OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, July 8, 2017

आतङ्कवादं विरुद्ध्य राष्ट्राणाम् ऐकमत्यम् आवश्यकम्- नरेन्द्रमोदी।
हाम्बर्ग् [जर्मनी] - आतङ्कवादं विरुद्ध्य लोकराष्ट्राणि एकमनसा  प्रयतेयुः इति भारतप्रधानमनत्रिणा नरेन्द्रमोदिना "जि २० उच्चकोटि" सम्मेलने उद्बोधितम्। कानिचित् राष्ट्राणि स्वकीयराजनैतिकतात्पर्याथं भीकरवादं प्रोत्साहयन्ति , तादृशानि राष्ट्राणि विरुध्य जि २० राष्ट्रैः संयोजितपदक्षेपाः स्वीकरणीयाः इति तेन निर्दिष्टम्।
    लष्कर् ई त्वय्बा , जय्ष् ई मुहम्मद् ,ऐ एस् , अल् क्वईदा इत्येषां संघटनानां नामानि भिन्नानि सन्त्यपि तेषां लक्ष्यः एक एव। केवलं विद्वेष एव तेषां प्रचरणविषयः। मोदी अब्रवीत्। अतः भीकरवादं विरुद्ध्य युद्धं कर्तुं राष्ट्राणाम् अधिकः सहयोगः आवश्यकः इत्यपि मोदिना उक्तम्।

Friday, July 7, 2017

ज्योतिषप्रतिभापुरस्कारः डा. ईश्वराय ।
      के वि कूञ्ञिरामस्मारकः ज्योतिषप्रतिभापुरस्कारः डा ईश्वरमहोदयाय। 5001 रू प्रशस्तिपत्रम् च  भवति अयं पुरस्कारः। संस्कृत-ज्योतिषमण्डले ईश्वरमहोदयेन कृतानां कर्मणां निमित्तमस्ति अयं पुरस्कारः इति संघाटकैरुक्तम्।
     महोदयोयम् तिरुवनंतपुरम् राजकीय-संस्कृत-महाविद्यालये आचार्यः अस्ति। विश्वसंस्कृत-प्रतिष्ठानस्य (संस्कृतभारती) शिक्षणविभागप्रमुखः अपि अयं महाशयः वातावरणशास्त्रे एव अनुसन्धानम् कृतवान्। पत्नी धन्या पुत्रौ केशवानन्दः वामनदेवश्च भवन्ति।  प्रबन्धसंग्रहः अमरःकोशः कृषिपराशरव्याख्या तत्वोपदेशव्याख्या इत्यादिग्रन्थानां पञ्चाशदधिकलेखानां च कर्तापि भवति डा ईश्वरः।
       वर्षत्रयाभ्यन्तरे एकवारमेव ज्योतिषप्रतिभापुरस्कारः दीयते।   ⁠⁠⁠सम्प्रतिवार्तायाः सम्पादकमण्डले अङ्गम् अस्ति डा ईश्वरः।
सुब्रतरॉयं विरुध्य उच्चतमन्यायालयस्य कठोरादेशः
नव दिल्ली>उच्चतमन्यायालयेन सहारा समवायप्रमुखः सुब्रतरॉयः अस्य मासस्य पञ्चदशदिनांकं यावत् सहारा-समवायाय द्विपञ्चाशदुत्तरपञ्चशत् कोटिरुप्यकाणि सम्प्रदातुं आदिष्टः। न्यायालयादेशस्य अवमाननायां एम्बी वैली इत्यस्य सघोषविक्रयप्रक्रिया प्रारप्यस्यते। ध्यानास्पदं वर्तते यत् प्रकरणेस्मिन् आगामिवादश्रवणं मासस्यास्य विंशतिदिनांके भविष्यति।
पलास्तिककूप्यः युष्माकं रुग्णाय भवेयुः।
         जलपानं स्वास्थ्यय उत्तममेव किन्तु पलास्तिक जलपानं क्रियते चेत्? सकृदुपयोक्तव्याः कूप्यः केचन असकृत् उपयुञ्जन्ति। किन्तु एषः शीलः मानवान् मानवान् रागिणः कारयति।

