OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 13, 2017

फा. टोम् उष़ुन्नालिल् मोचितः। 
 
    रोम् > २०१६ मार्च् मासे भीकरैः अपहृतः केरलीयः क्रिस्तीयवैदिकः   फादर्. टोम् उष़ुन्नालिल् मुक्तः अभवत्। वत्तिक्कान् राष्ट्रनायकस्य मार्पाप्पावर्यस्य माध्यस्थ्येन एव मोचनं साधितम्।  एककोटिडोलर् मोचनद्रव्यरूपेण दत्वा एव तस्य मोचनम् अभवदिति श्रूयते।   इदानीं सः रोम् प्राप्तः इति बङ्गुलुरुस्थैः सलेष्यन् सभावक्तृभिः निगदितम्।
वेङ्ङरा उपनिर्वाचनम् ओक्टोबर् ११।
           नवदिल्ली > केरले मलप्पुरं जनपदस्थे वेङ्ङरा विधानसभामण्डले ओक्टोबर् एकादशदिनाङ्के उपनिर्वाचनं भविष्यति। मतगणना १५ -  तमदिनाङ्के विधास्यति। 
   निर्वाचनस्य विज्ञापनं शुक्रवासरे उद्घोष्यते। नामनिर्देशपत्रिकासमर्पणस्य अन्तिमं दिनं सेप्तम्बर् २२ भवति।  मुस्लीं लीग् दलस्य नेता पि के कुञ्ञालिक्कुट्टिवर्यः स्थानत्यागं कृत्वा लोकसभां चितः इत्यतः एव उपनिर्वाचनं विहितम्।

Tuesday, September 12, 2017

'पोप्पुलर् फ्रन्ट्' संस्थां विरुध्य प्रक्रमाय केन्द्रसर्वकारः।
               नवदिल्ली > 'पोप्पुलर् फ्रन्ट् ओफ् इन्डिया' [पि एफ् ऐ] नामकं संघटनं विरुध्य पदक्षेपाय केन्द्र गृहमन्त्रालयस्य पर्यालोचना। भीकरप्रवर्तनैः सह संस्थायाः सम्बन्धः अस्तीति एन् ऐ ए संस्थया समर्पितस्यावेदनपत्रस्य आधारे निरोधसहिताय व्यवहारोपक्रमाय आलोच्यते इति वार्ताहरेण पि टि ऐ दलेन निगदितम्।  किन्तु उक्तानि आरोपणानि सर्वाणि पोप्पुलर् फ्रन्ट् नेतृभिः निरस्तानि।
महन्नाशं वितीर्य इर्मा-वातः पुरो गच्छति।

