपवत्करणम्। नीति आयोग योजनायाः अङ्गेषु अन्यतमः डो. बिबेक् देब्रोयी समित्याः नेता भविष्यति।
राष्ट्रे विद्युत् विप्लवः । दरिद्रपरिवाराणां कृते मुक्तविद्युत्।
नवदेहली> राष्ट्रे सर्वत्र विद्युत् नेतुं पद्धतिः प्रधानमन्त्रिणा प्रख्यापिता। २०१९ मार्च् ३१ पर्यन्तं सर्वेषु परिवारेषु विद्युत् लभ्येयुः। बि पी एल् पत्रं येषां अस्ति तेषां कृते मुक्तरूपेण विद्युत् दास्यति। तदर्थं १६,३२० कोटिव्ययः भविष्यतीति तेन व्यक्तीकृतम्।  सौभाग्य योजना, दीनदयाल ऊर्जाभवनम एतयोः उद्घाटनवेलायां आसीत् तस्य इदं प्रख्यापनम्।

Monday, September 25, 2017

षार्जा सुल्त्तान् केरलं सम्प्राप्तः। 
अनन्तपुरी > षार्जादेशस्य शासनाधिकारी डो. शैख् सुल्त्तान् बिन् मुहम्मद् अल् खासिमि औद्योगिकसन्दर्शनार्थं केरलं सम्प्राप्तः। तिरुवनंतपुरं विमानपत्तने मुख्यमन्त्रिणः पिणरायी विजयस्य नेतृत्वे तस्मै ऊष्मलं स्वागतमदात्।
    अद्य राज्यपालेन न्याया. सदाशिवं वर्येण सह मेलनं भविष्यति।अनन्तरं मुख्यमन्त्रिणा सह प्रवासिसम्बन्धिनः विविधविषयानधिकृत्य चर्चा भविष्यति।
   श्वः कोष़िक्कोट् विश्वविद्यालयेन दीयमानं 'डि लिट्' बिरुदं सुल्त्तान् वर्यः स्वीकरिष्यति। केरलसर्वकारस्य अतिविशिष्टातिथिः भवत्ययम्।

Sunday, September 24, 2017

मृत्तैलानां मूल्यं पञ्चाशत् ५० तः न्यूनीकर्तुं शक्यते- भाजपा नेता सुरेन्द्रः
कोषिकोट् -केरलम्> मृत्तैलानां मूल्यं पञ्चाशत् ( ५० ) रुप्यकादपि न्यूनीकर्तुं शक्यते इति भाजपा दलस्य केरल राज्यस्यनेता के सुरेन्द्रः । एतदर्थम् राज्य सर्वकारेण कृतम् अधिककरवर्धनम् प्रतिगृणीयम् नो चेत् जि एस् टी क्रमस्य परिधौ निबन्धनीयम्।
 १०१० तमे कोण्ग्रस् सर्वकारेण एव सर्वकारस्य मूल्यनिर्णयाधिकारः परित्यक्तः। साधैकवर्षाभ्यन्तरे एकवारमपि मोदिसर्वेकारेण करमूल्यं न वर्धितम् इति सुरेन्द्रः वदति। मृतैलानां मूल्यवर्धनविषये अन्येषां राजनैतिक दलानां जनानां पुरतः विप्रतिपत्ति प्रकाशनं विमृश्य आसीत् अस्य भाषणम्
नारिकेलस्य जनितकनिगूढता निर्णीता। 
कासर्कोट् > नारिकेलवृक्षस्य पारम्पर्य -स्वभावसविशेषताः निर्णीयमाना जनितकरीतिः भारतीयशास्त्रज्ञैः विश्लेषीकृता। केरलस्य कार्षिकमण्डले अनन्तसाध्यताम् उद्घाटयतीदं गवेषणफलम्।
      कासरगोडस्थ केन्द्रकैदार्य-गवेषणकेन्द्रस्य  नवदिल्लीस्थ राष्ट्रियकैदार्य जनितक-साङ्केतिकविद्यागवेषण केन्द्रस्य च वैज्ञानिकानां नेतृत्वे आसीदयमधिगमः। नारीकेलवृक्षस्य उन्नतिः, फलस्य वर्णः , बाध्यमानाः रोगाः, नारीकेलतैलस्य मानः गुणः इत्यादीन् आधारघटकान् निर्णीयमानाः जनितकांशाः [जीन्] शास्त्रज्ञैः प्रत्यभिज्ञाताः।