       ड्रेड्मिल् रिव्यूसेन कृतस्य पठनफलं गौरवतरं भवति। एकवारं निरन्तरतया एकेन कायिकतारेण उपयुज्यमानां कूपीं परीक्षणशालायां परीक्षिता। तदानीं एकसेण्डीमीट्टर चतुरस्रे नवलक्षं बाक्टीरिया नाम कीटाणवः परीक्षणे दृष्टाः। एकस्य शौचकूपासने वर्तमान बाक्टीरिय संख्यायाः अधिका इयं संख्या। तत्र दृष्टाः षष्ठि प्रतिशतं बाक्टीरियाः मानवान् रोगिणः कारयन्ति। पलास्तिककूप्यः निर्मातुं बिस्फेनोलिति रासवस्तुः उपयुज्यते। एतत् लैंगिक होरमेण् इत्यस्य प्रवर्तनान् बाधते। पलास्तिक कूपीषु अन्तर्गतानि रासवस्तूनि मानवशरीरस्य संपूर्णं प्रवर्तनं बाधन्ते।

        बिस्फेनोल् ए (BPA) अन्तः स्रावि ग्रन्थीन् बाधते। स्तनार्बुदं , हृद्रोगं , जनितक विकलताः इत्यादीनां बी पी ए हेतुः भवेदिति रिव्यू वदति।  अरोगी भवितुं किं कर्तव्यम्? समाधानं ललितं भवति। एतादृश कूप्यः पुनः पुनः न उपयोक्तव्याः। एकवारं जलपानानन्तरं रीसैक्किल् करणीयः। बी पी ए रहित पलास्तिक कूप्यः विक्रेतुं श्रमः करणीयः। पलास्तिककूप्यां स्थाने अयसा निर्मितपात्राणां अथवा स्फटिक कूप्याः उपयोगः करणीयः।

काश्मीरे जि एस् टी अङ्गीकृतम्।
श्रीनगरम्>जम्मु-काश्मीर् विधानसभया पण्यसेवनकरदेयकम् अङ्गीकृतम्। विपक्षसामाजिकानां कोलाहलमध्ये राज्यस्य वित्तमन्त्रिणा हसीब् द्राबुना देयकम् अवतीर्णं अङ्गीकारः प्राप्तवत् च। नूतनं जि एस् टि देयकम् अङ्गीकृतम् अन्तिमं राज्यमस्ति जम्मू-काशमीरः। राष्ट्रे  असमराज्येनैव जि एस् टि प्रथमतया अङ्गीकृतम्।.

खत्तरं विरुद्ध्य उपरोधः अनुवर्तिष्यते।
दुबई> उपरोधनिरसनाय समर्पितान् उपाधीन् प्रति खत्तर् राष्ट्रस्य प्रतिकरणं निराशाजनकमिति सऊदि अरेब्यया सख्यराष्ट्रैश्च निगदितम्। अतः खत्तरं प्रति उपरोधः अनुवर्तिष्यते। सौदीदेशस्य नेतृत्वे चतुर्णाम् अरबदेशानां विदेशकार्यमन्त्रिणः ईजिप्तस्य केय्रोनगरे कृते उपवेशने एवायं निर्णयः।




Thursday, July 6, 2017

भारतइस्रयेलस्य मध्ये सप्तसन्धयः
प्रधानमंत्रिणः नरेन्द्रमोदिनः इस्रजेल्यात्रायाः द्वितीये दिवसे देशद्वयस्य मिथः कृषि-विज्ञान-प्रौद्यौगिकी-अन्तरिक्ष-जलप्रबंधनं चेति विषयेषु सप्तसन्धयः हस्ताक्षरिताः, श्रीमोदिना तत्रत्यः प्रधानमन्त्री नेतान्याहूमहोदयः सपरिवारः  भारतं प्रति त्मन्त्रितः, इस्रजेल्देशस्य राष्ट्रपतिना रुवेनरिवलिनेन अपि मोदिना सह सम्भाषणं विहितम्, उभयोर्मिथः द्विपक्षीय-सम्बन्धान् द्रढयितुं परिचर्चा जाता | प्रधानमंत्री नरेन्द्रमोदी अब्रवीत् यत् आतंकवादः उभाभ्यां देशाभ्यां चिन्तनीयः विषयः वर्तते, अपि चोक्तं यत् अातंकवादस्य निराकरणाय सम्भूय कार्याचरणस्य अावश्यकता वर्तते | इस्रजेल्देशस्य प्रधानमंत्री बेंजामिनः प्रोक्तवान् यत् देशद्वये महती प्रतिभा वर्तते |
अरुणाचल प्रदेशे अन्तर्धानं प्राप्तस्य एकाक्ष विमानस्य अवशिष्टानि दृष्टानि।
इट्टानगरम् > सविशदं कृते अन्वेषणे युपिया जनपदस्थे वन प्रदेशेषु एव एकाक्ष विमानस्य (Helicopter) अवशिष्टनि दृष्टानि। किन्तु तस्मिन् आसीनम् आरक्षकम् अधिकृत्य इतःपर्यन्तं किमपि न ज्ञायते। आरक्षकेन सह त्रयः जनाः तस्मिन् आसीत् इति अन्वेषण सङ्घेन उक्तम्। पापम्परे जनपदे सगली नाम प्रदेशे जातायां मृत्पाते बन्धितान् ततः विमोक्तुम् उद्दिश्य विमानेन गतवन्तः आसीत् ते। सोमवासरे सलीगातः उड्डयनानन्तरं बन्धं विनष्टमभवत् इति व्योम से नया उक्तम्॥

