OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Social Media

Saturday, July 15, 2017

भारतीयाः अतीव अलसाः इति अन्वेषण फलम्।
नवदेहली> विश्वे अलसतमाः जनाः भारते वर्तन्ते इति  नवीनं अध्ययनफलं। सानफोर्ट् विश्वविद्यालयेन कृतमस्ति एतत् परिवेषणम्। पद्भ्यां गन्तव्यदूराय अपि भूरिणः भारतीयाः यानं आश्रियन्ते। षट्चत्वारिंशत् राष्ट्रेषु कृते अध्ययने भारतस्य नवत्रिंशत् स्थानमस्ति। भारते एकः एकस्मिन् दिने केवलं सप्तनवत्यधिक-द्विस्तोत्तरचतुसहस्रं  (४२९७) पादमात्रम् अस्ति।
सप्तलक्षजनेषु अध्ययनं कृतम्। मोबैल्आप् द्वारा विवरशेखरणं जातम्। अध्ययने चैनाजनाः अलसतारहिताः इति अवगतम्। तस्मिन्नपि होङ्कोङ्जनाः अलसतारहिताः इति अध्ययने वदति। अशीत्यधिक-अष्टशतोत्तर-षट्सहस्र-पाद पर्यन्तं (६८८०) चैना जनैः एकदिनं पद्भ्यां गच्छन्ति।
गङ्गातीरे निर्माणप्रवर्तनानि एन् जि टि संस्थया निरुद्धानि।
नवदिल्ली> गङ्गानदीतीरे निर्माणप्रवर्तनानि राष्ट्रिय हरित न्यायाधिकरणेन [एन् जि टि] निरुद्धानि। उत्तराखण्डे हरिद्वारादारभ्य उत्तरप्रदेशस्य उन्नावो पर्यन्तं गङ्गातीरात् शतमीटर् परिमिताभ्यन्तरे एव निर्माणनिरोधः कल्पितः।
     नद्याः पञ्चशतं (५००) कि मी परिधौ मालिन्यनिक्षेपणमपि न्याया. स्वतन्तर् कुमारस्य आध्यक्ष्ये विद्यमानेन नीतिपीठेन निरुद्धम्। नद्यां यःमालिन्यं निक्षेपति तस्मै पञ्चाशत् सहस्ररूप्यकाणां शुल्कदण्डः विधास्यते।

