OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 6, 2017

२.०९ लक्षं 'कम्पनी'नां पञ्चीकरणं केन्द्रसर्वकारेण निरुद्धम् ।
नवदिल्ली>भारतस्थ कम्पनीसंस्थायाः प्रञ्चीकरणेषु २.०९ लक्षसंख्याकानां कम्पनीनां पञ्चीकरणानि निरुद्धानि। प्रवर्तनमानदण्डानि पालयितुम् असमर्थानामेव पञ्चीकरणे पिधानं कृतम्। एवं २०९०३२ लक्षं  कम्पनी संस्थाः पट्टिकायाम् अस्ति। एतेषां आर्थिक विनिमयानि नियन्त्रितुमपि केन्द्रसर्वकारेण क्रिया विधयः स्वीक्रियते।

नामे एवप्रवर्तनं कृत्वा अनधिकृत धनविनिमयं कुर्वाणः केवलं पत्रेषु एव स्थीयमानान्   संस्थायाः विरुद्ध्य अयं क्रियाविधयः इति आवेदनं क्रियते । अनियमेन मार्गोण धनविनिमये रताः इति सूचनायाः आधारेण सर्वेषां कारणं प्रदर्श्य पत्रं दातुं सन्दर्भः अदात् । किन्तु कर्यकारण बोधने एते असमर्था: इत्यनेन एतस्यानां निदेशकानां धनविनिमये प्रतिबन्धः भविष्यति। पुनःप्रवर्तनाय  पुनरपि नूतनतया पञ्चीकरणं करणीयम्।
पञ्चीकरणनियमस्य २४८ (५) विभागस्य अनुशासनानुसारमासीत् केन्द्र सर्वकारेण क्रियाविधयः स्वीकृताः।
वरिष्ठा पत्रकारप्रवर्तका गौरी लङ्केष् भुषुण्डिप्रयोगेण हता। 
बङ्गुलुरु > वरिष्ठा पत्रकारप्रवर्तका तथा लेखनकर्त्री गौरी लङ्केष् गोलिकाशस्त्रेण निहता। 'लङ्केष्' इति कन्नडादैनंदिनपत्रिकायाः सम्पादिका भवति।
     ह्यः रात्रौ उपाष्टवादने बङ्गुलुरु नगरे राजराजेश्वरी नगर् प्रदेशस्थे स्वकीयभवने आसीत् गौर्याः दारुणान्त्यम्। शिरसि उरसि च सप्तवारं गोलिकाप्रहारः कृत इति आरक्षकैः उक्तम्। प्रहारकः न प्रत्यभिज्ञातः। वर्गीयतां तीव्रहिन्दुत्वं च विरुध्य शक्तम् उपस्थापनं कृतवती आसीत् गौरी पूर्वम् कस्मिंश्चित् अपकीर्तिविषये दण्डं प्राप्तवती च।