           फ्लोरिडा> यु. एस्. राष्ट्रस्य मियामिदेशे महन्नाशं विधायैव इर्मा-वातः वाति स्म। मृत्युं गतेषु चतुर्षु रक्षाकार्ये व्यापृतः कश्चित् आरक्षकः अपि अन्तर्भवति । मियामिप्रदेशे षट्‌पञ्चाशत् लक्षं जनाः इदानीमपि विद्युच्छक्तिं विना जीवन्ति।  विभिन्नप्रदेशाः अपि सांक्रमिकरोगभीत्याम् एव सन्ति। इर्मा चक्रवातस्य तीव्रता न्यूनीभूय प्रथमविभागे  लघीभूता। तदन्तरे दुरन्तं लाभान्वितं कृत्वा मोषणं, बलात् अपहरणं च अधिकतया आवेदितं वर्तते।  जलोपप्लवभीतेः कारणात् अभयार्थिशिबिरे एव वसन्तु इति अधिकारिणः जनान् निर्दिष्टवन्तः। चक्रवातप्रसृतप्रदेशेभ्यः एतावत्  पर्यन्तं द्रुतशासनव्यवस्था न प्रतिस्वीकृता। अपि च इर्मानाशितप्रदेशस्थाः भारतीया: सुरक्षिताः इति केन्द्रसर्वकारेण  ज्ञापितम्। यु. एस्. राष्ट्रस्थस्य सर्वेभ्योपि राजदूतकार्यालयेभ्यः नियमकार्यविलम्बं परिहार्य स्वदेशं प्रति पारपत्रं  यात्राचीटिका च दीयेते इति भारतराजदूतकार्यालयेन सूचितम्।
रोहिङ्ग्यान् प्रतिप्रेषयितुं भारतस्य यत्नं विमर्श्य ऐक्यराष्ट्रसभा। 
जनीवा > रोहिङ्ग्यन् अभयार्थिजनान् म्यान्मर् राष्ट्रं प्रतिप्रेषयितुमुद्दिश्य भारतस्य प्रयत्नं विमर्शयन्ती ऐक्यसभायाः मनुष्याधिकारसमितिः। स्वकीये देशे रोहिङ्ग्यान् विरुध्य आक्रमणेषु प्रचलत्सु तान् प्रतिप्रेषयितुं भारतस्य प्रक्रमाः अपलपनीयाः इति यू एन् मनुष्याधिकारसमित्याः नेता सेय्द् राद् अल् हुसैन् वर्येणोक्तम्। मानवाधिकारसमित्याः उपवेशने भाषमाणः आसीत् सः।
    म्यान्मर् राष्ट्रे रोहिङ्ग्यान् विरुध्य प्रचाल्यमानाः अतिक्रमाः वंशीयनिष्कासनस्य उत्तमनिदर्शना  इति तेनोक्तम्।
     राखिन् प्रविश्यायां अतिक्रमेषु रूक्षेषु सञ्जातेषु उपत्रिलक्षं रोहिङ्ग्यान् वंशजाः बङ्लादेशं प्रति पलायिताः। तेषु बहुभूरिजनाः बङ्लादेशसीमायां स्थगिताः वर्तन्ते च। "भारते ४०,००० रोहिङ्ग्यन् अभयार्थिनः वर्तन्ते। तेषु १०,००० जनानां अभिज्ञानपत्रादीनि प्रमाणानि विद्यन्ते। अन्ताराष्ट्रनीतिमनुसृत्य भारतस्यापि उत्तरदायित्वमस्ति। म्यान्मरे तेषां विरुध्य कलापे जायमाने रोहिङ्ग्यान् अभयार्थिनः  बहिष्कर्तुं न शक्यते" सैद् अल् हुसैन् वर्येणोक्तम्।
रोहिङ्क्या - जनाः भीत्याम्।
              रोहिङ्क्यो-ल्लङ्घनविषयः राष्ट्र सुरक्षायाः भीषायाः कारणं भवति इति वार्ता श्रवणप्रसारणकाले एव उत्तर-पूर्वीयराज्यानां संस्थितिः कः इति असमदेशस्य मन्त्रिणा हिमन्त् बिश्व शर्मणा स्पष्टीकृतम्। रोहिङ्ग्यानामधिनिवेशानं उत्तर-पूर्वीयराज्येषु भीतिं जनयति। तद्देशीयान् विरुध्य अक्रमं कृत्वा आधिपत्यं प्राप्तुमेव रोहिङ्ग्यानां परिश्रमः। इदानीं बङ्लादेशीयाधिनिवेशस्य तिक्तफलमनुभूयमाने इत्यतः रोहिङ्ग्यन्धिनिवेशः प्रतिरोधः करणीयः इति हेमन्त् बिश्व शर्मणा उक्तम्।

               उत्तर-पूर्वराज्यानां संस्कृतिः परिशुद्धिः इत्यादयः  उल्लङ्घकैः अधुना एव नाशीकृताः।  तद्देशीयजनतायाः सुस्थितिञ्च इदानीं दुर्दशामाप्नोति। एतत्सर्वमाच्छाद्य एव शशि तरूर् वर्यः अधिनिवेशानुकूल-भाषणमकरोत्। अस्मदीयानां चित्तविकाराणाम् अनादरंकृतवन्तः तरूरस्य प्रस्तावः अपलपनीय इति तेन स्पष्टीकृतम्।

                परन्तु रोहिङ्ग्यन् विषये केन्द्रसर्वकारेण स्वीकृते कार्ये प्रतीक्षा वर्तते, स्वदेशं म्यान्मरं प्रति रोहिङ्ग्याजनाः प्रतिप्रेषणीयाः इति च हेमन्त् बिश्व शर्मा स्पष्ट्यकरोत्।
इर्म नाम वातः फ्लोरिडां प्रविष्टः

