OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 4, 2017

जी एस् टी एकीक्रियते- औषधमूल्यं न्यूनं भविष्यति।
नवदिल्ली > औषधानां पण्य-सेवनकरम् एकीकृत्य प्रतिशतं पञ्च इति क्रमे भविष्यति। आगामि जी एस्. टी. समित्याम्  अस्य निर्णयः भविष्यति। एकीकृत-जीएस्टी द्वारा औषधानां मूल्यं न्यूनं भविष्यति। अधिकतया 'जनरिक्' औषधानि व्यापकरीत्या वितीर्यते चेत् जनानाम् आश्वासप्रदः भविष्यति। पूर्वं अवश्यौषधानां मूल्यम् अधिकम् आसीत्। पण्यसेवनकरस्य आगमनानन्तरं करः प्रतिशतं १२ इति न्यूनीकृतः। मधुमेहौषधस्य अन्येषां जीवरक्षौषधानां च करः प्रतिशतं पञ्च इति न्यूनीकृतः। विविधेभ्यः  मण्डलेभ्यः करः इतोपि न्यूनीकर्तुं सम्मर्दः अस्ति इत्यस्मात् १५% तः ५% यावत् न्यूनीकरिष्यते। कर न्यूनीकरणे अधिकारः जि एस् टी आयोगस्यैव। आयोगस्य आगामि उपवेशने करः न्यूनी करिष्यते।

Sunday, September 3, 2017

 त्रिदिवसीयः कार्यकर्तृ-अभ्यासवर्गः सम्पन्नः
हरिद्वारम्>संस्कृतभारती उत्तराञ्चल गढवालसम्भागस्य कार्यकर्तृणां त्रिदिवसीयः कार्यकर्तृ-अभ्यासवर्गः 1-3 दिनाङ्केषु हरिद्वारे श्रीनिजात्मप्रेमधाम्नि अद्य रविवासरे सम्पन्नः। अभ्यासवर्गे जनपदसम्मेलन-साप्ताहिकमेलन-पत्राचारशिक्षणादि-विविधविषयेषु चर्चा प्रवृत्ता: । अभ्यासवर्गे प्रान्ताध्यक्षा श्रीमती जानकी त्रिपाठी , प्रान्तन्यासी डा.प्रेमचन्द्रशास्त्री ,उपाध्यक्षौ डा.सुरेन्द्रमधुरः डा.प्रकाशपन्तः, प्रान्तमन्त्री श्रीराकेशशर्मा, सहमन्त्री डा.हरीशगुरुरानी, सम्भागसंयोजकः डा.मनीषजुगरानः  विभागसंयोजकः श्रीसञ्जीवध्यानी श्रीरोशनगौडः चेत्यादयः मार्गदर्शनम् अकुर्वन्। अस्मिन् अवसरे विशाल भट्ट: , अभिषेक परगाँई,गिरीश बहुगुणा इत्यादया: सम्भागस्य  ३५ कार्यकर्तारः वर्गेस्मिन् भागं गृहीतवन्तः ।
कार् यानस्य धावनाय कृत्रिमं नगरं निर्मीय 'गूगिलः'
कालिफोर्णिय> स्वयं धावनं क्रियमाणं कार् यानं परीक्षितुं गूगिलः कृत्रिमनगरं निर्मितवान्। 'कालिफोर्णिय' मरुभूमौ कासिल् इति नामकं नगरं निर्मितम्। 'वेमो' संस्थायाः स्वयंचालक-यानमेव अत्र परीक्ष्यते। नगरे विद्यमान यानचालक सूचकानि गतागत नियन्त्रकाः अन्यवाहनानि च मार्गषु सज्जीकृतानि।  गूगिलस्य यन्त्रज्ञाः एतदर्थम् अहोरात्रं कठिनप्रयत्नं कुर्वन्तः सन्ति।

