OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, July 18, 2017

रष्यायाम् अति शक्ता भूकम्पः। रिक्टर् मापिन्यां ७.८ तीव्रता।
मोस्को> अतिशक्तया भूचलनेन रष्या प्रकम्पिताI रिक्टर् मापिन्याम् अस्याः तीव्रता ७.८ इति अल्लिखता। अतः सुनामि नाम भयङ्करजलोपप्लवस्य कारणत्वेन जाग्रतानिर्देशः ज्ञापितः।  अपघातः इतः पर्यन्तं न आवेदितः।
रष्यायाः उत्तरपूर्व प्रविश्यायां काम्चट्क इति प्रदेशे एव भूचलनम् अनुभूतम्। पसफिक् समुद्र प्रदेशः एव भवति अयम्। प्रथम भूचलनस्य अनुबन्धतया लघुचलनानि इदानीमपि सन्ति इत्येनन जनाः भयचकिताः भवन्ति।
पुरुषाणां विम्बिल्डण् किरीटः रोजर् फेडरराय।
लण्टन्> पुरुषलानक्रीडायाम् अजय्यः इति संस्थाप्य स्विट्सर्लान्ट् देशीयः रोजर् फेडररः विम्बिल्डण् ग्रान्ड्स्लां लानक्रीडायाः अन्तिमचक्रे प्रथमस्थानं स्वायत्तीकृतवान्। क्रोयेष्यादेशीयं मरिन् सिलिच् नामकं क्रमागतेषु पङ्क्तिषु पराजितवान्।  फेडररस्य अष्टमं विम्बिल्डण् किरीटमिदम्।
भारते जैव-वातकमुपयुज्य बस् यानं धावनमारब्धम्।
पूणे> परिस्थिति मलिनीकरणस्य न्यूनीकरणम् उद्दिश्य टाटा मोट्टेर्स् संस्थया नूतनं  बस्यानम् अवतारितम्।  बयो-मीथैन् इति वातकम् उपयुज्य यन्त्रस्य प्रवर्तनम्।  वस्तुनः जीर्णतायाः समये वातकः स्वयमेव उद्पद्यते।  एतस्य उपयोगेन परिस्थिति सौहृदवत् प्रवर्तयति यानस्ययन्त्रः।  यन्त्रद्वयस्य साहाय्येन यानं चलति।
केन्द्र पेट्रोलियं- प्रकृति-वातक-मन्त्रालयेन पूने नगरे आयोजिते ऊर्जेत्सवे एव अस्य यानस्य प्रदर्शनमभवत्।  केन्द्र-पेट्रोलियं- प्रकृति वातक मन्त्रालयस्य मन्त्रिणा धर्मेन्द्र प्रथानेन ध्वजवीजनमभवत्।  प्रप्रथमतया पूणे नारे एव बस्यानस्य यात्रायाः शुभारम्भः भविष्यति।
वेङ्कय्या नायिडु एन् डि ए पक्षस्य उपराष्ट्रपतिस्थानाशी।
नवदिल्ली > केन्द्रमन्त्री एम् वेङ्कय्या नायिडु एन् डि ए दलस्य उपराष्ट्रपतिस्थानाशिरूपेण प्रख्यापितः। नरेन्द्रमोदिनः नेतृत्वे सम्पन्ने भा ज पा दलस्य उन्नताधिकारसमित्यामेव अयं निर्णयः जातः। राज्यसभाङ्गत्वेन वर्तमानः वेङ्कय्या अधुना केन्द्रमन्त्रिसभायां नगरविकसनकार्यमन्त्री अस्ति।
     विपक्षदलानां स्थानाशिरूपेण भूतपूर्वराज्यपालः महात्मागान्धिनः पौत्रश्च गोपालकृष्णगान्धी पूर्वमेव चित आसीत्। आगस्ट् पञ्चमे दिने उपराष्ट्रपतिनिर्वाचनं भविष्यति। नामनिर्देशपत्रिकासमर्पणाय अन्तिमं दिनं जूलाई १८।

