OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 24, 2017

नारिकेलस्य जनितकनिगूढता निर्णीता। 
कासर्कोट् > नारिकेलवृक्षस्य पारम्पर्य -स्वभावसविशेषताः निर्णीयमाना जनितकरीतिः भारतीयशास्त्रज्ञैः विश्लेषीकृता। केरलस्य कार्षिकमण्डले अनन्तसाध्यताम् उद्घाटयतीदं गवेषणफलम्।
      कासरगोडस्थ केन्द्रकैदार्य-गवेषणकेन्द्रस्य  नवदिल्लीस्थ राष्ट्रियकैदार्य जनितक-साङ्केतिकविद्यागवेषण केन्द्रस्य च वैज्ञानिकानां नेतृत्वे आसीदयमधिगमः। नारीकेलवृक्षस्य उन्नतिः, फलस्य वर्णः , बाध्यमानाः रोगाः, नारीकेलतैलस्य मानः गुणः इत्यादीन् आधारघटकान् निर्णीयमानाः जनितकांशाः [जीन्] शास्त्रज्ञैः प्रत्यभिज्ञाताः।

Saturday, September 23, 2017

पाकिस्थान् 'टररिस्थान्' इति ऐक्यराष्ट्रसभायां भारतम्। 
युणैटड् नेषन्स् > ऐक्यराष्ट्रसभायाः सार्वदेशीयसम्मेलनवेदिकायां पाकिस्थानं विरुध्य अतिरूक्षवाक्प्रहारेण भारतम्। भीकरवादं व्यापारवत्कृतः पाकिस्थानदेशः नाम्नि 'टेररिस्थान्' अभवदिति यू एन् सभायां भारतस्य स्थिरदौत्यसङ्घस्य प्रथमसचिवा ईनं गभीर् वर्या उक्तवती। काश्मीर् विषये भारतं विमृष्टवते पाकिस्थान् प्रधानमन्त्रिणः षाहिद् खाकान् अब्बासिवर्याय दत्ते प्रत्युत्तररूपेणैव ईनं गभीरवर्यायाः अयं प्रस्तावः।
     भीकरवादस्य उत्पादनं  विदेशनयनं भुवनव्यापारकरणम् इत्यादिषु प्रवर्तनेषु पाकिस्थानस्य भागभागित्वं समानरहितं भवतीति ईनं वर्या आक्षिप्तवती। सैनिकशिबिरेषु सर्वत्रापि भीकरसंरक्षणमेव पाकिस्थानस्य सम्प्रदायः इति सा अवदत्।
येन्चेङ्‌नामक लवणतडागस्य वर्णपरिवर्तनं सञ्जातम्। 
बीजिङ् - चीनदेशस्थस्य प्रसिद्धस्य येन्चेङ्‌नामक लवणतडागस्य वर्णपरिवर्तनं सञ्जातम्। तडागैकभागस्य इदानीं पाटलवर्ण: (श्वेतरक्तवर्ण:),अपरभाग स्य हरितवर्णश्च । चीनदेशस्य मरणसागर: इति येन्चेङ्‌लवणतडाग: प्रसिद्ध: । 'डुनालिल्ल सलैन' इति आल्गायाः सन्निधिरेव येन्चेङ्‌तडागास्य पाटलवर्णस्य कारणम्। बहवः सन्दर्शकाः तडागस्य वर्णपरिवर्तनं द्रष्टुम् आगच्छन्ति। लोके सोडियंसल्फेट् इत्यस्य सान्निध्ययुक्तेषु त्रिषु अन्यतमःतडागः एषः ।

Friday, September 22, 2017

बेङ्गलूरु-नगरे ‘द्वि-दिवसीय-संस्कृत-कार्यशाला’ सुसम्पन्ना


      बेङ्गलूरु> पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः   ‘द्वि-दिवसीय-संस्कृत-कार्यशाला  (स्तरः – I)’ हैदराबाद् नगरस्य प्रसिद्धेन भाषावैज्ञानिकेन  डॉ. वाई.एन्. राव्-महोदयेन 2017-वर्षस्य सेप्टेम्बर्-मासस्य नवम-दशम-दिनाङ्कयोः बेङ्गलूरु-नगरे (कर्नाटक-राज्ये, भारते) ‘सायि विश्राम् होटल्’-परिसरे सुसम्पन्ना।

