OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, August 7, 2017

अयि भो: बाला:! सम्यक् पठन्तु; नो चेत् पराजिताः भवन्ति ।
नवदिल्ली>अष्टम-कक्ष्यापर्यन्तम् कथञ्चित् लुण्ठनं कृत्वा जयप्राप्ति: मानरक्षा च भवति इति न विचारयतु। किंतु इतःपरं तादृशी चिन्ता- मास्तु। अग्रे न सम्यक् पठन्ति तर्हि पञ्चम्याम् अष्टम्यां च पराजिता: भवेयु:। "अष्टमकक्ष्यापर्यन्तं सर्वान् उत्तीर्णान् कुर्वन्तु" इति पूर्वानुष्टानक्रमं परिवर्तयितुं केन्द्रसर्वकारेण अनुमतिर्दत्ता। स्तरानुगुणं नागतान् छात्रान् पञ्चम्याम् अष्टम्यां च पराजितान् कर्तुं राज्येभ्य: अनुमतिदानाय तत्सम्बन्धिनियमेषु परिवर्तनं करिष्यति। किन्तु अनुत्तीर्णताया: पूर्वम् एकवारमपि छात्रेभ्य: परीक्षालेखनाय सन्दर्भः कल्पयिष्यति। शिक्षाधिकार-नियमानुसारम् अधुना अष्टमकक्ष्यापर्यन्तं स्वाभाविकतया एव सर्वे छात्रा: उत्तीर्णा: भवन्ति। दशोत्तरद्विसहस्रतमे प्रवृत्तिपथमागतस्य शिक्षाधिकारनियमस्य प्रधानाङ्गभूत: नियम: अयमेवासीत्। परन्तु, एष नियम: छात्राणाम् मूल्यच्युतये कारणमभवदिति विमर्शने जाते एव परिवर्तनम् आनेष्यति।

