OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 1, 2017

पचनवायोः वित्तानुकूल्यं स्थगयति।
नवदिल्ली > भारते पचनवायुकोशानां कृते दीयमानं वित्तानुकूल्यं आगामि मार्च् मासादारभ्य पूर्णतया समापयितुं केन्द्रसर्वकारेण निर्णीतम्। एतदाधारीकृत्य प्रतिमासं चत्वारि रूप्यकाणि इति क्रमेण आनुकूल्यार्हाणाम् अनिलकोशानां संवर्धयितुं तैलसंस्थाः निर्दिष्टाः इति केन्द्र मृत्तैलविभागमन्त्री धर्मेन्द्रप्रधानः लोकसभां विज्ञापितवान्।
    आराष्ट्रं १८.११ कोटि उपभोक्तारः पचनवायुकोशानाम् आनुकूल्यं स्वीकुर्वन्तः सन्ति। दत्तानुकूल्यानां अनिलकोशानां प्रतिमासं रूप्यकद्वयमितिक्रमेण वर्धयितुं २०१६ जूलाई मासादारभ्य अनुमतिः दत्ता आसीत्।तदेव अधुना द्विगुणीकृतम्।
पचनवायोः वित्तानुकूल्यं स्थगयति।
नवदिल्ली > भारते पचनवायुकोशानां कृते दीयमानं वित्तानुकूल्यं आगामि मार्च् मासादारभ्य पूर्णतया समापयितुं केन्द्रसर्वकारेण निर्णीतम्। एतदाधारीकृत्य प्रतिमासं चत्वारि रूप्यकाणि इति क्रमेण आनुकूल्यार्हाणाम् अनिलकोशानां संवर्धयितुं तैलसंस्थाः निर्दिष्टाः इति केन्द्र मृत्तैलविभागमन्त्री धर्मेन्द्रप्रधानः लोकसभां विज्ञापितवान्।
    आराष्ट्रं १८.११ कोटि उपभोक्तारः पचनवायुकोशानाम् आनुकूल्यं स्वीकुर्वन्तः सन्ति। दत्तानुकूल्यानां अनिलकोशानां प्रतिमासं रूप्यकद्वयमितिक्रमेण वर्धयितुं २०१६ जूलाई मासादारभ्य अनुमतिः दत्ता आसीत्।तदेव अधुना द्विगुणीकृतम्।
पाकिस्ताने नूतनप्रधानमन्त्रिणः निर्वाचनमद्य 
नव दिल्ली >पाकिस्तानस्य प्राक्तन् प्रधानमंत्रिणः नवाजशरीफस्य पदत्यागानन्तरं तत्रत्येन राष्ट्रपतिना नूतन प्रधानमंत्रिणः निर्वातनाय अद्य संसदः विशेषोपवेशनं समाहूतमस्ति | अत्रान्तरे  पाकिस्तानाधिकृतस्य कश्मीरस्य प्रधानमंत्री फारूकहैदरखानः पाकिस्तानसैन्यबलं समारोपयन् प्रावोचत् यदसौ पाकिस्कानेन सह स्थास्यति न वा इति नैव निश्चितम् , तेन नवाज़शरीफस्य प्रधानमंत्रिपदात् त्यागपत्रम् उररीकृत्य वक्तव्यमिदं प्रदत्तम् ।
सिक्कीं राज्ये संघर्षे उत्तराखण्डे चीनस्य गोपनागमनम्।
नवदेहली> सिक्कीं सीमायां संघर्षः शक्तीकृते सति उत्तराखण्डे चीनस्य सेना अधिन्वेशिता इति संस्तुतिः। उत्तराखण्डराज्यस्य बरहोती क्षेत्रे चमोची जिल्लायां अस्मिन् मासे पञ्चविंशति दिनाङ्के पीप्पिल्स् लिबरेषन् आर्मी सेनायाः दश सैनिकाः एवम् आगताः इति सूचना। अत्र एककिलोमीट्टर अन्तर्भागं यावत् सेना आगता। भारतस्य देशीय सुरक्षा उपदेशकस्य तथा चीना राष्ट्रपतेः षी चान्पिङस्य च मेलनानन्तरमेव एवं आगमनम्। गतसंवत्सरे जूलाई मासे अपि पी एल् ए सेनायाः द्वौ भटौ एवं आगतवन्तौ। अत्र निश्चिता सीमारेखा नास्ति सीमासम्बन्धीः मतभेदाः वर्तन्ते इति तदान्तीन्तन प्रतिरोधमन्त्रिणा मनोहर परीक्करः उक्तवान्।

