OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 22, 2017

विद्यालयछात्राणां कृते वार्तावतारण शिल्पशाला
पालक्काट् > प्रसरति संस्कृतं नवीनमाध्यमेषु अपि इति कारणेन संस्कृतभाषाप्रसारणमण्डले नवीनं जागरणं सञ्जातम्।  सम्प्रतिवार्तायाः दृश्यवार्तावतारणे भागं कर्तुं छात्राः बहवः अभिलषन्ति। अध्यापकानां छात्राणां च आवेदनानुसारं केरलसर्वकारस्य शैक्षिकस्तरेषु छात्राणां कृते वार्तावतारण-कौशलप्राप्तये सन्दर्भाः आयोजिताः वर्तन्ते।  अद्य पालक्काट् जनपदे तत्रत्यानां छात्राणां कृते एकदिनात्मकी शिल्पशाला प्रचाल्यते।  कोल्लङ्कोट् इति नाम शैक्षिकोपजिल्लायाम् अस्य शैक्षिक-संवत्सरस्य प्रथमा परिशीलन कक्ष्या प्रचाल्यते। शिल्पशालायां वार्तावतारणय सिद्धतां प्राप्तवतां सम्प्रतिवार्तायाः वार्तावतारकान् भवितुं सन्दर्भः लप्स्यते। सम्प्रतिवार्तायाः दृश्यवार्ताप्रसारणं समारभ्य संवत्सरमेकम् अतीतम् अधुना।  केरल सर्वकारस्य  शिक्षामन्त्रिणा सि रवीन्द्रनाथवर्येण कार्यक्रमेषु भागः स्वीकृतः आसीत्।

Friday, July 21, 2017

विजय: राष्ट्रस्य पार्श्ववत्कृतानाञ्च अधिकारः -रामनाथ कोविन्द:।
       नवदिल्ली>निर्वाचनविजय: जनायत्तशासनस्य महिमेति राष्ट्रपतित्वेन चित: एन् डी ए स्थानार्थी रामनाथकोविन्द:।  अत्यधिकवैकारिकनिमेषोयम्।  राष्ट्रपते: पदवी स्वस्य कृते महत् दायित्वम् इत्यपि निर्वाचनफले आगते रामनाथकोविन्द: माध्यमप्रवर्तकानां समीपमुक्तवान्।  शासनघटनाया: संरक्षणम्, तया पुर:स्थापितानाम् मूल्यानाम् उन्नयनं च राष्ट्रपतिरिति स्थितौ स्वस्य कर्तव्यमेव इत्यपि स: सूचितवान्।  सर्वे सन्तुष्टा: भवन्तु इति तत्त्वार्थम् प्रवर्तयेत्, राष्ट्रपौराणां कृते आदरं संरक्षयेदित्यपि कोविन्द: अवदत्।
दोक्ला कलहः विश्वराष्ट्राणि भारतेन सार्धमिति सुषमा स्वराजः।
नवदेहली> सिक्कीं सीमायां वर्तमाने भारत चीनयोः कलहे विश्वराष्ट्राणि भारतेन सार्धमिति विदेशकार्य सचिवा सुषमा स्वराजः। राज्यसभायां सा स्वमतं प्रकटितवती। युक्तिरहितं किमपि भारतं चीनं प्रति न अवदत्। कलहस्य अन्तिमदशायां यावत् नयतन्त्रतले सम्मर्दं कर्तुं अस्ति भारतस्य श्रमम्। किन्तु सीमातः सैनिकान् निष्कासयितुं चीना भीषां करेति।
राष्ट्रद्वयः स्व सैनिकानां नियन्त्रणं कृत्वा चर्चां करणीया इति अस्माकम्  आवश्यकता। इतः पर्यन्तं चीनायाः भूट्टानस्य च मध्ये आसीत् कलहः। किन्तु इदानीं चीनः, राष्ट्रसुरक्षां प्रति प्रवर्तितुं आरभत। चीनास्य एकपक्षीयं एतत् प्रवर्तनं भारतस्य राष्ट्रसुरक्षां बाधते इति सुषमया उक्तम्।