Sunday, August 6, 2017

राष्ट्रनगराणां प्रगतिसूचिकायां प्रथमस्थाने कोच्ची, नवदिल्ली द्वितीयस्थाने।
नवदिल्ली > भारते नितरां प्रगम्यमानेषु नगरेषु प्रथमस्थाने कोच्ची।  ए डि बि संस्थायै [एष्यन् डवलप्मेन्ट् बेङ्क्] केन्द्र  नगरविकासमन्त्रालयस्य अधीने वर्तमानया National Institute of Urban Affairs नामिकया संस्थया कृते अनुशीलने  एवायं मूल्यनिर्णयः। नवदिल्ली द्वितीयस्थानं , पञ्चाबस्य लुधियाना तृतीयस्थानं च अर्हति।
      भारते प्रदीप्यमानेषु नगरेषु अग्रगामिषु विंशतिषु नगरेषु विद्यमानाः सुविधाः अनुशीलनविधेयं कृत्वा बहुतल प्रगतिसूचिकाः [Multi-diamensional Prosperity Index - MPI] आधारीकृत्य  एव अनुशीलनं कृतम्।
    अनेनानुशीलनेन पुरोगम्यमानानि १० नगराणि क्रमानुसारम् एवं - १. कोच्ची, २.नवदिल्ली, ३.लुधियाना, ४.दावणगरे, ५.कोयम्पुत्तूर्, ६.जय्पूर्, ७.चेन्नै, ८.विशाखपत्तनं, ९.अहम्मदाबाद्, १०.पूने।
ज्ज्वलविजयः। उपनायकत्‍वेन वेङ्‌कय्यनायिडुः निर्वाचितः।
नव दिल्ली > भारतस्य पञ्चदशत्तमे उपराष्ट्रपतिपदे वेङ्‌कय्यनायिडुः निर्वाचितः। षोडशाधिकपञ्चशतम् (५१६) सामाजिकानां मतदानानि लब्ध्वा एव स विजेता अभवत्। विपक्षदलस्य स्थानाशिने गोपालकृष्णगान्धिने चतुश्चत्वारिंशदधिकद्विशतम् (२४४) मतदानानि अलभन्त। षोडशानां मतदानानि व्यर्थमभवन्।  राष्ट्रपति निर्वाचने एकविंशति मतदानानि व्यर्थानि अभवन्। विपक्षदलात् अपि अनुकूलमतदानानि लब्ध्वा एव वेङ्‌कय्यमहोदयस्य उज्ज्वलः विजयः इति विशेषता। आन्ध्राप्रदेशस्थे नेल्लूर् प्रान्ते विद्यमानः चावट्टपालं नाम ग्रामः भवति अस्य जन्मदेशः। अस्य पिता रङ्कय्या रमणम्मा च। कृषक-परिवारतः एव नायिडु महोदयस्य उन्नतस्थानप्राप्तिः। दक्षिणात्येषु भा ज पा सामाजिकेषु जनानाम् अतिप्रियंकरः अयम् इति  परिगण्यते।
तालपत्ररचनां पुनर्निर्मीय चिट्टूर् ससेण्ट् मेरीस् विद्यालयस्य विद्यार्थिनः।
गोश्रीपूरम् (कोच्ची)> वर्णाः सङ्गणकस्य टङ्कणफलके आगते अस्मिन् काले तालपत्ररचनां पुनर्निर्मीय केचन विद्यार्थिनः।  पुरा भारतसंस्कृतिः तथा वेदोपनिषदादयः सर्वे तालपत्रेषु निबद्धाः आसन्।  तस्याः संस्कृत्याः स्मरणार्थं विद्यार्थिनामयं प्रयत्नः। चिट्टूर् सेण्ट् मेरीस् विद्यालयस्य संस्कृताध्यापकस्य अभिलाष् टी प्रतापस्य नेतृत्वे विद्यार्थिनः पुरातनवैज्ञानिकरीत्या एव तालपत्राणां निर्माणं अकुर्वन्। तालवृक्षात् पत्राणि स्वीकृत्य औषधजले स्थापयित्वा संस्कृत्य तालपत्राणि निर्मीयन्ते। पुरातनानां तालपत्राणां मापने एव आसीत् निर्माणम्। तेषु श्लोकाः, प्रहेलिकाः, गणितसूत्रवाक्यानि, विद्यालयचरितम् इत्यादयाः लोहसूचिना आलेखिताः। श्रावणपौर्णमि आशंसा: आलेखिताः तालपत्राणि विविधक्षेत्रेषु विशेषज्ञानाम् कृते प्रेषितानि। संस्कृतदिने सोमवासरे एतेषां तालपत्राणां तथा पुरातनानां वस्तूनां च प्रदर्शनं विद्यालये भविष्यतः।
उन्मादमोहे युवानौ द्विसहस्रपादमितां निम्नताम् प्रति पतित्वा मृतौ।
     मुम्बै>मदिरोन्मादे गिरिशिखरे विवेकशून्यसाहसाय उद्यतौ युवानौ द्विसहस्रपादमितां निम्नताम् प्रति पतित्वा मृतवन्तौ। महाराष्ट्राया: सिन्धुदुर्गमण्डले अम्बोलिघट्टनामके विनोदसञ्चारकेन्द्रे सोमवासरे अयमपघात: समभवत्। इतरे विनोदसञ्चारिण: अपघातदृश्यम् चित्रीकृतवन्त:, यच्च समाजमाध्यमेषु इदानीं व्यापकतया प्रचरति। पश्चिममहाराष्ट्राया: कोलापुरात् आगतौ प्रतापराथोड:(२१), इम्रान खराडि:(२६) इत्येतौ मृतवन्तौ। सप्ताङ्गसंघस्थाः इतरे  प्रतिनिवर्तनाय निश्चितवन्त: चेदपि एतौ द्वावपि किञ्चिदपि समयं तत्रैव स्थातुं निश्चितवन्तौ। गिरिशिखरात् अध: न पतेयु: इति कृत्वा सुरक्षासीमारोधः निर्मित:। एतस्य उपरि  द्वावपि बहुवारं आरोढुं प्रयतितौ जडमन्दतया भूमौ पतितवन्तौ । अन्ते यथाकथञ्चित् सीमान्ते उपवेष्टुं शक्तवन्तौ। पुनरपि मदिरापानासक्तौ हस्तप्रसारै: उच्चै: कूजमानौ च नष्टनियन्त्रणौ तौ अध: निम्नतामपतताम्।

