OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, July 3, 2017

भारत-चीना सीमानं  प्रति अधिकाः सैनिकाः
नव दिल्ली > सिक्किम् राज्ये भारत-चीनयोः सीमनि सङ्घर्षः वर्धितः। सीमनि सैनिकविन्यासः शक्तं कर्तुं भारतेन निश्चितम्। द्विषष्ट्यधिक एकोनविंशतितमस्य (१९६२) वर्षस्य युद्धानन्तरम् इदानीमेव एतादृशी सङ्घर्षात्मिका दशा जाता। सीमनि भारतस्य भूप्रदेशं प्रति अतिक्राम्य प्रविष्टैः चीनासैनिकैः भारतस्य द्वौ सैनिकशिबिरौ भग्नौ। एतत् सैनिक-सुरक्षां वर्धयितुं भारतं प्रेरितम्। युद्धसमाना अवस्था इदानीं न जाता तथापि प्रतिरोद्धुं सज्जा अभवत् भारतसेना। शिबिरस्थानानि भारत-भूटानयोः न। तत् चीनायाः एव इति उक्त्वा आसीत् चीनायाः अतिक्रमणम्। २०१२ तमे दोलक्लै समीपस्थस्य लाल्टन् मध्ये भारतेन निर्मितौ द्वौ शिबिरौ स्थानान्तरं करणीयौ इति तैः निगतितम्। किन्तु भारतेन निरस्तमासीत्। तदा जूण् मासे चीनया शिबिरौ भाग्नौ च।

Sunday, July 2, 2017

केरले ई-मालिन्यसंस्करणयोजना समारभ्यते।
अनन्तपुरी> केरले विद्यालयेषु विद्यमानानि एककोटिकिलोपरिमितानि 'इलक्ट्रोणिक्' मालिन्यानि सम्भृत्य संस्क्रियमाणा परियोजना सर्वकारेण समारभ्यते इति मुख्यमन्त्री पिणरायी विजयः। ई-मालिन्यानि शास्त्रीयरीत्या निर्णीय पुनःचंक्रमणाय संस्करणाय च अवश्यानि क्रमीकरणानि सज्जीकर्तुं 'ऐ टि अट् स्कूल्' विभागस्य 'क्लीन् केरला' विभागस्य च संयुक्तयोजनायै सर्वकारेण अनुमतिः दत्तेति मुख्यमन्त्रिणा फेस्ब्क् द्वारा निगदितम्।
    इलक्ट्रोणिक् उपकरणेषु विद्यमानानि मेर्कुरि, लेड्, काड्मियं, बेरियं, बेरिलियम् इत्यादयः पदार्थाः मनुष्यशरीराय परिस्थितये च दोषाय वर्तन्ते इत्यतः तदन्तर्गतानि मालिन्यानि हैदराबादे विद्यमाने केन्द्रे शास्त्रियरीत्या संस्कर्तुमेव उद्दिष्टेति तेनोक्तम्।
दिल्ल्यां प्रतिशतं 75% सरणि चिह्नानि दोषयुक्तानि
नवदिल्ली>नव दिल्ल्यां मार्गेषु दोषपूर्णानि चिह्नानि विद्यन्ते येन विगतवर्षे 1622 जनाः मृताः, मृतकेषु 684 पथिकाः आसन्। इंस्टिट्यूट ऑफ रोड ट्रैफिक एजुकेशन (IRTE) इत्यस्यानुसारेण राजधान्यां 75% सरणिचिह्नानि IRC इत्यस्य निर्धारितमानकाधारितानि न सन्ति। अनेन दिल्ल्यां मुकरबा चौक अथ च  पीरागढ़ीचौक सर्वाधिकप्रभावितस्थलौ स्तः। गुरुग्रामस्य इफकोचौक इत्यत्र विगतवर्षे 365 जनाः मृत्युमुपगताः । IRTE इत्यनेन दिल्ल्यां 14 सरणीनां 85 किलोमीटरमितमार्गे  1514 चिह्नानि अवलोकितानि येषु 1098 चिह्नानि दोषपूर्णानि विद्यन्तेे।
केरलेपि जि एस् टी समारब्धम्, करायः प्रतिशतं विंशतिः वर्धिष्यन्ते इति वित्तमन्त्री।
कोच्ची > पण्य-सेवनकरे प्राबल्ये वर्तिते राज्यस्य करायः प्रतिसंवत्सरं २०% क्रमेण वृद्धिः भविष्यतीति केरलवित्तमन्त्रिणा डा. तोमस् ऐसक् वर्येण उक्तम्। जि एस् टि करव्यवस्थायाः राज्यस्तरीयोद्घाटनं कुर्वन् भाषमाणः आसीत् सः। चतुस्संवत्सराभ्य्यन्तरे केरलं राजस्वार्थिकलोपात् रक्षां प्राप्तुं शक्यतेति सः प्रतीक्षां प्राकटयत्।  जि एस् टी निर्णेतुम् उपयुज्यमानं "सोफ्ट् वेर्" केरलानां व्यापारिणां कृते मासद्वयाभ्यन्तरे निश्शुल्केन दास्यते इति डो़ तोमस् ऐसक्केन उक्तम्।
जी एस् टी सर्वेषां विजयः।
नवदेहली>सर्दार वल्लभाई पट्टेलेन कृतस्य भारतस्य एकीकरणमिव कृतं आर्थिकसंयोजनं भवति जी एस् टी इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। जी एस् टी सरला करग्रहणप्रक्रिया भवतीति सः अयोजयत्। लोकसभायाः केन्द्रप्रकोष्ठे आयोजिते जी एस् टी प्रख्यापन सम्मेलने भाषयन्नासीत् सः। जी एस् टी कृते good and simple tax इति निर्वचनं दत्वा आसीत् प्रधानमन्त्रिणः भाषणम्। विभिन्नानां करग्रहणरीतीनां क्लिष्टताः दोषाः च दूरीकर्तुं जी एस् टी प्रभवति इति सः उक्तवान्। नवीनस्य करग्रहणरीतेः  गुणफलानि गुणभोक्तृभ्यः विक्रेतारः दास्यन्तीति प्रतीक्षते। जी एस् टी न केवलं करपरिष्कारः अपि तु सहवर्त्तित्वात्मक जनाधिपत्यस्य निदर्शनमिति सः अवदत्।

