OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 9, 2017

मरुभूमौ बेल्जियाद् महन्नगरं निर्मातुं  सज्जीभूय सौदी।
रियाद् > तैलविपणिः सौदी अरेब्यायाः सम्पद्घटनायाः कशेरुका भूत्वा अर्धशतकमतीतम् । किन्तु अद्यत्वे तैलविपणौ सौदिराष्ट्रस्य लक्षितलाभप्राप्तिः नास्ति। अतः स्वराज्यस्य अपरां प्रकृतिसम्पदं मरुभूमिं सिकतां च अत्यन्तम् उपयोक्तुं   सज्जीभवति सौदी।
सहस्रशः चतुरश्रकिलोमीटर् यावत् व्याप्य तिष्ठन्तीषु मरुभूमिषु सिकतानगराणि सज्जीकर्तुम् उद्यता अस्ति सौदि अरेब्या| नूतनाजीविकासाधानानि स्रष्टुं सम्पद्घटनायै ऊर्जं प्रदातुम् च नूतना पद्धतिः आविष्क्रियते।

Tuesday, August 8, 2017

श्रीशान्तस्य अभिशापः उच्चन्यायालयेन निरस्तः।
कोच्ची > पणाय अन्वचरत् इत्यारोप्य पूर्वतन भारतीयक्रिक्कट् क्रीडकस्य  श्रीशान्तस्य भारतीय क्रिक्कट् नियन्त्रण समित्या [बि सि सि ऐ] आयोजितः अभिशापः उच्चन्यायालयेन निरस्तः। श्रीशान्तः बि सि सि ऐ संस्थायाः व्यवहारनीतिम् उल्लङ्घितवान् इत्यस्य प्रमाणानि न विद्यन्ते इति एकाङ्गनीतिपीठेन निर्दिष्टम्।
    परस्परव्याजक्रीडायै श्रीशान्तः सन्नद्धः अभवत् इत्यस्य किमपि प्रमाणं नोपलब्धमिति न्यायासनेन निरीक्षितम्। व्याजक्रीडार्थं पणकेन उन्नीतेषु निर्देशेषु न परिपालितेषु समित्या इतःपरम् अवधानतया प्रमाणानि स्वीकर्तव्यानि आसन्निति नीतिपीठेन उक्तम्।
काश्मीरे अनधिकृतप्रवेशाय यतमानान् पञ्च आतङ्कवादिनः सैन्यम् अहन्। 
श्रीनगारम् >जम्मूकाश्मीरस्थे माच्च् सेक्टर् इत्यस्मिन्  अनधिकृतप्रवेशाय यतमानान् पञ्च आतङ्कवादिनः भारतसैन्यम् अहन्। महान् अनधिकृतप्रवेशयत्नः एव सैन्येन पराजितः इति प्रतिरोधविभागवक्ता अवदत्। हतातङ्कवादिभ्यः बहूनि आयुधानि लब्धानि। मेखलासु सैन्यं परिशोधयत् अस्ति इति प्रतिरोधमन्त्रालयवक्ता केणल्  राकेष् कालिया अवदत् । अस्मिन् वर्षे नियन्त्रणरेखायां ४० आतङ्कवादिनः एव सैन्यम् इतः पर्यन्तं हतवत् ।