Monday, July 31, 2017

आयकर समर्पणस्य अन्तिमतिथिः अद्य I 
गतस्य आर्थिकवर्षस्य आयकर समर्पणाय अद्यापि सन्दर्भःअस्ति। तिथिः पुनः क्रमीकर्तुं समालोचना नास्तीति विभाधिकारिणः अवदन्l  द्वि कोट्यधिकं जनैः इतःपर्यन्तं प्रत्यर्पणं पञचीकृतम्। http://incometaxindiaefiling.gov.in इति अन्तजालपुटे एव पञ्चीकरणं करणीयम्। एतदर्थं आधारपत्रस्य संख्या पान् पत्रण सह बन्धनीया I
पि यु चित्रा विश्वस्पर्धात: बहिष्कृता।
कोच्ची > विविश्वकुशलस्पर्धायां भागंकर्तुं चित्रायाः अभिलाषः विनष्टः। केरलस्य कायिकतारः भवति एषा। विश्वस्तरीय स्पर्धायां भागं स्वीकर्तुं चित्रायै अनुज्ञालब्ध्यर्थं भारत-कायिक क्रीडादलेन दत्तम् आवेदनं आन्ताराष्ट्र क्रीडासंधेन निरस्तम्। भुवनेश्वरे आयोजिते एष्यायाः कुशलस्पर्धायां सुवर्णपतकेन जिता आसीत् चित्रा। मण्डलस्थस्य विजयिभ्यः साक्षात् प्रवेशः इत्यासीत् मानदण्डः। किन्तु चित्रायाः प्रवेशविषये मानदण्डस्य पालनं नासीत् इति इदानीन्तनसमस्या। उच्चन्यायालयस्य आदेशः चित्रयै अनुकूलः आसीत्। किन्तु कालः अतीतः इत्यनेन स्पर्धायां प्रवेश: लब्धः।
राष्ट्राय अष्ट  नूतना: जलमार्गाश्च।।
      नवदिल्ली>नूतना: अष्ट देशीयजलमार्गाश्च प्रधानमन्त्रिणा राष्ट्राय समर्प्यन्ते। प्रख्यापितेषु षडुत्तरशतं जलमार्गेषु द्वात्रिंशत्संख्याका: शीघ्रमेव प्राबल्ये आगमिष्यन्ति। एतेषु सप्तानाम् अनुमति: प्राप्ता च। बारक्, मण्डोवि, सुवारि, कोसि, सुन्दरबन् जलाशया:, सुबनसिरि, महानदी, आलप्पुषा- चङ्ङनाश्शेरी कुल्या, कबनी, मापुसा, दाबोल् क्रीक्, सावित्री, मही, नर्मदा, तपी एतान् जलाशयान् अन्तर्भाव्य एव जलमार्गाणां उद्घोषणं प्रतीक्ष्यते।।
'आल्प्स्' गिरिनिकरे दृष्टानि शरीरावशिष्टानि अर्धशतकात् पूर्वं दुर्घटनाग्रस्तस्य 'एयरिड्या' विमानस्येति सन्देहः।
ग्रेनौबिल् (फ्रान्स्) > गतदिनेषु फ्रान्स् राष्ट्रस्य आल्प्स् पर्वतशिखरेषु अभिदृष्टानि शरीरावशिष्टानि पञ्चाशत् संवत्सरेभ्यः पूर्वं दुर्घटनाग्रस्तस्य एयर् इन्डिया विमानस्य यात्रिकेषु अन्यतमस्येति सन्देहः वर्तते। विमानदुर्घनाः अधिकृत्य पर्यवेषणं क्रियमाणः डानियल् रोष् नामकः एव गतदिने आल्प्स् पर्वतश्रेण्याः 'मो बेला' नामके गिरिशिखरे शरीरावशिष्टानि दृष्टवान्।