Thursday, July 20, 2017

अनुवैद्यानाम् आधारवेतनं २०,००० रूप्यकाणि भवितव्यम् - केन्द्रसर्वकारः।
      नवदिल्ली> निजीयक्षेत्रचिकित्सालयेषु कर्म कुर्वन्तीनाम् अनुवैद्यानाम् आधारवेतनं विंशतिसहस्रं रूप्यकाणि इति रूपेण स्थिरीकर्तव्यमिति केन्द्रसर्वकारः राज्यसर्वकारान् आदिशत्। अनुवैद्यानां सेवन-वेतनविषयान् अधिगम्य प्रबोधनपत्रं समर्पयितुं राज्याणि निर्दिष्टानीति केन्द्रस्वास्थ्यमन्त्रिणा जे पि नड्डा वर्येण लोकसभायामुक्तम्।
     केरलेषु अनुवैद्याभिः क्रियमाणं प्रक्षोभमधिकृत्य केरलसदस्येषु उन्नीतवत्सु मन्त्रिणः इदं प्रतिकरणम्।
स्वकार्यतां विना अन्यान्  अधिकारान्  संरक्षितुं नैव शक्यते - परमोन्नतनीतिपीठ:।।
        लेखिका -रम्या पी यु
    नवदिल्ली> स्वकार्यता नास्ति चेत् अन्यान् अवकाशान् प्रावर्तिकं कर्तुं नैव शक्नुम: इति परमोन्नतनीतिपीठस्य निरीक्षणम्।  स्वकार्यता पौरस्य मौलिकावकाशो वेति नियमवादे नवाङ्गदीर्घपीठिकया वादश्रवणाभ्यन्तरे न्यायाधीशस्य एस् ए बोबडे महाशयस्य निरीक्षणम् एतत्।  आधारस्य शासनघटनासाधुताम् पृच्छ्यमानायां नियमापेक्षायां परमोन्नतनीतिपीठेन  वादम् अनुवर्तते। आधारपत्रस्य शासनघटनासाधुतां निश्चिनोतुम् प्रारम्भक्रियारूपेणैव स्वकार्यता मौलिकावकाशो वेति नवाङ्गदीर्घपीठिकया परिशील्यते। न्यायाधीशस्य जे एस् केहारस्य अध्यक्षतायां दीर्घपीठिकाया: पुरत: नियमापेक्षकाणां कृते वादे प्रवृत्ते सर्वोन्नताभिभाषक: गोपालसुब्रह्मण्यम् स्वकार्यताया: अवकाश: सर्वकारानुकूलो नेति व्यक्तीकृतवान्।  स्वकार्यता इत्येतत् शासनघटनाया: हृदयम् तथा आत्मा च भवति। तत्तु स्वतन्त्रतायाम् आभिजात्ये च रूढमूलं च।  स्वकार्यतायै अन्यानामवकाशानां छायायां स्थातव्यमिति नास्ति।  शासनघटनया रूढीकृतस्य सविशेषावकाशस्य स्वातन्त्र्यस्य प्रधानघटकमिदम्।  स्वातन्त्र्यहानिकराणि प्रवर्तनानि स्वकार्यताहानिकराण्यपि भवेयु: इति स: प्रस्तावितवान्।   स्वकार्यता मौलिकावकाशो नास्तीति चतुष्पञ्चाशदुत्तरनवदशाधिकसहस्र (1954) तमे एम् पी शर्मावादे अष्टाङ्गदीर्घपीठिकया, द्विषष्ट्युत्तरनवशताधिकसहस्रतमे खरकसिंहवादे षडङ्गदीर्घपीठिकया च विधीतम्।   स्वकार्यता मौलिकावकाशो नेति एतान् विधीन् सामान्यवत्कर्तं न शक्यते इत्यपि स: न्यायालये व्यक्तीकृतवान्। शासनघटनाविदग्ध: सोली सोराब्जी, श्याम दिवानश्च एतानि वीक्षणानि सबलीकृतवन्तौ।  किन्तु स्वकार्यता नास्ति चेत् अन्यावकाशान् साधयितुं न शक्यते इति न्यायाधीश: एस् ए बोबडे निरीक्षितवान्।  शासनघटनाविषये नवाङ्गदीर्घपीठिकया निर्णये स्वीकृते परम् आधारस्य साधुता पञ्चाङ्गदीर्घपीठिकया परिशील्यते। आधार: जनानां स्वकार्यताम् प्रति अतिक्रमणमिति आरोप्य विविधन्यायापेक्षा: परमोन्नतनीतिपीठमागता:।  न्यायापेक्षा: गतदिने मुख्यन्यायाधीशस्य नेतृत्वे पञ्चाङ्गदीर्घपीठिकया परिगण्यमानवेलायां स्वकार्यता मौलिकावकाशो नेति परमोन्नतनीतिपीठस्य पूर्वनिर्णया: सूचयन्ति स्म अटोर्णि जनरल् के के वेणुगोपाल:।  पूर्वम् अष्टाङ्गदीर्घपीठिकया स्वकार्यता मौलिकावकाशो नेति विधीते तां विधिनिर्णयम् पुन:परिशीलयितुमेव नवाङ्गदीर्घपीठिका रूपीकृता।