Saturday, September 23, 2017

पाकिस्थान् 'टररिस्थान्' इति ऐक्यराष्ट्रसभायां भारतम्। 
युणैटड् नेषन्स् > ऐक्यराष्ट्रसभायाः सार्वदेशीयसम्मेलनवेदिकायां पाकिस्थानं विरुध्य अतिरूक्षवाक्प्रहारेण भारतम्। भीकरवादं व्यापारवत्कृतः पाकिस्थानदेशः नाम्नि 'टेररिस्थान्' अभवदिति यू एन् सभायां भारतस्य स्थिरदौत्यसङ्घस्य प्रथमसचिवा ईनं गभीर् वर्या उक्तवती। काश्मीर् विषये भारतं विमृष्टवते पाकिस्थान् प्रधानमन्त्रिणः षाहिद् खाकान् अब्बासिवर्याय दत्ते प्रत्युत्तररूपेणैव ईनं गभीरवर्यायाः अयं प्रस्तावः।
     भीकरवादस्य उत्पादनं  विदेशनयनं भुवनव्यापारकरणम् इत्यादिषु प्रवर्तनेषु पाकिस्थानस्य भागभागित्वं समानरहितं भवतीति ईनं वर्या आक्षिप्तवती। सैनिकशिबिरेषु सर्वत्रापि भीकरसंरक्षणमेव पाकिस्थानस्य सम्प्रदायः इति सा अवदत्।
येन्चेङ्‌नामक लवणतडागस्य वर्णपरिवर्तनं सञ्जातम्। 
बीजिङ् - चीनदेशस्थस्य प्रसिद्धस्य येन्चेङ्‌नामक लवणतडागस्य वर्णपरिवर्तनं सञ्जातम्। तडागैकभागस्य इदानीं पाटलवर्ण: (श्वेतरक्तवर्ण:),अपरभाग स्य हरितवर्णश्च । चीनदेशस्य मरणसागर: इति येन्चेङ्‌लवणतडाग: प्रसिद्ध: । 'डुनालिल्ल सलैन' इति आल्गायाः सन्निधिरेव येन्चेङ्‌तडागास्य पाटलवर्णस्य कारणम्। बहवः सन्दर्शकाः तडागस्य वर्णपरिवर्तनं द्रष्टुम् आगच्छन्ति। लोके सोडियंसल्फेट् इत्यस्य सान्निध्ययुक्तेषु त्रिषु अन्यतमःतडागः एषः ।

Friday, September 22, 2017

बेङ्गलूरु-नगरे ‘द्वि-दिवसीय-संस्कृत-कार्यशाला’ सुसम्पन्ना


      बेङ्गलूरु> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः   ‘द्वि-दिवसीय-संस्कृत-कार्यशाला  (स्तरः – I)’ हैदराबाद् नगरस्य प्रसिद्धेन भाषावैज्ञानिकेन  डॉ. वाई.एन्. राव्-महोदयेन 2017-वर्षस्य सेप्टेम्बर्-मासस्य नवम-दशम-दिनाङ्कयोः बेङ्गलूरु-नगरे (कर्नाटक-राज्ये, भारते) ‘सायि विश्राम् होटल्’-परिसरे सुसम्पन्ना।

      कार्यशालायां बेङ्गलूरु-हुविनहदगलि-टूटिकोरिन्-हैदराबाद्-नगरेभ्यः विंशति-प्रतिभागिनः (पुरुषाः महिलाः बालाश्च) भागं गृहीतवन्तः।

       एतस्याः कार्यशालायाः दिनद्वयस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः  अभ्यासः  इत्यादीनि वैज्ञानिकदृष्टिकोण-द्वारा पाठितानि।   केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां  शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि  संस्कृतेन विशेषरूपेण पाठितम्।  श्रीमान् शक्तिवर्यः सम्भाषणसंस्कृत-वर्गाणां सञ्चालने सक्रिय-समर्थनं दत्तवान्।