Friday, July 14, 2017

सेल्फीति स्वच्छायाचित्रस्य ग्रहणसमये नौकाया: जले निमज्जनेन अष्ट यूनां मृत्यु: सञ्जाता
    नागपुरम्>नागपुरस्थितवेनानद्यां नौकाया: जले निमज्जनेन ८ यूनां मृत्योर्विषय: प्रकाशीभूत:।  त्रय: युवका: रक्षिता:।  सेल्फीति स्वछायाचित्रं स्वीकरणसमये अनवधानतायाः कारणेन नौका जले निमज्जिता। अस्यां दुर्घटनायाम् अष्टादशतः सप्तविंशतिः  वयस्काः युवकाः  सम्मिलिता: आसन्।  प्राप्तसूचनानुसारेण नागपुरे पर्यटनाय आगत: युवसमूह: मंगरुडग्रामस्य पार्श्वेस्थितायां वेनानद्यां भ्रमणाय गतवान् आसीत्।  नौकायां ते स्वछायाचित्रं स्वीकुर्वन्त: आसन्, युवानः नौकायाः एकस्मिन्नेव भागे स्थिताः इत्यतः नौका जले निमज्जिता।
असमराज्ये साहाय्योद्धारकार्यं प्रचलति
असमराज्ये जलौघस्य स्थितिः गभीरा वर्तते। ब्रह्मपुत्रनद्याः जलस्तरं पञ्चस्थानेषु संकटचिह्नादुपरि समागतम् । वार्ता स्रोतोभिः विज्ञायते यत् राज्यस्य चतुर्विंशतिः जनपदानां प्रायः सप्तदशलक्षाधिकजनाः जलौघेन प्रभाविताः सन्ति । राष्ट्रियापन्मोचनबलेन राज्यापन्मोचनबलेन  आरक्षिबलेन च सप्तजनपदेषु भूयोSपि सार्धद्विसहस्रजनाः सुरक्षितस्थानेषु समानीताः ।
    मुख्यमंत्रिणा सर्वानन्दसोनोवालेन गतदिने सर्वाधिकप्रभावितस्य  मजूली क्षेत्रस्य  सहाय्योद्धारशिबिरेषु जनैः सह मेलनं कृतम् । अत्रान्तरे
केन्‍द्रीयगृहराज्‍यमंत्रिणः किरेणरिजीजोः नेतृत्वे उच्‍चस्‍तरीयकेन्‍द्रीयदलं पूर्वोत्‍तरस्य जलौघेन प्रभावितक्षेत्रेषु साहाय्योद्धारकार्याणां समीक्षा करिष्यति । प्रधानमंत्रिणा नरेन्द्रमोदिना प्रकरणेस्मिन् दु:खं प्रकटयता केन्‍दप्रशासनस्य सकलं संभाव्यसाहाय्यं समाश्वासितम्
शत्रुः इदानीं हस्तग्राह्यः। चैनां लक्ष्यीकृत्य मिसैल् निर्माणे भारतम्।
वाषिड्टण् > सीमाक्षेत्रेषु चैनायाः भीषाः वर्धमाने सन्दर्भे तां भीषां अवरोद्धुं मिसैल् तन्त्रेण भारतम्। दक्षणभारतस्य विक्षेपणस्थानेभ्यः चैनां पूर्णतया परिधौ आनेतुं सहायकं मिसैल् निर्माणे अस्ति। यु एस् तः प्रसिद्धीकृतं आफ्टर मिट्नैट् मध्ये प्रसिद्धीकृते लेखे आणवकुशलैः एवं व्यक्तीकृतम्। भारतस्य आणवप्रतिरोधः प्रधानतया पाक्किस्थानं केन्द्रीकृत्य रूपीकृतमपि वर्तमानायां अवस्थायां चैनां लक्ष्यीकृत्य आणवसंविधानस्य आधुनीकरणप्रयत्ने एवास्ति भारतम् इति लेखनद्वारा व्यक्तीकरोति।
१५० तः २०० पर्यन्तं अणुवायुधानां निर्माणाय आवश्यकं प्लूट्टोणियं सकाशे अस्ति चेदपि भारतेन केवलं १२०-१३० अणुवायुधानां निर्माणमेव कृतं स्यादिति इति इण्टियन् न्यूक्लियर् फोर्सस् इति लेखने  वदति। एतत् सर्वं चैनां लक्ष्यीकृत्य अस्ति। इदानीं सप्त आणवसंविधानानां निर्माणं भारतेन क्रियते। द्वौ विमानं , पृथ्वीतः विक्षेपणयोग्यानि चत्वारि बालिस्टिक् मिसैल् शस्त्राणि , समुद्रात् विक्षेप्तुं योग्यं एकं बालिस्टिक् मिसैल् शस्त्रं च भारतेन निर्मीयते।