Tuesday, September 5, 2017

आतङ्कवादं विरुध्य 'ब्रिक्स्' शिखरसम्मेलने
 अध्यवसायः विजयीकृतः - भारतस्य नयतन्त्रविजयः। 
सियामिन् > डोक्लामीयं सङ्घर्षमनुबन्ध्य ब्रिक्स् शिखरसम्मेलने अपि भारतस्य चीनाराष्ट्रं प्रति नयतन्त्रविजयः। पाकिस्थान् आस्थानभूतानाम् आतङ्कवादसंघटनानां नामानि परामर्श्य ब्रिक्स् राष्ट्रैः भीकरवादं विरुध्य निर्णीतविषयः विजयीकृतः। स्वकीयं मित्रराष्ट्रं पाकिस्थानं विरुध्य भीकरवादप्रवर्तनानि अधिकृत्य शिखरसम्मेलने उन्नीतुं चीनायाः विप्रतिपत्तिः आसीत्।
    किन्तु पाकिस्थान् केन्द्रीकृत्य प्रचाल्यमानानि तीव्रवादप्रवर्तनानि अधिकृत्य मौनं पालयतः चीनाराष्ट्रस्यापि सहयोगेन संयुक्तप्रस्तावं कर्तुंम् अशक्यत इति भारतस्य नयतन्त्रविजयः इति मन्यते।
पूर्वविज्ञापनं तृणवत्कृत्य मिसैल् परीक्षणैः सह उत्तरकोरिया अग्रे गच्छति।
सोल्> सेनाप्रतिक्रियाः भविष्यन्तीति अमेरिक्कायाः पूर्वसूचनां तृणवत्कृत्य उत्तरकोरिया। विश्वं चकितं कारितं आणवपरीक्षणात् परं भूखण्डान्तर बालिस्टिक मिसैलस्य परीक्षणे ते बद्धश्रद्धाः भवन्ति। तथा दक्षिणकोरिया अपि अणुवायुध परीक्षणानि करोति। एवं कोरिया सीमा पुनः संघर्षभरितं जातम्।
द्वितीय विश्वयुद्धवेलायां अमेरिक्कया जप्पानस्य हिरोषिमायां पातितस्य लिट्टिल् बाई अणुवायुधस्य (१५ किलो टण्) अष्टगुण भारयुक्तस्य (१२० किलो टण्) हैड्रजन् अणुवायुधस्य परीक्षणं उत्तरकोरिया द्वारा कृतमिति विदग्धानां मतम्। विश्वस्य विभिन्न प्रान्तेषु स्थापितेषु भूकम्पमापिनीषु स्फोटनमिदं ६.३ तीव्रता रेखीकृता।
एवं दक्षिणकोरिया अपि दैर्घ्य भूतल मिसैलानां बालिस्टिक मिसैलानां च परीक्षणानि कृतानि। तथा अमेरिक्कायाः सहयोगेन तीव्रतरं प्रकटनं भविष्यतीति सूचना अपि दक्षिणकोरिया ददाति।
     उत्तरकोरियायाः उपरोधान् अवगणय्य कृतं परीक्षणं ऐक्यराष्टसंघटनया अपलपितम्। राष्ट्रपतेः डोणाल्ट ट्रंपस्य अध्यक्षतायां योगं कृत्वा देशीय सुरक्षा सेनया अपि स्थितिविशकलनं कृतम्। अमेरिक्कां  तथा सख्यराष्ट्रान् च प्रति उत्तरकोरिया भीषा कृता चेत् सेनाप्रतिक्रिया भविष्यतीति पेण्टगण् मेधाविना जयिंस् माट्टिस् पूर्वसूचना दत्तवान्।
विद्याविश्वं नीतवन्तः।
        सप्तंबर पञ्च- आचार्यदिनम्। विज्ञानस्य अद्भुतविश्वं नीतान् विशिष्टाचार्यान् स्मर्तुं एकं दिनम्।
 विद्यायाः दीपं प्रज्वालितान् अस्माभिः न विस्मर्तव्यम्। विश्वे मूल्यतमं कार्यं विद्याविनिमयं मन्यते। पूर्वं आचार्याणां आयविषये चिन्ता एव नासीत्। ज्ञानिनां कृते सर्वं प्राप्तमासीत्।

 आचार्यदिनस्य आरंभः।
 डा. एस् राधाकृष्णस्य जन्मदिनं आचार्यदिनत्वेन आघुष्यते। १९६२ तमे वर्षे डा. राधाकृष्णस्य राष्ट्रपतित्वेन शासनवेलायां तस्य जन्मदिनस्य कतिपयदिनात् पूर्वं केचन छात्राः तस्य कार्यालयमागत्य अपृच्छन्। क्रीडाभिः गीतैः स्पर्धाभिः सह भवतः जन्मदिनाघोषं कुर्मः वा? भवानमपि अस्माभिः सह भवितव्यम् इति। हासेन क्रीडया केवलं वयं अघोषं कुर्मः इति न, एतत् दिनं मामिव अनेकानांआचार्याणां दिनत्वेन आघोषव्यमिति मम इच्छा। ततः प्रभृति अस्माकं राष्ट्रे आचार्यदिनं आघुष्यते।