      कार्यशालायां बेङ्गलूरु-हुविनहदगलि-टूटिकोरिन्-हैदराबाद्-नगरेभ्यः विंशति-प्रतिभागिनः (पुरुषाः महिलाः बालाश्च) भागं गृहीतवन्तः।

       एतस्याः कार्यशालायाः दिनद्वयस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः  अभ्यासः  इत्यादीनि वैज्ञानिकदृष्टिकोण-द्वारा पाठितानि।   केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां  शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि  संस्कृतेन विशेषरूपेण पाठितम्।  श्रीमान् शक्तिवर्यः सम्भाषणसंस्कृत-वर्गाणां सञ्चालने सक्रिय-समर्थनं दत्तवान्।

        अस्याः संस्कृत-कार्यशालायाः आरम्भः 2017-सेप्टेम्बर्-मासस्य नवम-दिनाङ्के प्रातः दशवादने त्रिवारम् ‘ॐ’ इति मन्त्रोच्चारणेन अभवत्।  अन्ते निमेषं यावत् मौनमपि अनुष्ठितम्।
भारत ओसीस् राष्ट्रयोः मध्ये द्वितीयं एकदिनस्पर्धा - कुल्दीपस्य 'हाट्रिक्' विजयः
कोल्कत्ता > कुल् दीपं  इव शक्तया रीत्या कन्दुकं प्रेषयितुं समर्थम्  कन्दुकप्रेषकं आनीय तस्य शिक्षणे अध्ययनं कृते सत्यपि प्रयत्नः विफलः अभवत् । ओस्ट्रेलियाराष्ट्रं पुनरपि अत्भुतेन स्तब्धम्। कोल्कत्तायाम् आयोजिते भारत ओस्ट्रियराष्ट्रयोः द्वितीये एकदिनस्पर्धायाम् एव कुल्दीपस्य हाट्रिक् विजयः।

