OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 9, 2017

संयुक्तराष्ट्रपरिषदि परमाणु-अस्त्रेषु प्रतिबन्धप्रस्ताव: पारितः।
भारतेन उपवेशनं बहिष्कृतम् 

परमाणु- अस्त्रेषु प्रतिबन्धसबद्धप्रथमसन्धौ साहमत्यै संयुक्तराष्ट्रपरिषदि विंशत्यधिकदेशै: स्वीयमताधिकारः प्रयुक्तः, यद्यपि भारत-अमेरिका-चीन-पाकिस्तानसदृश परमाणुक्षमतासम्पन्नराष्ट्रै: परमाणु अस्त्रेषु प्रतिबंधस्थाने विध्यनुसारं बाध्यकारिव्यवस्थायै विहितवार्ता: बहिष्कृता:। परमाण्वस्त्रप्रतिबंधसंधेः निराकरणाय विध्यनुसारं बाध्यकारि एषा प्रथमा बहुपक्षीया व्यवस्थाSस्ति,  यस्यै विंशतिवर्षेभ्य: वार्ता: प्रचलन्ती आसीत्। एतदर्थं मतदानं शुक्रवासरे अभवत्, द्वविंशत्यधिकैकशतराष्ट्रै: पक्षे मतदानं कृतम् । नीदरलैंड्-देशेन विरोधमतं प्रकटितम् ,सिंगापुरदेशेन अस्मात्  दूरीकृता। भारत-अमेरिका-चीन-पाकिस्तान-रूस-उत्त्तरकोरिया-इस्राएल-सदृशैः परमाणुक्षमतासम्पन्नराष्ट्रै: सन्धेः बहिष्कारः कृतः।
.
परमाणु- अस्त्रेषुप्रतिबन्धस्थापनाय   विध्यनुसारं बाध्यकारि व्यवस्थायै अस्य वर्षस्य मार्चमासे एकं विशेषसत्रमायोजितम् आसीत्। सम्मेलस्य आयोजनाय गतवर्षे अक्टूबरमासे एकविंशत्यधिकैकोत्तरशत-राष्ट्रै: संयुक्तराष्ट्रमहासभायां मतदानं कृतमासीत्। भारतं अस्मात् दूरी आसीत् । भारतेन आत्मानं मतदानात् पृथक्कुर्वता स्पष्टीकृतं यत्  तस्य एतदर्थं सहमति: नास्ति, प्रस्तावितसम्मेलनं परमाणुनिरस्त्रीकरणाय समग्रव्यवस्थानिर्माणाय अंतराष्टीयसमुदायस्य अपेक्षां निर्वहेत् । 
भारतेन एतदपि प्रोक्तं यत् जिनेवायां समायोजितं निरस्त्रीकरण-सम्मेलनं निरस्त्रीकरणाय एकमात्र-बहुपक्षीयमंच: वर्तते | अपि चासौ परमाणु-अस्त्र सम्मेलनमधिकृत्य सी.डी इत्यत्र वार्तासम्पादनाय समर्थनं करोति।
मलालायाः विद्यालयीयशिक्षा समाप्ता। 
लण्टन् > बालिकानां शिक्षायै प्रयतिता इत्यतः गोलिकाप्रहारेण पीडितायाः पाकिस्थानबालिकायाः मलाला यूसफ् सायी नामिकायाः विद्यालयीयशिक्षाकालः समाप्तः।
   लण्टने बर्मिङ्हाम् प्रविश्यातः विद्यालयीयशिक्षां पूर्तीकृता मलाला ट्विटर् मध्ये एवं लिखितवती - "अद्य विद्यालये मम अन्तिमं दिनं, ट्विटर्मध्ये प्रथमं दिनं च।मम विद्यालयीयशैक्षिकदिनीनि मधुरकषाय सम्मिश्रितानि आसन्। लोके लक्षशः बालिकाः विद्यालयसैभाग्यम् अलभमानाः  वर्तमानाः सन्ति। तेषां कृते मम आन्दोलनम् अनुवर्तिष्यते।"
   पाकिस्थानस्य स्तात् अधित्यकायां बालिकानां शिक्षायै प्रवर्तिता इत्यतः तालिबान् भीकरैः मलाला भुषुण्डिप्रयोगविधेया अभवत्।
जी एस् टी मूल्यभेदं रेखाकरणं न कृतं चेत् कारागृहं धनदण्डः च।
           