जी एस् टी सर्वेषां विजयः भवति। अस्य प्रख्यापनाय लोकसभायाः केन्द्रप्रकोष्ठं अतीव उचितं स्थानमिति सः अवदत्। आरम्भकेलेशानि शीघ्रं परिहरणीयानि। तत्रैव विजयः इति राष्ट्रपतिना प्रणाब मुखर्जी महोदयेन अस्मारयत्।
जी एस् टी इत्यस्य आनयनेन जनाधिपत्यस्य पक्वता विवेकं च व्यक्तीकृते। अस्मिन् भागभाक् भवितुं वैय्यक्तिकं तोषं अनुभवामि। शासनरेखा भेदगति पत्रं प्रथमतया लोकसभायां मया एव प्रस्तुतीकृतमिति राष्ट्रपतिः अस्मारयत्।

Saturday, July 1, 2017

सी -१७ जट् विमानं भारताय विक्रेतुं पेण्डगणेन निर्णीतम्।
वाषिड्टण्> आधुनिकरीत्या निर्मितं बहुभारं वोढुं शक्तं च सी-१७ जट्विमानं भारताय विक्रेतुं यु एस् पेण्डगणेन निर्णीतम्। एतेन विनिमयेन व्योमयानक्षेत्रे भारतस्य उन्नतिः भविष्यतीति परिगणयति। सी-१७ यात्राविमानस्य ३६६.२ कोटि रुप्यकाणां मूल्यं भवति। अनेके आधुनिकविशेषताः विमाने सन्ति। अपायसूचनां दातुं सौविध्यानि , प्रत्याक्रमणक्रमीकरणानि च विमाने वर्तन्ते। अतिरिच्य आधुनिकाः वण् ऐडण्टिफिक्केषन् फ्रण्ड् , ड्रान्स् पोण्डर इत्यादि सौविध्ये विमाने सज्जीकृते स्तः। युद्धयात्राविमानक्षेत्रे तथा दुरिताश्वासक्षेत्रे च अस्य विमानस्य सेवां उपयोक्तुं शक्यते। सेनाक्षेत्रे विना क्लेशं विमानमेतत् उपयोक्तुं शक्यते। राष्ट्रयोः नयतन्त्रबन्धमाधारीकृत्य एषः  निर्णयः इति पेण्डगणेन व्यक्तीकृतम्।
महावृष्टि:, मृत्पात:पार्श्वयो: अमरनाथयात्रा स्थगिता।
  श्रीनगरम्> महावृष्ट्या पार्श्वयो: मृत्पातेन च अमरनाथयात्राया: तात्कालिकं स्थगनम्। वार्षिकतीर्थाटने आरब्धे तथा प्रथमदिने अतीते च मृत्पातेन यात्रा स्थगनीया अभवत्। अमरनाथम् प्रति मार्गयो: द्वयोरपि महती वृष्टि: तथैव मृत्पातश्च सञ्जात: इत्यत: यात्रा तात्कालिकं स्थगनीया इति श्री अमरनाथ श्रीन् बोर्ड् ( एस् ए एस् बी) उद्योगस्थ: सूचितवान्। वृष्ट्या मार्गे बहुत्र पदस्खलनमपि संवृत्तम्। बेय्स् क्याम्प् मध्ये विद्यमानतीर्थाटकानां कृते यात्राकार्याणि ज्ञातुं नियन्त्रणकक्ष्याम् प्रति एस् ए एस् बी द्वारा क्रमीकृतसहायशृङ्खलाम् प्रति वा सम्पर्क: कर्तुं शक्य: इत्यपि स: उक्तवान्। एतस्मिन्नन्तरे मृत्पातात् जम्मु- श्रीनगरदेशीयमार्ग: अपि पिहित:।
चैनासेना भारते अतिक्रम्य प्रविष्टा- विदेशकार्य-मन्त्रालयः।
नवदेहली- चैनासेना भारतस्य डोङ्लाङ् क्षेत्रे अतिक्रम्य प्रविष्टा इति भारतविदेशकार्यमन्त्रालयेन उक्तम्। एतत्सीमायां वर्तमानां अवस्थां भिन्नीकर्तुं गौरवतरान् सुरक्षाप्रत्याघातान् निर्मातुं  योग्यं च भवति। सिक्किं राज्यस्य डोङ्लाङ् क्षेत्रे वीथीं  निर्मातुं चैनायाः निर्णयः अत्यन्तं भीतिजनकः भवति।  संयमनं पालयितुं भारतेन
चैना अभ्यर्थिता। डोङ्लाङ् क्षेत्रे वीथीनिर्माणे मग्नः भविष्यति चेत् गौरवप्रत्याघातः भविष्यति इति भारतेन सूचना दत्ता।

Friday, June 30, 2017