Saturday, August 5, 2017

आतङ्किनः पराजितयुद्धं युध्यन्ति।
आतंकविरोध्यभियानेन अनवरतम्  आतंकिवादिनां निर्मूलनस्य मिथः कश्मीरस्य शोपियां जनपदे सैन्याधिकारिणः वीरत्वम् दुःखप्रदं वर्तते । वीरत्वं बहूमूल्यं वर्तेत, भारतं विरुध्य दृष्टिविहीनस्य पाकिस्तानस्य छद्मयुद्धकारणेनेदं सम्भवति। भारतीयसैन्यैधिकारिणां वीरतां संरक्षितुम् आवश्यकमस्ति यत् एकतः सवधानेनातंकवादिनां निर्मूलसमाधानं प्रवर्तितव्यम् अपरतश्च पाकिस्तानस्य कपटाचरणस्य प्रकाशनावसरः न विहातव्यः। पदे-पदे पाकिस्तानं लज्जितुं संकोचः नैव करणीयः। परेसीम्नः समागतातंकिनः एकैकशः समुत्पाटनेन सहैव इदमप्यावश्यकं यत्  तेषां शरीराणि पाकिस्तानाय तया रीत्या सम्प्रेषणीयानि यया रीत्य विगतदिनेषु व्यापादितस्य कुख्यातातंकवादिनः अबुदुजानाप्रकरणे विहितम्। आतंकेन समं कदाचारपर्ययाभूतः दुजाना तस्य सहिगिनः मृत्योः दिनान्तरमेव आतंकिद्वयस्य विनाशेन स्पष्टं भवति यत् आतंकोनमूलनाभियानं सजवं प्रवर्तते। अस्य प्रमाणमस्ति यत् अस्मिन् वर्षे इदानीं यावत् शताधिकातंकिनां नाशः समभवत । इदमप्युल्लेखनीयमस्ति यत् विगतकतिपयदिनेषु बृहदाक्रमणे संलिप्तातंकवादिनः सपद्यैव सुरक्षाबलैः व्यापाद्यन्ते। स्थितिरियम् एवमेव प्रवर्तितव्या येन आतंकिनां मनसि भयं स्यात् सममेव पाकिस्तानं जानीयात् यदसौ पराजितयुद्धं युध्यन्ति ।

Friday, August 4, 2017

उद्योगस्थवृन्दं भ्रष्टाचारविमुक्तये सज्ज: मोदीसर्वकार:।
      नवदिल्ली>  भा ज पा सर्वकारस्य अधिकारपदारोहणादारभ्य राष्ट्रे अत्याचारान् न्यूनीकर्तुं समर्था: पद्धतय: अभवन् इति प्रधानमन्त्री नरेन्द्रमोदी दृढीकरोति। रूप्यकनिरोधनञ्च अत्याचारनिवारणाय कृतमिति सर्वकारस्य वाद:। अधुना उद्योगस्थानां दुरहंकारचेष्टां निर्मार्जयितुं  समभियोजनां प्रवर्तयति केन्द्रसर्वकारः। विविधविभागेषु कर्मकराणां सेवनपट्टिकाम् परिशील्य अत्याचारसेवकान् कर्मकरान् अधिकृत्य ज्ञापयितुं सर्वविभागान् , पारामिलिटरीसैन्यं च आभ्यन्तरमन्त्रालय: निरदिशत्। आगस्ट् पञ्चाभ्यन्तरे पट्टिकां समर्पयितुमेव निर्देश:। तत्तद्विभागमेधाविन: एव पट्टिकाम् आभ्यन्तरमन्त्रालयाय समर्पयेयु:। उद्योगस्थान् केन्द्रीकृत्य आरोपणपत्राणि, अन्वेषणावेदनम्, धार्मिकता, उद्योगे उत्तरदायित्वम्, सर्वकारनिर्देशम् अनुसृत्य न प्रवर्तनम्, एतानि कारणानि परिगणय्य विभागतले पट्टिका सज्जीक्रियते। विविधविभागै: केन्द्राभ्यन्तरकार्यालयम् प्रति दीयमानपट्टिका केन्द्राभ्यन्तरमन्त्रालयेन सी बी ऐ तथा सेन्ट्रल् विजिलन्स् कमीशनस्य च कृते दीयते। सेवनचरितसूचीं परिशील्य आगस्ट् पञ्चदशात्परम् एतान् प्रति निर्णया: स्वीक्रियते।
राष्ट्रे उपशतसङ्ख्याका: सेतव: अपघातभीषणे।
   नवदिल्ली>राष्ट्रस्य विभिन्नभागेषु विद्यमाना: उपशतसङ्ख्याका: सेतव: भग्नभीषणे सन्तीति केन्द्रगतागतविभागस्य मन्त्री नितिनगडकरि:।लोकसभायाम् प्रवृत्तायाम् प्रश्नोत्तरवेलायां गडकरि: एवं ज्ञापितवान्। राष्ट्रे आहत्य एकं दशांशं षट् लक्षं सेतव: सन्ति, एतेषु शतंसङ्ख्याका: सेतव: पूर्णतया अपघातभीषणे सन्ति। नवीकरणप्रवृत्ती: झटिति न कुर्याम तर्हि गुरुतरा: अपघाता: भवितुमर्हन्ति। राष्ट्रे सर्वोत्कृष्टमार्गान् निर्मितुं केन्द्रसर्वकार: यतते - गडकरि: अवदत्। मार्गाणां कृते स्थानस्वीकारे परिस्थितिसंरक्षणे च आगच्छन्त्य: समस्या: मार्गनिर्माणे कालविघ्नम् जनयन्ति इत्यपि सूचितवान् स:। त्रीणि दशांशम् अष्ट पञ्च लक्षं कोटि: रूप्यकाणाम् मार्गपद्धती: आगमिष्यन्तीत्यपिसट स: व्यक्तीकृतवान्।

