OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 17, 2017

क्रमातीताम् इन्धनमूल्यवर्धनां न्यायीकृत्य अल्फोण्स् कण्णन्तानम्। 
अनन्तपुरी > केन्द्रसर्वकारेण  दरिद्राणां कृते आयोज्यमानानां क्षेमायोजनानां धनसम्पादनार्थमेव क्रमातीतम् इन्घनमूल्यवर्धनमिति केन्द्रविनोदसञ्चारसहमन्त्री अल्फोण्स् कण्णन्तानम्।
      राष्ट्रस्य अकिञ्चनानां कृते शौचालयाद्याधारसुविधानां निर्माणयोजनायै धनं समाहर्तुं सर्वकारस्य मनःपूर्वं क्रियाविधिरयमिति मन्त्रिणः विशदीकरणम्। राष्ट्रे ये  वाहनस्वामिनः सन्ति ते न दरिद्राः।  इन्धनोपभोगाय ते प्रभवन्ति।
     कण्णन्तानस्य अयं प्रस्तावः विपक्षदलानां विमर्शकारणमभवत्।
मार्षल् अर्जुन् सिंहः निर्यातः। 
नवदिल्ली > १९६५तमे पाकिस्थानं विरुध्य सम्पन्ने युद्धे भारतं विजयं नीतवान् मार्षल् अर्जन् सिंहः(९८) हृदयाघातेन दिल्लीस्थे सैनिकातुरालये मृत्युमुपगतः। 
     पाकिस्थानं विरुद्ध्य युद्धे भारतव्योमसेनायाः नायक आसीत्। 'मार्षल् ओफ् दि इन्डियन् एयर्फोर्स्' नामकं व्योमसेनायाः सर्वोन्नतं पदं लब्धः एकैकः उद्योगपतिः अस्ति। पद्मविभूषणेनापि अयं सम्मानितः आसीत्। 
    तस्मिन्नातुरालये प्रविष्टे  प्रधानमन्त्री नरेन्द्रमोदी रक्षामन्त्रिणी निर्मलासीतारामः, व्योमसेनाधिपः बि एस् धनोवा इत्यादयः आतुरालयं प्राप्तवन्तः आसन्।

Saturday, September 16, 2017

केरळ-राज्यस्तरीय-संस्कृतदिनाघोषः अद्य वयनाट् जनपदे। 
कल्पट्टा > केरलस्य राज्यस्तरीयः संस्कृतदिनाघोषः अद्य वयनाट् जनपदे कल्पट्टा पुलियार्मलस्थे कृष्णगौडर् मण्डपे  विविधकार्यक्रमैः प्रचाल्यते।
     प्रभाते नववादने मानन्तवाटी पष़श्शिकुटीरात् आरभ्यमाणेन दीपशिखाप्रयाणेन दिनाघोषः समारभते। दशवादने कृष्णगौडर् मण्डपे आयोज्यमानायां उद्घाटनसभायां सार्वजनीनशैक्षिकविभागे संस्कृभाषायाः सविशेषाधिकारिणी डो. टि डि सुनीतीदेवी स्वागतभाषणं करोति। बत्तेरी विधानसभामण्डलस्य सामाजिकस्य ऐ सी बालकृष्णवर्यस्य अध्यक्षत्वे कल्पट्टा विधानसभासामाजिकः सि के शशीन्द्रः सभायाः उद्घाटनं निर्वक्ष्यति।
    सभामध्ये केरलस्य उन्नतशीर्षेषु संस्कृत-व्याकरणपण्डितेषु अन्यतमः, तथा च भूतपूर्वः संस्कृताध्यापकः, वयनाट् शैक्षिकजनपदस्य डि ई ओ पदं प्राप्य सेवनात् निवृत्तः , 'सम्प्रतिवार्ता'नामकान्तर्जालदैनंदिनसंस्कृतवार्तापत्रिकायाः रक्षाधिकारिषु अन्यतमः एन् के रामचन्द्रवर्यः मीनन्तवाटि सामाजिकेन ओ के केलुवर्येण समाद्रियते। केन्द्रसाहित्यअक्काडमीपुरस्कारजेता डो.एछ् आर् विश्वासः सम्मेलने$स्मिन् मुख्यभाषणं करोति।
      नैके जनप्रतिनिधयः आशंसामर्पयन्ति। संस्कृताध्यापकफेडरेषन् संघटनस्य राज्यस्तरीयसचिवमुख्यः पि जि  अजित् प्रसादप्रभृतयः अध्यापकसंघटनाप्रतिनिधयः तेषां  सान्निध्येन वेदिकामलङ्कुर्वन्ति।