      फ्लोरिडा>रीबिय द्वीपेपु महान्तं नाशं वितीर्य वर्षाः भूपातः च कृत्वा इर्म नाम चक्रवातः फ्लोरिडां प्राप्तवान्। मियमि प्रदेशस्य मध्यभागोषु अपि वृष्टिः अनुवर्तते। प्रतिखण्डां पञ्च दशाधिकद्विशातं किलोमीटर् मितशीघ्रेण एव इर्म वातः वाति इति पर्यावरण निरीक्षकाः वदन्ति। फ्लोरिडायां विद्युत् वितरणं स्थगितम् अस्ति। क्यूबादेशस्य उत्तर भागात् आगमनवेलायां चक्रवातस्य शक्तिः न्यूना आसीत्| चेदपि पुनरपि शक्तियुक्तः अभवत्। फ्लोरिडायां जनजीवितस्य अवस्था भीषायां भवति। पञ्चषष्ठिसंख्याकाः जनाः प्रदेशात् सुरक्षित स्थानं प्रतिप्रेषिताः इति च फ्लोरिडा राज्यपालः रिक् स्कोट् अवदत् । सुरक्षा प्रवर्तनानि अनुवर्तिष्यते इति राष्ट्रपतिना डोणाल्ड् ट्रम्पेन उक्तम्। आपत्काल व्यवस्थापि प्रख्यपिता अस्ति।
       तस्मिन् समये भारतीयानां सुरक्षायैः सर्वविधकार्याणि सज्जीकृतानि इति यू एस् राष्ट्रस्य भारतराजदूतेन सन्तोष् झा नामकेन उक्तम्।

Monday, September 11, 2017

वेल्ड् ट्रेड्सेन्टर् व्यापर-समुच्चयस्य स्मरणादिनम् अद्य।
एकोत्तरद्विसहस्रं सेप्टम्बर् एकादशदिनाङ्कः। विश्वशक्तः इत्यभिमानिनः अमेरिक्का राष्ट्रस्य सुरक्षाव्यवस्थायाः  आधारशिलामथनं जातं दिनम्। चत्वारि यात्राविमानानि अपहृत्य उसामा बिन् लादनस्य नेतृत्वे अल् खायिदा भीकरसंस्थया कृतान्याक्रमणानि अधिकाशङ्कया एव लोकैः दृष्टानि। अपहृतानि विमानानि "वेल्ड् ट्रेड् सेन्टर्" नामकं भवनसमुच्चयं प्रति एकानुगम्यमपरमिति रीत्या घट्टनं कृत्वा आसीदाक्रमणम्। भीकराक्रमणे$स्मिन् त्रिसहस्रं जनाः नष्टप्राणाः जाताः! भीकरैरपहृतं तृतीयं विमानं पेन्टगणस्थं अमेरिक्कायाः सुरक्षाआस्थानं प्रति घट्टनमकरोत्! आक्रमणेषु तीव्रानां नाशनष्टानां साक्षिणी अभवदमेरिक्का। अमेरिक्कां कम्पयमानस्य तस्याक्रमणस्य स्मरणायामस्ति

आधार् असंयोज्यमानानि 'सिम्' पत्राणि निरस्यन्ते। 
नवदिल्ली > आधारपत्रैः सह असंयोजितानि जङ्गमदूरवाणीसिंपत्राणि प्रवर्तनरहितानि कारयिष्यन्तीति केन्द्रसर्वकारः। २०१८ फेब्रुवरी पर्यन्तं संयोजनाय कालः दत्तः।
  अस्मिन् संवत्सरे फिब्रवर्यां लोक् नीति फौण्टेषन् प्रकरणे आधार्-सिं पत्राणि संयोजयितुं सर्वोच्चन्यायालयस्य आदेशः जातः। आदेशानन्तरं संवत्सरैकाभ्यन्तरे एव प्रवृत्तिपथमागन्तव्यमिति टेलिकों सेवनदातृृृभ्यः सर्वोच्चनीतिपीठेन निर्देशः दत्त आसीत्। अपराधकृत्येभ्यः भीकरप्रवर्तनेभ्यश्च सिं पत्राणाम् उपयोगं निरोद्धुमेवायं निर्णयः।
सङ्घषान् समापयित्वा काश्मीरं पुनः स्वर्गं कारयिष्ये - राज् नाथ सिंहः
                  अनन्तनाग्> काश्मीरस्य सानुप्रदेशे शान्तिः भवतु इति विचिन्त्यमानेः सह यर्चां कर्तुं उद्युक्तोस्ति इति केन्द्राभ्यन्तरमन्त्री राजनाथसिंहः। सङ्घर्षेभ्यः काश्मीरं जवेन मोचयिष्ये इति उक्तवान् राजनाथसिंहः। अस्य विरोधेन केनापि प्रतिबन्धं क्रियेत तथापि काश्मीरं स्वर्गं करिष्ये इति उक्तवान्। चतुर्दिनस्य सन्दर्शनाय काश्मीरम् आगतवानासीत् सः।