Monday, August 7, 2017

भारतचीनासमस्या -परिहार: चर्चया एव इति सुषमा स्वराज्महोदया वदति।
नवदेहली >युद्धेन न प्रत्युत चर्चया एव प्रश्नपरिहार: भविष्यति इति विदेशकार्यमन्त्रिणी सुषमा स्वराज्महाशया। केन्द्रसर्वकाराणां विदेशनयतन्त्रविचारान् अधिकृत्य प्रतिपक्षस्य प्रश्नानां संशयानां च प्रत्युत्तरवेलायां  प्रश्नपरिहाराय क्षमा एव केवलमार्गः इति सुषमामहोदया असूचयत् । क्षमानाशे प्रकोपनं स्यात्।
सर्वदा युद्धम् अभिमुखीकर्तुम् अस्माकं देशः सज्जः चेदपि युद्धं न परिहारमार्गः किन्तु नयतन्त्रस्तरे प्रश्नपरिहारः एव विवेकः इति सूचितवती l
भूतपूर्वप्रधानमन्त्रिणः नेहरूमहोदयस्य पत्रिकां उद्धृत्य एव चीनया सह चर्चया समाधानं स्थापयितुम् शक्यते इत्पपि असूचयत् । .
ऐक्यराष्ट्रसभाया:  वातावरणचर्चासु भागं स्वीकरिष्यतीति अमरीका। 
     पारीस्> ऐक्यराष्ट्रसभाया: नेतृत्वे प्रवर्तमानात्, वातावरणव्यतियाननियन्त्रणाय चाल्यमानात् पारीस् सख्यात् पृष्ठत: गन्तुं तात्पर्यं सूचयित्वा अमरीका। तत: निर्गच्छति चेदपि सख्यानुबन्धभाविनयानां रूपीकरणचर्चासु भागभाक् भविष्यतीति  अमरीका विज्ञापयत्। स्वीयजनानां तथा वाणिज्यतात्पर्याणां च कृते गुणप्रदेषु कार्येषु चर्चां कर्तुमेव अमरीका सन्नद्धताम् प्राकटयत्।  सख्यात् प्रतिनिवर्तनं जूण् प्रथमदिनाङ्के एव प्रख्यापितवान् राष्ट्रपति: डोनाल्ड् ट्रम्प:।
भाविनि प्रधानसमस्या: परिस्थिति: तथा जललभ्यता च - एम् पी वीरेन्द्रकुमार:।
 नवदिल्ली> राष्ट्रेण भाविनि अभिमुखीकरणीया: मुख्यसमस्या: नाम परिस्थिति: तथा जललभ्यता चेति राज्यसभासदस्य:वीरेन्द्रकुमार: एम् पी अभिप्रैतवान्। देशहितवारिकया  विभिन्नलघुमाध्यमसंस्थाभिश्च मूर्तीदेवीपुरस्कारप्राप्ते: पश्चात्तले आयोजिते स्वीकरणकार्यक्रमे भाषमाण: आसीत् स:। अस्य शतकस्य अन्त्येनैव गङ्गा, यमुना, ब्रह्मपुत्रा एवं प्रमुखा: नद्य: मृता: भवेयु:। परं जलाय आक्रमणानि एव अभिमुखीक्रियमाणानि भवेयु:। स्वकीयपुस्तकेषु सामान्यजनै: बाध्यमाना: एतादृशप्रश्ना: एव प्रतिपादिता: इति सूचितवान् स:।
संस्कृतदिनाघोषाय विद्यालयाः सज्जीकृताः।
तिरुवनन्तपुरम्> केरलस्य विद्यालयाः संस्कृतदिनाघोषाय विविधैः कार्यक्रमैः सह सज्जीकृताः। सोमवासरे संस्कृतदिनं आघुष्यते। संस्कृतदिने करणीयां प्रतिज्ञां सर्वकारेण प्रताशिता। विद्यालयानतिरिच्य विविधाः संस्थाः अपि संस्कृतदिनाघोषं कुर्वन्ति। चर्चाः संगोष्ठ्यः उपन्यासस्पर्धाः प्रश्नोत्तरी इत्यादीनां कार्यक्रमाणां आयोजनं विभिन्न संस्थासु भविष्यन्ति। एवं संस्कृतपण्डितानां आदरः अपि भविष्यन्ति।
अयि भो: बाला:! सम्यक् पठन्तु; नो चेत् पराजिताः भवन्ति ।
नवदिल्ली>अष्टम-कक्ष्यापर्यन्तम् कथञ्चित् लुण्ठनं कृत्वा जयप्राप्ति: मानरक्षा च भवति इति न विचारयतु। किंतु इतःपरं तादृशी चिन्ता- मास्तु। अग्रे न सम्यक् पठन्ति तर्हि पञ्चम्याम् अष्टम्यां च पराजिता: भवेयु:। "अष्टमकक्ष्यापर्यन्तं सर्वान् उत्तीर्णान् कुर्वन्तु" इति पूर्वानुष्टानक्रमं परिवर्तयितुं केन्द्रसर्वकारेण अनुमतिर्दत्ता। स्तरानुगुणं नागतान् छात्रान् पञ्चम्याम् अष्टम्यां च पराजितान् कर्तुं राज्येभ्य: अनुमतिदानाय तत्सम्बन्धिनियमेषु परिवर्तनं करिष्यति। किन्तु अनुत्तीर्णताया: पूर्वम् एकवारमपि छात्रेभ्य: परीक्षालेखनाय सन्दर्भः कल्पयिष्यति। शिक्षाधिकार-नियमानुसारम् अधुना अष्टमकक्ष्यापर्यन्तं स्वाभाविकतया एव सर्वे छात्रा: उत्तीर्णा: भवन्ति। दशोत्तरद्विसहस्रतमे प्रवृत्तिपथमागतस्य शिक्षाधिकारनियमस्य प्रधानाङ्गभूत: नियम: अयमेवासीत्। परन्तु, एष नियम: छात्राणाम् मूल्यच्युतये कारणमभवदिति विमर्शने जाते एव परिवर्तनम् आनेष्यति।