Friday, September 15, 2017

मलेष्यायां विद्यालये अग्निबाधा - २५ मरणानि। 
कुलालंपूर् > मलेष्याराष्ट्रस्य राजधान्यां कस्यचन विद्यालयस्य शयनगृहे दुरापन्नायाम् महत्यामग्निबाधायां त्रयोविंशति छात्रान् अभिव्याप्य पञ्चविंशति जनाः मृत्युमुपगताः। १३ - १७ मध्ये वयोभूताः छात्राः एव मारिताः।
    इस्लामिक बोर्डिंग् स्कूल् नामकस्य विद्यालयस्य एकस्मिन्नेव प्रवेशनकवाटे एव अग्निबाधा सञ्जाता। शयनगृहस्य वातायनानि अयोदण्डविन्यस्तानीत्यतः रक्षां प्राप्तुं को$पि रक्षामार्गः नासीत्। आक्रन्दनं श्रुत्वा आगतवन्तः अपि निस्सहायतया स्थिताः। अग्निशमनसेनया एकहोरायाः परिश्रमेणैव अग्निः नियन्त्रणाधीना अभनत्।
इराख् राष्ट्रे भीकराक्रमणम्। पञ्चदश मृत्युः।
  बाग्दाद्> इराख् राष्ट्रे इस्लामिक भीकरैः कृतयोः आक्रमणयोः पञ्चदश जनाः हताः। नसिरियायां एकस्मिन् भोजनालये आगतः अग्निगोलविक्षेपणी धारिणा कृते अग्निगोलविक्षेपणे तथा समीपे जाते कारयानस्फोटने च जनाः मृताः।
  इराख् सेनया सह आक्रमणं कृतस्य षिया संस्थायाः गणवेषं धृत्वा एव भीकरैः आक्रमणं कृतमिति प्रतिवेदनानि वदन्ति। अशीति जनाः क्षतबाधिताः। मरणसंख्या इतोपि वर्धयेदिति सूचना।
सर्वेषां भारतीयानां कृते धन्यवादं प्रकाश्य फा. टोम्। 
वत्तिक्कान् > स्वस्य मोचनाय प्रार्थनां कृतवतां सर्वेषां भारतीयानां कृते धन्यवादं समर्पयामीति फादर् टोम् उष़ुन्नालिल् । वत्तिक्कानतः विदेशकार्यमनत्रिण्या सुषमास्वराजवर्यया सह दूरवाणीद्वारा भाषमाणे सन्दर्भे आसीत् तस्य कृतज्ञताप्रकाशनम्।
     भीकराः आत्मानं कस्मिंश्त्समये अपि अभिद्रोहं न कृतवन्त इति टोमः वार्ताहरान् प्रति उक्तवान्। "सार्धैकसंवत्सरं यावत् इस्लामिकभीकरैः सह वासः यातनापूर्णः अतिक्राम्यमानश्चासीत्। एकमात्रवस्त्रधारी आसम्। शरीरभारे न्यूने जाते भीकराः प्रमेहस्यौषधं दत्तवन्तः। वासशिबिराणि त्रिवारं परिवर्तितम्। त्रिवारमपि नयने निबन्ध्य एव नीतः"- स्वस्य बन्धितजीवनमधिकृत्य फादर् टोमः विशदीकृतवान्।
   इदानीं वत्तिक्काने स्थित्वा आरोग्य परिरक्षां कृत्वा एव स्वदेशं प्रति यात्रामधिकृत्य विचिन्त्यते इति तेनोक्तम्।
फादर् टोमस्य मोचनाय द्रव्यं न दत्तम् - वि के सिंहः। 
अनन्तपुरी > येमन् राष्ट्रे भीकरैः निगृहीतस्य वैदिकस्य टोम् उष़ुन्नालस्य मोचनाय मोचनद्रव्यरूपेण किमपि न दत्तमिति विदेशकार्यसहमन्त्रिणा वि के सिंहेनोक्तम्। तादृशं प्रचारणम् अाधाररहितमस्ति। नयतन्त्ररूपेण व्यवहारेणैव तस्य मोचनं साधितमिति स अवदत्।