Monday, July 17, 2017

भारतसेनां प्रतिनिवर्तितव्या नो चेत् भारतं लज्जितं भविष्यति-चीना।
बीजिङ् > सिक्किमस्य सीम्नि  शान्तिं स्थापयितुं भारतेन कृतं प्रयत्नं प्रतिरोद्धुं चैना।  डोक्लाम् प्रदशेतः  सैन्यस्य प्रतिग्रहणं विना कापि चर्चा भरतेन सह नाऽभिलषति इति चीनया प्रख्यापिता।  सीमातः प्रतिनिवर्तनं नास्ति चेत्  भारत-चीना बन्धः रूक्षतरः कारयति इति चैनायाः औद्योगिकी वार्ता संस्थया षिन् हूवया उक्तम्।
राष्ट्रपतिनिर्वाचनम् अद्य। 
नवदिल्ली > राष्ट्रस्य नूतनं राष्ट्रपतिं  निर्वक्तुम् उद्दिष्टं मतदानम् अद्य सम्पद्यते। राष्ट्रस्य लोक-राज्यसभयोः राज्यविधानसभासु च प्रभाते दशवादनादारभ्य सायं पञ्चवादनपर्यन्तं   मतदानं प्रचलति।
      एन् डि ए स्थानाशी रामनाथकोविन्दः विपक्षस्थानाशिनी मीराकुमार् च परस्परं स्पर्धयन्तौ। १०,९८,९०३ भवति आहत्य मतदानमूल्यम्। २०तम दिनाङ्के मतगणनां भविष्यति।
भारतस्य प्रथमसौरोर्जडेमु रेलयानम् धावनमारब्धम्।
नवदिल्ली> सौरोर्जेण प्रवर्तमानम् राष्ट्रस्य प्रथमं डेमु (डी ई एम् यु) ( डीसल् इलक्ट्रिकल् मल्टिपिल् यूणिट्)  रेलयानम्  भारतीयरेल्विभागेन अवतारितम्। देहल्या: सराई रोहिल्ला रेलस्थानकात् हरियानाया: फरूखनगरम् प्रति गमनमार्गेण एव एतस्य सेवनम् लभते। रेलयानस्य षट् पेटिकासु षोडश सौरोर्जफलकानि स्थापितानि। एकैकफलकञ्च त्रिशतं वाट् पीक् शेषियुतम् भवति। केन्द्रसर्वकारस्य मेक् इन् इन्ड्या (भारतनिर्माणम्) पद्धत्या: अधीने विकासितानां सौरोर्जफलकानाम् चतुष्पञ्चाशत् लक्षं रूप्यकाणि एव व्यय:। लोके प्रथमतया एव रेलमार्गेषु ग्रिड् (वैद्युति वितरण शृङ्खला) रूपेण सौरोर्जफलकानि उपयुज्यन्ते। ऊर्जस्य  बाक् अप् सौकर्यमपि याने वर्तते। विद्युत्कोशेन द्विसप्ततिघण्टा: यानचालनं शक्यते इति रेलविभाग: अभिप्रैति। गतवर्षस्य रेलसम्पद्रूपरेखायाम्, आगामिपञ्चवर्षाभ्यन्तरे भारतरेलविभाग: सहस्रं मेगावाट् सौरोर्जम् उत्पादयिष्यति इति रेल्विभागमन्त्री सुरेशप्रभु: प्रख्यापितवान्।  नगरप्रदेशेषु धाव्यमानेषु रेलयानेषु एव प्रथमसोपाने  सौरोर्जपद्धती: अवतारयिष्यति पश्चात् दीर्घदूर-रेलसेवनेषु च पद्धतिरियं आसूत्रितम् भविष्यति इत्यपि रेल्समित्या: अङ्ग: रवीन्द्रगुप्त: ज्ञापितवान्। आगामिदिनेषु एतादृशपञ्चाशत् पेटिकाश्च आविष्कर्तुमेव रेलविभागस्य पद्धति:। पद्धत्या: पूर्णतया आविष्करणेन प्रतिवर्षं सप्तशतं कोटि: रूप्यकाणि भारतीयरेलविभागेन लाभीकर्तुं शक्यते इत्यपि रवीन्द्रगुप्त: सूचितवान्। पञ्चविंशति वर्षाभ्यन्तरे एवम् एकस्मात् रेलयानात् पञ्च दशांशं द्वे पञ्च लक्षं लिट्टर् मितं डीसल् लाभीकर्तुञ्च शक्यते। एतस्मिन् कालान्तरे एकस्मात् रेलयानात् त्रीणि कोटि: रूप्यकाणां लाभश्च रेलविभागेन स्वरूपितुं च शक्यते। पञ्चविंशतिवर्षाभ्यन्तरे पञ्चाशदुत्तरत्रिशताधिकसहस्रं टण्मितं कार्बण् बहिष्करणं न्यूनीकर्तुं च सौरोर्जरेलयानेन शक्यते इत्यपि स: योजितवान्।                  
अवकरवस्तूनि गृहीत्वा जीवनम्, इदानीं नामधेय प्रचारकः।
श्रीनगरम्> अवकरवस्तूनि गृहीत्वा अष्टादशवर्षीयः युवकः श्रीनगरे नगरसभासमितेः नामधेयप्रचारकः जातः। उत्तर काश्मीरस्य बन्दिपोर जिल्लायां वुलारवाप्याः समीपस्थाः अवकरवस्तूनि गृहीत्वा दिनानि नयतः बिलाल् धरस्य एतत् विजयं। बहु संवत्सरेण क्षेत्रादस्मात् अवकरवस्तूनि बिलालेव स्वीकरोति। सर्वेषां आदर्शभूतः सः सञ्जातः। अतः श्रीनगर नगरसभासमितिः तं नामधेयप्रचारकत्वं दत्वा बह्वमन्यत।