Thursday, September 21, 2017

शबरिगिरि तीर्थाटनम्; निर्माणप्रवर्तनानि ओक्टोबर् मासे एव पूरणीयानि- केरलस्य मुख्यमन्त्री।  
            तिरुवनन्तपुरम् > शबरिगिरेः मण्डल मकरदीपमहोत्सवसम्बन्धिन्यः सर्वा: प्रवृत्तयः ओक्टोबर् मासे एव पूरणीयानीति मुख्यमन्त्री पिणराई विजय: निरदिशत्। शबरिगिरि उत्सवस्य पूर्वसज्जता: निरीक्षितुम् अनन्तपुर्याम् आयोजिते मेलने अध्यक्षपदम् अलङ्करोति स्म स:। विविधविभागानां संस्थानां च कृते अनिवार्यसाम्पत्तिकसुविधा ओक्टोबर् पञ्चदशाभ्यन्तरे दीयते। सप्तत्रिंशत् विश्रमकेन्द्राणि विकासयितुं निश्चितानि  तानि एकमासाभ्यन्तरे पूर्णतया करणीयानि भवेयु: इति देवस्वं मन्त्री कटकंपल्लि सुरेन्द्र: अवदत्।
केरळेषु नवरात्रिकालीनस्य सङ्गीतोत्सवस्य अद्य सन्ध्यायाम् शुभारम्भः
ट्रिच्ची कश्यप् महेशस्य  सङ्गीतार्चना - नेटुम्पाशेरी समीपे पोय्काट्टुशेरी श्रीकुरुम्बा देवालये।
कोच्ची> शरन्नवरात्रिः भारते सर्वत्र आघुष्यते। केरळे विशेषतया नवरात्रीयुतः दशमदिनत्मकः उत्सवः प्राधान्यतया आघुष्यन्ते। दशम्यां प्रभाते विद्यारम्भः इति प्रसिद्धः बालिकाबालकानां अक्षरलेखनद्वारा अध्ययनस्य आरम्भः एव भाविष्यति। केरळे प्रसिद्धे पनच्चिक्काट्, परवूर् मुकाम्बिका, कालटी श्रृंगेरिमठम् इत्येतेषु स्थानेषु सङ्गीतार्चनया पर्वः समारब्धः।
यू एन् स्थिराङ्गत्वम्; ट्रम्पं अनुभाव्य प्रतीक्षया भारतम्।
    न्यूयोर्क्> ऐक्यराष्ट्रसङ्घटनम् परिष्कर्तुं  यू एस् राष्ट्रपते: डोणाल्ड् ट्रम्पस्य निर्णयम् अनुभाव्य भारतम्, यू एन् रक्षासमित्यां स्थिराङ्गत्वमिति लक्ष्यं सार्थकम् भूयादिति प्रतीक्षायाम्। अधिकानि स्थिराङ्गानि संयोज्य यू एन् रक्षासमिति: परिष्करणीयेति भारतस्य चिरकालावश्यं, यू एस् इदानीन्तनविचाराश्च समानदिशि इति प्रतीक्षाया: कारणम्। यू एन् जनकीयसभासम्मेलने भागं वोढुम् आगता विदेशकार्यमन्त्री सुषमा स्वराज:, ह्य: यू एस् राष्ट्रपतिना ट्रम्पस्य आध्यक्ष्ये प्रवृत्ते उन्नततलयोगेपि भागं स्व्यकरोत्। यू एन् कार्यदर्शीप्रमुख: अन्टोणियो गुट्टेरसेन उन्नीयमानं यू एन् नवीकरणपद्धतिम् यू एसेन स्वागतीक्रियते इति श्वेतगृहवक्ता न्यवेदयत्। उभयकक्षिसहकरणम्, व्यापारसन्धीश्च दृढीकर्तुं पञ्चविदेशराष्ट्रप्रतिनिधिभिस्सह सुषमास्वराज: ह्य: मिलितवती। तुनीसिया, बहरैन्, लात्विया, यू ए ई, डेन्मार्क् एतेषां राष्ट्राणां विदेशकार्यमन्त्रिभिस्सहासीत् मेलनम्। बङ्गलादेशप्रधानमन्त्रिणा षेख् हसीनया सहापि सुषमा अमिलत्। किन्तु रोहिङ्ग्या अभयार्थिविषय: नैव चर्चित:। तन्मध्ये, ईजिप्त् राष्ट्रपति: अब्दल् फत्ता अल् सिसि  इस्रायेल् प्रधानमन्त्री बेन्यामिन् नेतन्याहुना सह प्रथममेलनायापि यू  एन् वेदिका अभवत्। मेखलाया: समाधानश्रमाणाम् भागत्वेन आसीदिदम् मेलनमिति पश्चात् विशदीकृतम्। पाकिस्थानप्रधानमन्त्री षाहिद् घाखान् अब्बासिश्च ह्य: न्यूयोर्कं प्राप्तवान्। कश्मीरविषय एव अधुनापि पाकिस्थानेन सभायाम् उन्नीयमानप्रधानप्रश्न: इति सर्वेषाम् मति:।
 शारदीयनवरात्रपर्व अद्य प्रारभते 
अद्य शारदीयनवरात्रपर्वणः प्राथमो दिवसः वर्तते, सर्वत्र भगवत्याः नवदुर्गास्वरूपस्यार्चनं विधीयते, श्राद्धलवः आबालवृद्धाः भूरिसंख्यायां देवालयेषु दर्शनाय भगवत्याः शैलीपुत्रिरूपस्य दर्शनाय समागताः सन्ति | कुत्रचित् देवालयानां पुरतः स्वच्छातायाः समुचितव्यवस्था नैव विहितास्ति | अधिशासी अधिकारीभिः नगराणां स्वच्छतायाः स्थितिः समीक्षिता |