Thursday, September 14, 2017

द्वयोः प्रधानमन्त्रिणोः मार्गसञ्चरणं चरितमारचयत्। 
अहम्मदाबाद् > राष्ट्रस्य प्रथमं युनेस्को पैतृकनगरमिति विख्याते अहम्मदाबादे गतदिने द्वौ प्रधानमन्त्रिणौ अनावृतेन यानेन मार्गसञ्चरणं कृतवन्तौ। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी जाप्पानस्य प्रधानमन्त्री षिन्सो आबे च वीथीप्रदर्शनमकुरुताम्।
   सबर्मति गान्धी आश्रमपर्यन्तम् अष्ट कि मी दूरमासीत् सञ्चलनम्। भारतीयवेषं धृत्वा जाप्पान् प्रधानमन्त्री तस्य पत्नी अक्किया आबे च नरेन्द्रमोदिना सह विवृतं यानमारोहतः स्म। उभयोः पार्शयोः विविधवेदिकासु राष्ट्रस्य सांस्कृतिक पारम्पर्यप्रख्याप्यमानाः कलाकार्यक्रमाः अवतारिताः। राष्ट्रद्वयोः पताकाः स्वीकृत्य छात्राः प्रदेशवासिनश्च वीथीपार्शौ अलङ्कृत्य प्रेक्षकाः अभवन्।

Wednesday, September 13, 2017

बाह्याकाशयात्रिकानां कृते नूतनं सुरक्षावस्त्रम्
स्पेस् एक्स् इति संस्थायाः अधिपः एलन् मस्क्  इत्यनेन प्रकाशितम्  इन्स्टग्रां चित्रेण आदर्शरूपस्य शिरस्त्राणयुतं सम्पूणरूपमेव दृष्टुं शक्यते । नासा संस्थया परिकल्पितं  VEHICULAR MOBILITY UNIT (EMU) आदर्शरूपम् एव इदानीं नासा संस्थयाः बाह्याकाश यात्रिकैः उपयुज्यते। अधुना अधिकाः न्यूनताः EMU मध्ये सन्तीति आवेदितः इत्यतः न्यूतनमिदं परीक्षणम्। बाह्याकाश-यात्रा-वस्त्रस्य उपभागसहितं विंशति पौण्ड् (pound) भारमानम् एव नूतनस्य आदर्शवस्त्रस्य भवति। पूर्वतन वस्त्रस्य भारः त्रिंशत् pound आसीत्। यत्र अत्यधिकं मर्दः भवति तत्र  गम्यते तदा यात्रिकानां सुविधा प्रदानाय भवति  वस्त्रस्य भारन्यूनता करणम्।  स्पेस् संस्थायाः कर्मकाराः मार् वल्, जोस् फर्णाण्टस्, मस्क् प्रभृतयः भवति नूतन बाह्याकाश वस्त्रस्य आविष्कर्तारः।  बाह्याकाश यात्रिकाणां कृते नूतन बाह्याकाशवस्त्रं परिकल्पितं  नासा संस्थया पूर्वं वार्ता प्रकाशितम् आसीत्। आगामी जूण् मासाभ्यन्तरे बाह्याकाशयात्रिकैः नूतनं बाह्याकाशवस्त्रं धृत्वा साध्यते इति नासा संस्थायाः प्रतीक्षा। 
वातावरणेन पुष्टिः वयनाट् गिरिप्रदेशो