                  काश्मीरस्य स्थितिविगतिमधिकृत्य विरुद्धाभिमतः अस्तिचेत् स्वाभिमतः अधिकारिणे बोधितव्यः इति राजनाथसिंहः अवदत्। चर्चायै आगन्तु सर्वे इति निमन्त्रयामि। निवेदनानि सधैर्यं दीयताम्। मनः उद्घाट्य चर्चां कर्तुं उद्युक्तोस्मि। सङ्घर्षान् सर्वान् समाप्य काश्मीरं स्वर्गं करिष्यामः। विश्वस्य अन्यशक्तयः अस्य बाधा न भवति - अनन्तनागस्य आरक्षकानां मिथः सम्भाषणं कुर्वन्नासीत् आभ्यन्तरमन्त्री।
विद्यालयछात्राः जनं टि वि माध्यमे संस्कृत-वार्तावतारकाः।

कोच्ची > सम्प्रतिवार्ता नामिकया अन्तर्जालवार्ता पत्रिकया छात्रेषु संस्कृताभिमुख्यम् उत्पादयितुम् उद्दिश्य अन्तर्जाल-द्वारा वार्ता सम्प्रेषणम् आरब्धम् I  अस्यां वाहिन्यां समागताः वार्तावतारकाः सर्वे विद्यालयछात्राः इत्येव विशेषता।   इदानीं एताभिः वार्ताः वाचयित्वा षट् पञ्चाशत् वार्तासोपानानि प्रविष्टानि। एतस्याः वार्तावतारकेषु  चतस्रः वार्तावतारिकाः इदानीं जनं टि वि संस्थया आमन्त्रिताः । श्रीकृष्णपरमात्मनः जयन्तीमनुबन्ध्य एताभिः वार्ताः वाचयित्वा प्रदर्श्यन्ते। जनं वाहिन्याः वार्तासंस्कृतंनाम प्रतिदिनवार्ताकार्यक्रमे एव छात्रवार्तावतारिकानां  सम्प्रेषणम्। सेप्तंबर् मासस्य नवमदिनाङ्कात् आरभ्य त्रयोदशदिनाङ्कपर्यन्तं छात्राणं वाचनं  भविष्यति। गतशैक्षिकसंवत्सरे (२०१७ ) सर्वशिक्षाभियानेन आयोजिते राष्ट्रिय-संगोष्ठ्याम् अस्य छात्र-वार्तासम्प्रेषण-कार्यक्रमस्य उत्तमशैक्षिकप्रवर्तानम् इति ख्यातिः लाब्धा आसीत्। वार्तावतारिका रूपेण मीनाक्षी एन् वी, श्रीलक्ष्मी जी, फात्तिमा मुण्डेत्त्, तारा जी एताः चिताः। एताः करलराज्यस्य विद्यालयेषु पठन्ति।

www.samprativartah.in
स्त्रिय: सैन्ये अन्तर्भावयति।
नवदेहली > स्त्रिय: सैन्ये अंतर्भावयितुं निश्चितमिति सैन्यस्य महाध्यक्षः अश्विनिकुमार: असूचयत् ।सैनिकारक्षकत्वेन स्त्रीणां कृते अवसरं दास्यति। अष्टशतं स्त्रिय: सैनिकारक्षकदले अन्तर्भावयितुमेव इयं पद्धति: । एतदङ्कतया प्रतिवर्षं द्विपञ्चाशत्  स्त्रीणामन्तर्भाव: निश्चितः । स्त्र्यन्तर्भावेण  सैन्यविपुलीकरणं पूर्वमेव स्थलसैन्याध्यक्षेण  बिपिन् रावत् महाशयेन विज्ञापितमासीत् । स्त्रीणां सैन्यान्तर्भावाय कर्मयोजना सहसैव प्रारभ्येत इति तेन उक्तम्।
अद्यत्वे स्त्रियः भिषग्वर - नियम - विद्याभ्यास - तान्त्रिक - साङ्केतिकमेखलासु नियुक्ताः भवन्ति।