Wednesday, September 20, 2017

"आर्थिकमान्द्यं यथातथं" - सम्पद्व्यवस्था सुरक्षिता इति वादं निरस्य एस् बि ऐ। 
मुम्बई > भारतस्य आर्थिकव्यवस्था सुरक्षितेति केन्द्रसर्वकारस्य अभिमतं निरस्य राष्ट्रस्य वरिष्ठतमः  सार्वजनीनवित्तकोशः एस् बि ऐ। 'राष्ट्रे आर्थिकमान्द्यं सुस्थीयते। एतत्तु न क्षणिकं न तात्कािलिकम्।' वित्तकोशस्य गवेषणविभागेन कृते आवेदनपत्रे स्पष्टीकृतम्।
   मुद्रानिरोधः , पण्यसेवनकरसम्प्रदायस्य आयोजनं च राष्ट्रस्याभिवृद्धिं पश्चादगमयत् इत्यभिमतान् निरन्तरं प्रतिरुद्धमाने सन्दर्भे एव ईदृशं वृत्तान्तं बहिरागतम्। राष्ट्रस्य समग्राभ्यन्तरोत्पादनवृद्धिमानं [जि डि पि] ५.७% इति अधोगतमासीत्! किन्तु मान्द्यं केवलं साङ्केतिकमिति भाजपा दलाध्यक्षेण गतदिने प्रोक्तमासीत्।
    किन्तु मान्द्यं न केवलं साङ्केतिकं किन्तु याथार्थ्यमिति एस् बि ऐ संस्थायाः आवेदनपत्रे सूचितम्।
मेक्सिको राष्ट्रे बृहत् भूचलनम्। ११९ हताः।
मेक्सिको सिट्टी- मेक्सिको राष्ट्रे ह्यः सञ्जाते अतिशक्तभूचलने ११९ जनाः हताः। रिक्टर सूचिकायां ७.१ रेखीकृते भूचलने मन्दिराणि छिन्नानि जातानि। केषुचित् मन्दिरेषु अग्निबाधा जाताः। तेषु जनाः वर्तन्ते इति अधिकृतैः उक्तम्। सहस्रशः जनाः गृहाणि कार्यालयान् च त्यक्त्वा वीथ्यां धावितवन्तः। मेक्सिको सिट्टीतः शत कि.मी दूरे प्यू एब्ला राज्यमस्ति भूकम्पस्य प्रभवस्थानम्। निरन्तरेण भूकम्पानि जाते अस्मिन् देशे अस्य मासस्य आदौ जाते भूकम्पे ६१ जनाः हताः अभवन्। सहस्राणां हननेन कुख्यातस्य १९८५ तमस्य भूकम्पस्य वार्षिकमासीत् ह्यः।
बाध्यता न स्वीक्रियते, साङ्केतिकविद्याविनिमयोपि नास्ति, सूचनया सह यू एस् संस्था:।। 
    नवदिल्ली>भारताय प्रतिप्रहररूपं निर्णयं स्वीकृत्य यू एस् प्रतिरोधसंस्था:। "भारते निर्माणम्" इति पद्धते: भागतया भारते निर्मीयमानयुद्धविमानानां साङ्केतिकविद्याविनिमयो न साध्य इति संस्था: व्यजिज्ञपन्। न केवलं तत्, निर्माणावसरे तत: परं वा जायमानानां दोषाणां दायित्वं च न स्वीक्रियन्ते इति संस्था: व्यक्तीकुर्वन्ति स्म। यू एस् आयुधनिर्माणसंस्था: यू एस् - भारत व्यापारविनिमयसमितीद्वारा प्रतिरोधमन्त्रालयम् प्रति प्रेषिते पत्रे एव एतत्सर्वं सूचितम्। प्रधानमन्त्रिण: अभिमानपद्धतिरेव "भारते निर्माणम् "इत्येतत्। कायिकक्षमतया सह राष्ट्रे विद्यमानविभवानां कार्यक्षमोपयोगश्च पद्धत्यां विभावितम्। किन्तु यू एस् संस्थानां विज्ञापनम् पद्धते: कृते प्रतिप्रहर: एव।
रोहिङ्क्यानां विषये सूच्याः नयः अविश्वसनीयः इति आम्नस्टिदलम्I
लन्टन्> रोहिङक्यायानां विषये म्यान्मर् राष्ट्रस्य नेतृणीं ओङ् साङ्‌ सूचीं विमृश्य आम्नस्टि इन्टर् नाषणल् इति मानवाधिकारसंस्था। विषयेस्मिन् मरुभूमि स्था अष्ट्रपक्षी इव सिकतासु मुखं संस्थाप्य तिष्टति सूची इति आम्नस्टि संस्थया उक्तम्।
विषयेऽस्मिन् राष्ट्रान्तरसमूहस्य अभिमतः न स्वीक्रियते इति सूचिनाव्यक्तिकृतम् । म्यानमर् देशतः धावनं कृत्वा बङ्गाल देशं प्राप्तवतां जनानां विषयेषु कदापि चिन्तयाम: इति म्यान् मर् देशस्थस्य अधिपया उक्तम्।