वयनाट् जनपदस्य पूर्वमण्डलं पूर्णतया वृष्टिच्छायाप्रदेशरूपेण परिवर्तते इति तत्समम्बन्धाध्ययनेन सूच्यते। गतसंवत्सरत्रये एषु प्रदेशेषु महता प्रमाणेन वृष्टिन्यूनता अनुभूयते। व्यापकरीत्या अनुवर्तमानं वननशीकरणमेव अस्य कारणमिति अनुमन्यते। 
सामान्यतः द्विसहस्रमिल्ली मीटर् परिमिता वृष्टिः वयनाट् प्रदेशे लभ्यते स्म। किन्तु गतेषु त्रिषु संवत्सरेषु पञ्चविंशत्यधिकप्रतिशतम् इति रीत्या वृष्टिन्यूनता जनपदे अङ्कनीकृता। वयनाट् – गमनमार्गे यत्र पर्वतमार्गः भवति तत्र  पश्चिमभागे लभ्यमाना   समृद्धा वृष्टिः पूर्वदिशं लक्ष्यीकृत्य प्रवहन्त्या कबनीनदीद्वारा वृष्टिच्छायाप्रदेशः इति विख्यातः मुल्लन् कोल्ली , पुल्प्पल्ली इत्यादिमण्डलं प्राप्य जलसमृद्धिं करोति स्म। तेन भारतस्य  अत्यधिकवृष्टिप्रदेशेषु अन्यतमे लक्किटि प्रदेशे अपि  वृष्टिन्यूनता अङ्कनीकृता इत्यतः कबनीनद्यां जललभ्यता न्यूनीजाता। अनेन एषु वृष्टिच्छायाप्रदेशेषु अनावृष्टिः रूक्षः भवेदिति पर्यावरणविदग्धैः पूर्वसूचना दीयते। 
कृष्णमरीचितादि सुगन्धद्रव्याणाम् उत्पादने  अयं विषयः प्रतिकूलतया बाधेत।
फा. टोम् उष़ुन्नालिल् मोचितः। 
 
    रोम् > २०१६ मार्च् मासे भीकरैः अपहृतः केरलीयः क्रिस्तीयवैदिकः   फादर्. टोम् उष़ुन्नालिल् मुक्तः अभवत्। वत्तिक्कान् राष्ट्रनायकस्य मार्पाप्पावर्यस्य माध्यस्थ्येन एव मोचनं साधितम्।  एककोटिडोलर् मोचनद्रव्यरूपेण दत्वा एव तस्य मोचनम् अभवदिति श्रूयते।   इदानीं सः रोम् प्राप्तः इति बङ्गुलुरुस्थैः सलेष्यन् सभावक्तृभिः निगदितम्।
वेङ्ङरा उपनिर्वाचनम् ओक्टोबर् ११।
           नवदिल्ली > केरले मलप्पुरं जनपदस्थे वेङ्ङरा विधानसभामण्डले ओक्टोबर् एकादशदिनाङ्के उपनिर्वाचनं भविष्यति। मतगणना १५ -  तमदिनाङ्के विधास्यति। 
   निर्वाचनस्य विज्ञापनं शुक्रवासरे उद्घोष्यते। नामनिर्देशपत्रिकासमर्पणस्य अन्तिमं दिनं सेप्तम्बर् २२ भवति।  मुस्लीं लीग् दलस्य नेता पि के कुञ्ञालिक्कुट्टिवर्यः स्थानत्यागं कृत्वा लोकसभां चितः इत्यतः एव उपनिर्वाचनं विहितम्।

Tuesday, September 12, 2017

'पोप्पुलर् फ्रन्ट्' संस्थां विरुध्य प्रक्रमाय केन्द्रसर्वकारः।
               नवदिल्ली > 'पोप्पुलर् फ्रन्ट् ओफ् इन्डिया' [पि एफ् ऐ] नामकं संघटनं विरुध्य पदक्षेपाय केन्द्र गृहमन्त्रालयस्य पर्यालोचना। भीकरप्रवर्तनैः सह संस्थायाः सम्बन्धः अस्तीति एन् ऐ ए संस्थया समर्पितस्यावेदनपत्रस्य आधारे निरोधसहिताय व्यवहारोपक्रमाय आलोच्यते इति वार्ताहरेण पि टि ऐ दलेन निगदितम्।  किन्तु उक्तानि आरोपणानि सर्वाणि पोप्पुलर् फ्रन्ट् नेतृभिः निरस्तानि।
महन्नाशं वितीर्य इर्मा-वातः पुरो गच्छति।