  शतं 'एक्कर्' पर्यन्तं विस्तृतं भवति कासिल् नगरम्। आधुनिकनगरस्य समानं प्रासाद समुच्चयानि अत्र नास्ति। चेदपि अधुनिकरीत्या मार्गश्रृंगलाबद्धं भवति इदं नगरम्। मार्गाः चतुष्पदाः, गतागत निर्देशसूचकानि, वाहन निस्थानानि, एकदिशयागमनमार्गः एवं बहुविध संविधानेन सुसज्जं भवति। पादचारिणः अपि मध्ये मध्ये पन्थानं अतितरति। एतदर्थं मनुष्याः नियुक्ताः सन्ति। 
अतिवृष्ट्या षिंलासमीपे महान् मृत्‍पातः।
षिंला> हिमाचल प्रदेशास्थे षिंलासमीपे धल् नाम प्रदेशे जायमाने मृत्पाते महान् नाशनष्टः अभवत्। मृत्पातेन बहूनि यानानि मृत्पाषाणखण्डयोः अधः अभवन्। एकस्य देवालयस्य, नैकेषां गृहाणां च नाशाः अभवत्।  शनिवासरे मध्याह्नानन्तरमेव दुर्घटना जाता। घटनायां जीवनाशः न आवेदितः। अधिक मृत्पाताय साध्यता अस्तीति परिगणय्य वाहनगतागतं निरुद्धम् अस्ति।
शुक्रवासरादारभ्य अनुस्यूतवृष्टिपातः एव भूपातस्य कारणम् । अत एव अस्मिन् मण्डलेषु वाहनानि मार्गेषु स्थगितानि आसन्। एतेषां वाहनानाम उपरि श्रृंगपार्श्ववः भग्नीभूय पतितः आसीत्
निर्दिष्टगुणाभावः छात्राभावः - ८०० यन्त्रवैज्ञानिक-कलालयाः पिधास्यते ।
बंगळूरु> आगामि शैक्षिकसंवत्सरे राष्ट्रे आहत्य अष्टशतम् (८००) यन्त्रवैज्ञानिक-कलालयाः पिधातुं राष्ट्रिय वैज्ञानिक-शैक्षिकायोगेन (AICTE) निर्दिष्टः। छात्राभावः, शिक्षायै मूल्यराहित्यम् च कारणत्वेन वदति। आयोगस्य अङ्कुशादेशः नियमावली च पालयितुम् असमर्थाः कलालयाधिकारिणः स्वयमेव पिधानं कुर्वन्ति च । ईदृशकारणेन पञ्चाशदधिकशतम् कला शालाः प्रतिसंवत्सरं पिधानं कुर्वन्तीति  आयोगाध्यक्षः अनिल् दत्तात्रेयसहस्रबुद्धे महोदयेन उक्तम्।

   अवशयसुविधा नास्ति, पञ्च वर्षाणि यावत् प्रतिशतं ३० छात्रान् अलभमानाः कलाशालाः पिधानं करणीयम् इत्येव आदेशः। २०१५-२०१७ संवत्सरेषु ४१० कलाशालाः पिधातुम् अनुज्ञा दत्ता आसीत् । पानठ्यप्रणाल्याः नूतनत्वं नास्तीति छात्राभावस्य कारणंम् इति मन्यते। शिक्षकेभ्यः परिशीलनं दत्वा गुणवर्धनं कर्तुं क्रिया विधयः स्वीकर्तुं आयोगेन निश्चितम् च।

Saturday, September 2, 2017

दिल्यां  मालिन्यश्रृङ्गस्य पतनेन द्वाै मृतौ।
नवदिल्ली > दिल्यां गासिपुरम् इत्यत्र  मालिन्यचयं पतित्वा पतित्‍वा द्वौ मृतौ अभवताम्। शुक्रवासरे मध्याह्नात्परमेव इयं दुर्घटना। प्रदेशे अस्मिन् दिनद्वयं यावत् वृष्टिः आसीत्। इतोऽप्यधिकतया बहवः जनाः मालिन्यचयस्य अधः बन्धिताः इति सूच्यते।  एतेषां कृते अन्वेषणं प्रचलदस्ति।  पञ्च वाहनानि समीपस्थां कुल्यां प्रति प्रवहितानि। पञ्चाशत् पादमितः उन्नतः मालिन्यचयः एव  पतितः।  द्वौ मृतशरीरौ लब्धौ इति दिल्लीस्थः आरक्षकः प्रमाणीकृतवान्। इमां दुर्घटनां अधिकृत्य अन्वेषणमारब्धम्|