११.४४ लक्षं 'पान्' पत्राणि तिरस्कृतानीति अर्थकार्यमन्त्रालयः।
नवदेहली> राष्ट्रे एकादशलक्षाधिकानि पान् पत्राणि तिरस्कृतानीति केन्द्र आर्थकार्यमन्त्रालयः। राज्यसभायां समर्पितायां संस्तुत्यां एकस्यैव व्यक्तेः एकाधिकानि पान्पत्राणि दत्तानि इति हेतुना चतुश्चत्वारिंशद् - सहस्रोत्तर एकादशलक्षं पान्पत्राणि तिरस्कृतानीति केन्द्र अर्थकार्यसहमन्त्रिणा सन्तोष्कुमार गाङ्वारेण व्यक्तीकृतम्। नियमानुसारं एकस्य एकमेव पान्पत्रं अर्हति। किन्तु तत् नियमं अत्र न पालितमिति निरीक्षितम्। अतः गतजूलाई सप्तविंशतिदिनङ्ग (२७) पर्यन्तं ११,४४,२११ एकादशाधिक द्विशतोत्तर चतुश्चत्वारिंशत् सहस्राधिक एकादशलक्षं पान्पत्राणि तिरस्कृतानीति मन्त्रिणा व्यक्तीकृतम्। षट्षष्ठ्यधिक पञ्चशतोत्तर एकसप्तसहस्र द्विलक्षं (२७,१५६६)पान्पत्राणि व्याजानीत्यपि अवगतम् इत्यपि मन्त्रिः अवदत्।

Thursday, August 3, 2017

पि यू चित्रायै केरलसर्वकारस्य आर्थिकसाहाय्यम्।
अनन्तपुरी > भुवनकायिकमेलनात् भारतीयकायिकसंस्थया तिरस्कृतायै धावनक्रीडकायै पि यू चित्रायै केरलसर्वकारस्य आर्थिकं साहाय्यम्। आर्थिकक्लेशमनुभवन्त्याः चित्रायाः परिशीलनार्थं प्रतिमासं २५,००० रूप्यकाणि दीयन्ते। कायिकमन्त्री ए सि मोय्तीनः एव वार्ताहरान् प्रति एवं न्यवेदयत्।
   तथा च केरलस्य पादकन्दुकक्रीडकाय सि के विनीताय सर्वकारीयं कर्मापि वाग्दत्तम्। 'सेक्रट्टेरियट् असिस्टन्ट्' अथवा तत्तुल्यं पदमेव विनीताय दास्यति। यथायोग्यम् उपस्थितेरभावात् सः ए जि कार्यालयतः निष्कासितः अभूत्।
 “मनोगतम्” [34]
 (प्रसारण-तिथि:- 30.07.2017)
[“मनोगतम्” - इति “मन की बात”-कार्यक्रमस्य संस्कृत-भाषिकानुवादः]                                  
                     -  भाषान्तर-कर्ता -    बलदेवानन्द सागरः 
मम प्रियाः देश-वासिनः !
            नमस्कारः| मानवस्य मनः एव तादृशं यदस्मै वर्षाकालः रोचते| कालोsयम् अतितरां रमणीयः| पशु-पक्षि-पादप-वृक्ष-प्रकृति-इति प्रत्येकमपि वर्षायाः आगमनेन प्रफुल्लताम् अनुभवति| परञ्च कदाचित् यदा प्रकृतिः विकरालं रूपं धत्ते तदा अनुभवामः यत् जलस्य विनाश-शक्तिः कियती बलवत्तरा भवति ? प्रकृतिः अस्मभ्यं जीवनं ददाति, पालयति च, परञ्च कदाचित् जलपूर-भूकम्प-सदृशीभिः प्राकृतिकापद्भिः सह अस्याः भीषणं स्वरूपं बहु विनाशकारि भवति| परिवर्तमाने ऋतु-चक्रे पर्यावरणे च यत् किमपि परिवर्तते, तस्य बृहत्तरः नकारात्मकः प्रभावः अपि सञ्जायते| विगतेभ्यः कतिपय-दिनेभ्यः भारतस्य केषुचित् भागेषु, विशेषेण असमोत्तरपूर्व-गुजरात-राजस्थान-बङ्गालेषु अतिवृष्टि-कारणात् प्राकृतिकापदः सम्मुखीक्रियन्ते| जलपूर-प्रभावितानां क्षेत्राणां पूर्णम् अवेक्षणं विधीयते| व्यापक-स्तरेण साहाय्य-कार्याणि अनुष्ठीयन्ते| यत्र शक्यमस्ति तत्र मन्त्रि-परिषदः मम सहकर्मिणः