 तत्वविचाराणां नृपः इति बर्णाट् रस्सल् डां राधाकृष्णं विशेषयति। भारतीयतत्वविचाराणां वैशिष्ट्यं सः लोकाय प्रदर्शयति स्म।
 १८८८ सप्तंबर पञ्च दिने तमिल्नाडुराज्यस्य तिरुत्तणी ग्रामे सः जन्म प्राप। छात्रान् गृहे पाठयित्वा सः जीवनं यापितवान् पठनं च कृतवान्। मद्रास् प्रसिटन्सी महाविद्यालये आचार्यत्वेन प्रारंभः। कोल्कत्ता महाविद्यालये ओक्स्फोर्ट् माञ्चस्टर महाविद्यालये च आचार्यः। आन्ध्रा विश्वविद्यालये बनारस् विश्वविद्यालये च कुलसचिवः,लीग् आफ् नेषन्स् प्रतिनिधिः, युनस्को निदेशकः एवं अनेकेषु स्थानेषु सः स्व प्रतिभां व्यक्तीकृतवान्। तेन १५० उपरि ग्रन्थाः रचिताः।
उत्तरकोरियेन युद्धं याच्यते। रक्षासमित्यां यू एस् राष्ट्रेण पूर्वसूचना दीयते।
न्यूयोर्क्> हैड्रजन् विस्फोटक परीक्षणेन विश्वस्य सुस्थितेः पुरतः भीषामुद्पाद्यमानं कोरियं विरुद्ध्य शक्तया रीत्या क्रियाविधयः स्वीकरणीयाः इति यू एन् राष्ट्रस्य निदेशः। न्यूयोर्क् स्थाने आयोजिते यू एन् रक्षा समितियोगे यू.एस् राष्ट्रस्य प्रतिनिधी निक्की हाले महाभागया एव कर्कश प्रतिक्रियायै अभ्यर्थिता ।
नयतन्त्रतलेषु उत्तराकोरियां स्वाधीनंकर्तुं श्रमं निरर्थकमिति निक्कि हाले महाभागया व्यक्तीकृतम्।  समस्या परिहारकालाः अतिक्रामिताः|  प्रतिक्षया स्थातुं कालः इदानीं नास्ति। अक्षमो भुत्वा तिष्टन् अस्ति इदानीम्। ते (उत्तरकोरिया) युद्धाय याच्यते। यूएस् युद्धं न वाञ्चति | किन्तु अस्माकं क्षमा सीमां उल्लङ्घ्य तिष्टति।  सर्वानपि सीमानुल्लंख्य युद्धाह्वानं कृत्वा तिष्टति कोरिया। विश्वशान्तये भीषायमानं कोरियां किम् जोङ् उन्नं विरुद्ध्य कर्काश प्रतिक्रिया झटित्येव कर णीया इति सा निरदिशत् ।