         दिल्लीनगरस्य मालिन्यानि सामान्येन गासिपुरम्, ओख्ल, फाल्स्व इत्‍येतेषु स्थानेषु निक्षिप्यन्ते। किन्तु मालिन्य-संभरणशेषिमतीत्य पर्वतवत् जातम्। अनन्तर-प्रक्रियायाः कालः च अतीतः आसीत्।

Friday, September 1, 2017

मुम्बै नगरे ११७ संवत्सरं यावत् पुरातनं  अट्टशूलागृहं भग्नम् । मृतानां संख्याः ३४ अभवत् ।
मुम्बै> पुरातनं पञ्च अट्टयुतं प्रासादं भग्नमभवत् । दुर्घटनायां चतु स्त्रिंशत् (३४) संख्याकाः जनाः मृताः।  प्रासादा वशिष्टानां मध्ये पतितान् सर्वानपि बहिरानीताः इति अग्निशमन-सेनया उक्तम्। मृतेषु चतुविंशाति (२४)पुरुषाः नव (९) स्त्रियः विंशति (२०) दिनस्य आयुष्कः शिशुः च अन्तर्भवति।  व्रणिताः पञ्चदशाः (१५) विविधेषु आतुरालयेषु प्रविष्टाः। सप्तचत्वारिंशत् जनाः रक्षिताः च।

    राष्ट्रियदुरन्त-निवारणसेना, अग्निशमनसेना, आरक्षकाः च मिलित्वा कृतेन प्रयत्नेन जीवाः रक्षिताः।  षट् अग्निशमनसेनाङ्गानाङ्गाः एकः त्वरितनिवारणसेनाङ्गः  च व्रणिताः

गुरुवासरे प्रातः एव आसीत् इयं दुर्घटना। एकनवत्यधिक सप्तशतं (७९१) आलयाः दुर्घटनावस्थायां सन्तीति पठनफलाधारेण प्रादेशिकसर्वेकारेण उद्घोषणा प्रसारिता आसीत्
मुम्बैयां भवनसमुच्चयभग्नेन २१जनाः मृताः।
मुम्बई > दक्षिणमुम्बैय्यां भिण्डी चत्वरे षट्तलात्मकभवनं  विशीर्ण्य एकविंशति जनाः मृताः। मृतेषु तिस्रः महिलाः द्वौ बालकौ च अन्तर्भूताः।  आहताः ३० जनाः रक्षास्थानं नीताः। भग्नावशिष्टेषु जनाः इतःपरं लग्नाः इति सन्देहेन रक्षाप्रवर्तनानि अनुस्यूतमानानि वर्तन्ते।
      ह्यः प्रभाते ८.३० वादने आसीत् पाक्मोडिय वीथ्यां ११७ संवत्सरात्मकं भवनसमुच्चयं भग्नमभवत्।
भारतीयदिक्सूचकोपग्रहस्य प्रक्षेपणं विफलीभूतम्
श्रीहरिकोटा>आई आर एन एस एस- वन एच इति भारतीयदिक्सूचकोपग्रहस्य विप्रक्षेपणं विफलीभूतम् । गतदिने पी एस एल वी सी- 39 इति ध्रुवीयप्रक्षेपणयानेन  श्रीहरिकोटान्तरिक्षकेन्द्रात् प्रक्षेपणं विहितम् । भारतीयान्तरिक्षानुसन्धानसंघटनस्य अध्‍यक्षः ए.एस.किरणकुमारः प्रावोचत् यत् प्रक्षेपणयानस्य हीट-शील्‍ड इत्यस्य पृथक्करणमतिरिच्य सर्वम् सामान्‍यमासीत् । सममेव श्रीकुमारः प्रत्यपादयत् यत् प्रक्षेपणसम्बद्धविवरणस्य विस्‍तृतं विश्‍लेषणं भविष्यति।