नवदेहली>उत्पन्नसेवन करं ( जी एस् टी) आगमनानन्तरं आगतं मूल्यभेदं उत्पन्नानाम्  उपरि रेखाकरणं अनिवार्यता करणीयमिति केन्द्रसर्वकारः। मूल्यभेदस्य रेखया प्रदर्शनं न कृतम् चेत् एकलक्षं रूप्यकाणि धनदण्डः  अथवा कारागृहं वा लभ्येत इति केन्द्र उपभोक्तृकार्यमन्त्री रांविलास्  पास्वानः पूर्वसूचनां दत्तवान्। इदानीं तावत् समाहृतान् उत्पन्नान् मूल्यभेदं रेखीकृत्य सेप्तंबर मासाभ्यन्तरे व्ययीकरणीयः।
            जी एस् टी आगमेन केषाञ्चन उत्पन्नानां मूल्यं अवर्धयत् केषाञ्चन उत्पन्नानां मूल्यं न्यूनं च अजायत। अस्यां अवस्थायां समाहृतानां उत्पन्नानाम् उपरि मूल्यभेदं रेखाकरणं अनिवार्यता करणीयमिति उत्पादन-संस्थाः सर्वकारेण निर्दिष्टम्। निर्देशस्य प्रथमलंघने पादलक्षं रूप्यकाणां दण्डः द्वितीये, लंघने अर्धलक्षरूप्यकाणां दण्डः, पुनः लंघनाय एकलक्षरूपेयकाणां दण्डः  अथवा एकवर्षस्य कारागारवासः लभ्येत इति केन्द्रमन्द्रिणा उक्तम्।  जी एस् टी संबन्धीनि निवेदनानि परिगणितुम् उपभोक्तृकार्यमन्त्रालयस्य उपसमितिः रूपीकृता इति पास्वानः व्यक्तीकृतवान्।
आतङ्कवादं विरुद्ध्य राष्ट्राणाम् ऐकमत्यम् आवश्यकम्- नरेन्द्रमोदी।
हाम्बर्ग् [जर्मनी]>आतङ्कवादं विरुद्ध्य लोकराष्ट्राणि एकमनसा  प्रयतेरन् इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना "जि २० उच्चकोटि" सम्मेलने उद्बोधितम्। कानिचित् राष्ट्राणि स्वकीयराजनैतिकलाभार्थं भीकरवादं प्रोत्साहयन्ति, तादृशानि राष्ट्राणि विरुध्य जि २० राष्ट्रैः संयोजितपदक्षेपाः स्वीकरणीयाः इति तेन निर्दिष्टम्।
    लष्कर् ई त्वय्बा, जय्ष् ई मुहम्मद्,ऐ एस्, अल् क्वईदा इत्येषां संघटनानां नामानि भिन्नानि सन्त्यपि तेषां लक्ष्यम्  एकमेव। केवलं विद्वेष एव तेषां प्रचरणविषयः। मोदी अब्रवीत्। अतः भीकरवादं विरुद्ध्य युद्धं कर्तुं राष्ट्राणाम् अधिकः सहयोगः आवश्यकः इत्यपि मोदिना उक्तम्।
अमङ्गलं मङ्‌लग्रहः- मारकरासवस्तुभिः निर्भरः।