Sunday, July 16, 2017

मुगुरुसायै विम्बिल्डण् वनिताकिरीटम्।
लण्टन् >विम्बिल्डण् टन्नीस् स्पर्धायाः वनिताविभागस्य अन्तिमस्पर्धायां स्पेयिन् स्वदेशीया गार्बैन् मुगुरुसा किरीटं प्राप्तवती। तच्च स्वस्य गुरुस्थानीयाम् अमेरिक्कायाः क्रीडकां वीनस् विल्यंसं पराजित्य एव।
    शनिवासरे संवृत्ते अन्तिमचक्रे पञ्चवारं किरीटप्राप्ता वीनस् १४तम स्थानीयां [सीड्] गार्बैन् मुरुगुसां प्रति एकपक्षीयं पराजयं स्वीकृतवती आसीत्। अङ्काः - ७-५, ६-०। केवलं ७७ निमेषैः स्पर्धा समाप्ता। मुरुगुसायाः द्वितीयं 'ग्रान्ट् स्लां' किरीटं भवत्येतत्।

Saturday, July 15, 2017

उत्तरप्रदेश-विधानसभायां विस्फोटकप्रकरणः
उत्तरप्रदेशविधानसभायां PETN इति भयानक-विस्फोटकस्यावाप्ति प्रकरणे प्राथमिकी पञ्जीकृता, मुख्यमंत्रिणा योगी आदित्यनाथेन प्रकरणमिदं विगर्हितम्, विधानसभाया प्रकरणस्य एन ऐ  ए इति दलीयम् अन्वीक्षणम् अनुसंशितम्, सममेव विधानसभायाः सुरक्षायै नवीना नियमावली विरचिता|