Thursday, August 31, 2017

ड्रम्पं उपहस्य पाकिस्थानस्य भूतपूर्वमन्त्री 
अमेरिकातः पाकिस्थानाय लब्धं धनं भैषम् इव।
इस्लामबादः > आतङ्कवादिनं प्रतिरोद्धुं पाकिस्थानाय कोटिकोटि संख्यामितानि डोलर् धनपत्राणि दत्तानि इति डोणाल्ड् ड्रंपस्य वाचम् उपहस्य पाकिस्थानस्य भूतपूर्वमन्त्री। कोटिमितानां धनराशिः न लब्धः। अल्पधनंमेव लब्धम्। शासनदलस्य प्रमुखनेत्रा चौधरी निसार् महोदयेन पाकिस्थानस्य राष्ट्रिय आयोगस्य पुरतः एवं विज्ञापितम्। इदानीन्तन कालपर्यन्तं पाकिस्थानस्य आभ्यन्तरमन्त्री आसीत् एषः। दशवर्षाभ्यन्तरे आमेरिकातः लब्धं धनसाहायं कियन्मात्रमिति गणनीयम् इति च तेन उक्तम्।
यु. एस् राष्ट्रतः धनं स्वीकृत्य अस्माभिः अन्विष्टानां भीकराणां सुरक्षवासस्थानं प्रदत्तम् इति गतवासरे ट्रपेन उक्तमासीत् । भीकरान् विरुद्ध्य  अमेरिक्काराट्रस्य प्रक्रियायै दत्तस्य साहाय्यस्य प्रतिफलरूपेण दत्तमासीत् धनम्। पञ्चाशत् कोटि डोलर् अभ्यर्थितम्। किन्तु विंशति कोटिः एव लब्धम् । चौधरी निसार् महोदयेन उक्तम्।
सुदीर्घसंघर्षान्ते भारतं चीना च सैन्ये प्रतिनिवर्तितवन्तौ। 
नवदेहली > जूण्मासे आरब्धः भारतचीनासीमाविवाद: दोक्लां सीमाया: सेनाप्रतिनिवर्तनेन परिहृतः। चीनायाः मार्गनिर्माणमेव विवादहेतुरासीत् ၊ सैन्यद्वयस्य प्रतिनिवर्तनं संपूर्णमिति विदेशकार्यमंत्रालयेन सूचितं वर्तते। ब्रिक्स् उच्चकोटिकार्यक्रमात्पूर्वं  नयतन्त्रस्तरे संपन्नायाःचर्चायाः अनन्तरमेव सेनाप्रतिनिवर्तननिर्णय: कृतः ।
नितरां वैकारिकतया एव चीनादेशस्य प्रतिस्पन्दः अभवत् । किन्तु भारतमत्यन्तं संयमनमपालयत् । भारतचीनासेनयो‌‌र्मध्ये युद्धाय स्थितिरपि समजायत। १९६२ तमवर्षस्य युद्धं स्मारयित्वा चीनासेना भारतं प्रकोपयितुं यतते स्म ।

Wednesday, August 30, 2017

न्यायाधीश: दीपक् मिश्रः मुख्यन्यायाधीश-पदमारूढवान्
देहलि > भारतस्य पंचचत्वारिंशत्त्तम मुख्य-न्यायाधीशत्वेन चतु-षष्ठिवयस्कः दीपक् मिश्रः नियुक्तः। पूर्वन्यायाधीशः केहार् मिश्रः आसीत् । तस्य स्थानात् विरामे जाते दीपक् मिश्रः तत्स्थाने नियुक्तः वर्तते। राष्ट्रपति भवने आयोजितेषु कार्यक्रमेषु राष्ट्रपति रामनाथ-गोविन्देन सत्यवाक्यानि प्रकाशितानि।  उपराष्ट्रपतिः वेंकय्य नायिडू प्रधानमंत्री नरेन्द्रमोदी भूतपूर्व-प्रधानमंत्री मनमोहन सिंहः कांग्रेस् अध्यक्षा सोनिया गांधी प्रभृतया: भागभाजिन: आसन्।
वृष्टि: शक्ता, जलोपप्लवभीत्याम् मुम्बै।।
 