Wednesday, July 19, 2017

प्रधानमन्त्रिणं स्वागतं कर्तुं पुष्पगुच्छः न, पुस्तकानि उपयुज्यन्ते।
नवदेहली> प्रधानमन्त्रिणः नरेन्द्रमोदिनः भारतस्य आभ्यन्तर सन्दर्शनवेलासु स्वागतरूपेण दीयमानानां पुष्पगुच्छानां रोधनम्। एतत् संबन्धिनः निर्देशः केन्द्र आभ्यन्तरमन्त्रालयेन सर्वाणि राज्याणि तथा केन्द्रशासन क्षेत्राणि प्रति जूलाई द्वादश दिने प्रेषितम्। पुष्पगुच्छमेव दातव्यं चेत् एकेन पुष्पेण साकं खादी निर्मित करवस्त्रं तथा एकं पुस्तकं वा दत्वा स्वागतं करणीयम्। एतत् अनिवार्यतया पालनीयमिति मन्त्रालयेन निर्दिष्टम्।
वयोज्येष्ठानां कायिकस्पर्धा समाप्ता, किरीटं केरलाय। 
गुण्टूर् > ५७तम राज्यान्तर वयोज्येष्ठकायिकसंगमः (सीनियर् अत्लटिक्स्) समाप्तः।  क्रमानुगतया द्वितीयवारमपि केरलेन एव प्रथमस्थानं लब्धम्।  ४००मी. हर्डिल्स् विभागे सुवर्णपतकं प्राप्तवती केरलीया आर्. अनू सङ्गमस्य वरिष्ठतारपदं प्राप्तवती।
     आहत्य ११ सुवर्णानि ८ रजतानि ४ कांस्यानि उपलभ्य १५९ अङ्कैः केरलस्य  किरीटप्राप्तिः। ११० अङ्कैः तमिल् नाट्राज्येन द्वितीयस्थानं प्राप्तम्। तृतीयस्थानीयाय हरियाना राज्याय १०१ अङ्काः लब्धाः।
राष्ट्रपतिनिर्वाचने 99% सम्मतिदानम्। नूतन: राष्ट्रपति: गुरुवासरे।     
नवदिल्ली>नूतनराष्ट्रपतिं चेतुं निर्वाचने नवनवतिप्रतिशतं सम्मतिदानं लक्षितम्। राष्ट्रपतिनिर्वाचनचरित्रे अधिकतमं सम्मतिदानमेव एतदिति वरणाधिकारी तथा लोकसभाया: प्रधानकार्यदर्शी च अनूप मिश्र: उक्तवान्। एन् डी ए स्थानाशी रामनाथकोविन्द: प्रतिपक्षस्थानार्थी मीरा कुमारश्च राष्ट्रपतिस्थानार्थिनौ। गुरुवासरे एव निर्वाचनगणना। लोकसभायाम् प्रधानमन्त्री एव प्रथमं सम्मतिदानं दत्तवान्।
संस्कृताय लन्दनतः नवदिल्ल्याम्
नवदिल्ली >संस्कृतभाषायाः संवर्धनमुद्दिश्य जुलाई मासस्य सप्तदशदिनांके नवदिल्ल्याम्  "संस्कृतभाषायाः वैश्विकसमुन्नयने महाविद्यालयानां भूमिका''  इति विषयमवलम्ब्य विशिष्टं सम्मेलनं समायोजितम् ।
           सम्मेलनमिदं बालभारतीपब्लिकस्कूल इत्यस्मिन् विद्यालये समनुष्ठितम् | तत्र दिल्लीस्थानां निजिविद्यालयानां प्रधानाचार्या: संस्कृतशिक्षकाश्च भागग्रहीतारः आसन् । लन्दननगरस्य सेंट्-जेम्स्-विद्यालयस्य निदेशकः पॉल्-पॉलमारोजा विद्यालयस्य संस्कृताध्यापिका हेलेनहार्परश्च लन्दननगरे संस्कृतस्य लोकप्रियतां महत्तां च प्रतिपादितवन्तौ| उभाभ्यां सेंट्-जेम्स्-विद्यालयस्य संस्कृतपाठ्यक्रमेण पाठ्यशैल्या च  छात्राणां व्यवहारे समागतानां सकारात्मक-सात्विक-सामाजिक-नैतिकपरिवर्तनां P.PT इति संगणकीयदृश्यांकनमाध्यमेन प्रदर्शनमपि प्रस्तुतम् |
मुख्यातिथिरूपेण CBSE इति केन्द्रीयमाध्यमिकशिक्षापरिषद: अध्यक्ष: राजेशकुमारचतुर्वेदी-महोदय: आसीत्।
Episode 52