न्यूयोर्क् > मङ्गलग्रहम् अधिकृत्य इतः पर्यन्तम् विद्यमानाः ऊहापोहाः गणनादयाः स्थानान्तरमभवन्। जीवस्य साध्यता अस्तीति अस्माकं चिन्तनात् भिन्नं नूतनं सत्यदर्शनमभवत्।  सर्वान् जीवानपि नाशंकर्तुंशक्तं रासवस्तुभिः निर्भरम् इति अनुसन्धानस्य फलम्। इतोप्यधिकतया अल्ट्रा वयलट्ट किरणैः वलयितः च। मङ्गलग्रहतः आनीतेमृत्पिण्डेषु कृते अनुसन्धाने एव नूतनं दर्शनम्। पुरा जीवः आसीत् वा  इति ज्ञातुं मङ्गल-ग्रहोपरितले पञ्च षट् मीट्टर् यावत् गर्तं करणीयम्। ततः परं जीवः आसीत् वा इति प्रमाणं लब्स्यते।
।।कः भारतीयः? ।। 
गुरु पूर्णिमायाः शुभाशयाः
डा. राधाकृष्णः स्वतन्त्रभारतस्य द्वीतीयः राष्ट्रपतिः आसीत्।  सः विश्वविख्यातः दार्शनिकः अपि आसीत्। सः दार्शनिकविषयं तथा सरलतया बोधयति स्म यत् श्रोतारः आश्चर्यं अनुभवन्ति स्म। स्वतन्त्रतायाः पूर्वं एकदा डा. राधाकृष्णः प्रीतिभोजनस्य कार्यक्रमं गतवान्। तस्मिन् प्रीतिभोजने एकः आङ्ग्लः जनः अपि आसीत्। तत्र अवसरे आङ्ग्लजनः उक्तवान् वयम् आङ्ग्लजनाः  ईश्वरस्य प्रियाः स्मः। अस्माकं निर्माणम् ईश्वरः यत्नेन स्नेहेन च कृतवान्। अतः वयं गौरवर्णाः स्मः।  डा.राधाकृष्णः एतां गर्वोक्तिं श्रुत्वा अहसत्।  जनान् सम्बोधयन् उक्तवान् – “मित्रणि ! एकदा ईश्वरः रोटिकां पाचयितुम् इच्छां कृतवान्।  यदा रोटिकां कर्तुंम् उपाविशत् तदा प्रथमा रोटका किञ्चत् अपक्वा जाता।  परिणामतः अङ्ग्लेयजनानाम् उत्पत्तिः अभवत्।  द्वितीया रोटिका अधिकं परिपक्वा जाता । अतः नीग्रोजातीयाणाम् उत्पत्तिः अभवत्। तृतीयां रोटिकाम् ईश्वरः कृतवान् तदा न अधिकं न च न्यूनम्, समानरूपोण परिपक्वा जाता।  फलस्वरूपेण भारतीयजनानां जन्म अभवत्।  "डा. राधाकृष्णद्वारा भारतीयत्वस्य सरलां दार्शनिकीं परिभाषां श्रुत्वा आङ्ग्लजनः सलज्जः नतमस्तकः अभवत् ।
     सर्वे जनाः उन्मुक्तभावेन अहसन् ।
                                      ------अज्ञातकर्तृकः

Saturday, July 8, 2017

"एष्यन् अत्लटिक् चाम्प्यन्षिप्" -भारतस्य अग्रगामित्वम्।
                
भुवनेश्वर्> ओडीषायां कलिङ्गा क्रीडाङ्कणे सम्पद्यमानायाम्  एष्याभूखण्डस्य कायिकस्पर्धायां  पतकलब्धौ भारतम् अग्रे गच्छति।  ६ सुवर्णानि, ३ रजतानि, ६ कांस्यानीति क्रमेण भारताय आहत्य १५ पतकानि लब्धानि। सुवर्ण-रजत-कांस्यपतकानि यथाक्रमं ४-३-३ इति रीत्या प्राप्य चीनाराष्ट्रं द्वितीयस्थानमलङ्करोति। इरानः तृतीयस्थाने अस्ति।
    ह्यः भारताय सुवर्णवृष्टिः जाता। मुहम्मद् अनस् , पि यू चित्रा इत्येतौ केरलीयौ, निर्मला षियोरन् (हरियाना), अजयकुमारः सरोजः (उत्तरप्रदेशः) च भारतस्य कनकपतकलवकाः।
आतङ्कवादं विरुद्ध्य राष्ट्राणाम् ऐकमत्यम् आवश्यकम्- नरेन्द्रमोदी।
हाम्बर्ग् [जर्मनी] - आतङ्कवादं विरुद्ध्य लोकराष्ट्राणि एकमनसा  प्रयतेयुः इति भारतप्रधानमनत्रिणा नरेन्द्रमोदिना "जि २० उच्चकोटि" सम्मेलने उद्बोधितम्। कानिचित् राष्ट्राणि स्वकीयराजनैतिकतात्पर्याथं भीकरवादं प्रोत्साहयन्ति , तादृशानि राष्ट्राणि विरुध्य जि २० राष्ट्रैः संयोजितपदक्षेपाः स्वीकरणीयाः इति तेन निर्दिष्टम्।
    लष्कर् ई त्वय्बा , जय्ष् ई मुहम्मद् ,ऐ एस् , अल् क्वईदा इत्येषां संघटनानां नामानि भिन्नानि सन्त्यपि तेषां लक्ष्यः एक एव। केवलं विद्वेष एव तेषां प्रचरणविषयः। मोदी अब्रवीत्। अतः भीकरवादं विरुद्ध्य युद्धं कर्तुं राष्ट्राणाम् अधिकः सहयोगः आवश्यकः इत्यपि मोदिना उक्तम्।