Sunday, August 6, 2017

राष्ट्रनगराणां प्रगतिसूचिकायां प्रथमस्थाने कोच्ची, नवदिल्ली द्वितीयस्थाने।
नवदिल्ली > भारते नितरां प्रगम्यमानेषु नगरेषु प्रथमस्थाने कोच्ची।  ए डि बि संस्थायै [एष्यन् डवलप्मेन्ट् बेङ्क्] केन्द्र  नगरविकासमन्त्रालयस्य अधीने वर्तमानया National Institute of Urban Affairs नामिकया संस्थया कृते अनुशीलने  एवायं मूल्यनिर्णयः। नवदिल्ली द्वितीयस्थानं , पञ्चाबस्य लुधियाना तृतीयस्थानं च अर्हति।
      भारते प्रदीप्यमानेषु नगरेषु अग्रगामिषु विंशतिषु नगरेषु विद्यमानाः सुविधाः अनुशीलनविधेयं कृत्वा बहुतल प्रगतिसूचिकाः [Multi-diamensional Prosperity Index - MPI] आधारीकृत्य  एव अनुशीलनं कृतम्।
    अनेनानुशीलनेन पुरोगम्यमानानि १० नगराणि क्रमानुसारम् एवं - १. कोच्ची, २.नवदिल्ली, ३.लुधियाना, ४.दावणगरे, ५.कोयम्पुत्तूर्, ६.जय्पूर्, ७.चेन्नै, ८.विशाखपत्तनं, ९.अहम्मदाबाद्, १०.पूने।
ज्ज्वलविजयः। उपनायकत्‍वेन वेङ्‌कय्यनायिडुः निर्वाचितः।
नव दिल्ली > भारतस्य पञ्चदशत्तमे उपराष्ट्रपतिपदे वेङ्‌कय्यनायिडुः निर्वाचितः। षोडशाधिकपञ्चशतम् (५१६) सामाजिकानां मतदानानि लब्ध्वा एव स विजेता अभवत्। विपक्षदलस्य स्थानाशिने गोपालकृष्णगान्धिने चतुश्चत्वारिंशदधिकद्विशतम् (२४४) मतदानानि अलभन्त। षोडशानां मतदानानि व्यर्थमभवन्।  राष्ट्रपति निर्वाचने एकविंशति मतदानानि व्यर्थानि अभवन्। विपक्षदलात् अपि अनुकूलमतदानानि लब्ध्वा एव वेङ्‌कय्यमहोदयस्य उज्ज्वलः विजयः इति विशेषता। आन्ध्राप्रदेशस्थे नेल्लूर् प्रान्ते विद्यमानः चावट्टपालं नाम ग्रामः भवति अस्य जन्मदेशः। अस्य पिता रङ्कय्या रमणम्मा च। कृषक-परिवारतः एव नायिडु महोदयस्य उन्नतस्थानप्राप्तिः। दक्षिणात्येषु भा ज पा सामाजिकेषु जनानाम् अतिप्रियंकरः अयम् इति  परिगण्यते।
तालपत्ररचनां पुनर्निर्मीय चिट्टूर् ससेण्ट् मेरीस् विद्यालयस्य विद्यार्थिनः।
गोश्रीपूरम् (कोच्ची)> वर्णाः सङ्गणकस्य टङ्कणफलके आगते अस्मिन् काले तालपत्ररचनां पुनर्निर्मीय केचन विद्यार्थिनः।  पुरा भारतसंस्कृतिः तथा वेदोपनिषदादयः सर्वे तालपत्रेषु निबद्धाः आसन्।  तस्याः संस्कृत्याः स्मरणार्थं विद्यार्थिनामयं प्रयत्नः। चिट्टूर् सेण्ट् मेरीस् विद्यालयस्य संस्कृताध्यापकस्य अभिलाष् टी प्रतापस्य नेतृत्वे विद्यार्थिनः पुरातनवैज्ञानिकरीत्या एव तालपत्राणां निर्माणं अकुर्वन्। तालवृक्षात् पत्राणि स्वीकृत्य औषधजले स्थापयित्वा संस्कृत्य तालपत्राणि निर्मीयन्ते। पुरातनानां तालपत्राणां मापने एव आसीत् निर्माणम्। तेषु श्लोकाः, प्रहेलिकाः, गणितसूत्रवाक्यानि, विद्यालयचरितम् इत्यादयाः लोहसूचिना आलेखिताः। श्रावणपौर्णमि आशंसा: आलेखिताः तालपत्राणि विविधक्षेत्रेषु विशेषज्ञानाम् कृते प्रेषितानि। संस्कृतदिने सोमवासरे एतेषां तालपत्राणां तथा पुरातनानां वस्तूनां च प्रदर्शनं विद्यालये भविष्यतः।
उन्मादमोहे युवानौ द्विसहस्रपादमितां निम्नताम् प्रति पतित्वा मृतौ।
     मुम्बै>मदिरोन्मादे गिरिशिखरे विवेकशून्यसाहसाय उद्यतौ युवानौ द्विसहस्रपादमितां निम्नताम् प्रति पतित्वा मृतवन्तौ। महाराष्ट्राया: सिन्धुदुर्गमण्डले अम्बोलिघट्टनामके विनोदसञ्चारकेन्द्रे सोमवासरे अयमपघात: समभवत्। इतरे विनोदसञ्चारिण: अपघातदृश्यम् चित्रीकृतवन्त:, यच्च समाजमाध्यमेषु इदानीं व्यापकतया प्रचरति। पश्चिममहाराष्ट्राया: कोलापुरात् आगतौ प्रतापराथोड:(२१), इम्रान खराडि:(२६) इत्येतौ मृतवन्तौ। सप्ताङ्गसंघस्थाः इतरे  प्रतिनिवर्तनाय निश्चितवन्त: चेदपि एतौ द्वावपि किञ्चिदपि समयं तत्रैव स्थातुं निश्चितवन्तौ। गिरिशिखरात् अध: न पतेयु: इति कृत्वा सुरक्षासीमारोधः निर्मित:। एतस्य उपरि  द्वावपि बहुवारं आरोढुं प्रयतितौ जडमन्दतया भूमौ पतितवन्तौ । अन्ते यथाकथञ्चित् सीमान्ते उपवेष्टुं शक्तवन्तौ। पुनरपि मदिरापानासक्तौ हस्तप्रसारै: उच्चै: कूजमानौ च नष्टनियन्त्रणौ तौ अध: निम्नतामपतताम्।