Sunday, July 30, 2017

भारतीश्रीलङ्का क्रिक्कट् निकषस्पर्धा - भारतस्य उज्वलविजयः।
गोल् (श्रीलङ्का) > भारत--श्रीलङ्कयोः प्रथमायां क्रिक्कट् निकषस्पर्धायां आतिथेयराष्ट्रं श्रीलङ्कां विरुध्य भारतस्य अपूर्वोज्वलविजयः। ५५० धावनाङ्कानां विजयलक्ष्यं पुरस्कृत्य क्रीडाङ्कणं प्राप्तः आतिथेयदलः एकदिनस्य क्रीडायाम् अवशिष्टायां ३०४ धावनाङ्कानां पराजयं स्वीकृतवान्।धावनाङ्कान् आधारीकृत्य कस्मिंचित् विदेशे प्राप्यमानः भारतस्य महत्तरः विजयः भवत्येषः।
चैनासीमायां सप्तविंशति: मार्गा: निर्मिता:,षट्चत्वारिंशन्मार्गा: पञ्चवर्षाभ्यन्तरे; -केन्द्रम्।। 
     नवदिल्ली>भारत- चैना सीमायां त्रिसप्तति: मार्गाणां निर्माणाय अनुमति प्राप्ता, तेषु सप्तविंशतीनाम् मार्गाणाम् निर्माणानि पूर्तीकृतानि इति केन्द्रसर्वकार:। अवशिष्टानां षट्टत्वारिंशन्मार्गाणां निर्मिती: द्वाविंशत्युत्तरद्विसहस्रतमे डिसम्बर् मासाभ्यन्तरे पूर्तीकरिष्यति इति केन्द्रप्रतिरोधसहमन्त्री सुभाषब्रह्मा लोकसभां ज्ञापितवान्।
 वनम्, वन्यजीवि, परिस्थिति - विभागानाम् अनुमतिर्न लब्धेति कारणेन मार्गनिर्माणे विलम्ब: अभवदित्यपि स: व्यक्तीकृतवान्। तदपि न, शक्ता: शिला:, वातावरणव्यतियानानि,भूमिप्राप्त्यै विलम्ब:, प्रलयादिप्रकृतिदुरन्ता:, एतेपि मार्गनिर्माणे विघ्नभूतानि कारणानि। भारत-चैनासीमया निर्णायका: चत्वार: रेलमार्गा: अपि अनुमतिम् प्राप्ता: - मन्त्री लोकसभां ज्ञापितवान्। सीमां केन्द्रीकृत्य चैनया क्रियमाणेषु प्रवर्तनेषु भारतम् प्रबुद्धं वेति प्रश्ने कृते, सर्वकार: श्रद्धया एतत्सर्वं निरीक्षमाण: इति  प्रतिवचनं दत्तवान् स:। भारतसुरक्षायै यावच्छक्यं क्रियमाणानि कार्याणि कुर्वन्त: सन्तीति केन्द्रमन्त्री असूचयत्। सिक्किम् मेखलायां दोकलायाम् एकमासात् परमपि भारत- चैनासेने मुखामुखे तिष्ठत:। दोकलायां चैनाया: मार्गनिर्माणम् भारतेन प्रतिरुद्धम्, यत् सङ्घर्षाणां कारणमभवत्। एतन्मध्ये एव सीमामार्गनिर्माणकार्याणि लोकसभायाम् मन्त्रिणा व्यक्तीकृतानि।