Monday, September 4, 2017

सर्वान् अनादृत्य उत्तरकोरियाराष्ट्रपतिः किम् जोङ् उन् - लोकराष्ट्राणि मिलितानि।
  नवदिल्ली> लोकराष्ट्राणाम् अवज्ञाम् ऐक्यराष्ट्रसभाया: उपरोधांश्च उल्लङ्घ्य उत्तरकोरियेन कृतम् हैड्रजन् स्फोटकपरीक्षणम् विमृश्य रूक्षविमर्शनेन सह यू एस् राष्ट्रपति: डोनाल्ड् ट्रम्प् आदय: लोकनेतार:। उत्तरकोरियेन एतावता कृतेषु आणवपरीक्षणेषु महत्तरम् भवति एतत्। रिक्टर् मापिकायाम् षट् दशांशं त्रीणि इति तीव्रतां मापितम् परीक्षणम् भूचलनस्यापि कारणमभवत्। पश्चात्तलेस्मिन् उत्तरकोरियां विरुद्ध्य रूक्षविमर्शनेन सह लोकराष्ट्राणि रङ्गं प्रविष्टानि। अमरीकाम् सम्बद्ध्य अतिशक्तभीषणं जनयन्ति उत्तरकोरियस्य वाच: प्रवृत्तयश्चेति, हैड्रजन् स्फोटकपरीक्षणमनुवर्त्य ट्रम्पेन ट्वीट् सन्देश: प्रेषित:। तेषां कृते आलम्बदायकम् अनन्यराष्ट्रं चैनाम् प्रत्यपि शक्ता भीषा लज्जावहश्चेति उत्तरकोरियस्य परिवर्तितेत्यपि ट्रम्प: असूचयत्। उत्तरकोरियाया: हैड्रजन् स्फोटकपरीक्षणम् भारतेनापि अतिशक्तभाषया अपलपितम्।
 दक्षिणकोरियस्य राष्ट्रिय सुरक्षासमित्या: सुप्रधानमेलने स्थिती: चर्चिता:। षष्ठवारमेव उत्तरकोरियेन आणवपरीक्षणं क्रियते। उत्तरकोरियस्य एकाधिपति: किम् जोङ् उन् नामकः हैड्रजन् स्फोटकेन सह तिष्ठन् चित्रं गतदिने बहिरागतम्। यू एस् राष्ट्रपति: डोणाल्ड् ट्रम्प् जप्पानस्य  राष्ट्रपतिना षिन्सो आबेन सह कृतां चर्चामनुवर्त्य एव उत्तरकोरियस्य प्रकोपनम्। गतदिने जाप्पानस्य उपरितल मिसैल् शस्त्रं प्रयुज्यापि उत्तरकोरियेन प्रकोपनम् सृष्टम्।  उत्तरकोरियायाम् अतीवप्राधान्ययुक्तघटना: यदा भवन्ति तदा केवलम् प्रत्यक्षीभूयमाना चतुस्सप्ततिवयस्का सरण्या: अवतारिका रि चुन् ही एव हैड्रजन् स्फोटकपरीक्षणवार्तां राष्ट्रम् व्यजिज्ञपत्।
मुखं प्रकाशयत् केन्द्रमन्त्रिमण्डलं - नवमुखानि नव। 
नवदिल्ली > केन्द्रमन्त्रिमण्डलस्य मुखं प्रशोभमानं प्रधानमन्त्री नरेन्द्रमोदी नवीनान् नवमन्त्रिणः संयोज्य मन्त्रिसभाम् व्यस्तारयत्। मोदी मन्त्रिमण्डलस्य तृतीयं पुनःसंघटनं भवत्येतत्।
      चत्वारः सहमन्त्रिणः शिष्टपदप्राप्ताः(केबिनट्) भूताः। निर्मला सीतारामः राष्ट्रस्य प्रथमा वनितारक्षामन्त्रिणी अभवत्। इतःपर्यन्तं वाणिज्य मन्त्रालयस्य सहमन्त्रिणी आसीत्। मोदीमन्त्रिमण्डले इदंप्रथमतया केरलाय प्रातिनिध्यमभवत्। अल्फोण्स् कण्णन्तानं विनोदसञ्चारमन्त्रालयस्य स्वतन्त्रपदप्रात्या  केरलस्य अद्वितीयः प्रतिनिधिः अभवत्।
उपभोक्तृ संरक्षणनियमः आपादचूडं परिष्क्रियते।
नवदेहली> राजीव् गान्धी सर्वकारेण १९८६ तमे आयोजिते उपभोक्तृसंरक्षणनियमः अधुना कालोचिततया परिष्क्रियते। परिष्करणपत्रं विना विलम्बम् अवतारयिष्यति मन्त्रिसभायाम्।
वर्षद्वथात् पूर्वं लोकसभायां समर्पिता आसीदियं नियमपत्रिका समूलं प्रतिगृह्य समग्रया रीत्या कालानुसृत-परिष्कारान् कृत्वा एव पुनरानयनम्। उपभोक्तृ-तर्कपरिहार-न्यायालयः, आयोगः च अनुवर्तिष्येते।