Sunday, September 10, 2017

मेक्सिक्को नगरे जायमाने भूकम्पे मरणं एकषष्टिः जातम्। 
          मेक्सिक्को>रिक्टर् मापिकायाम् अष्ट दशांशं एका इति तीव्रतां. अङ्‌गितः भूकम्पेन महान्तः नाश नष्टाः जाताः। शताधिकानि भवनानि भग्नानि। एकादश राज्येषु सुरक्षा प्रवर्तनानां सौकर्याय विद्यालयाः पिधानं कृतम्। दशलक्षाधिकेषु भवनेषु वैद्युतिबन्धः च्छेदितवन्तः। मेक्सिको नगरस्य ओयोस्कायां त्रयोविंशति। जनाः मृताः। भूकम्पानन्तरं जायमाने 'सुनामि' जलोपप्लवेन त्रयोविंशतिपादमितं यावत् जलं तीरंप्रति उत्पतितम् इति समीपस्थाः अवदन्। 

          राष्ट्रस्य दक्षिणतीरे जायमाने भूकम्पानन्तरं मेक्सिको, ग्वाटिमाला, एल् साल्वडोर्, कोस्टिका, निक्कराग्वा, पानमा, होण्डुरासः एतेषु प्रदेशोषु पूर्वसूचनाः प्रदत्ताः।
गिरीष् कर्णाट् अभिव्याप्य १८ प्रमुखेभ्यः सुरक्षाव्यवस्था! 
                  बेंगलुरु > कर्णाटकराज्ये ज्ञानपीठपुरस्कारजेतारं गिरीष्कर्टाट् वर्यम् अभिव्याप्य  तत्रस्थेभ्यः प्रमुखेभ्यः अष्टादशभ्यः पुरोगमनसाहित्यकारेभ्यः सर्वकारेण तीव्रा सुरक्षाव्यवस्था समायोजिता! वरिष्ठमाध्यमप्रवर्तिकायाः गौरी लङ्केशवर्यायाः हत्यामनुबन्ध्य राज्यस्य दक्षतासंस्थया समर्पितस्य आवेदनपत्रस्य आधारे एवायं प्रक्रमः। पट्टिकायाम् अन्तर्भूतेषु बहुभूरिणां तीव्रहिन्दुसंघटनेभ्यः भीषा वर्तते। के एस् भगवान्, योगेष् मास्टर्, चेतना तीर्थहल्लि , के . मुरली सिद्धप्पा इत्यादयः लेखनकाराः सुरक्षापट्टिकायामन्तर्भवन्ति।
बंगलादेशिनः अनधिकृतप्रवेश: - अन्वेषणम् आरब्धम्। 
           कोच्ची> केरलं प्रतिबंगलादेशिनः अनुमतिपत्रं विना अनधिकृतप्रवेशस्य विषये एन्‌ ऐ ए संस्थया अन्वेषणम् आरब्धम्। केन्द्र-गुप्तान्वेषण विभागेन विशदांशान् सञ्चिन्वन्ति। राष्ट्रस्य आभ्यन्तर-सुरक्षयै भीषा एव बंगलादेशिमः आगमनम्‌। गतदिने अनुमतिपत्रं विना पञ्च त्रिंशत् बंगलादेशिनः मलप्पुरं जनपदस्य एडवण्णप्पार देशतः आरक्षकैः ग्रहीताः। केरले आगतानां भीकरदलबन्धः अस्तीति अनुमन्यते। बंगलादेशिनाम् आआगमनम् अधिकृत्य वर्षत्रयात् पूर्वं गुप्तान्वेषण विभागेन आवेदितं चेदपि राज्यस्तरीयारक्षकैः तत् तिरस्कृतम्। यथावत् अन्वेषणाभावेन कति जनाः आगताः इति न ज्ञायते। 