Saturday, July 29, 2017

नवास् षरीफः स्थानभ्रष्टः।
इस्लामबाद् > पाकिस्थानस्य प्रधानमन्त्री नवास षरीफः स्वस्थानं त्यक्तवान्। षरीफस्य निजीयार्थिकसम्पादनमधिकृत्य  पानमा सङ्घस्य विज्ञापनमाधारीकृत्य पाकिस्थानीयसर्वोच्चन्यायालयेन सः अयोग्य उद्घोषितः इत्येव स्थानत्यागस्य निदानम्।
    १९९० आरब्धसंवत्सरेषु प्रधानमन्त्रिस्थाने उपविष्टे षरीफः स्वपरिवारश्च विदेशराष्ट्रेषु अनभिमतान् धनराशीन् सम्पादितवान्। तत्तु २०१३ तमे निर्वाचने नामनिर्देशपत्रिकया सह समर्पितायाम् अर्थिकविवरणपट्टिकायां न प्रकाशितम्  इत्यासीत् आक्षेपः।
राममहोदयस्मारकसमित्या: पुरस्कार: अय्यम्पुषा हरिकुमाराय।
       कोच्ची>सर्वश्रेष्ठसंस्कृताध्यापकाय दीयमान: चोट्टानिक्करा राममहोदयस्मारकपुरस्कार: संस्कृताध्यापकाय तथा सम्प्रतिवार्ता अन्तर्जालवार्तापत्रिकाया:, अन्तर्जालशृङ्खलायाश्च मुख्यसम्पादकाय श्रीमते अय्यम्पुषा हरिकुमाराय। तेवरा सेन्ट् मेरीस् विद्यालयस्य अध्यापकोयम् संस्कृतभाषाप्रचारणाय 'सम्प्रतिवार्ता' नाम संस्कृतभाषा अन्तर्जालपत्रिकाम् आरब्धवान्। तत: विद्यालयीयछात्रान् संयोज्य अन्तर्जालवार्तावतरणं च प्रारब्धम्। सप्तदशोत्तरद्विसहस्रे राज्यस्तरीयोत्तमप्रवर्तनरूपेण सर्वशिक्षाभियानेन देशीयसङ्गोष्ठीम् प्रति चित: संरम्भ: अयम्। लोके इदंप्रथमतया एव छात्रा: (लघुबाला:) अन्तर्जालद्वारा वार्तां वाचयन्ति। संस्कृतभाषां नवमाध्यमै: अवतार्य भाषाप्रचारणे नूतनमार्ग: निर्मित: अनेन। एतादृशप्रवर्तनै: संस्कृतप्रचारणरङ्गे श्रद्धेयव्यक्ति: इति रूपेण पुरस्काराय एनं चितवन्त:। जुलै एकत्रिंशत्तमे सोमवासरे सायं त्रिवादने चोट्टानिक्करा सर्वकारीयोच्चविद्यालये प्रचाल्यमाने कार्यक्रमे अयम् पुरस्कृत: भविष्यति।