पूर्वकालीन-नियमस्य पञ्च परिष्काराणि निर्दिष्टानि। उपभोक्तृ मण्डले स्वाधीनतायै राष्ट्रस्तरे राज्यस्तरे च उपभोक्तृ-संरक्षणायोगाः, उत्पन्नबाध्यता, तर्क परिहार-माध्यस्थता, अप्रमाण विज्ञप्ति-प्रकाशनाय प्रतिक्रियाविधयः, ऑण् लैन् वाणिज्येषु नियमनिवेशनं च अनेन उद्दिश्यते।
सेवनदातृभिः उत्पन्नस्य निर्मातृभिः च गुणोत्कर्षविषये उत्तरदायित्वं स्वीकर्तव्यम्।
जी एस् टी एकीक्रियते- औषधमूल्यं न्यूनं भविष्यति।
नवदिल्ली > औषधानां पण्य-सेवनकरम् एकीकृत्य प्रतिशतं पञ्च इति क्रमे भविष्यति। आगामि जी एस्. टी. समित्याम्  अस्य निर्णयः भविष्यति। एकीकृत-जीएस्टी द्वारा औषधानां मूल्यं न्यूनं भविष्यति। अधिकतया 'जनरिक्' औषधानि व्यापकरीत्या वितीर्यते चेत् जनानाम् आश्वासप्रदः भविष्यति। पूर्वं अवश्यौषधानां मूल्यम् अधिकम् आसीत्। पण्यसेवनकरस्य आगमनानन्तरं करः प्रतिशतं १२ इति न्यूनीकृतः। मधुमेहौषधस्य अन्येषां जीवरक्षौषधानां च करः प्रतिशतं पञ्च इति न्यूनीकृतः। विविधेभ्यः  मण्डलेभ्यः करः इतोपि न्यूनीकर्तुं सम्मर्दः अस्ति इत्यस्मात् १५% तः ५% यावत् न्यूनीकरिष्यते। कर न्यूनीकरणे अधिकारः जि एस् टी आयोगस्यैव। आयोगस्य आगामि उपवेशने करः न्यूनी करिष्यते।

Sunday, September 3, 2017

 त्रिदिवसीयः कार्यकर्तृ-अभ्यासवर्गः सम्पन्नः
हरिद्वारम्>संस्कृतभारती उत्तराञ्चल गढवालसम्भागस्य कार्यकर्तृणां त्रिदिवसीयः कार्यकर्तृ-अभ्यासवर्गः 1-3 दिनाङ्केषु हरिद्वारे श्रीनिजात्मप्रेमधाम्नि अद्य रविवासरे सम्पन्नः। अभ्यासवर्गे जनपदसम्मेलन-साप्ताहिकमेलन-पत्राचारशिक्षणादि-विविधविषयेषु चर्चा प्रवृत्ता: । अभ्यासवर्गे प्रान्ताध्यक्षा श्रीमती जानकी त्रिपाठी , प्रान्तन्यासी डा.प्रेमचन्द्रशास्त्री ,उपाध्यक्षौ डा.सुरेन्द्रमधुरः डा.प्रकाशपन्तः, प्रान्तमन्त्री श्रीराकेशशर्मा, सहमन्त्री डा.हरीशगुरुरानी, सम्भागसंयोजकः डा.मनीषजुगरानः  विभागसंयोजकः श्रीसञ्जीवध्यानी श्रीरोशनगौडः चेत्यादयः मार्गदर्शनम् अकुर्वन्। अस्मिन् अवसरे विशाल भट्ट: , अभिषेक परगाँई,गिरीश बहुगुणा इत्यादया: सम्भागस्य  ३५ कार्यकर्तारः वर्गेस्मिन् भागं गृहीतवन्तः ।
कार् यानस्य धावनाय कृत्रिमं नगरं निर्मीय 'गूगिलः'
कालिफोर्णिय> स्वयं धावनं क्रियमाणं कार् यानं परीक्षितुं गूगिलः कृत्रिमनगरं निर्मितवान्। 'कालिफोर्णिय' मरुभूमौ कासिल् इति नामकं नगरं निर्मितम्। 'वेमो' संस्थायाः स्वयंचालक-यानमेव अत्र परीक्ष्यते। नगरे विद्यमान यानचालक सूचकानि गतागत नियन्त्रकाः अन्यवाहनानि च मार्गषु सज्जीकृतानि।  गूगिलस्य यन्त्रज्ञाः एतदर्थम् अहोरात्रं कठिनप्रयत्नं कुर्वन्तः सन्ति।