Saturday, August 5, 2017

आतङ्किनः पराजितयुद्धं युध्यन्ति।
आतंकविरोध्यभियानेन अनवरतम्  आतंकिवादिनां निर्मूलनस्य मिथः कश्मीरस्य शोपियां जनपदे सैन्याधिकारिणः वीरत्वम् दुःखप्रदं वर्तते । वीरत्वं बहूमूल्यं वर्तेत, भारतं विरुध्य दृष्टिविहीनस्य पाकिस्तानस्य छद्मयुद्धकारणेनेदं सम्भवति। भारतीयसैन्यैधिकारिणां वीरतां संरक्षितुम् आवश्यकमस्ति यत् एकतः सवधानेनातंकवादिनां निर्मूलसमाधानं प्रवर्तितव्यम् अपरतश्च पाकिस्तानस्य कपटाचरणस्य प्रकाशनावसरः न विहातव्यः। पदे-पदे पाकिस्तानं लज्जितुं संकोचः नैव करणीयः। परेसीम्नः समागतातंकिनः एकैकशः समुत्पाटनेन सहैव इदमप्यावश्यकं यत्  तेषां शरीराणि पाकिस्तानाय तया रीत्या सम्प्रेषणीयानि यया रीत्य विगतदिनेषु व्यापादितस्य कुख्यातातंकवादिनः अबुदुजानाप्रकरणे विहितम्। आतंकेन समं कदाचारपर्ययाभूतः दुजाना तस्य सहिगिनः मृत्योः दिनान्तरमेव आतंकिद्वयस्य विनाशेन स्पष्टं भवति यत् आतंकोनमूलनाभियानं सजवं प्रवर्तते। अस्य प्रमाणमस्ति यत् अस्मिन् वर्षे इदानीं यावत् शताधिकातंकिनां नाशः समभवत । इदमप्युल्लेखनीयमस्ति यत् विगतकतिपयदिनेषु बृहदाक्रमणे संलिप्तातंकवादिनः सपद्यैव सुरक्षाबलैः व्यापाद्यन्ते। स्थितिरियम् एवमेव प्रवर्तितव्या येन आतंकिनां मनसि भयं स्यात् सममेव पाकिस्तानं जानीयात् यदसौ पराजितयुद्धं युध्यन्ति ।