  मुम्बै> अतिशक्तां वृष्टिमनुवर्त्य  जलोपप्लवभीत्यां वर्तते मुम्बै नगरम्। गतचतुर्दिनेषु तत्र अतिशक्ता वृष्टि: अनुवर्तते। शनिवासरे आरब्धा वृष्टि: मङ्गलवासरे प्रात: अपि अतिशक्त्या अनुवर्तिता। तस्मात् नगरस्य निम्नप्रदेशा: जलेन सम्भृता: अभवन्। मार्गा: बहव: जलान्तर्गता:। नगरस्य बहुषु भागेषु अग्रिमासु अष्टचत्वारिंशत् घण्टासु सुशक्तवर्षस्य साध्यता वर्तते,
 अत्यावश्यानि न सन्ति चेत् वृथा बहिर्गमनम् मास्तु इत्यपि प्रदेशवासिनां कृते निर्देशोपि दत्त:। रेल्- भू मार्गगतागतं विध्नितम्। बहूनि रेल्यानानि विलम्बेन धावन्ति। प्रादेशिकरेल्यानानि पश्चिमरेल्कार्यालयेन स्थगितानि। सुशक्तवृष्टि: जलोपप्लवश्च जनानां जीवनम् कष्टे अपातयत्। सियोण्, अन्धेरी उपमार्ग:(सब् वे) - एतेषु प्रदेशेषु जलसम्भृतभागा: रूपीकृता: इति अपेक्षाद्वयम् प्राप्तमिति च बी एम् सी विज्ञापयत्। किन्तु माट्टुंगा, दादरस्य समीपप्रदेशा:, हिन्द् माता, वाडला, घटकोपर:, मुलुन्द्- एते प्रदेशाश्च जलोपप्लुता:। गतागतविघ्नमपि प्रदेशेषु दृश्यन्ते। जना: वर्षजलोपप्लववार्ता: इतरान् ज्ञापयन्ति ट्विट्टर् माध्यमेन। ट्विट्टर् द्वारा सुरक्षापूर्वसूचना: अपि दीयन्ते। टैफूण् समानवातावरणमिति व्यवसायी आनन्द महीन्द्र: ट्वीट् सन्देशे उक्तवान्। पञ्चोत्तरद्विसहस्रात् परम् अनुभूयमाना सुशक्ता वृष्टिरेव मुम्बै मध्ये इति सूचना।

Tuesday, August 29, 2017

नरेश्वराय २०संवत्सराणां कारागारवासः। 
नवदिल्ली > बलात्कारविषये देरा सच्चा सौदा नामिकायाः संस्थायाः नेत्रे गुर्मीत् राम रहीम सिंहाय नरेश्वराय विंशतिसंवत्सराणां कठोरं कारागारवासादण्डनं विहितम्। त्रिशत् लक्षं रूप्यकाणां धनशुल्कदण्डनमपि विहितम्। द्वौ वनितानुयायिनौ २००२तमे संवत्सरे रामरहीमः  बलात्कारं कृतवान् इति विषयद्वये एव सि बि ऐ संस्थायाः सविशेषन्यायालयस्य न्यायाधीशेन जग्दीपसिंहेन पृथक् पृथक् दण्डनं विहितम्।
   प्रत्येके विषये दशसंवत्सराणां कारागृहवासः १५लक्षं रूप्यकाणां शुल्कदण्डनं च नीतिपीठेन विहितम्। कारागारवासः पृथक् पृथक् अनुभोक्तुं विहितः।
हृदयस्तम्भनेन षष्ठकक्ष्याच्छात्रस्य मरणम्।।
     हैदराबाद्> हृदयस्तम्भनेन षष्ढकक्ष्याच्छात्र: मृतवान्। नादेर्गुले देहली जनकीयविद्यालयस्य छात्र: आदर्श: एव मृतवान्। विद्यालयस्य सोपानावरोहणमध्ये बोधरहित: पतितवान् आदर्श:। झटित्येव आतुरालयम् प्रवेशितश्चेदपि हृदयस्तम्भनमभवदिति विशदनिरीक्षणेन वैद्या: निरणयन्। तत: चिकित्सायाम् आरब्धायाम् शनिवासरे आदर्श: मृतवान्। उत्तमगायक: सन् आदर्श: अन्तर्विद्यालयीयस्पर्धासु भागं गृहीत्वा तृतीयस्थानम् प्राप्तवान् आसीत्।   स्पर्धानन्तरं विस्मृतं स्यूतं स्वीकर्तुं गमनावसरे एव तस्य पतनम्। आदर्शस्य नेत्रे दातुम् पितरौ निश्चितवन्तौ।