पूर्वोत्तरराज्येषु गभीरजलौघस्थितिः
पूर्वोत्तरराज्येषु जलौघस्य स्थितिः गभीरा वर्तते, असमराज्ये सप्तदशलक्षजनाः प्रभाविताः वर्तन्ते, साहाय्योद्धारकार्येषु त्वरतापादिता , किरेन रिजिजोः नेतृत्वे केंद्रीयदलेन इंफालनगरस्य स्थितिः समीक्षिता, केंद्रप्रशासने सर्वसम्भवसाहाय्यं समाश्वासितम् , उत्तरप्रदेशमध्यप्रदेशोत्तराखण्डेषु नदीनां जलस्तरं विवर्धितम् |
. प्रशासनेन विपक्षिदलेभ्यः सुरक्षास्थितिः विज्ञापिता
 कश्मीरस्य सुरक्षया चीनयाः सीमविवादेन च समुत्पन्नपरिस्थितौ प्रशासनेन सर्वदलीयोपवेशनम् आकारितम् , सममेव प्रशासनस्य पदक्षेपविषये विपक्षं विज्ञापितम् | अस्मिन् उपवेशने राष्ट्रियसुरक्षापरामर्शदाता अजीतडोभालः विविधानां राजनैतिकदलानां प्रमुखनेतारश्च समुपस्थिताः आसन्
अनुवैद्यानाम् अनिश्चितकालप्रक्षोभः उच्चन्यायालयेन निरुद्धः।
कोच्ची> केरळे निजीय-चिकित्सालयेषु विद्यमानानाम् अनुवैद्यानां संघटनैः सोमवासरादारभ्यमानः अनिश्चितकालप्रक्षोभः उच्चन्यायालयेन निरुद्धः। चिकित्सा - समान्तरचिकित्सामण्डलानि अवश्यसेवनव्यवस्थायाः [एस्मा] परिधौ भवन्तीत्यतः सर्वकारेण इदमान्दोलनं निरोद्धव्यमिति न्यायालयेन निर्दिष्टम्।
   ज्वरादिव्याधयः सर्वत्र व्याप्ताः सन्ति। एतस्मिन् सन्दर्भे अयं प्रक्षोभः सामान्यजनानाम् आरोग्यपरिपालनं साक्षात् बाधतेति न्यायालयेन निर्णीतम्। वेतनवर्धनम् अभियाचमानाःअनुवैद्याः गतसप्ताहत्रयं यावत् केरलस्य विधानसभाकवाटे समरं कुर्वन्त्यः सन्ति।
भारतीयाः अतीव अलसाः इति अन्वेषण फलम्।
नवदेहली> विश्वे अलसतमाः जनाः भारते वर्तन्ते इति  नवीनं अध्ययनफलं। सानफोर्ट् विश्वविद्यालयेन कृतमस्ति एतत् परिवेषणम्। पद्भ्यां गन्तव्यदूराय अपि भूरिणः भारतीयाः यानं आश्रियन्ते। षट्चत्वारिंशत् राष्ट्रेषु कृते अध्ययने भारतस्य नवत्रिंशत् स्थानमस्ति। भारते एकः एकस्मिन् दिने केवलं सप्तनवत्यधिक-द्विस्तोत्तरचतुसहस्रं  (४२९७) पादमात्रम् अस्ति।
सप्तलक्षजनेषु अध्ययनं कृतम्। मोबैल्आप् द्वारा विवरशेखरणं जातम्। अध्ययने चैनाजनाः अलसतारहिताः इति अवगतम्। तस्मिन्नपि होङ्कोङ्जनाः अलसतारहिताः इति अध्ययने वदति। अशीत्यधिक-अष्टशतोत्तर-षट्सहस्र-पाद पर्यन्तं (६८८०) चैना जनैः एकदिनं पद्भ्यां गच्छन्ति।
गङ्गातीरे निर्माणप्रवर्तनानि एन् जि टि संस्थया निरुद्धानि।
नवदिल्ली> गङ्गानदीतीरे निर्माणप्रवर्तनानि राष्ट्रिय हरित न्यायाधिकरणेन [एन् जि टि] निरुद्धानि। उत्तराखण्डे हरिद्वारादारभ्य उत्तरप्रदेशस्य उन्नावो पर्यन्तं गङ्गातीरात् शतमीटर् परिमिताभ्यन्तरे एव निर्माणनिरोधः कल्पितः।
     नद्याः पञ्चशतं (५००) कि मी परिधौ मालिन्यनिक्षेपणमपि न्याया. स्वतन्तर् कुमारस्य आध्यक्ष्ये विद्यमानेन नीतिपीठेन निरुद्धम्। नद्यां यःमालिन्यं निक्षेपति तस्मै पञ्चाशत् सहस्ररूप्यकाणां शुल्कदण्डः विधास्यते।