            एतादृशानां केरलेषु आनयनाय व्याज प्रत्यभिज्ञानपत्र-निर्माणाय च विशेषतया माध्यस्थ-संस्थाः प्रवर्तननिरताः सन्ति।
               अन्यराज्यस्य कर्मकराणाम् आवासस्थानदातृभिः समीपस्थे आरक्षकालये ऐतेषां प्रत्यभिज्ञानपत्राणि दादव्यानि इत्यस्ति चेदपि तन्न क्रियते इत्यनेन एतदपि अन्वेषणस्य बाधा भवति। सर्वदा एकत्र वासं न कुर्वन्ति इत्येतदपि बाधारूपेण तिष्ठति।
इर्मा प्रचण्डवातः फ्लोरिडा भीत्याम्। 
अस्य शतकस्य अधिकतर विनाशाय साध्यता।
           वाषिड्डण्> करीबियन् द्वीपेषु नाशं संसृष्ट्य अमेरिकन् सीमां लक्ष्यीकृत्य इर्मा र्रचण्डवातभीत्यां फ्लोरिडा। अस्य शतकस्य बृहत्तरं नाशाय इर्मा हेतू भविष्यतीति मन्यते। फ्लोरिडायां बृहत्यै वृष्ट्यै इर्मा हेतू भविष्यति। इर्मातः रक्षां प्राप्तुं सहस्रशः जनाः फ्लोरिडातः पलायनं कुर्वन्ति। वातावरण निरीक्षणकेन्द्राणि अधिकृताः च इर्मायाः प्रहरशेषिं अधिकृत्य पूर्वसूचनां अयच्छन्। करीबियन् द्वीपेषु बृहत्तरं नाशं कृत्वा एव इरमा फ्लेरिडा सीमायां प्राप्ता।

Saturday, September 9, 2017

सन्निष्ठालङ्घकानां विमानयात्रिकाणां यात्रानिषेधः। 
नवदिल्ली > विमानयात्रामध्ये ये सदाचारान् उल्लङ्घन्ति, ते समाजे यत्किमपि स्थानम् अलङ्कुर्वन्तः सन्तः अपि तेषां यात्रानिषेधम् आयोजयितुं केन्द्रव्योमयान-मन्त्रालयेन व्यवस्थाः रूपवत्कृताः।  विमानस्य अन्तः जायमानानाम् अपराधानामेव व्यवस्थाः बाधकाः भवेयुः। अपराधस्य तीव्रतामनसृत्य मासत्रयादारभ्य जीवपर्यन्तं यावत् यात्रानिषेधः भवेत्। विश्वे प्रथमतया एव विमानयात्रानिषेधाय येनकेनापि राष्ट्रेण व्यवस्थाः रूपवत्कृताः इति व्योमयानमन्त्रिणा अशोक गजपति राजुना उक्तम्।
    यात्रानिरासस्य व्यवस्थाः एवं सन्ति -
   प्रथमविभागे वाचा आक्रमणं - मासत्रयं यावत् यात्रानिषेधः भविष्यति। कायिकाक्रमणं द्वितीयविभागे अन्तर्भवति। षण्मासपर्यन्तं यात्रानिषेधः। प्राणभीषणाय प्रयतमानः आचारः, लैङ्गिकपीडनमित्यादयः तृतीयविभागे अन्तर्भवन्ति। संवत्सरद्वयादारभ्य आजीवनान्तं  निषेधः भविष्यति।
नीट् -समराः सर्वोच्चन्यायालयेन निरुद्धा:। 
 नवदेहली> नीट्परीक्षाविरुद्धसमराः सर्वोच्चन्यायालयेन निरुद्धाः। समरे भागभाज: नेतृन् बध्नातुं न्यायालयेन आदिष्टम् I  तमिल्नाडुदेशे अनितानामिकाया: दलिद्विद्यार्थिन्याः मरणसम्बन्धान्वेणनिवेदने एव न्यायालयादेशः। अनितायाः आत्माहुतिकारणस्य  न्यायालयीयान्वेषणाय एव निवेदनं समर्पितमासीत् । नीट् -परीक्षायां पराजितत्वात् अस्मिन् मासे प्रथमदिनाङ्के आत्महत्यां कृतवती अनिता द्वादशकक्षायाः अष्टनवतिप्रतिशतमङ्कान् प्राप्य उत्तीर्णा आसीत् । किन्तु नीट् परीक्षायामेकादशप्रतिशतमेवाङ्कान्  प्राप्तवती । तमिल्नाडुग्रामीणविद्यार्थिनां शिक्षां नीट्- परीक्षाफलं नाशयति इति सूचयित्वा सर्वोच्चन्यायालये पञ्जीकृते नीट्‌ व्यवहारे  अनिता भागिनी आसीत् ।