Tuesday, July 18, 2017

रष्यायाम् अति शक्ता भूकम्पः। रिक्टर् मापिन्यां ७.८ तीव्रता।
मोस्को> अतिशक्तया भूचलनेन रष्या प्रकम्पिताI रिक्टर् मापिन्याम् अस्याः तीव्रता ७.८ इति अल्लिखता। अतः सुनामि नाम भयङ्करजलोपप्लवस्य कारणत्वेन जाग्रतानिर्देशः ज्ञापितः।  अपघातः इतः पर्यन्तं न आवेदितः।
रष्यायाः उत्तरपूर्व प्रविश्यायां काम्चट्क इति प्रदेशे एव भूचलनम् अनुभूतम्। पसफिक् समुद्र प्रदेशः एव भवति अयम्। प्रथम भूचलनस्य अनुबन्धतया लघुचलनानि इदानीमपि सन्ति इत्येनन जनाः भयचकिताः भवन्ति।
पुरुषाणां विम्बिल्डण् किरीटः रोजर् फेडरराय।
लण्टन्> पुरुषलानक्रीडायाम् अजय्यः इति संस्थाप्य स्विट्सर्लान्ट् देशीयः रोजर् फेडररः विम्बिल्डण् ग्रान्ड्स्लां लानक्रीडायाः अन्तिमचक्रे प्रथमस्थानं स्वायत्तीकृतवान्। क्रोयेष्यादेशीयं मरिन् सिलिच् नामकं क्रमागतेषु पङ्क्तिषु पराजितवान्।  फेडररस्य अष्टमं विम्बिल्डण् किरीटमिदम्।
भारते जैव-वातकमुपयुज्य बस् यानं धावनमारब्धम्।
पूणे> परिस्थिति मलिनीकरणस्य न्यूनीकरणम् उद्दिश्य टाटा मोट्टेर्स् संस्थया नूतनं  बस्यानम् अवतारितम्।  बयो-मीथैन् इति वातकम् उपयुज्य यन्त्रस्य प्रवर्तनम्।  वस्तुनः जीर्णतायाः समये वातकः स्वयमेव उद्पद्यते।  एतस्य उपयोगेन परिस्थिति सौहृदवत् प्रवर्तयति यानस्ययन्त्रः।  यन्त्रद्वयस्य साहाय्येन यानं चलति।
केन्द्र पेट्रोलियं- प्रकृति-वातक-मन्त्रालयेन पूने नगरे आयोजिते ऊर्जेत्सवे एव अस्य यानस्य प्रदर्शनमभवत्।  केन्द्र-पेट्रोलियं- प्रकृति वातक मन्त्रालयस्य मन्त्रिणा धर्मेन्द्र प्रथानेन ध्वजवीजनमभवत्।  प्रप्रथमतया पूणे नारे एव बस्यानस्य यात्रायाः शुभारम्भः भविष्यति।
वेङ्कय्या नायिडु एन् डि ए पक्षस्य उपराष्ट्रपतिस्थानाशी।
नवदिल्ली > केन्द्रमन्त्री एम् वेङ्कय्या नायिडु एन् डि ए दलस्य उपराष्ट्रपतिस्थानाशिरूपेण प्रख्यापितः। नरेन्द्रमोदिनः नेतृत्वे सम्पन्ने भा ज पा दलस्य उन्नताधिकारसमित्यामेव अयं निर्णयः जातः। राज्यसभाङ्गत्वेन वर्तमानः वेङ्कय्या अधुना केन्द्रमन्त्रिसभायां नगरविकसनकार्यमन्त्री अस्ति।
     विपक्षदलानां स्थानाशिरूपेण भूतपूर्वराज्यपालः महात्मागान्धिनः पौत्रश्च गोपालकृष्णगान्धी पूर्वमेव चित आसीत्। आगस्ट् पञ्चमे दिने उपराष्ट्रपतिनिर्वाचनं भविष्यति। नामनिर्देशपत्रिकासमर्पणाय अन्तिमं दिनं जूलाई १८।