Tuesday, September 19, 2017

उत्तरकोरियाम् उत्पाटयिष्यतीति ट्रम्पस्य विभीषिका। 
युनैटड् नेषन्स् > वर्तमानं मनोभावम् अपाकर्तुम्  न सिद्धा तर्हि उत्तरकोरियां पूर्णतया विध्वंसयिष्यतीति अमेरिक्काराष्ट्रपतिः डोणाल्ड् ट्रम्पः ऐक्यराष्ट्रसभायां विभीषिकां कृतवान्। आणवपरीक्षणसहितेभ्यः प्रतिलोमप्रवर्तनेभ्यः उत्तरकोरियाराष्ट्रं प्रतिनिवर्तेत।
    तस्य राष्ट्रस्य नेता किम् जोङ् उन् अपि ट्रम्पेन विमृष्टः। 'रोक्कट् मनुष्यः' आत्माहुतियत्नः एव करोतीति ट्रम्पः उपहसितवान्। यदि शत्रुतात्मकं मनोभावं उपेक्षितुं किं जोङ् उन् न यतते तर्हि लोकराष्ट्रैः सः पृथक्करणणीयः इति ट्रम्पेण उक्तम्।
रोहिङ्ग्यन् अभयार्थिनः राष्ट्राय भीषा - केन्द्रसर्वकारः। 
नवदिल्ली > म्यान्मर् देशात् भारतं प्राप्तवन्तः रोहिङ्ग्यन् अभयार्थिनः राष्ट्रसुरक्षायै भीषा इति केन्द्रसर्वकारेण सर्वोच्चन्यायालये समर्पितेन सत्यवाक्प्रस्तावेन प्रबोधितम्। अभयार्थिनः राष्ट्रात् निष्कासितुम् सर्वकारस्य उद्यमे सर्वोच्चन्यायालयस्य मध्यस्थता न कार्या इति च अभ्यर्थितम्।