Thursday, July 13, 2017

गोपालकृष्णगान्धी संयुक्तविपक्षदलानां उपराष्ट्रपति स्थानाशी।
नवदिल्ली>महात्मागान्धिनः पौत्रः  वङ्गराज्यस्य भूतपूर्वः राज्यपालश्च गोपालकृष्णगान्धी विपक्षदलानां पूर्णसहयोगेन उपराष्ट्रपतिस्थानाशी भविष्यति। बीहारराज्यस्य शासनदलस्य जे डि यू दलस्यापि सहयोगः तस्मै लभते।
    महात्मागान्धिनः पुत्रस्य देवदासगान्धिनः सि राजगोपालाचारिवर्यस्य सुतायाः लक्ष्म्याश्च पुत्रः गोपालकृष्णगान्धी १९४५तमे संवत्सरे जनिमलभत। भारतीय प्रशासन सेवायां [ऐ ए एस्] तमिल् नाट् विभागस्य अङ्गः आसीदयं नैकानि उन्नतस्थानानि अलङ्कृतवान्। श्रीलङ्का, दक्षिणाफ्रिक्का, नोर्वे इत्येतेषु राष्ट्रेषु भारतस्थानपतिरासीत्। यदा के आर् नारायणः राष्ट्रपतिरासीत् तदा तस्य सचिव आसीत्। स्वतन्त्रचिन्तकः अयं विद्वन्मण्डले/पि श्रद्धेयः अस्ति।
    उपराष्ट्रपतिनिर्वाचनं ओगस्ट् पञ्चमदिनाङ्के भविष्यति।
सौदीराष्ट्रे नज़् रानिल् प्रदेशे अग्निबाधा। भारतीयैसह ११ जनाः मृताः
रियाद् > सौदिराष्ट्रे दुरापन्नाया अग्निबाधाया एकादश जनाः मृताः। मृतेषु भारतीयाः बग्लादेशिनः च वर्तन्ते। षट्जनाः व्रणिताः चI बुधवासरे प्रभातात् पूर्वं चतुर्वादने एव अग्निबाधा अभवत्। गवाक्षरहित प्रकोष्टे एव एताः उषितवन्तः। व्रणिताः षष्टाः अतुरालयं प्रविष्टाः।  दुर्ब सार्वजनिन आतुरालयः,  किङ्ङ् खालिद्‌ आतुरालयः च व्रणितानां शिश्रूषां कुर्वतः।  मृतदेहाः अपि  ताभ्यां पालिताः।
भीकरान् तीव्राघातेन चूर्णीकर्तुं सुरक्षासेनायै केन्द्रसर्वकारस्य आदेशः
          श्रीनगरम् > अमरनाथ तीर्थाटकाः गोलिकाप्रहारैः हन्तुं उद्यताः केचन मृताः, इतरे केचन व्रणिताः इत्यस्य आधारेण जम्मू काश्मीरे  भीकरान् विरुद्ध्य सत्वरं प्रतिक्रियां कर्तुं तान् सुदृढं मर्दयितुं च केन्द्रसर्वकारेण सुरक्षासेना निर्दिष्टा। केन्द्रमन्त्रिणौ जितेन्द्र सिंहः तथा हंसराज आहिरः च जम्मु मध्ये कार्यान्वेषणाय वासं कुर्वन्तौ स्तः। मुख्यमन्त्रिणी मेहबूबा मुफ्त्ति, राज्यपालः एन् एन् वोरा, सेनाध्यक्षः बिपिन् रावत् सी आर् पी एफ् डि जि पि- आर् आर् भटनागर प्रभृतीनां मिथः भाषणं कृतवन्तौ।
          जम्मू-काश्मीरे भीकारान्दोलनम्  एतस्य अन्तिमदशायां भवति।  दिनाभ्यन्तरेण मासाभ्यन्तरेण वा भीकरान् नूनं निर्मार्जयिष्यति इति जितेन्द्र सिंहेन उक्तम्।  जम्मू कश्मीरदेशः भारतस्य सुप्रधानं स्थानं भवति। भीकरान् निराकर्तुं जनाः सुरक्षासेनया सह सहवर्तन्ताम् इति च महोदयेन उक्तम्।