Monday, July 17, 2017

भारतसेनां प्रतिनिवर्तितव्या नो चेत् भारतं लज्जितं भविष्यति-चीना।
बीजिङ् > सिक्किमस्य सीम्नि  शान्तिं स्थापयितुं भारतेन कृतं प्रयत्नं प्रतिरोद्धुं चैना।  डोक्लाम् प्रदशेतः  सैन्यस्य प्रतिग्रहणं विना कापि चर्चा भरतेन सह नाऽभिलषति इति चीनया प्रख्यापिता।  सीमातः प्रतिनिवर्तनं नास्ति चेत्  भारत-चीना बन्धः रूक्षतरः कारयति इति चैनायाः औद्योगिकी वार्ता संस्थया षिन् हूवया उक्तम्।
राष्ट्रपतिनिर्वाचनम् अद्य। 
नवदिल्ली > राष्ट्रस्य नूतनं राष्ट्रपतिं  निर्वक्तुम् उद्दिष्टं मतदानम् अद्य सम्पद्यते। राष्ट्रस्य लोक-राज्यसभयोः राज्यविधानसभासु च प्रभाते दशवादनादारभ्य सायं पञ्चवादनपर्यन्तं   मतदानं प्रचलति।
      एन् डि ए स्थानाशी रामनाथकोविन्दः विपक्षस्थानाशिनी मीराकुमार् च परस्परं स्पर्धयन्तौ। १०,९८,९०३ भवति आहत्य मतदानमूल्यम्। २०तम दिनाङ्के मतगणनां भविष्यति।
भारतस्य प्रथमसौरोर्जडेमु रेलयानम् धावनमारब्धम्।
नवदिल्ली> सौरोर्जेण प्रवर्तमानम् राष्ट्रस्य प्रथमं डेमु (डी ई एम् यु) ( डीसल् इलक्ट्रिकल् मल्टिपिल् यूणिट्)  रेलयानम्  भारतीयरेल्विभागेन अवतारितम्। देहल्या: सराई रोहिल्ला रेलस्थानकात् हरियानाया: फरूखनगरम् प्रति गमनमार्गेण एव एतस्य सेवनम् लभते। रेलयानस्य षट् पेटिकासु षोडश सौरोर्जफलकानि स्थापितानि। एकैकफलकञ्च त्रिशतं वाट् पीक् शेषियुतम् भवति। केन्द्रसर्वकारस्य मेक् इन् इन्ड्या (भारतनिर्माणम्) पद्धत्या: अधीने विकासितानां सौरोर्जफलकानाम् चतुष्पञ्चाशत् लक्षं रूप्यकाणि एव व्यय:। लोके प्रथमतया एव रेलमार्गेषु ग्रिड् (वैद्युति वितरण शृङ्खला) रूपेण सौरोर्जफलकानि उपयुज्यन्ते। ऊर्जस्य  बाक् अप् सौकर्यमपि याने