  शतं 'एक्कर्' पर्यन्तं विस्तृतं भवति कासिल् नगरम्। आधुनिकनगरस्य समानं प्रासाद समुच्चयानि अत्र नास्ति। चेदपि अधुनिकरीत्या मार्गश्रृंगलाबद्धं भवति इदं नगरम्। मार्गाः चतुष्पदाः, गतागत निर्देशसूचकानि, वाहन निस्थानानि, एकदिशयागमनमार्गः एवं बहुविध संविधानेन सुसज्जं भवति। पादचारिणः अपि मध्ये मध्ये पन्थानं अतितरति। एतदर्थं मनुष्याः नियुक्ताः सन्ति। 
अतिवृष्ट्या षिंलासमीपे महान् मृत्‍पातः।
षिंला> हिमाचल प्रदेशास्थे षिंलासमीपे धल् नाम प्रदेशे जायमाने मृत्पाते महान् नाशनष्टः अभवत्। मृत्पातेन बहूनि यानानि मृत्पाषाणखण्डयोः अधः अभवन्। एकस्य देवालयस्य, नैकेषां गृहाणां च नाशाः अभवत्।  शनिवासरे मध्याह्नानन्तरमेव दुर्घटना जाता। घटनायां जीवनाशः न आवेदितः। अधिक मृत्पाताय साध्यता अस्तीति परिगणय्य वाहनगतागतं निरुद्धम् अस्ति।
शुक्रवासरादारभ्य अनुस्यूतवृष्टिपातः एव भूपातस्य कारणम् । अत एव अस्मिन् मण्डलेषु वाहनानि मार्गेषु स्थगितानि आसन्। एतेषां वाहनानाम उपरि श्रृंगपार्श्ववः भग्नीभूय पतितः आसीत्
निर्दिष्टगुणाभावः छात्राभावः - ८०० यन्त्रवैज्ञानिक-कलालयाः पिधास्यते ।
बंगळूरु> आगामि शैक्षिकसंवत्सरे राष्ट्रे आहत्य अष्टशतम् (८००) यन्त्रवैज्ञानिक-कलालयाः पिधातुं राष्ट्रिय वैज्ञानिक-शैक्षिकायोगेन (AICTE) निर्दिष्टः। छात्राभावः, शिक्षायै मूल्यराहित्यम् च कारणत्वेन वदति। आयोगस्य अङ्कुशादेशः नियमावली च पालयितुम् असमर्थाः कलालयाधिकारिणः स्वयमेव पिधानं कुर्वन्ति च । ईदृशकारणेन पञ्चाशदधिकशतम् कला शालाः प्रतिसंवत्सरं पिधानं कुर्वन्तीति  आयोगाध्यक्षः अनिल् दत्तात्रेयसहस्रबुद्धे महोदयेन उक्तम्।

   अवशयसुविधा नास्ति, पञ्च वर्षाणि यावत् प्रतिशतं ३० छात्रान् अलभमानाः कलाशालाः पिधानं करणीयम् इत्येव आदेशः। २०१५-२०१७ संवत्सरेषु ४१० कलाशालाः पिधातुम् अनुज्ञा दत्ता आसीत् । पानठ्यप्रणाल्याः नूतनत्वं नास्तीति छात्राभावस्य कारणंम् इति मन्यते। शिक्षकेभ्यः परिशीलनं दत्वा गुणवर्धनं कर्तुं क्रिया विधयः स्वीकर्तुं आयोगेन निश्चितम् च।

Saturday, September 2, 2017

दिल्यां  मालिन्यश्रृङ्गस्य पतनेन द्वाै मृतौ।
नवदिल्ली > दिल्यां गासिपुरम् इत्यत्र  मालिन्यचयं पतित्वा पतित्‍वा द्वौ मृतौ अभवताम्। शुक्रवासरे मध्याह्नात्परमेव इयं दुर्घटना। प्रदेशे अस्मिन् दिनद्वयं यावत् वृष्टिः आसीत्। इतोऽप्यधिकतया बहवः जनाः मालिन्यचयस्य अधः बन्धिताः इति सूच्यते।  एतेषां कृते अन्वेषणं प्रचलदस्ति।  पञ्च वाहनानि समीपस्थां कुल्यां प्रति प्रवहितानि। पञ्चाशत् पादमितः उन्नतः मालिन्यचयः एव  पतितः।  द्वौ मृतशरीरौ लब्धौ इति दिल्लीस्थः आरक्षकः प्रमाणीकृतवान्। इमां दुर्घटनां अधिकृत्य अन्वेषणमारब्धम्|