Wednesday, July 12, 2017

'कुसाट्' संस्थायाः अत्याधुनिकं तन्त्रिरहितस्पन्दिनीनिस्थानं (Radar station)राष्ट्राय समर्पितम्।
कोच्ची > यथातथं वातावरणप्रवचनं सुकरं कर्तुम् अत्याधुनिकं तन्त्रिरहितस्पन्दिनीनिस्थानं (Radar station) केन्द्रवैज्ञानिक साङ्केतिक विभागस्य मन्त्रिणा डो. हर्षवर्धनेन राष्ट्राय समर्पितम्। वातावरणव्यतियानं निगमयितुं तत् सुललितं यथासूक्ष्मं कर्तुं संविधानानि अत्र समायोजितानि।
    चक्रवातस्य आगमनं पूर्वमेव ज्ञातुं शक्यते। मेघानां सञ्चारमाधारीकृत्य वर्षस्य वातस्य च गतिं निर्णेतुं अनेन शक्यते।  उपग्रहस्य साहाय्यं विनैव रडार् केन्द्रस्य प्रवर्तनम्। पञ्चशतं (५००) किलोवाट्ट् शक्तियुक्तेन अनेन केन्द्रेण दक्षिणभारतराज्यानां पर्यावरणव्यतियानानि अभिज्ञातुं शक्यते।
* CUSAT कोच्ची वैज्ञानिक संकेतिक-विश्वविद्यालयः  
अमरनाथ तीर्थाटकान् सलीमः स्व मनस्थैर्येण रक्षितवान्।
श्रीनगरम्> अमरनाथ तीर्थाटकान् प्रति  भीकराक्रमणे जाते तीर्थाटकानां यानचालकस्य मनस्स्थैर्येण बृहद्दुरन्तं नापदितम्। सप्त यात्रिकाः भीकराक्रमणे हताः। क्षणे जाते आक्रमणे भीकराणां पुरतः वाहनं अतिशीघ्रम् धावयितुं चालकः सलीं गभूर भाईना कृता धीरता अन्येषां  ४९ यात्रिकाणां जीवरक्षा अकारयत्। घनान्धकारे भीकराणां दृष्टिपथात् तीर्थाटकान् व्यूढं यानं समीपस्थम् आतुरालयं प्रति सलीं अतिशीघ्रम् अचालयत्। भीकराणां गोलिकाक्रमणेन विंशति तीर्थाटकाः व्रणिताः। सलीमस्य समयोचितेन हस्तक्षेपेन वयमधुना जीवामः इति तीर्थाटकाः अवदन्। सलीमः सप्तजनान् रक्षितुं न प्रभवति, किन्तु अन्यान् सुरक्षिते स्थाने आनेतुं सः समर्थः अभवदिति अभिमानार्हः इति सहेदरः जावेदः अवदत्। भीकराक्रमणेन द्वौ तीर्थाटकौ संभवस्थाने एव मृतौ। क्षतबाधिताः चत्वारिआतुरालये च मृताः।
 पुत्री यानचालनं अकरोत्। माता आरक्षकैः बन्धिता।
हुस्टण् (यू एस्) > पञ्च विंशति वयस्का माता एकदशवयस्कायै पुत्र्यै: यान-चालनाय अनुज्ञा दत्ता इत्यनेन कारागारे बन्धिता अभवत्। गते शुक्रवासरे एव सन्दर्भः जातः। एकादश वयस्का बालिका दशवयस्केन सोदरेण सह आसीत् यानचालनम् इत्यतः प्रमादः द्विगुणीभूतः  जात:।
जवेन गम्यमाने  याने बलिका बालकयो: भिन्नः कोऽपि नास्ति इति दृष्ट्वा आरक्षकै: पश्चात् अनुगम्य निवारितौ।  गृहात् दूरतः सोदरं आनेतुं यानचलनाय अनुज्ञा मात्रा दत्ता।  आरक्षकैः माता अपराधिनी इति ज्ञात्वा बन्धिता च।  यानचालनार्थं अनुज्ञापत्र प्राप्त्यर्थं पर्याप्तः वयः बालिकायैः नासीत्। तादृश्यै बालिकायै चालनार्थं यानं अदात् इति गुरुतरः अपराधः एव कृतः इति आरक्षकैः उक्तम्।