Friday, July 7, 2017

ज्योतिषप्रतिभापुरस्कारः डा. ईश्वराय ।
      के वि कूञ्ञिरामस्मारकः ज्योतिषप्रतिभापुरस्कारः डा ईश्वरमहोदयाय। 5001 रू प्रशस्तिपत्रम् च  भवति अयं पुरस्कारः। संस्कृत-ज्योतिषमण्डले ईश्वरमहोदयेन कृतानां कर्मणां निमित्तमस्ति अयं पुरस्कारः इति संघाटकैरुक्तम्।
     महोदयोयम् तिरुवनंतपुरम् राजकीय-संस्कृत-महाविद्यालये आचार्यः अस्ति। विश्वसंस्कृत-प्रतिष्ठानस्य (संस्कृतभारती) शिक्षणविभागप्रमुखः अपि अयं महाशयः वातावरणशास्त्रे एव अनुसन्धानम् कृतवान्। पत्नी धन्या पुत्रौ केशवानन्दः वामनदेवश्च भवन्ति।  प्रबन्धसंग्रहः अमरःकोशः कृषिपराशरव्याख्या तत्वोपदेशव्याख्या इत्यादिग्रन्थानां पञ्चाशदधिकलेखानां च कर्तापि भवति डा ईश्वरः।
       वर्षत्रयाभ्यन्तरे एकवारमेव ज्योतिषप्रतिभापुरस्कारः दीयते।   ⁠⁠⁠सम्प्रतिवार्तायाः सम्पादकमण्डले अङ्गम् अस्ति डा ईश्वरः।
सुब्रतरॉयं विरुध्य उच्चतमन्यायालयस्य कठोरादेशः
नव दिल्ली>उच्चतमन्यायालयेन सहारा समवायप्रमुखः सुब्रतरॉयः अस्य मासस्य पञ्चदशदिनांकं यावत् सहारा-समवायाय द्विपञ्चाशदुत्तरपञ्चशत् कोटिरुप्यकाणि सम्प्रदातुं आदिष्टः। न्यायालयादेशस्य अवमाननायां एम्बी वैली इत्यस्य सघोषविक्रयप्रक्रिया प्रारप्यस्यते। ध्यानास्पदं वर्तते यत् प्रकरणेस्मिन् आगामिवादश्रवणं मासस्यास्य विंशतिदिनांके भविष्यति।
पलास्तिककूप्यः युष्माकं रुग्णाय भवेयुः।
         जलपानं स्वास्थ्यय उत्तममेव किन्तु पलास्तिक जलपानं क्रियते चेत्? सकृदुपयोक्तव्याः कूप्यः केचन असकृत् उपयुञ्जन्ति। किन्तु एषः शीलः मानवान् मानवान् रागिणः कारयति।

       ड्रेड्मिल् रिव्यूसेन कृतस्य पठनफलं गौरवतरं भवति। एकवारं निरन्तरतया एकेन कायिकतारेण उपयुज्यमानां कूपीं परीक्षणशालायां परीक्षिता। तदानीं एकसेण्डीमीट्टर चतुरस्रे नवलक्षं बाक्टीरिया नाम कीटाणवः परीक्षणे दृष्टाः। एकस्य शौचकूपासने वर्तमान बाक्टीरिय संख्यायाः अधिका इयं संख्या। तत्र दृष्टाः षष्ठि प्रतिशतं बाक्टीरियाः मानवान् रोगिणः कारयन्ति। पलास्तिककूप्यः निर्मातुं बिस्फेनोलिति रासवस्तुः उपयुज्यते। एतत् लैंगिक होरमेण् इत्यस्य प्रवर्तनान् बाधते। पलास्तिक कूपीषु अन्तर्गतानि रासवस्तूनि मानवशरीरस्य संपूर्णं प्रवर्तनं बाधन्ते।