        अस्याः संस्कृत-कार्यशालायाः आरम्भः 2017-सेप्टेम्बर्-मासस्य नवम-दिनाङ्के प्रातः दशवादने त्रिवारम् ‘ॐ’ इति मन्त्रोच्चारणेन अभवत्।  अन्ते निमेषं यावत् मौनमपि अनुष्ठितम्।
भारत ओसीस् राष्ट्रयोः मध्ये द्वितीयं एकदिनस्पर्धा - कुल्दीपस्य 'हाट्रिक्' विजयः
कोल्कत्ता > कुल् दीपं  इव शक्तया रीत्या कन्दुकं प्रेषयितुं समर्थम्  कन्दुकप्रेषकं आनीय तस्य शिक्षणे अध्ययनं कृते सत्यपि प्रयत्नः विफलः अभवत् । ओस्ट्रेलियाराष्ट्रं पुनरपि अत्भुतेन स्तब्धम्। कोल्कत्तायाम् आयोजिते भारत ओस्ट्रियराष्ट्रयोः द्वितीये एकदिनस्पर्धायाम् एव कुल्दीपस्य हाट्रिक् विजयः।

Thursday, September 21, 2017

शबरिगिरि तीर्थाटनम्; निर्माणप्रवर्तनानि ओक्टोबर् मासे एव पूरणीयानि- केरलस्य मुख्यमन्त्री।  
            तिरुवनन्तपुरम् > शबरिगिरेः मण्डल मकरदीपमहोत्सवसम्बन्धिन्यः सर्वा: प्रवृत्तयः ओक्टोबर् मासे एव पूरणीयानीति मुख्यमन्त्री पिणराई विजय: निरदिशत्। शबरिगिरि उत्सवस्य पूर्वसज्जता: निरीक्षितुम् अनन्तपुर्याम् आयोजिते मेलने अध्यक्षपदम् अलङ्करोति स्म स:। विविधविभागानां संस्थानां च कृते अनिवार्यसाम्पत्तिकसुविधा ओक्टोबर् पञ्चदशाभ्यन्तरे दीयते। सप्तत्रिंशत् विश्रमकेन्द्राणि विकासयितुं निश्चितानि  तानि एकमासाभ्यन्तरे पूर्णतया करणीयानि भवेयु: इति देवस्वं मन्त्री कटकंपल्लि सुरेन्द्र: अवदत्।
केरळेषु नवरात्रिकालीनस्य सङ्गीतोत्सवस्य अद्य सन्ध्यायाम् शुभारम्भः
ट्रिच्ची कश्यप् महेशस्य  सङ्गीतार्चना - नेटुम्पाशेरी समीपे पोय्काट्टुशेरी श्रीकुरुम्बा देवालये।
कोच्ची> शरन्नवरात्रिः भारते सर्वत्र आघुष्यते। केरळे विशेषतया नवरात्रीयुतः दशमदिनत्मकः उत्सवः प्राधान्यतया आघुष्यन्ते। दशम्यां प्रभाते विद्यारम्भः इति प्रसिद्धः बालिकाबालकानां अक्षरलेखनद्वारा अध्ययनस्य आरम्भः एव भाविष्यति। केरळे प्रसिद्धे पनच्चिक्काट्, परवूर् मुकाम्बिका, कालटी श्रृंगेरिमठम् इत्येतेषु स्थानेषु सङ्गीतार्चनया पर्वः समारब्धः।
यू एन् स्थिराङ्गत्वम्; ट्रम्पं अनुभाव्य प्रतीक्षया भारतम्।
    न्यूयोर्क्> ऐक्यराष्ट्रसङ्घटनम् परिष्कर्तुं  यू एस् राष्ट्रपते: डोणाल्ड् ट्रम्पस्य निर्णयम् अनुभाव्य भारतम्, यू एन् रक्षासमित्यां स्थिराङ्गत्वमिति लक्ष्यं सार्थकम् भूयादिति प्रतीक्षायाम्। अधिकानि स्थिराङ्गानि संयोज्य यू एन् रक्षासमिति: परिष्करणीयेति भारतस्य चिरकालावश्यं, यू एस् इदानीन्तनविचाराश्च समानदिशि इति प्रतीक्षाया: कारणम्। यू एन् जनकीयसभासम्मेलने भागं वोढुम् आगता विदेशकार्यमन्त्री सुषमा स्वराज:, ह्य: यू एस् राष्ट्रपतिना ट्रम्पस्य आध्यक्ष्ये प्रवृत्ते उन्नततलयोगेपि भागं स्व्यकरोत्। यू एन् कार्यदर्शीप्रमुख: अन्टोणियो गुट्टेरसेन उन्नीयमानं यू एन् नवीकरणपद्धतिम् यू एसेन स्वागतीक्रियते इति श्वेतगृहवक्ता न्यवेदयत्। उभयकक्षिसहकरणम्, व्यापारसन्धीश्च दृढीकर्तुं पञ्चविदेशराष्ट्रप्रतिनिधिभिस्सह सुषमास्वराज: ह्य: मिलितवती। तुनीसिया, बहरैन्, लात्विया, यू ए ई, डेन्मार्क् एतेषां राष्ट्राणां विदेशकार्यमन्त्रिभिस्सहासीत् मेलनम्। बङ्गलादेशप्रधानमन्त्रिणा षेख् हसीनया सहापि सुषमा अमिलत्। किन्तु रोहिङ्ग्या अभयार्थिविषय: नैव चर्चित:। तन्मध्ये, ईजिप्त् राष्ट्रपति: अब्दल् फत्ता अल् सिसि  इस्रायेल् प्रधानमन्त्री बेन्यामिन् नेतन्याहुना सह प्रथममेलनायापि यू  एन् वेदिका अभवत्। मेखलाया: समाधानश्रमाणाम् भागत्वेन आसीदिदम् मेलनमिति पश्चात् विशदीकृतम्। पाकिस्थानप्रधानमन्त्री षाहिद् घाखान् अब्बासिश्च ह्य: न्यूयोर्कं प्राप्तवान्। कश्मीरविषय एव अधुनापि पाकिस्थानेन सभायाम् उन्नीयमानप्रधानप्रश्न: इति सर्वेषाम् मति:।
 शारदीयनवरात्रपर्व अद्य प्रारभते 
अद्य शारदीयनवरात्रपर्वणः प्राथमो दिवसः वर्तते, सर्वत्र भगवत्याः नवदुर्गास्वरूपस्यार्चनं विधीयते, श्राद्धलवः आबालवृद्धाः भूरिसंख्यायां देवालयेषु दर्शनाय भगवत्याः शैलीपुत्रिरूपस्य दर्शनाय समागताः सन्ति | कुत्रचित् देवालयानां पुरतः स्वच्छातायाः समुचितव्यवस्था नैव विहितास्ति | अधिशासी अधिकारीभिः नगराणां स्वच्छतायाः स्थितिः समीक्षिता |