राष्ट्रपतिनिर्वाचनं - द्वे विहाय सर्वाः पत्रिकाः निरस्ताः।
 राष्ट्रपतिनिर्वाचनार्थं समर्पिताः त्रिनवतिस्थानाशिनां नामनिर्देशपत्रिकाः सूक्ष्मपरिशोधनानन्तरं निरस्ताः। एन् डी ए स्थानाशी रामनाथकोविन्दः , संयुक्तविपक्षस्थानाशिनी मीराकुमारः इत्येतयोः पत्रिके एव साध्व्यौ अभवताम्। अन्येषां कृते राष्ट्रपतिस्थानाशिनं भवितुम् अावश्यकः जनप्रतिनिधीनां सहयोगः न लब्धः इत्यत एव ९३ पत्रिकाणां निरासस्य कारणम्।
श्वः आरभ्य भारते एकीकृतकरः।
नवदिल्ली > अद्य अर्धरात्रौ भारतसंसद्मन्दिरस्य सभामण्डपः अन्यस्मै चरित्रमुहूर्ताय साक्षीभूयते। एकराष्ट्रम् एकशुल्कम् इत्यस्य लक्ष्यस्य समारम्भः क्रियते तत्र।
     श्व आरभ्य भारतम् एकीकृतपण्यसेवाकरपरियोजनायाः अधीने भविष्यति। अद्य रात्रौ एकादशवादनादारभ्य द्वादशवादनपर्यन्तं संसद्सभागारे आयोज्यमाने सविशेषसंसद्सम्मेलने अस्याः परियोजनायाः उद्घाटनं सम्पत्स्यते। उद्घाटनवेलायां राष्ट्रपतिः , प्रधानमन्त्री , उपराष्ट्रपतिः , वित्तमन्त्री च संसदीयान् अभिसम्बोधय़िष्यन्ति।  किन्तु कोण्ग्रस् नेतृत्वे विद्यमानानि विपक्षदलानि उद्घाटनसमारोहं बहिष्करिष्यन्तीति विज्ञापितम्।
उपराष्ट्रपते: निर्वाचनम्; दिनाङ्क: प्रख्यापित:।  
नवदिल्ली> नूतनस्य उपराष्ट्रपते: निर्वाचनाय दिनाङ्क:देशीयनिर्वाचनसमित्या प्रख्यापित:। आगस्ट् पञ्चमे प्रचाल्यमानस्य निर्वाचनस्य फलं तद्दिने एव प्रख्यापयिष्यति। इदानीन्तनस्य उपराष्ट्रपते: हमीद् अनसारि महाभागस्य सेवनकाल: आगस्ट् दशमे  परिसमाप्यते इति पश्चात्तले  नूतनम् उपराष्ट्रपतिम् निर्वाचयिष्यति। नवत्युत्तरसप्तशतम् सङ्ख्याकानि लोकसभाङ्गानि गुप्तनिर्वाचनपत्रद्वारा एव उपराष्ट्रपतिं चिन्वन्ति। जुलै सप्तदशे राष्ट्रपते: निर्वाचनमपि चलेत्। भा ज पा दलस्य स्थानार्थी रामनाथकोविन्द:, प्रतिपक्षस्थानार्थी  गतसभानियन्त्रिका अध्यक्षा मीरा कुमारश्च मत्सरिष्यन्ति
शिशवः युद्धेषु बलिमृगाः ।
कानिचन चित्राणि अस्माकं हृदयद्रवीकरण समर्थानिएव, सिरियायाम्  आरब्धे आभ्यन्तरयुद्धे  दुःखमयाः वार्ताः, चित्राणि च प्रतिदिनं आगच्छन्ति। युद्धस्य दुरितमखिलं सोढुं शिशवः न प्रभवन्ति। कश्चन राष्ट्रस्य भाविपथं पातयितुम् एवं  शक्यते एवं प्रकारेण। द्वितीये लोकमहायुद्धकाले, वियट्नां राष्ट्रयुद्धकाले रुवाण्डायाः वंशीय हत्यायां अपि च अरब् क्षेत्रे इदानीं जायमाने आभ्यन्तर-संग्रामे शिशवः बहुदुखम् सेढवन्तः। इदानीं पश्चिमेष्यायाः राष्ट्रान्तरतः आगम्यमानानि चित्राणि बालकानां दुरितस्य प्रमाणानि एव।
 (चित्रम् - मेडिट्टरेनियायाः सागरतीरे मृतस्य त्रिवयस्कस्य शरीरम्।)
क्रीडया विनोदेन च वर्तिष्यमाणाः शिशवः युद्धेषु स्वजनानां मृत्युं पश्यन्ति। क्षुधया पीडिताः भूत्वा स्वगृहं राष्ट्रं च परित्यज्य गन्तुं निर्बन्धिताः अभवन्।  इदानीं अभयार्थिरुपेण कालयापनं कर्वन्तः सन्ति। तेषाम् अश्रूणि अपि लोकैः द्रष्ठव्यम्।