        बिस्फेनोल् ए (BPA) अन्तः स्रावि ग्रन्थीन् बाधते। स्तनार्बुदं , हृद्रोगं , जनितक विकलताः इत्यादीनां बी पी ए हेतुः भवेदिति रिव्यू वदति।  अरोगी भवितुं किं कर्तव्यम्? समाधानं ललितं भवति। एतादृश कूप्यः पुनः पुनः न उपयोक्तव्याः। एकवारं जलपानानन्तरं रीसैक्किल् करणीयः। बी पी ए रहित पलास्तिक कूप्यः विक्रेतुं श्रमः करणीयः। पलास्तिककूप्यां स्थाने अयसा निर्मितपात्राणां अथवा स्फटिक कूप्याः उपयोगः करणीयः।

काश्मीरे जि एस् टी अङ्गीकृतम्।
श्रीनगरम्>जम्मु-काश्मीर् विधानसभया पण्यसेवनकरदेयकम् अङ्गीकृतम्। विपक्षसामाजिकानां कोलाहलमध्ये राज्यस्य वित्तमन्त्रिणा हसीब् द्राबुना देयकम् अवतीर्णं अङ्गीकारः प्राप्तवत् च। नूतनं जि एस् टि देयकम् अङ्गीकृतम् अन्तिमं राज्यमस्ति जम्मू-काशमीरः। राष्ट्रे  असमराज्येनैव जि एस् टि प्रथमतया अङ्गीकृतम्।.

खत्तरं विरुद्ध्य उपरोधः अनुवर्तिष्यते।
दुबई> उपरोधनिरसनाय समर्पितान् उपाधीन् प्रति खत्तर् राष्ट्रस्य प्रतिकरणं निराशाजनकमिति सऊदि अरेब्यया सख्यराष्ट्रैश्च निगदितम्। अतः खत्तरं प्रति उपरोधः अनुवर्तिष्यते। सौदीदेशस्य नेतृत्वे चतुर्णाम् अरबदेशानां विदेशकार्यमन्त्रिणः ईजिप्तस्य केय्रोनगरे कृते उपवेशने एवायं निर्णयः।




Thursday, July 6, 2017

भारतइस्रयेलस्य मध्ये सप्तसन्धयः
प्रधानमंत्रिणः नरेन्द्रमोदिनः इस्रजेल्यात्रायाः द्वितीये दिवसे देशद्वयस्य मिथः कृषि-विज्ञान-प्रौद्यौगिकी-अन्तरिक्ष-जलप्रबंधनं चेति विषयेषु सप्तसन्धयः हस्ताक्षरिताः, श्रीमोदिना तत्रत्यः प्रधानमन्त्री नेतान्याहूमहोदयः सपरिवारः  भारतं प्रति त्मन्त्रितः, इस्रजेल्देशस्य राष्ट्रपतिना रुवेनरिवलिनेन अपि मोदिना सह सम्भाषणं विहितम्, उभयोर्मिथः द्विपक्षीय-सम्बन्धान् द्रढयितुं परिचर्चा जाता | प्रधानमंत्री नरेन्द्रमोदी अब्रवीत् यत् आतंकवादः उभाभ्यां देशाभ्यां चिन्तनीयः विषयः वर्तते, अपि चोक्तं यत् अातंकवादस्य निराकरणाय सम्भूय कार्याचरणस्य अावश्यकता वर्तते | इस्रजेल्देशस्य प्रधानमंत्री बेंजामिनः प्रोक्तवान् यत् देशद्वये महती प्रतिभा वर्तते |
अरुणाचल प्रदेशे अन्तर्धानं प्राप्तस्य एकाक्ष विमानस्य अवशिष्टानि दृष्टानि।
इट्टानगरम् > सविशदं कृते अन्वेषणे युपिया जनपदस्थे वन प्रदेशेषु एव एकाक्ष विमानस्य (Helicopter) अवशिष्टनि दृष्टानि। किन्तु तस्मिन् आसीनम् आरक्षकम् अधिकृत्य इतःपर्यन्तं किमपि न ज्ञायते। आरक्षकेन सह त्रयः जनाः तस्मिन् आसीत् इति अन्वेषण सङ्घेन उक्तम्। पापम्परे जनपदे सगली नाम प्रदेशे जातायां मृत्पाते बन्धितान् ततः विमोक्तुम् उद्दिश्य विमानेन गतवन्तः आसीत् ते। सोमवासरे सलीगातः उड्डयनानन्तरं बन्धं विनष्टमभवत् इति व्योम से नया उक्तम्॥