Tuesday, July 11, 2017

पश्मिमबंगालस्य बशीरहाटस्थले दुरापादितं हिंसाचरणं विन्दनीयम् - अमर्त्यसेनः

कोलकत्ता >नोबेलपुरस्कारभाजः अमर्त्यसेनः बशीरहाटस्थाने साम्प्रदायिकहिंसां निन्दितवान। प्रख्यातार्थशास्त्रिणा अमर्त्यसेनेन प्रोक्तं यत् बंगालराज्यं साम्प्रदायिकसौहार्दस्य ऐतिह्यं सनधत्ते , तत्र साम्प्रदायिकहिंसा चिंताया: विषयः वर्तते , अस्माभि: एतस्या: घटनाया: मूलम्  अन्वेषणीयं घटनेयं दुर्विचार: प्रेरितावलोक्यते । पश्चिमबंगालराज्ये सदैव  हिन्दु-मुस्लिमानुयायिन: सौहार्देन निवसन्ति, अस्माभि: ध्यातव्यं यत्  यदेतादृशघटना: पुन: न भवेयु:।
ज्योतिषप्रतिभापुरस्कारेण डा. ईश्वरः सम्मानितः ।
     के वि कूञ्ञिरामस्मारकः ज्योतिषप्रतिभापुरस्कारेण डा ईश्वरः सम्मानितः। 5001 रू प्रशस्तिपत्रम् च  भवति अयं पुरस्कारः। संस्कृत-ज्योतिषमण्डले ईश्वरमहोदयेन कृतानां कर्मणां निमित्तमस्ति अयं पुरस्कारः ।
 
     महोदयोयम् तिरुवनंतपुरम् राजकीय-संस्कृत-महाविद्यालये आचार्यः अस्ति। विश्वसंस्कृत-प्रतिष्ठानस्य (संस्कृतभारती) शिक्षणविभागप्रमुखः अपि अयं महाशयः वातावरणशास्त्रे एव अनुसन्धानम् कृतवान्।  प्रबन्धसंग्रहः अमरःकोशः कृषिपराशरव्याख्या तत्वोपदेशव्याख्या इत्यादिग्रन्थानां पञ्चाशदधिकलेखानां च कर्तापि भवति डा ईश्वरः।
       वर्षत्रयाभ्यन्तरे एकवारमेव ज्योतिषप्रतिभापुरस्कारः दीयते।   ⁠⁠⁠सम्प्रतिवार्तायाः सम्पादकमण्डले अङ्गम् अस्ति डा ईश्वरः।

Monday, July 10, 2017

भारताय चरित्रविजयः। 
भुवनेश्वर् > कलिङ्गयुद्धभूमौ भारताय अन्यः चरित्रविजयः।  एष्यायाः कायिकप्रतिभासङ्गमे [एष्यन् अत्लटिक् मीट्] इदंप्रथमतया भारताय प्रथमं स्थानम्।  प्रथमदिनादारभ्य अनुवर्तितम् अग्रगामित्वम् अन्तिमदिनं यावत् परिपाल्य भारतं द्वादश सुवर्णानि , पञ्च रजतानि, द्वादश कांस्यानि च लब्ध्वा एव प्रथमस्थानं प्राप्तवत्।  अन्तिमदिने भारतेन ५ सुवर्णानि, एकं रजतं, ३ कांस्यानि च प्राप्तानि।
     अष्ट, सप्त, पञ्च इति क्रमेण सुवर्ण रजत कांस्यपतकानि प्राप्य चीना द्वितीयस्थानं प्राप्रवती।  गतेषु १७ वारेष्वपि प्रथमस्थानं प्राप्तस्य चीनाराष्ट्रस्य सर्वाधिपत्यमेव अधुना भारतेन भञ्जितम्।  आगामी कायिकप्रतिभासङ्गमः २०१९तमे संवत्सरे दोहायां प्रचलिष्यति।
आर्थिकविकासे भारतं चैनाम् अतिक्रमिष्यते इति पठनम्।।
        नवदिल्ली>लोके एव अतिबृहती आर्थिकशक्ति: स्यात् भारतमिति पठनम्।  हार्वार्ड् सर्वकलाशालया कृते पठने एव आर्थिकविकासे भारतं चैनाम् अतिक्रमिष्यते इति सूचयति।  पञ्चविंशत्युत्तरद्विसहस्रतमे अतिवेगेन विकासं प्राप्यमाणासु आर्थिकशक्तिषु  भारतम् प्रथमस्थानम् प्राप्नुयादिति पठने सूच्यते।  राष्ट्रस्य मध्य स्थायीवार्षिकविकास: सप्त दशांशं सप्त प्रतिशतं च स्यादिति पठने व्यक्तीक्रियते।
 टोक्लामे स्थितिं दृढीकृत्य भारतीयसेना।
     