Friday, July 28, 2017

नितीष्कुमार: मुख्यमन्त्रिस्थानं त्‍यक्तवान्l बीहारराज्यस्थं महासख्यमिति दलं नष्टम्। 
पाटलीपुत्रम्-> अत्यन्तमुच्चैः घोषणेन रूपीकृतस्य महासख्यस्य नाशस्य पूर्णतां कृत्वा बीहारमुख्यमन्त्री नितीष्कुमारमहोदयः त्यागपत्रं  समार्पयत् । सख्यदलस्य लालुप्रसादयादवस्य R J D दलेन सह अभिप्रायभिन्नतायाः रूक्षत्वे एव त्यागपत्रं समर्पितम्।
     राजभवनमागत्य राज्यपालं केसरिनाथ्त्रिपाठिमहोदयं दृष्ट्वा नितीष्कुमारमहोदयः अप्रतीक्षमाणं त्यागपत्रं समर्पयति स्म। राजभवनप्रस्थानात्पूर्वम् J D U दलीयै: सह नितीष्महोदयः मिलितवानासीत्l देशीयराष्ट्रिये महच्चलनं कुर्वाणं भवति त्यागपत्रम् ।  मोदितरंगे अतिशक्तेपि तमतिक्रम्य एव रूपीकृतस्यास्य महासख्यस्य अधिकारः वर्षद्वयमपि सम्पूर्णतया न नीत: I रूक्षे अभिप्रायभिन्नत्वे सति' तत्परिहाराय महासख्यांगभूता कोण्ग्रस् दलाध्यक्षा सोणियागान्धी इत्यादयः प्रयत्नं कृतवन्तः । किन्तु सर्वः प्रयत्नः व्यर्थं गत:  इति अनेन त्यागपत्रेण ज्ञायते।
दोक्ला - डोवलः चीनस्य प्रतिनिधिना सह भाषणमकरोत्।
बैजिङ् > ब्रिक्स् मेलनाय बैजिङ्‌देशं आगतं चीनस्य स्टेट् कौण्सिलर् याङ् जियेषिना सह भारतस्य राष्ट्रिय उपदेष्टा अजित् डोवलः मिलितवान्। उभययोः राष्ट्रयोः प्रधानसमस्याः अधिकृत्य चर्चां कृतवन्तौ इति चीनस्य विदेशकार्य मन्त्रालयेन विज्ञापितम्l  मासान्तरेण सम्भूतान् सिक्किमस्य सीमायाम् जायमानान् संघर्षान् अनुवर्तमानायाम् अवस्थायाम् एतयोः मेलनं प्राधान्यमर्हतिI  ब्रिक्स् राष्ट्राणां उन्नतसुरक्षा उद्योगस्थैः सह डोवलः चीनस्य राष्ट्रपतिं चिङ् पिन् महोदयं मिलिष्यति।  मेलनं शुक्रवासरे भविष्यति।  ब्रिक्स् राष्ट्रदलस्य अध्यक्षः चीनः एव।
दोक्लतः भारत सैनिकानां निवर्तनं विना कापि चर्चा न भविष्यति इति चीनेन उक्तम् आसीत् तथापि नयतन्त्रतले चर्चां कर्तुं सन्दर्भः अस्ति।