Wednesday, July 5, 2017

इस्रयेले मोदिने हृद्यं स्वीकरणम्। 
टेल् अवीव् >भारतप्रधानमन्त्री नरेन्द्रमोदी इस्रयेल् देशं प्राप्तवान्। इस्रयेल् सन्दर्शनं कुर्वन् प्रथमः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी।ह्यः सायं राजधानीं टेल् अवीव् प्राप्ताय मोदिने आतिथ्याचारसंहिताम् [protocol] अतिक्रम्य इस्रायेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहुवर्यः टेल् अवीव् विमाननिलयं प्रत्यक्षं सम्प्रप्य हार्द्दिकं स्वीकरणं समर्पितवान्।
    भारतस्य देशीयगानस्य अनुचरणेनैव स्वीकरणं कृतम्। "इस्रयेल् सन्दर्शनं कुर्वन् प्रथमप्रधानमन्त्री भवान् अस्माकं यथातथः सुहृत् भवति।  वयं भारते स्निह्यामः" मोदिने स्वागतं व्याहरन् नेतन्याहुः उक्तवान्।
   अमेरिक्काराष्ट्रपतये मार्पापावर्याय च समानं स्वीकरणमेव मोदिने अपि दातुं सज्जीकृतमिति पूर्वमेव इस्रयेल् अधिकारिभिः स्पष्टीकृतमासीत्।
इन्डोनेष्यायां उदग्रयानं विशीर्य अष्ट मरणानि। 
जक्कार्ता - इन्डोनेष्यादेशे विस्फोटिताग्निपर्वतस्य समीपम् अधिवसतां रक्षितुं यतमानम् उदग्रयानं विशीर्य अष्ट जनाः मृताः। मध्यजावाप्रविश्यायां तमाङ् गुङ् जनपदे बुट्टक् पर्वतस्य शिलाखण्डेन सह घट्टनेनैव उदग्रयानस्य भग्नः अभवत्
    दियङ् प्लेटो नामके विनोदकेन्द्रे वर्तमानस्य अग्निपर्वतस्य विस्फोटनेन दश जनाः व्रणिताः आसन्। ततः जनान् अपाकर्तुं यतमानमासीत् उदग्रयानम्। चत्वारः नाविकाः चत्वारः रक्षाप्रवर्तकाश्च याने आसन्।
उत्तराखण्डे मेघविस्फोटनम्।
डराडूण् > उत्तराखण्ड राज्यस्य पिथोरागढ जनपदे मेघविस्फोटनं सञ्जातम्। जीवहानेः वृत्तान्तः न सूच्यते। किन्तु दुर्घटनासाध्यतां परिगण्य जनाः सुरक्षितस्थानं नीताः। रविवासरादारभ्य प्रदेशे अतिवृष्टिः अनुवर्तते।
तमिल्नाटुराज्ये चलच्चित्रशालाः पिहिताः। 
चेन्नै > पण्य-सेवनकरव्यवस्थामतिरिच्य ३०% प्रादेशिकशुल्कस्यापि निवेशनं प्रतिषिध्य ह्यः आरभ्य तमिल् नाट् राज्यस्थाः सहस्राधिकाः  चलनचित्रशालाः पिहिताः। किन्तु अयं प्रतिषेधः न सर्वकारं लक्ष्यीकृत्य परं करद्वयसमर्पणाय आयाभावादिति चलच्चित्रनिर्माण-वितरणसंस्थायाः नेतारः उक्तवन्तः।