 नवदेहली> सीमाप्रदेशात् टोक्लामात् समीपभविष्ये सेनां न प्रत्याह्वयतीति भारतीयसेना। सेनायाः कृते अवश्यवस्तूनि झटित्येव प्रेषयतीति अपि सूचनाअस्ति। सेनायाः दीर्घकालं उषितुं योग्यानि पटगृहाणि निर्मितुमपि पद्धतिः अस्ति।
         संघर्षं प्रचलति चेत् सेनामार्गं अन्वेषणीयमिति गतदिने चैना भीषां दत्तमासीत्। किन्तु एतत् पुरातनं भारतं नास्तीति भारतेन उक्तम्। सीमायां  सेनायाः शक्तं स्वाधीनं एतेन भारतं व्यक्तीकरोति।
         भारतं भूट्टानः चैना च सीमां विभज्य शासनं कृते टोक्लामक्षेत्रे चैनायाः भारतस्य च सेनाः अभिमुखं तिष्ठन्ति। सीमाप्रदेशे वीथीं निर्मीय तीर्थाटकान् अवरुध्य च चैना प्रकोपनं सृजति। तेन समस्या सङ्कीर्णा जाता। तेषां आक्रमणेन भारतेन सेनाविन्यासं शक्तं कृतम्
वन्दे मातरगीते जीवितसमस्यायां संजातायां युवकः न्यायालयम् उपगतः।
     
 चेन्नै>बंकिंचन्द्रचाट्टर्जिना वन्दे मातरगीतम् विरचय्य शतकद्वयं पूर्णमभवत्। किन्तु रचितं कस्यां भाषायामिति स्पष्टीकर्तुं मद्रासोच्चन्यायालयम् उपगतवान् के. वीरमणि इति नामधेयः शिक्षाशास्त्रिच्छात्रः। युवकेन पृष्टे संशये साधूत्तरं ज्ञातुं न्यायालयेन राज्यस्तरीयमहान्यायवादी नियुक्तः।
       चिरकालप्रतीक्षमाणः सर्वकारीयोद्योगः अनेन प्रश्नेनैव नष्टः सञ्जातः। परीक्षायोग्यतायै नवत्यंकेषु आवश्यकेषु सत्सु वन्दे मातरगीतभाषा केति  प्रश्नस्य बंगाली इतिअसाधूत्तरलेखनेन नवाशीत्यंकाः एव लब्धाः आसन्। परन्तु तेन पठितेषु पुस्तकेषु बंगाली इत्युत्तरे सति मूल्यनिर्णयदोषत्वात् तस्य उद्योगावसरः नष्टः अभवदिति न्यायालयं गतवान्। बंगालीसंस्कृतभाषाभ्याम् एव गीतमिदं विरचितमिति वादिनः न्यायवादिनः वादे सति आदौ संस्कृतेन विरचितं पश्तात् बंगालीभाषायाम् अनूदितमिति सर्वकारपक्षन्यायवादी न्यायालयम् व्यज्ञापयत्।  अन्ते साधूत्तरं ज्ञातुं न्यायालयः राज्यस्तरीयमहान्यायवादिनं नियोजयति स्म। 
साधूत्तरं जूलैमासस्य एकादशदिनांकात् पूर्वं ज्ञापयितुं निरदिशत्।  द्वाभ्यां भाषायां रचितमिति प्रायेण सर्वेषु पुस्तकेषु दृश्यते। आनन्दमठमिति आख्यायिकायाः भागः एवेयं कविता संस्कृतभाषया बंगालीलिप्यां लिखितेति सामान्येन उच्यते।