वर्तते। विद्युत्कोशेन द्विसप्ततिघण्टा: यानचालनं शक्यते इति रेलविभाग: अभिप्रैति। गतवर्षस्य रेलसम्पद्रूपरेखायाम्, आगामिपञ्चवर्षाभ्यन्तरे भारतरेलविभाग: सहस्रं मेगावाट् सौरोर्जम् उत्पादयिष्यति इति रेल्विभागमन्त्री सुरेशप्रभु: प्रख्यापितवान्।  नगरप्रदेशेषु धाव्यमानेषु रेलयानेषु एव प्रथमसोपाने  सौरोर्जपद्धती: अवतारयिष्यति पश्चात् दीर्घदूर-रेलसेवनेषु च पद्धतिरियं आसूत्रितम् भविष्यति इत्यपि रेल्समित्या: अङ्ग: रवीन्द्रगुप्त: ज्ञापितवान्। आगामिदिनेषु एतादृशपञ्चाशत् पेटिकाश्च आविष्कर्तुमेव रेलविभागस्य पद्धति:। पद्धत्या: पूर्णतया आविष्करणेन प्रतिवर्षं सप्तशतं कोटि: रूप्यकाणि भारतीयरेलविभागेन लाभीकर्तुं शक्यते इत्यपि रवीन्द्रगुप्त: सूचितवान्। पञ्चविंशति वर्षाभ्यन्तरे एवम् एकस्मात् रेलयानात् पञ्च दशांशं द्वे पञ्च लक्षं लिट्टर् मितं डीसल् लाभीकर्तुञ्च शक्यते। एतस्मिन् कालान्तरे एकस्मात् रेलयानात् त्रीणि कोटि: रूप्यकाणां लाभश्च रेलविभागेन स्वरूपितुं च शक्यते। पञ्चविंशतिवर्षाभ्यन्तरे पञ्चाशदुत्तरत्रिशताधिकसहस्रं टण्मितं कार्बण् बहिष्करणं न्यूनीकर्तुं च सौरोर्जरेलयानेन शक्यते इत्यपि स: योजितवान्।                  
अवकरवस्तूनि गृहीत्वा जीवनम्, इदानीं नामधेय प्रचारकः।
श्रीनगरम्> अवकरवस्तूनि गृहीत्वा अष्टादशवर्षीयः युवकः श्रीनगरे नगरसभासमितेः नामधेयप्रचारकः जातः। उत्तर काश्मीरस्य बन्दिपोर जिल्लायां वुलारवाप्याः समीपस्थाः अवकरवस्तूनि गृहीत्वा दिनानि नयतः बिलाल् धरस्य एतत् विजयं। बहु संवत्सरेण क्षेत्रादस्मात् अवकरवस्तूनि बिलालेव स्वीकरोति। सर्वेषां आदर्शभूतः सः सञ्जातः। अतः श्रीनगर नगरसभासमितिः तं नामधेयप्रचारकत्वं दत्वा बह्वमन्यत।