Monday, August 28, 2017

श्रद्धायाः नाम्नि अतिक्रमाय अनुज्ञा न लभते - प्रधानमन्त्री।
नवदिल्ली > विश्वासानाम् आधारे अतिक्रमादयः दुराचाराः न अनुमोदन्ते इति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्। आकाशवाण्यां मन् की बात् इत्यस्यां प्रतिमासप्रभाषणपरम्परायां' प्रधानमन्त्रिणः इदं प्रतिकरणम्। देरा सच्चा सौदा संस्थायाः नेतुः गुर् मीत् रामरहिमस्य प्रग्रहणमनुबन्ध्य उत्तरभारते व्यापृतस्य अक्रमस्य आधारे एवायम् उद्घोषणम्। अस्मिन् विषये प्रधानमन्त्रिणं विरुध्य पञ्चाब्-हरियाना उच्चन्यायालयेन विमर्शः उन्नीतः।
पि.वि.सिन्धोः रजतपदकम्।
ग्लास्गो >स्कोट्लन्ट् देशे संवृत्ते विश्व-बाड्मिन्टण्चषकस्पर्धायाः अन्तिमे चक्रे भारतस्य पि.वि. सिन्धुः रजतपदकेन तृप्तिं  कृता।
     अत्यन्तम् आकांक्षाजनकायाम् अन्तिमचक्रस्पर्धायां जाप्पानस्य नोसोमी ओक्कुहारा इत्यस्यां प्रति एकं विरुध्य क्रीडाद्वयेन पराजिता अभवत्। निर्णायके तृतीयमत्सरे १९ - १७ क्रमे अग्रेसरत्वं प्राप्य आसीत् सिन्धोः पराभवः।
  अस्यामेव स्पर्धायां साइना नेहवालः कास्यपदकम् अधिगतवती|
यात्रापेटकस्य (वोयेजर्) वय: चत्वारिंशत्; सौरयूथलङ्घनम् प्रथमदौत्यम्।।
  मयामि> सौरयूथे वयम् एकाकिन: वा? चत्वारिंशत् वर्षेभ्य: पूर्वम् एतस्य प्रश्नस्य उत्तरमन्विष्यैव नासाया: यात्रिकपेटकानि (वोयेजर्) बहिराकाशयात्रा: आरब्धवन्ति। सप्तसप्तत्युत्तरनवशताधिकसहस्रतमे फ्लोरिडाया: केप् कानवरत:प्रतीक्षाया:भारमूढ्वा यात्रिकपेटकानां यात्रा आरब्धा। तस्मिन्नेव वर्षे आगस्त् विंशत्यां द्वितीयं यात्रिकपेटकम्, सेप्टम्बर् पञ्चमे प्रथमं यात्रिकपेटकं च विक्षेपिते भूमिमुल्लङ्घ्य लोक: समीपस्थ: दृष्टिगोचरश्च जात:। एकाशीत्युत्तरनवशताधिकसहस्रतमे समाप्तमिति चिन्तितं यात्रिकपेटकदौत्यं,  किन्तु, बहिराकाशपर्यवेक्षणरङ्गे चरित्रम् आलेखयत्। इदानीं सौरयूथमुल्लङ्घ्य बाह्यप्रपञ्चेन सञ्चरन्ति  तानि पेटकानि। बृहस्पति:, युरानस्, नेप्ट्यूण् आदीन् ग्रहान् अधिकृत्य ज्ञातुमेव