Sunday, July 9, 2017

संयुक्तराष्ट्रपरिषदि परमाणु-अस्त्रेषु प्रतिबन्धप्रस्ताव: पारितः।
भारतेन उपवेशनं बहिष्कृतम् 

परमाणु- अस्त्रेषु प्रतिबन्धसबद्धप्रथमसन्धौ साहमत्यै संयुक्तराष्ट्रपरिषदि विंशत्यधिकदेशै: स्वीयमताधिकारः प्रयुक्तः, यद्यपि भारत-अमेरिका-चीन-पाकिस्तानसदृश परमाणुक्षमतासम्पन्नराष्ट्रै: परमाणु अस्त्रेषु प्रतिबंधस्थाने विध्यनुसारं बाध्यकारिव्यवस्थायै विहितवार्ता: बहिष्कृता:। परमाण्वस्त्रप्रतिबंधसंधेः निराकरणाय विध्यनुसारं बाध्यकारि एषा प्रथमा बहुपक्षीया व्यवस्थाSस्ति,  यस्यै विंशतिवर्षेभ्य: वार्ता: प्रचलन्ती आसीत्। एतदर्थं मतदानं शुक्रवासरे अभवत्, द्वविंशत्यधिकैकशतराष्ट्रै: पक्षे मतदानं कृतम् । नीदरलैंड्-देशेन विरोधमतं प्रकटितम् ,सिंगापुरदेशेन अस्मात्  दूरीकृता। भारत-अमेरिका-चीन-पाकिस्तान-रूस-उत्त्तरकोरिया-इस्राएल-सदृशैः परमाणुक्षमतासम्पन्नराष्ट्रै: सन्धेः बहिष्कारः कृतः।
.
परमाणु- अस्त्रेषुप्रतिबन्धस्थापनाय   विध्यनुसारं बाध्यकारि व्यवस्थायै अस्य वर्षस्य मार्चमासे एकं विशेषसत्रमायोजितम् आसीत्। सम्मेलस्य आयोजनाय गतवर्षे अक्टूबरमासे एकविंशत्यधिकैकोत्तरशत-राष्ट्रै: संयुक्तराष्ट्रमहासभायां मतदानं कृतमासीत्। भारतं अस्मात् दूरी आसीत् । भारतेन आत्मानं मतदानात् पृथक्कुर्वता स्पष्टीकृतं यत्  तस्य एतदर्थं सहमति: नास्ति, प्रस्तावितसम्मेलनं परमाणुनिरस्त्रीकरणाय समग्रव्यवस्थानिर्माणाय अंतराष्टीयसमुदायस्य अपेक्षां निर्वहेत् । 
भारतेन एतदपि प्रोक्तं यत् जिनेवायां समायोजितं निरस्त्रीकरण-सम्मेलनं निरस्त्रीकरणाय एकमात्र-बहुपक्षीयमंच: वर्तते | अपि चासौ परमाणु-अस्त्र सम्मेलनमधिकृत्य सी.डी इत्यत्र वार्तासम्पादनाय समर्थनं करोति।