Thursday, July 27, 2017

पैङ्कुलं दामोदरचाक्याचाक्यार् वर्यः निर्यातः। 
कोच्ची > सुप्रसिद्धः चाक्यार् कूत् इति पुराणकथाप्रवचनस्य, कूटियाट्टं संस्कृतनाटकाभिनयस्य च रंगाभिनेता तथा संस्कृत-तर्कशास्त्रपण्डितः पैङ्कुलं दामोदरचाक्यारः (८५) दिवंगतः। बङ्गलुरुमध्ये पुत्रीभवने संवत्सरत्रयं यावत् विश्रान्तजीवनं कुर्वन्नासीत्।
     कूटियाट्टं नामकं कलारूपं भुवनप्रशस्तं कर्तुं मुख्यभागभागित्वम् ऊढवान् दामोदरचाक्यारः बहुषु विदेशराष्ट्रेषु इदं कलारूपम् रंगमञ्चे प्रदर्शितवान्। कूटियाट्टे तस्य कुलपतेः पैङ्कुलं रामच्चाक्यारस्य शिष्योत्तमः आसीत्। पूमुल्लि नीलकण्ठन् नम्पूतिरिप्पाट् वर्यात् संस्कृते न्यायशास्त्रे च पाण्डित्यम् अवाप।
      केन्द्र सङ्गीतनाटक अक्कादमी, केरल सङ्गीतनाटक अक्कादमी पुरस्कारसहिताः शताधिकाः पुरस्काराः अनेन प्राप्ताः। अस्य भौतिकशरीरसंस्कारः केरले चात्तक्कुटं जन्मग्रामे स्वकीयकुटुम्बे गुरुवासरे क्रियते।
ब्रिटणे पेट्रोल्- डीसल् कार् यानानि निरुद्ध्यन्ते।
   लण्डन् >ब्रिटणे नूतननाम् पेट्रोल् - डीसल् कार् यानानां विक्रयणं निरुद्ध्यन्ते।  ब्रिटणे वर्धितम् पारिस्थितिकमलिनीकरणं निवारयितुमेव सर्वकारस्य दृढनियमः। चत्वारिंशदुत्तरद्विसहस्रे प्राप्ते राष्ट्रेस्मिन् नूतनानाम् पेट्रोल्- डीसल् कार् यानानां विक्रयणम् पूर्णतया निरोद्धुमेव सर्वकारेण लक्ष्यीक्रियते। विरलतया विद्युत्कोशै: धावन्ति हैब्रिड् कार् यानानि  जनवाहकानि अपि  निरुद्ध्यन्ते। अधुना क्रमातीतरीत्या वर्धितं वायुमलिनीकरणम् प्रतिवर्षंम् ब्रिटणे बहूनां जनानाम् प्राणानेवापहरन्तीति औद्योगिकगणना सूचयति। एतेन, समान्तरश्रेण्या  चत्वारिंशदुत्तरद्विसहस्रात्परं विद्युत् कार् यानानि एव ब्रिटणे नूतनतया विपण्याम् लब्धुमर्हन्ति। पद्धत्या: भागेन पारिस्थितिकमलिनीकरणनियन्त्रणाय पञ्चपञ्चाशदुत्तरद्विशतम् मिल्यण् पौण्ड् मितम् धनम् प्रादेशिकसमितिभ्य: दातुं निर्णय: स्वीकृत:इति पारिस्थितिकविभागस्य कार्यदर्शी न्यवेदयत्।

Wednesday, July 26, 2017

रामनाथकोविदः राष्ट्रपतिस्थानं स्वीचकार।
नवदेहली> भारतस्य चतुरदशतम राष्ट्रपतितया रामनाथकोविदः शपथं कृत्वा अधिकारं स्वीचकार।लोकसभायाः केन्द्रप्रकोष्ठे परमनीतिपीठ प्रधाननीतिज्ञः जे एस् कोहर् वर्य: शपथवाक्यम् उच्चार्य अदात्। के आर् नारायणानन्तरं राष्ट्रपतिपदवीं आगतः प्रथमः दलितः अस्ति रामनाथकोविदः। स्थानमेतत् अतीव विनयेन सहैव मया स्वीक्रियते, सर्वदा उत्तरदायित्वं वहामि, ऐ पी जे अब्दुलकलामस्य तथा प्रणाब मुखर्ज्याः च पन्था एव अनुचरामि इति तत्र सः अवदत्।
तमिळ् नाट् राज्ये 'वन्दे मातरं' निर्बन्धितम् अकरोत् ।
चेन्नै > तमिळ् नाट् राज्यस्य सार्वासु शिक्षासंस्थासु तथा निजीयसंस्थासु, वाणिज्य-व्यवसाय-संस्थासु च भारतस्य राष्ट्रियगीतं वन्देमातरम् आलपितुमदेशः मद्रास् उच्चन्यायालयेन प्रदत्तः।  अलपने वैक्लब्यमनुभूतेभ्यः निर्बन्धः नास्ति।  यूनाम् आधारेण एव राष्ट्रस्य भविष्यकालः इति न्यायालयेन उक्तम्।
संस्कृतभाषायाः आलपने  वैक्लब्यमनुभूतेभ्यः गानस्य तमिल्आङ्गलेयानुवादः सर्वकारस्य अन्तर्जालपुटेषु सर्वजनीनमाध्यमेषु च प्रकाशनीयः इति च न्यायालयेन सार्वजनिन-विज्ञप्तिनिदेशकः आदिष्टः।