Wednesday, August 2, 2017


हट्टतालः - क्रियाविधिम् अभियाच्यमानः मानवाधिकारपालनाधिकारी। 
अनन्तपुरी > पूर्वसूचनां विना प्रचाल्यमानाः हट्टतालनामकाः कार्यस्थगितप्रतिषेधाः तीक्ष्णशासनैः निरुद्धव्याः इति केरलस्य मानवाधिकारपालाधिकारिणा उक्तम्। एतदधिकृत्य साध्याः क्रियाविधयः राज्यस्य मुख्यकार्यदर्शी, गृहकार्यदर्शी, आरक्षकनिदेशकः इत्येतैः सप्ताहत्रयाभ्यन्तरे विलिख्य समर्पणीयाः इति पालकाध्यक्षः पि मोहनदासः उक्तवान्। गतदिने केरले प्रचालिते अप्रतीक्षिते हट्टताले सामान्यजनाः बहुक्लेशम् अनुभूतवन्तः। चिकित्सालयेषु प्रवेशिताः रोगिणः बान्धवाश्च भोजनमलभमानः पीडिताः। हट्टतालस्य नाम्नि जनविरुद्धाः पदक्षेपाः न भवितव्याः इति च तेनोक्तम्।

Tuesday, August 1, 2017

जी एस् टी द्वारा आर्थिकावस्था परिवर्तिता - प्रधानमन्त्री।
नव दिल्ली > पण्यसेवनकरेण राष्ट्रस्य आर्थिक व्यवस्था आपाद चूडं परिष्कृता इति मन् की बात् कार्यक्रमे  प्रधानमन्त्रिणा नरेन्दमोदिना उक्तम्।  केवलं नियम परिष्करणमात्रं न। सत्यतापूर्ण-संस्कृतेः आर्थिक्यस्थितेः च निदर्शनात्मकं एव इति  मन् की बात् नाम प्रति मासिक कार्यक्रमे मोदिमहोदयेन उक्तम्। पण्यकर-सेवनव्यवस्थां संस्थाप्य मासमेकम् अतीतम् ।  उत्पन्नानां मूल्यानि  न्यूनमभवन्।  भारवाहनानां अनुस्यूत-प्रवाहेन वस्तूनि यथा कालं लक्ष्यस्थानं प्राप्यन्ते। आर्थिकोन्नत्‍यै प्रयाणस्य शीघ्रता वर्धिता।  दरिद्रस्योपरि भारः मास्तु इत्‍यस्य  पण्यसेवनकर नियमे प्राधान्यं दत्तम्  इत्यपि मोदिना उक्तम्।
आयकरप्रतिदानसमर्पणाय समयः दीर्घितः। 
नवदिल्ली > गतार्थिकसंवत्सरस्य आयकरप्रतिदानसमर्पणस्य कालः आगस्ट् पञ्चमदिनाङ्कं यावत् दीर्घितः। ओण् लइन् द्वारा समर्पयितुम् अनुभूयमानान् क्लेशान् आदृत्य एवायं निर्णयः।
पचनवायोः वित्तानुकूल्यं स्थगयति।
नवदिल्ली > भारते पचनवायुकोशानां कृते दीयमानं वित्तानुकूल्यं आगामि मार्च् मासादारभ्य पूर्णतया समापयितुं केन्द्रसर्वकारेण निर्णीतम्। एतदाधारीकृत्य प्रतिमासं चत्वारि रूप्यकाणि इति क्रमेण आनुकूल्यार्हाणाम् अनिलकोशानां संवर्धयितुं तैलसंस्थाः निर्दिष्टाः इति केन्द्र मृत्तैलविभागमन्त्री धर्मेन्द्रप्रधानः लोकसभां विज्ञापितवान्।