Wednesday, July 5, 2017

इस्रयेले मोदिने हृद्यं स्वीकरणम्। 
टेल् अवीव् >भारतप्रधानमन्त्री नरेन्द्रमोदी इस्रयेल् देशं प्राप्तवान्। इस्रयेल् सन्दर्शनं कुर्वन् प्रथमः भारतप्रधानमन्त्री भवति नरेन्द्रमोदी।ह्यः सायं राजधानीं टेल् अवीव् प्राप्ताय मोदिने आतिथ्याचारसंहिताम् [protocol] अतिक्रम्य इस्रायेलस्य प्रधानमन्त्री बञ्चमिन् नेतन्याहुवर्यः टेल् अवीव् विमाननिलयं प्रत्यक्षं सम्प्रप्य हार्द्दिकं स्वीकरणं समर्पितवान्।
    भारतस्य देशीयगानस्य अनुचरणेनैव स्वीकरणं कृतम्। "इस्रयेल् सन्दर्शनं कुर्वन् प्रथमप्रधानमन्त्री भवान् अस्माकं यथातथः सुहृत् भवति।  वयं भारते स्निह्यामः" मोदिने स्वागतं व्याहरन् नेतन्याहुः उक्तवान्।
   अमेरिक्काराष्ट्रपतये मार्पापावर्याय च समानं स्वीकरणमेव मोदिने अपि दातुं सज्जीकृतमिति पूर्वमेव इस्रयेल् अधिकारिभिः स्पष्टीकृतमासीत्।
इन्डोनेष्यायां उदग्रयानं विशीर्य अष्ट मरणानि। 
जक्कार्ता - इन्डोनेष्यादेशे विस्फोटिताग्निपर्वतस्य समीपम् अधिवसतां रक्षितुं यतमानम् उदग्रयानं विशीर्य अष्ट जनाः मृताः। मध्यजावाप्रविश्यायां तमाङ् गुङ् जनपदे बुट्टक् पर्वतस्य शिलाखण्डेन सह घट्टनेनैव उदग्रयानस्य भग्नः अभवत्
    दियङ् प्लेटो नामके विनोदकेन्द्रे वर्तमानस्य अग्निपर्वतस्य विस्फोटनेन दश जनाः व्रणिताः आसन्। ततः जनान् अपाकर्तुं यतमानमासीत् उदग्रयानम्। चत्वारः नाविकाः चत्वारः रक्षाप्रवर्तकाश्च याने आसन्।
उत्तराखण्डे मेघविस्फोटनम्।
डराडूण् > उत्तराखण्ड राज्यस्य पिथोरागढ जनपदे मेघविस्फोटनं सञ्जातम्। जीवहानेः वृत्तान्तः न सूच्यते। किन्तु दुर्घटनासाध्यतां परिगण्य जनाः सुरक्षितस्थानं नीताः। रविवासरादारभ्य प्रदेशे अतिवृष्टिः अनुवर्तते।
तमिल्नाटुराज्ये चलच्चित्रशालाः पिहिताः। 
चेन्नै > पण्य-सेवनकरव्यवस्थामतिरिच्य ३०% प्रादेशिकशुल्कस्यापि निवेशनं प्रतिषिध्य ह्यः आरभ्य तमिल् नाट् राज्यस्थाः सहस्राधिकाः  चलनचित्रशालाः पिहिताः। किन्तु अयं प्रतिषेधः न सर्वकारं लक्ष्यीकृत्य परं करद्वयसमर्पणाय आयाभावादिति चलच्चित्रनिर्माण-वितरणसंस्थायाः नेतारः उक्तवन्तः।
एष्याभूखण्डस्य कायिकस्पर्धा अद्य समारभ्यते।
 भुवनेश्वरम्>एष्यायाः कायिकमेला [एष्यन् अत्लटिक् चाम्प्यन्षिप्] अद्य ओडीषाराज्ये भुवनेश्वरे समारभ्यते। मेलायाः औपचारिकम् उद्घाटनं कलिङ्गा क्रीडाङ्कणे अद्य सायं पञ्चवादने सम्पद्यते। स्पर्धाः श्वः आरप्स्यन्ते।  पञ्चचत्वारिंशत् राष्ट्रेभ्यः उपाष्टशतं कायिकताराः मेलायामस्यां स्पर्धिष्यन्ते। पुरुष-वनिताविभागेभ्यः ४२ विषयेषु स्पर्धाः सन्ति। प्रथमतया एव ओडीषा मेलायाः आतिथ्यं स्वीकरोति।
निर्झरीम् प्रति प्रकृतिस्नेहिभि: क्षिप्ता: द्वे दशांशम् पञ्च टण् मद्यकूप्य:।। 
मुम्बै>  मुम्बै मध्ये एकस्यां निर्झर्याम् मालिन्यनिर्मार्जनाय आगता: छात्रा: प्रदेशवासिनश्च स्तब्धा: अभवन्। निर्झरीत: एते द्वे दशांशम् पञ्च टण् मद्यकूपी: समाहृतवन्त:। सर्वाश्च सन्दर्शकै: क्षिप्ताश्च।  प्रकृतिस्नेहिन: कथम् प्रकृतिं दूषयन्ति इत्यस्य उत्तमोदाहरणम् एषा घटना। पारिस्थितिकजीवनम् (एन्वयोण्मेन्ट् लैफ्) इति सन्नद्धसंस्थाया: नेतृत्वे एव अषाने ग्रामे भीवपुरीनिर्झरीस्थानम् केन्द्रीकृत्य अष्ट निर्झर्य: शुचीकृता:। किन्तु निर्झर्यां विद्यमानानाम् मालिन्यानां केवलं दश प्रतिशतमेव समाहर्तुं शक्तवन्त: इति सन्नद्धसंस्थाया: प्रवर्तक: धरमेशबराई वदति।
EPISODE - 51Gokul R, St: Mary's UP School Thevara, Kochi -13