Wednesday, September 20, 2017

"आर्थिकमान्द्यं यथातथं" - सम्पद्व्यवस्था सुरक्षिता इति वादं निरस्य एस् बि ऐ। 
मुम्बई > भारतस्य आर्थिकव्यवस्था सुरक्षितेति केन्द्रसर्वकारस्य अभिमतं निरस्य राष्ट्रस्य वरिष्ठतमः  सार्वजनीनवित्तकोशः एस् बि ऐ। 'राष्ट्रे आर्थिकमान्द्यं सुस्थीयते। एतत्तु न क्षणिकं न तात्कािलिकम्।' वित्तकोशस्य गवेषणविभागेन कृते आवेदनपत्रे स्पष्टीकृतम्।
   मुद्रानिरोधः , पण्यसेवनकरसम्प्रदायस्य आयोजनं च राष्ट्रस्याभिवृद्धिं पश्चादगमयत् इत्यभिमतान् निरन्तरं प्रतिरुद्धमाने सन्दर्भे एव ईदृशं वृत्तान्तं बहिरागतम्। राष्ट्रस्य समग्राभ्यन्तरोत्पादनवृद्धिमानं [जि डि पि] ५.७% इति अधोगतमासीत्! किन्तु मान्द्यं केवलं साङ्केतिकमिति भाजपा दलाध्यक्षेण गतदिने प्रोक्तमासीत्।
    किन्तु मान्द्यं न केवलं साङ्केतिकं किन्तु याथार्थ्यमिति एस् बि ऐ संस्थायाः आवेदनपत्रे सूचितम्।