           फ्लोरिडा> यु. एस्. राष्ट्रस्य मियामिदेशे महन्नाशं विधायैव इर्मा-वातः वाति स्म। मृत्युं गतेषु चतुर्षु रक्षाकार्ये व्यापृतः कश्चित् आरक्षकः अपि अन्तर्भवति । मियामिप्रदेशे षट्‌पञ्चाशत् लक्षं जनाः इदानीमपि विद्युच्छक्तिं विना जीवन्ति।  विभिन्नप्रदेशाः अपि सांक्रमिकरोगभीत्याम् एव सन्ति। इर्मा चक्रवातस्य तीव्रता न्यूनीभूय प्रथमविभागे  लघीभूता। तदन्तरे दुरन्तं लाभान्वितं कृत्वा मोषणं, बलात् अपहरणं च अधिकतया आवेदितं वर्तते।  जलोपप्लवभीतेः कारणात् अभयार्थिशिबिरे एव वसन्तु इति अधिकारिणः जनान् निर्दिष्टवन्तः। चक्रवातप्रसृतप्रदेशेभ्यः एतावत्  पर्यन्तं द्रुतशासनव्यवस्था न प्रतिस्वीकृता। अपि च इर्मानाशितप्रदेशस्थाः भारतीया: सुरक्षिताः इति केन्द्रसर्वकारेण  ज्ञापितम्। यु. एस्. राष्ट्रस्थस्य सर्वेभ्योपि राजदूतकार्यालयेभ्यः नियमकार्यविलम्बं परिहार्य स्वदेशं प्रति पारपत्रं  यात्राचीटिका च दीयेते इति भारतराजदूतकार्यालयेन सूचितम्।
रोहिङ्ग्यान् प्रतिप्रेषयितुं भारतस्य यत्नं विमर्श्य ऐक्यराष्ट्रसभा। 
जनीवा > रोहिङ्ग्यन् अभयार्थिजनान् म्यान्मर् राष्ट्रं प्रतिप्रेषयितुमुद्दिश्य भारतस्य प्रयत्नं विमर्शयन्ती ऐक्यसभायाः मनुष्याधिकारसमितिः। स्वकीये देशे रोहिङ्ग्यान् विरुध्य आक्रमणेषु प्रचलत्सु तान् प्रतिप्रेषयितुं भारतस्य प्रक्रमाः अपलपनीयाः इति यू एन् मनुष्याधिकारसमित्याः नेता सेय्द् राद् अल् हुसैन् वर्येणोक्तम्। मानवाधिकारसमित्याः उपवेशने भाषमाणः आसीत् सः।
    म्यान्मर् राष्ट्रे रोहिङ्ग्यान् विरुध्य प्रचाल्यमानाः अतिक्रमाः वंशीयनिष्कासनस्य उत्तमनिदर्शना  इति तेनोक्तम्।
     राखिन् प्रविश्यायां अतिक्रमेषु रूक्षेषु सञ्जातेषु उपत्रिलक्षं रोहिङ्ग्यान् वंशजाः बङ्लादेशं प्रति पलायिताः। तेषु बहुभूरिजनाः बङ्लादेशसीमायां स्थगिताः वर्तन्ते च। "भारते ४०,००० रोहिङ्ग्यन् अभयार्थिनः वर्तन्ते। तेषु १०,००० जनानां अभिज्ञानपत्रादीनि प्रमाणानि विद्यन्ते। अन्ताराष्ट्रनीतिमनुसृत्य भारतस्यापि उत्तरदायित्वमस्ति। म्यान्मरे तेषां विरुध्य कलापे जायमाने रोहिङ्ग्यान् अभयार्थिनः  बहिष्कर्तुं न शक्यते" सैद् अल् हुसैन् वर्येणोक्तम्।
रोहिङ्क्या - जनाः भीत्याम्।
              रोहिङ्क्यो-ल्लङ्घनविषयः राष्ट्र सुरक्षायाः भीषायाः कारणं भवति इति वार्ता श्रवणप्रसारणकाले एव उत्तर-पूर्वीयराज्यानां संस्थितिः कः इति असमदेशस्य मन्त्रिणा हिमन्त् बिश्व शर्मणा स्पष्टीकृतम्। रोहिङ्ग्यानामधिनिवेशानं उत्तर-पूर्वीयराज्येषु भीतिं जनयति। तद्देशीयान् विरुध्य अक्रमं कृत्वा आधिपत्यं प्राप्तुमेव रोहिङ्ग्यानां परिश्रमः। इदानीं बङ्लादेशीयाधिनिवेशस्य तिक्तफलमनुभूयमाने इत्यतः रोहिङ्ग्यन्धिनिवेशः प्रतिरोधः करणीयः इति हेमन्त् बिश्व शर्मणा उक्तम्।