पेटकानाम् प्रारम्भदौत्यमासीत्। भूमौ जीव: चिरस्थायीति व्यक्तीकर्तुम् मुद्रकम्, तस्य प्रवर्तनाय मुद्रकप्रवर्तकयन्त्रं च पेटकेषु बन्धितम्। केषाञ्चिदपि अन्यग्रहजीविनां दष्टिपथं प्रति यदि पेटकम् आगच्छति तर्हि भूमिमधिकृत्य अवगन्तुं सहायकं सुवर्णदूरवाणीभावचित्रसाङ्केतिकमुद्रकै: सहैव पेटकानि यात्रा: अनुवर्तन्ते। द्वादश इञ्च् मितानि तानि मुद्रकानि सागन् नामकस्य शास्त्रज्ञस्य आशय: आसीत्। सुवर्णलेपितासु तासु ताम्रमुद्रिकासु भूमे: कथा, पञ्चपञ्चाशत् भाषासु आशंसा:, भूमे: पञ्चदशोत्तरशतम् दृश्यानि, भूम्यां विद्यमानविभिन्नशब्दा:, सङ्गीतं च आलेखितानि। सप्तसप्ततिवर्षम् पेटकविक्षेपणाय चिते कारणमस्ति। सौरयूथे बाह्यग्रहा: सविशेषस्थानानि प्राप्य पञ्चसप्तत्युत्तरशतम् वर्षानन्तरं भूयमानं किमपि आनुकूल्यं तस्मिन् समये प्राप्यमाणमासीत्। गुरुत्वाकर्षणबलम् आनुकूलीकृत्य बहिराकाशपेटकै: तेषां वेगम् असाधारणरीत्या वर्धयितुं उपयुक्तमासीत् तदानुकूल्यम्। ""गुरुत्वाकर्षणसहायसङ्केत:"" (ग्राविट्टि असिस्ट् टेक्निक्) इति तस्य नाम। पञ्चषष्टुत्तरनवशताधिकसहस्रतमे अमेरिकाया: शास्त्रज्ञौ मैक्कल् मिनोविक्, गारि फिलान्ड्रो च निरीक्षणेन प्राप्तवन्तं तं सङ्केतं यात्रिकपेटकानां कृते प्रयोजनप्रदमभवत्। भूमे: प्रस्थानवेलायां स्वीकृतवेगेन चेत्, द्वितीयपेटकस्य नेप्टूण् समीपप्राप्तौ न्यूनातिन्यूनं त्रिंशत् वर्षाणां परिश्रम: आवश्यक: भवति स्म। किन्तु गुरुत्वाकर्षणसङ्केतस्य सहायेन द्वादशवर्षै: तत् सफलं जातम्। भूमे: बहि: सजीवम् अग्निपर्वतम् प्रथमतया दृष्टं दौत्यमपि पेटकस्य एव। बृहस्पते: उपग्रहे इयोय् मध्ये अग्निपर्वत: दृष्ट:। बृहस्पतेरेव अन्यस्मिन् उपग्रहे यूरोप्पायाम् उपरितलाध: समुद्र: अस्तीत्यपि निरीक्षितम् पेटकस्य दौत्यम्। सौरयूथे भूमे: समान: ग्रह: शनेरुपग्रह: टैट्टन् इति , नेप्ट्यूणस्य उपग्रह: ट्रिट्टण् हिमवल्कै: पूर्ण: इति च लोकान् आवेदयत् पेटकदौत्यम्। एवं विज्ञानस्य विशाल: लोक: एव अस्माकम् पुरत: अनावृत: यात्रिकपेटकै:।।