Tuesday, July 4, 2017

आधारकेन्द्राणि सर्वकार कर्यालयेषु नेतव्यानि।
नवदेहली>आधारकेन्द्राणि सप्तम्बर एकदिनाड्कादारभ्य सर्वकार कर्यालयेषु प्रवर्तनीयानि। आधारपत्रस्य प्रदानं नवीकरणं च अधिकारिणां साक्षात् निरीक्षणे भवितुं उद्दिश्य अस्ति एतत् निर्णयम्। आराष्ट्रं पञ्चविंशति सहस्रं आधारकेन्द्राणि सन्ति। आगस्त ३१ पूर्वं प्रक्रियाः यमाप्तव्याः इत्युक्त्वा यूणिक् ऐडण्टिफिक्केषन् अतोरिटि आफ् इण्डिया द्वारा  राज्यसर्वकारान् पत्रं प्रेषितम्।

जिल्ला कलक्ट्रेट् , जिल्ला पञ्चायत् कार्यालयः , राष्ट्रिय-शासनसंस्थानां कार्यालयः , आर्थिकालयाः इत्यादि राज्यसर्वकारस्य अधीने यस्मिन् कस्मिन्नपि कार्यालये प्रारब्धुं शक्यते इति  पत्रे वदति। आधारकेन्दराणि अवगन्तुं जनाः बहु क्लेशं अनुभवन्ति। अमितं शुल्कं स्वीक्रियतेति आवेदनमपि आगतम्। सर्वकारेतर संस्थाः नियन्त्रणं निबन्धनानां अलंघनाय साह्हाय्यं भवति। कार्यकरणं कृत्यतया निरीक्षतुं शक्यते। जनानां उपकाराय भवति । अधिकारिणः अवदन्।