         दिल्लीनगरस्य मालिन्यानि सामान्येन गासिपुरम्, ओख्ल, फाल्स्व इत्‍येतेषु स्थानेषु निक्षिप्यन्ते। किन्तु मालिन्य-संभरणशेषिमतीत्य पर्वतवत् जातम्। अनन्तर-प्रक्रियायाः कालः च अतीतः आसीत्।

Friday, September 1, 2017

मुम्बै नगरे ११७ संवत्सरं यावत् पुरातनं  अट्टशूलागृहं भग्नम् । मृतानां संख्याः ३४ अभवत् ।
मुम्बै> पुरातनं पञ्च अट्टयुतं प्रासादं भग्नमभवत् । दुर्घटनायां चतु स्त्रिंशत् (३४) संख्याकाः जनाः मृताः।  प्रासादा वशिष्टानां मध्ये पतितान् सर्वानपि बहिरानीताः इति अग्निशमन-सेनया उक्तम्। मृतेषु चतुविंशाति (२४)पुरुषाः नव (९) स्त्रियः विंशति (२०) दिनस्य आयुष्कः शिशुः च अन्तर्भवति।  व्रणिताः पञ्चदशाः (१५) विविधेषु आतुरालयेषु प्रविष्टाः। सप्तचत्वारिंशत् जनाः रक्षिताः च।

    राष्ट्रियदुरन्त-निवारणसेना, अग्निशमनसेना, आरक्षकाः च मिलित्वा कृतेन प्रयत्नेन जीवाः रक्षिताः।  षट् अग्निशमनसेनाङ्गानाङ्गाः एकः त्वरितनिवारणसेनाङ्गः  च व्रणिताः

गुरुवासरे प्रातः एव आसीत् इयं दुर्घटना। एकनवत्यधिक सप्तशतं (७९१) आलयाः दुर्घटनावस्थायां सन्तीति पठनफलाधारेण प्रादेशिकसर्वेकारेण उद्घोषणा प्रसारिता आसीत्
मुम्बैयां भवनसमुच्चयभग्नेन २१जनाः मृताः।
मुम्बई > दक्षिणमुम्बैय्यां भिण्डी चत्वरे षट्तलात्मकभवनं  विशीर्ण्य एकविंशति जनाः मृताः। मृतेषु तिस्रः महिलाः द्वौ बालकौ च अन्तर्भूताः।  आहताः ३० जनाः रक्षास्थानं नीताः। भग्नावशिष्टेषु जनाः इतःपरं लग्नाः इति सन्देहेन रक्षाप्रवर्तनानि अनुस्यूतमानानि वर्तन्ते।
      ह्यः प्रभाते ८.३० वादने आसीत् पाक्मोडिय वीथ्यां ११७ संवत्सरात्मकं भवनसमुच्चयं भग्नमभवत्।
भारतीयदिक्सूचकोपग्रहस्य प्रक्षेपणं विफलीभूतम्
श्रीहरिकोटा>आई आर एन एस एस- वन एच इति भारतीयदिक्सूचकोपग्रहस्य विप्रक्षेपणं विफलीभूतम् । गतदिने पी एस एल वी सी- 39 इति ध्रुवीयप्रक्षेपणयानेन  श्रीहरिकोटान्तरिक्षकेन्द्रात् प्रक्षेपणं विहितम् । भारतीयान्तरिक्षानुसन्धानसंघटनस्य अध्‍यक्षः ए.एस.किरणकुमारः प्रावोचत् यत् प्रक्षेपणयानस्य हीट-शील्‍ड इत्यस्य पृथक्करणमतिरिच्य सर्वम् सामान्‍यमासीत् । सममेव श्रीकुमारः प्रत्यपादयत् यत् प्रक्षेपणसम्बद्धविवरणस्य विस्‍तृतं विश्‍लेषणं भविष्यति।