Friday, August 4, 2017

उद्योगस्थवृन्दं भ्रष्टाचारविमुक्तये सज्ज: मोदीसर्वकार:।
      नवदिल्ली>  भा ज पा सर्वकारस्य अधिकारपदारोहणादारभ्य राष्ट्रे अत्याचारान् न्यूनीकर्तुं समर्था: पद्धतय: अभवन् इति प्रधानमन्त्री नरेन्द्रमोदी दृढीकरोति। रूप्यकनिरोधनञ्च अत्याचारनिवारणाय कृतमिति सर्वकारस्य वाद:। अधुना उद्योगस्थानां दुरहंकारचेष्टां निर्मार्जयितुं  समभियोजनां प्रवर्तयति केन्द्रसर्वकारः। विविधविभागेषु कर्मकराणां सेवनपट्टिकाम् परिशील्य अत्याचारसेवकान् कर्मकरान् अधिकृत्य ज्ञापयितुं सर्वविभागान् , पारामिलिटरीसैन्यं च आभ्यन्तरमन्त्रालय: निरदिशत्। आगस्ट् पञ्चाभ्यन्तरे पट्टिकां समर्पयितुमेव निर्देश:। तत्तद्विभागमेधाविन: एव पट्टिकाम् आभ्यन्तरमन्त्रालयाय समर्पयेयु:। उद्योगस्थान् केन्द्रीकृत्य आरोपणपत्राणि, अन्वेषणावेदनम्, धार्मिकता, उद्योगे उत्तरदायित्वम्, सर्वकारनिर्देशम् अनुसृत्य न प्रवर्तनम्, एतानि कारणानि परिगणय्य विभागतले पट्टिका सज्जीक्रियते। विविधविभागै: केन्द्राभ्यन्तरकार्यालयम् प्रति दीयमानपट्टिका केन्द्राभ्यन्तरमन्त्रालयेन सी बी ऐ तथा सेन्ट्रल् विजिलन्स् कमीशनस्य च कृते दीयते। सेवनचरितसूचीं परिशील्य आगस्ट् पञ्चदशात्परम् एतान् प्रति निर्णया: स्वीक्रियते।
राष्ट्रे उपशतसङ्ख्याका: सेतव: अपघातभीषणे।
   नवदिल्ली>राष्ट्रस्य विभिन्नभागेषु विद्यमाना: उपशतसङ्ख्याका: सेतव: भग्नभीषणे सन्तीति केन्द्रगतागतविभागस्य मन्त्री नितिनगडकरि:।लोकसभायाम् प्रवृत्तायाम् प्रश्नोत्तरवेलायां गडकरि: एवं ज्ञापितवान्। राष्ट्रे आहत्य एकं दशांशं षट् लक्षं सेतव: सन्ति, एतेषु शतंसङ्ख्याका: सेतव: पूर्णतया अपघातभीषणे सन्ति। नवीकरणप्रवृत्ती: झटिति न कुर्याम तर्हि गुरुतरा: अपघाता: भवितुमर्हन्ति। राष्ट्रे सर्वोत्कृष्टमार्गान् निर्मितुं केन्द्रसर्वकार: यतते - गडकरि: अवदत्। मार्गाणां कृते स्थानस्वीकारे परिस्थितिसंरक्षणे च आगच्छन्त्य: समस्या: मार्गनिर्माणे कालविघ्नम् जनयन्ति इत्यपि सूचितवान् स:। त्रीणि दशांशम् अष्ट पञ्च लक्षं कोटि: रूप्यकाणाम् मार्गपद्धती: आगमिष्यन्तीत्यपिसट स: व्यक्तीकृतवान्।