Monday, September 18, 2017

मुम्बैनगरं निमज्जयितुं पुनरपि समेघघट्टनं वृष्टिपातः भविष्यति ।
घोरवृष्ट्या आगस्त्मासस्य नवविंशतिदिनाङ्के मुम्बैनगरे संभूतः जलोपप्लवः <सञ्चिकाचित्रं >
मुम्बै - अप्रतीक्षित वृष्ट्याघातात् मोचनात्पूर्वं मुम्बे निवासिनां कृते पुनरपि कालावस्थाकेन्द्रस्य सूचना   I सोमवासरादारभ्य त्रिदिनानि यावत् समेघघट्टं घोरवृष्टि: विभिन्नस्थलेषु भविष्यतीति कालावस्थानिरीक्षणकेन्द्रप्रवचनम्। अस्मिन् सन्दर्भे गोवा - मुम्बै इत्यादिस्थलेषु पुनरपि जलेपप्लवसंभावना भवतीति पूर्वसूचने अवदत् ।
कोङ्कण्‌ - कर्णाटकतीरप्रदेशेषु गोवायां मध्यप्रदेशे च घोरवृष्टिः भविष्यति। महाराष्ट्र-गुजरातसीमाप्रदेशेष्वपि वर्षा लभेत । आगास्त्मासस्य एकोनविंशतिदिनाङ्के भूतवर्षादुरितानन्तरमेव मुम्बैदेशाय पूर्वसूचनम्।
एकोनिवंशतितमे दिनाङ्के केवलं मुम्बैप्रदेशे   ३३१ मि. लि. मिता वर्षा अलभत । चतुर्विंशतिघण्टाभिरेव तादृशवर्षापातः समभवदित्यनेन नगरवासिनः क्लेशमनुभूतवन्तः I अधिकप्रदेशेषु जलोपप्लवः सञ्जातः । गतागतसेवनं सब्धम् । अतः सर्वकार: अवकाशं दत्तवान् ।
अष्टाविंशतिदिनाङ्कादार भ्य विंशतिदिनाङ्कपर्यन्तं  घोरवृष्टिः भविष्यतीति कालावस्थानिरीक्षणकेन्द्रेण पूर्वसूचनं दत्तमासीत् । दक्षिणकोङ्कणस्थासु रत्नगिरि-सिन्धुदुर्गजिल्ला स्वेव अतिवृष्टिः भविष्यति। उत्तरकोङ्कणान्तर्भूते मुम्बैनगरे पाल्गर्, राय्गढ्जिल्लासु च वर्षा तीव्रभावं प्राप्स्यति । मध्यमहाराष्ट्रे अपि समेघघट्टनम् अतिवृष्टिः भविष्यति।
कोङ्कण् तीरे गोवायां च केषुचित्प्रदेशेषु अतिघोरा वृष्टिः भविष्यति इत्येव पूर्वसूचनम्। अस्मिन्नेव दिने मध्यमहाराष्ट्रे कर्णाटकतीरप्रदेशेष्वपि घोरा वृष्टिः भविष्यति।
नवदशे दिनाङ्के कोङ्‌कण तीरे गोवायां च वर्षाया: किञ्चिदुपशमः भवेत्। किन्तु मध्यमहाराष्ट्रे कर्णाटकतीरप्रदेशेष्वपि घोरा वृष्टिः अनुवर्तेतI
विंशतिदिनाङ्के कोङ्कण्तीरे गोवायां च क्वचित् घोरवृष्टिः स्यात्। महाराष्ट्रे कर्णाटकतीरप्रदेशेष्वपि वृष्टिशमनं न स्यात्।
किन्तु एकविंशतितमे दिनाङ्‌के वृष्टिपातः न्यूनीभविष्यति इति कालावस्थानिरीक्षणकेन्द्रेण प्रकाशिते वार्ताविज्ञापने सूच्यते।
केरले अतिशक्ता वर्षा, सर्वत्र जाग्रता निर्देशः। 
कोच्ची > केरले सर्वेषु जनपदेषु अतिवृष्टिः अनुवर्तते। अहोरात्रम् अनुवर्तितया वृष्ट्या  जनजीवनं दुस्सहमभवत्। कण्णूर् जनपदे मुहम्मद् कुञ्ञिनामकः कश्चन मृतः। एरणाकुलं कोतमङ्गलं प्रदेशे  कुल्यातरणं कुर्वन् बैजुनामकः जलप्रवाहे पतित्वा अप्रत्यक्षः अभवत्।
      पर्वतप्रान्तजनपदेषु भूच्छेदादिषु प्रकृतिक्षोभेषु बहूनि नाशनष्टान्यभवन्। पालक्काट् जनपदे अट्टप्पाटीप्रदेशे भूच्छेदेन एकं भवनं पूर्णतया , चत्वारि भवनानि भागिकतया च नाशमुपगतानि। कोट्टयं जनपदे चिङ्ङवनं प्रदेशे रेल्लोहमार्गं प्रति मृत्पातेन रेल् गतागतं होराणि यावत् स्थगितम्।
   आलप्पुष़ा, एरणाकुलं तिरुवनन्तपुरं जनपदेषु अवनतप्रदेशाः जले निमग्नाः अभवन्।
   त्रीणि दिनान्यपि वृष्टिः अनुवर्तिष्यते इति पर्यावरणनिरीक्षणविभागेनोक्तम्। आरबसमुद्रस्य पश्चिमतीरे रूपवत्कृतः न्यूनमर्दः तथा ओडीषा-उत्तर आन्ध्रा तीरयोः सञ्जातं अन्तरिक्षचक्रञ्च अतिवृष्टेः कारणमिति निरीक्षणकेन्द्रेण निगदितम्।
पि वि सिन्धोः वनिताकिरीटम्। 
सोल् > पिच्छकन्दुकक्रीडायाः 'कोरियन् ओप्पण् सूपर् सीरीस्' वनिताकिरीटम् भारतस्य पि वि सिन्धुः प्राप्तवती। पिच्छकन्दुकस्य लोकवनिताकिरीटजेत्रीं जाप्पानराष्ट्रस्य नोसोमी ओकुहारां २२-२०,११-२१, २१-१८ क्रमेण पराजित्य सिन्धुः मधुरप्रतीकारं कृतवती। सप्ताहत्रयात् पूर्वं ग्लास्को नगरे सम्पन्ने भुवनपिच्छकन्दुकस्पर्धायाः अन्तिमे चक्रे ओकुहारा सिन्धुं पराजित्य किरीटं प्राप्तवती आसीत्। 
     अस्मिन् संवत्सरे सिन्धोः क्रीडाचर्यायां च तस्याः तृतीयं किरीटं भवत्येतत्।