सर्वकारकार्यालयानां परिधौ राज्यैः केन्द्राणि आरभ्भणीयानि। तत्र सर्वकारकर्मकरान् नियोक्तुं शक्यते। नो चेत् यु ऐ डी एफ् ऐ संस्थया सह मिलित्वा प्रवर्तितुं शक्यते। ब्लोक् तालूक् क्षेत्रेषु प्रारंभे केन्द्रत्रयस्य स्थापना करणीया। आवश्यकतां अनुसृत्य अनन्तरं अधिकानां स्थापना शक्यते। पान्पत्रस्य तथा विविधानां सर्वकारीय सेवानां कृते इदानीं आधारपत्रस्य अनिवार्यता वर्तते।

Monday, July 3, 2017

एय्म अक्षरमुद्रा पुरस्कारः के वि मेहनकुमाराय
चेन्नै> अखिलभारतमलयाली संघस्य (All India Malayalee Association- AIMA) एय्म पुरस्कारेण के वि मोहनकुमारः समादरिष्यति।  संघस्य द्वितीयः पुरस्कारः भवति अयम्।  उष्णराशिः नाम नवकथाग्रन्थस्य रचनायै एवायम् अङ्गीकारः। कथा, नवकथा, (Novel) बाल साहित्यम् इत्यस्मिन् मण्डलेषु अष्टादशग्रन्थाः प्रकाशिताः सन्ति।  शिल्पेन सह पञ्चविंशति सहस्रं धनराशिः प्रशस्तिपत्रं च पारितोषिकत्वेन दीयते इति एय्म संघस्य अध्यक्षेण गोकुलं गोपालेन उक्तम्। मोहन कुमारः इदानीं केरलसर्वकारस्य सार्वजनिन शिक्षानिर्देशकः(DPI)भवति।
युवानः कर्मदातारः भवन्तु - मन्त्री हर्षवर्धनः
अनन्तपुरी > अद्यतनः कर्मान्वेषकाः श्वस्तनः कर्मदातारः भवितव्याः इति केन्द्र-वैज्ञानिक-साङ्केतिक-मन्त्रिणा डॉ. हर्षवर्धनेन युवानः उपदिष्टः।  अनुकूलावस्था इदानीं जता अस्ति।  केन्द्र-कर्ममन्त्रालयः तथा कोच्ची सैन् चेम्बर् आफ् कोमेर्स च संयुक्ततया आयोजितायां कर्ममेलने भाषमाणः आसीत् सः।  कर्मान्वेषकाः कर्मसंरम्भकाः भवन्तु।  अपि च सहस्रेभ्यः युवकेभ्यः कर्मदायिनः भवन्तु।  केन्द्रसर्वकारेण अविष्कृते डिजिट्टल् इन्त्या, मेक् इन् इन्त्या, स्किल् इन्त्या आदयाः योजनाः एतदर्थं सहायकम् इति च तेन उक्तम्।  केन्द्र-कर्ममन्त्रालयस्य साह्येन कृता चतुर्दशतमा मेलेयम्।
अभयार्थिनः शिबिराणि अग्निबाधितानि। द्वाै मृतौ।
बेय् रूट्> लबनन् देशास्य बेक्का सानुप्रदेशे सिरियायाः अभयार्थिनः शिबिरे एव अग्निदुर्घटना जाता।  द्वौ मृतौ। षट् जनाः अग्निना व्रणिताः। एते समीपस्थे आतुरालये प्रविष्टाः।  रविवासरे एव दुरन्तः जातः।

इतोप्यधिकाः जनाः मृत्युवशं गन्तुं सन्दर्भः भविष्यति इति रोयिट्टरेण आवेदितम्। लबनराष्ट्रस्य राजधानीतः बेय्रुट्टतः एकघण्टा दैर्घ्यमस्ति क्वाब् एलियास् नगरं प्रति। तस्मिन् नगरपरिसरे आसीत् अभयार्थिनः बासशिबिराणि। शताधिकानि शिबिराणि अग्निबाधिधानि।  अत्र द्वयाधिकशतम् (१०२) कुटुम्बाः उषितवन्तः इति युणैट्टट् नेषन् है कम्मीषन् फोर् रेफ्यूजीस् अङ्गः डयानास्लीमान् महाभागा अवदत्।  आभ्यन्तरथुद्धस्य कारणेन पलायितेषु  सिरियाजनेषु दशलक्षं जनाः लबन् देशे सन्ति इति गण्यते।⁠⁠⁠⁠