               उत्तर-पूर्वराज्यानां संस्कृतिः परिशुद्धिः इत्यादयः  उल्लङ्घकैः अधुना एव नाशीकृताः।  तद्देशीयजनतायाः सुस्थितिञ्च इदानीं दुर्दशामाप्नोति। एतत्सर्वमाच्छाद्य एव शशि तरूर् वर्यः अधिनिवेशानुकूल-भाषणमकरोत्। अस्मदीयानां चित्तविकाराणाम् अनादरंकृतवन्तः तरूरस्य प्रस्तावः अपलपनीय इति तेन स्पष्टीकृतम्।

                परन्तु रोहिङ्ग्यन् विषये केन्द्रसर्वकारेण स्वीकृते कार्ये प्रतीक्षा वर्तते, स्वदेशं म्यान्मरं प्रति रोहिङ्ग्याजनाः प्रतिप्रेषणीयाः इति च हेमन्त् बिश्व शर्मा स्पष्ट्यकरोत्।
इर्म नाम वातः फ्लोरिडां प्रविष्टः

      फ्लोरिडा>रीबिय द्वीपेपु महान्तं नाशं वितीर्य वर्षाः भूपातः च कृत्वा इर्म नाम चक्रवातः फ्लोरिडां प्राप्तवान्। मियमि प्रदेशस्य मध्यभागोषु अपि वृष्टिः अनुवर्तते। प्रतिखण्डां पञ्च दशाधिकद्विशातं किलोमीटर् मितशीघ्रेण एव इर्म वातः वाति इति पर्यावरण निरीक्षकाः वदन्ति। फ्लोरिडायां विद्युत् वितरणं स्थगितम् अस्ति। क्यूबादेशस्य उत्तर भागात् आगमनवेलायां चक्रवातस्य शक्तिः न्यूना आसीत्| चेदपि पुनरपि शक्तियुक्तः अभवत्। फ्लोरिडायां जनजीवितस्य अवस्था भीषायां भवति। पञ्चषष्ठिसंख्याकाः जनाः प्रदेशात् सुरक्षित स्थानं प्रतिप्रेषिताः इति च फ्लोरिडा राज्यपालः रिक् स्कोट् अवदत् । सुरक्षा प्रवर्तनानि अनुवर्तिष्यते इति राष्ट्रपतिना डोणाल्ड् ट्रम्पेन उक्तम्। आपत्काल व्यवस्थापि प्रख्यपिता अस्ति।
       तस्मिन् समये भारतीयानां सुरक्षायैः सर्वविधकार्याणि सज्जीकृतानि इति यू एस् राष्ट्रस्य भारतराजदूतेन सन्तोष् झा नामकेन उक्तम्।

Monday, September 11, 2017

वेल्ड् ट्रेड्सेन्टर् व्यापर-समुच्चयस्य स्मरणादिनम् अद्य।
एकोत्तरद्विसहस्रं सेप्टम्बर् एकादशदिनाङ्कः। विश्वशक्तः इत्यभिमानिनः अमेरिक्का राष्ट्रस्य सुरक्षाव्यवस्थायाः  आधारशिलामथनं जातं दिनम्। चत्वारि यात्राविमानानि अपहृत्य उसामा बिन् लादनस्य नेतृत्वे अल् खायिदा भीकरसंस्थया कृतान्याक्रमणानि अधिकाशङ्कया एव लोकैः दृष्टानि। अपहृतानि विमानानि "वेल्ड् ट्रेड् सेन्टर्" नामकं भवनसमुच्चयं प्रति एकानुगम्यमपरमिति रीत्या घट्टनं कृत्वा आसीदाक्रमणम्। भीकराक्रमणे$स्मिन् त्रिसहस्रं जनाः नष्टप्राणाः जाताः! भीकरैरपहृतं तृतीयं विमानं पेन्टगणस्थं अमेरिक्कायाः सुरक्षाआस्थानं प्रति घट्टनमकरोत्! आक्रमणेषु तीव्रानां नाशनष्टानां साक्षिणी अभवदमेरिक्का। अमेरिक्कां कम्पयमानस्य तस्याक्रमणस्य स्मरणायामस्ति