Friday, July 14, 2017

सेल्फीति स्वच्छायाचित्रस्य ग्रहणसमये नौकाया: जले निमज्जनेन अष्ट यूनां मृत्यु: सञ्जाता
    नागपुरम्>नागपुरस्थितवेनानद्यां नौकाया: जले निमज्जनेन ८ यूनां मृत्योर्विषय: प्रकाशीभूत:।  त्रय: युवका: रक्षिता:।  सेल्फीति स्वछायाचित्रं स्वीकरणसमये अनवधानतायाः कारणेन नौका जले निमज्जिता। अस्यां दुर्घटनायाम् अष्टादशतः सप्तविंशतिः  वयस्काः युवकाः  सम्मिलिता: आसन्।  प्राप्तसूचनानुसारेण नागपुरे पर्यटनाय आगत: युवसमूह: मंगरुडग्रामस्य पार्श्वेस्थितायां वेनानद्यां भ्रमणाय गतवान् आसीत्।  नौकायां ते स्वछायाचित्रं स्वीकुर्वन्त: आसन्, युवानः नौकायाः एकस्मिन्नेव भागे स्थिताः इत्यतः नौका जले निमज्जिता।
असमराज्ये साहाय्योद्धारकार्यं प्रचलति
असमराज्ये जलौघस्य स्थितिः गभीरा वर्तते। ब्रह्मपुत्रनद्याः जलस्तरं पञ्चस्थानेषु संकटचिह्नादुपरि समागतम् । वार्ता स्रोतोभिः विज्ञायते यत् राज्यस्य चतुर्विंशतिः जनपदानां प्रायः सप्तदशलक्षाधिकजनाः जलौघेन प्रभाविताः सन्ति । राष्ट्रियापन्मोचनबलेन राज्यापन्मोचनबलेन  आरक्षिबलेन च सप्तजनपदेषु भूयोSपि सार्धद्विसहस्रजनाः सुरक्षितस्थानेषु समानीताः ।
    मुख्यमंत्रिणा सर्वानन्दसोनोवालेन गतदिने सर्वाधिकप्रभावितस्य  मजूली क्षेत्रस्य  सहाय्योद्धारशिबिरेषु जनैः सह मेलनं कृतम् । अत्रान्तरे
केन्‍द्रीयगृहराज्‍यमंत्रिणः किरेणरिजीजोः नेतृत्वे उच्‍चस्‍तरीयकेन्‍द्रीयदलं पूर्वोत्‍तरस्य जलौघेन प्रभावितक्षेत्रेषु साहाय्योद्धारकार्याणां समीक्षा करिष्यति । प्रधानमंत्रिणा नरेन्द्रमोदिना प्रकरणेस्मिन् दु:खं प्रकटयता केन्‍दप्रशासनस्य सकलं संभाव्यसाहाय्यं समाश्वासितम्
शत्रुः इदानीं हस्तग्राह्यः। चैनां लक्ष्यीकृत्य मिसैल् निर्माणे भारतम्।
वाषिड्टण् > सीमाक्षेत्रेषु चैनायाः भीषाः वर्धमाने सन्दर्भे तां भीषां अवरोद्धुं मिसैल् तन्त्रेण भारतम्। दक्षणभारतस्य विक्षेपणस्थानेभ्यः चैनां पूर्णतया परिधौ आनेतुं सहायकं मिसैल् निर्माणे अस्ति। यु एस् तः प्रसिद्धीकृतं आफ्टर मिट्नैट् मध्ये प्रसिद्धीकृते लेखे आणवकुशलैः एवं व्यक्तीकृतम्। भारतस्य आणवप्रतिरोधः प्रधानतया पाक्किस्थानं केन्द्रीकृत्य रूपीकृतमपि वर्तमानायां अवस्थायां चैनां लक्ष्यीकृत्य आणवसंविधानस्य आधुनीकरणप्रयत्ने एवास्ति भारतम् इति लेखनद्वारा व्यक्तीकरोति।
१५० तः २०० पर्यन्तं अणुवायुधानां निर्माणाय आवश्यकं प्लूट्टोणियं सकाशे अस्ति चेदपि भारतेन केवलं १२०-१३० अणुवायुधानां निर्माणमेव कृतं स्यादिति इति इण्टियन् न्यूक्लियर् फोर्सस् इति लेखने  वदति। एतत् सर्वं चैनां लक्ष्यीकृत्य अस्ति। इदानीं सप्त आणवसंविधानानां निर्माणं भारतेन क्रियते। द्वौ विमानं , पृथ्वीतः विक्षेपणयोग्यानि चत्वारि बालिस्टिक् मिसैल् शस्त्राणि , समुद्रात् विक्षेप्तुं योग्यं एकं बालिस्टिक् मिसैल् शस्त्रं च भारतेन निर्मीयते।

Thursday, July 13, 2017

गोपालकृष्णगान्धी संयुक्तविपक्षदलानां उपराष्ट्रपति स्थानाशी।
नवदिल्ली>महात्मागान्धिनः पौत्रः  वङ्गराज्यस्य भूतपूर्वः राज्यपालश्च गोपालकृष्णगान्धी विपक्षदलानां पूर्णसहयोगेन उपराष्ट्रपतिस्थानाशी भविष्यति। बीहारराज्यस्य शासनदलस्य जे डि यू दलस्यापि सहयोगः तस्मै लभते।
    महात्मागान्धिनः पुत्रस्य देवदासगान्धिनः सि राजगोपालाचारिवर्यस्य सुतायाः लक्ष्म्याश्च पुत्रः गोपालकृष्णगान्धी १९४५तमे संवत्सरे जनिमलभत। भारतीय प्रशासन सेवायां [ऐ ए एस्] तमिल् नाट् विभागस्य अङ्गः आसीदयं नैकानि उन्नतस्थानानि अलङ्कृतवान्। श्रीलङ्का, दक्षिणाफ्रिक्का, नोर्वे इत्येतेषु राष्ट्रेषु भारतस्थानपतिरासीत्। यदा के आर् नारायणः राष्ट्रपतिरासीत् तदा तस्य सचिव आसीत्। स्वतन्त्रचिन्तकः अयं विद्वन्मण्डले/पि श्रद्धेयः अस्ति।
    उपराष्ट्रपतिनिर्वाचनं ओगस्ट् पञ्चमदिनाङ्के भविष्यति।