    आराष्ट्रं १८.११ कोटि उपभोक्तारः पचनवायुकोशानाम् आनुकूल्यं स्वीकुर्वन्तः सन्ति। दत्तानुकूल्यानां अनिलकोशानां प्रतिमासं रूप्यकद्वयमितिक्रमेण वर्धयितुं २०१६ जूलाई मासादारभ्य अनुमतिः दत्ता आसीत्।तदेव अधुना द्विगुणीकृतम्।
पचनवायोः वित्तानुकूल्यं स्थगयति।
नवदिल्ली > भारते पचनवायुकोशानां कृते दीयमानं वित्तानुकूल्यं आगामि मार्च् मासादारभ्य पूर्णतया समापयितुं केन्द्रसर्वकारेण निर्णीतम्। एतदाधारीकृत्य प्रतिमासं चत्वारि रूप्यकाणि इति क्रमेण आनुकूल्यार्हाणाम् अनिलकोशानां संवर्धयितुं तैलसंस्थाः निर्दिष्टाः इति केन्द्र मृत्तैलविभागमन्त्री धर्मेन्द्रप्रधानः लोकसभां विज्ञापितवान्।
    आराष्ट्रं १८.११ कोटि उपभोक्तारः पचनवायुकोशानाम् आनुकूल्यं स्वीकुर्वन्तः सन्ति। दत्तानुकूल्यानां अनिलकोशानां प्रतिमासं रूप्यकद्वयमितिक्रमेण वर्धयितुं २०१६ जूलाई मासादारभ्य अनुमतिः दत्ता आसीत्।तदेव अधुना द्विगुणीकृतम्।
पाकिस्ताने नूतनप्रधानमन्त्रिणः निर्वाचनमद्य 
नव दिल्ली >पाकिस्तानस्य प्राक्तन् प्रधानमंत्रिणः नवाजशरीफस्य पदत्यागानन्तरं तत्रत्येन राष्ट्रपतिना नूतन प्रधानमंत्रिणः निर्वातनाय अद्य संसदः विशेषोपवेशनं समाहूतमस्ति | अत्रान्तरे  पाकिस्तानाधिकृतस्य कश्मीरस्य प्रधानमंत्री फारूकहैदरखानः पाकिस्तानसैन्यबलं समारोपयन् प्रावोचत् यदसौ पाकिस्कानेन सह स्थास्यति न वा इति नैव निश्चितम् , तेन नवाज़शरीफस्य प्रधानमंत्रिपदात् त्यागपत्रम् उररीकृत्य वक्तव्यमिदं प्रदत्तम् ।
सिक्कीं राज्ये संघर्षे उत्तराखण्डे चीनस्य गोपनागमनम्।
नवदेहली> सिक्कीं सीमायां संघर्षः शक्तीकृते सति उत्तराखण्डे चीनस्य सेना अधिन्वेशिता इति संस्तुतिः। उत्तराखण्डराज्यस्य बरहोती क्षेत्रे चमोची जिल्लायां अस्मिन् मासे पञ्चविंशति दिनाङ्के पीप्पिल्स् लिबरेषन् आर्मी सेनायाः दश सैनिकाः एवम् आगताः इति सूचना। अत्र एककिलोमीट्टर अन्तर्भागं यावत् सेना आगता। भारतस्य देशीय सुरक्षा उपदेशकस्य तथा चीना राष्ट्रपतेः षी चान्पिङस्य च मेलनानन्तरमेव एवं आगमनम्। गतसंवत्सरे जूलाई मासे अपि पी एल् ए सेनायाः द्वौ भटौ एवं आगतवन्तौ। अत्र निश्चिता सीमारेखा नास्ति सीमासम्बन्धीः मतभेदाः वर्तन्ते इति तदान्तीन्तन प्रतिरोधमन्त्रिणा मनोहर परीक्करः उक्तवान्।