११.४४ लक्षं 'पान्' पत्राणि तिरस्कृतानीति अर्थकार्यमन्त्रालयः।
नवदेहली> राष्ट्रे एकादशलक्षाधिकानि पान् पत्राणि तिरस्कृतानीति केन्द्र आर्थकार्यमन्त्रालयः। राज्यसभायां समर्पितायां संस्तुत्यां एकस्यैव व्यक्तेः एकाधिकानि पान्पत्राणि दत्तानि इति हेतुना चतुश्चत्वारिंशद् - सहस्रोत्तर एकादशलक्षं पान्पत्राणि तिरस्कृतानीति केन्द्र अर्थकार्यसहमन्त्रिणा सन्तोष्कुमार गाङ्वारेण व्यक्तीकृतम्। नियमानुसारं एकस्य एकमेव पान्पत्रं अर्हति। किन्तु तत् नियमं अत्र न पालितमिति निरीक्षितम्। अतः गतजूलाई सप्तविंशतिदिनङ्ग (२७) पर्यन्तं ११,४४,२११ एकादशाधिक द्विशतोत्तर चतुश्चत्वारिंशत् सहस्राधिक एकादशलक्षं पान्पत्राणि तिरस्कृतानीति मन्त्रिणा व्यक्तीकृतम्। षट्षष्ठ्यधिक पञ्चशतोत्तर एकसप्तसहस्र द्विलक्षं (२७,१५६६)पान्पत्राणि व्याजानीत्यपि अवगतम् इत्यपि मन्त्रिः अवदत्।

Thursday, August 3, 2017

पि यू चित्रायै केरलसर्वकारस्य आर्थिकसाहाय्यम्।
अनन्तपुरी > भुवनकायिकमेलनात् भारतीयकायिकसंस्थया तिरस्कृतायै धावनक्रीडकायै पि यू चित्रायै केरलसर्वकारस्य आर्थिकं साहाय्यम्। आर्थिकक्लेशमनुभवन्त्याः चित्रायाः परिशीलनार्थं प्रतिमासं २५,००० रूप्यकाणि दीयन्ते। कायिकमन्त्री ए सि मोय्तीनः एव वार्ताहरान् प्रति एवं न्यवेदयत्।
   तथा च केरलस्य पादकन्दुकक्रीडकाय सि के विनीताय सर्वकारीयं कर्मापि वाग्दत्तम्। 'सेक्रट्टेरियट् असिस्टन्ट्' अथवा तत्तुल्यं पदमेव विनीताय दास्यति। यथायोग्यम् उपस्थितेरभावात् सः ए जि कार्यालयतः निष्कासितः अभूत्।
 “मनोगतम्” [34]
 (प्रसारण-तिथि:- 30.07.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]                                  
                     -  भाषान्तर-कर्ता -    बलदेवानन्द सागरः 
मम प्रियाः देश-वासिनः !
            नमस्कारः| मानवस्य मनः एव तादृशं यदस्मै वर्षाकालः रोचते| कालोsयम् अतितरां रमणीयः| पशु-पक्षि-पादप-वृक्ष-प्रकृति-इति प्रत्येकमपि वर्षायाः आगमनेन प्रफुल्लताम् अनुभवति| परञ्च कदाचित् यदा प्रकृतिः विकरालं रूपं धत्ते तदा अनुभवामः यत् जलस्य विनाश-शक्तिः कियती बलवत्तरा भवति ? प्रकृतिः अस्मभ्यं जीवनं ददाति, पालयति च, परञ्च कदाचित् जलपूर-भूकम्प-सदृशीभिः प्राकृतिकापद्भिः सह अस्याः भीषणं स्वरूपं बहु विनाशकारि भवति| परिवर्तमाने ऋतु-चक्रे पर्यावरणे च यत् किमपि परिवर्तते, तस्य बृहत्तरः नकारात्मकः प्रभावः अपि सञ्जायते| विगतेभ्यः कतिपय-दिनेभ्यः भारतस्य केषुचित् भागेषु, विशेषेण असमोत्तरपूर्व-गुजरात-राजस्थान-बङ्गालेषु अतिवृष्टि-कारणात् प्राकृतिकापदः सम्मुखीक्रियन्ते| जलपूर-प्रभावितानां क्षेत्राणां पूर्णम् अवेक्षणं विधीयते| व्यापक-स्तरेण साहाय्य-कार्याणि अनुष्ठीयन्ते| यत्र शक्यमस्ति तत्र मन्त्रि-परिषदः मम सहकर्मिणः