Thursday, June 29, 2017

नियमभेदः कारितः आधार पत्रं पान् पत्रेण सह बन्धनीयः।
नवदेहली> करदायिनः जूलाई प्रथमदिनाङकादारभ्य  आधार पत्रं  पान् पत्रेण सह अनिवार्यतया  बन्धनीयमिति सर्वकारेण व्यक्तीकृतम्। पान् पत्राय आवेदनवेलायां आधारपत्रस्य अङ्काणि दातव्यानि। आर्थिककर नियमे भेदक्रमं कारयित्वा विज्ञापनं प्रसार्य च केन्द्रसर्वकारः कार्यकरणं कर्कशं कारितम्। नैकानांंपान्पत्राणां उपयोगः एकेन क्रियते चेत् तत् रोद्धुमेव अयं निर्णयः। नियमः जूलाई प्रथमदिनाङकादारभ्य प्रबलः भविष्यति। २.०७ कोटि करदातृभिः पानपत्रेण सह आधार पत्रस्य बन्धनं कृतम्। राष्ट्रे पञ्चविंशति कोटि जनानां पान्पत्राणि सन्ति।। १११ कोटि जनाः आधारपत्रं स्वीचक्रुः।
एष्यायां विद्यमानासु अतिबृहत्तमां युद्धनौकां चैना जले अवारोहयत्।
षाङ्हाय्>भारतं विस्मयीकारयित्वा चीनया  स्व बृहती युद्धनौका जले अवरोहितम्। ऐषियाः बृहत्तरा युद्धनौका टैप् ०५५ विनाशकारिणी युद्धनौका चैनया  षाङ्हाय् तीरे प्रदर्शितम्। एतादृश्यः चतस्रः युद्धनौकाः निर्मातुं चैनायाः योजना अस्ति। मिसैल् शस्त्राणि त्रोटयितुं तथा बृहद् लक्ष्यं भेत्तुं च युद्धनौका समर्था। एवम् अतिरिच्य सम्पूर्णतया शस्त्राणां विन्यासानन्तरं तस्याः १२००० टण् भारः स्यात्। विश्वस्य अतीव विनाशकारिण्याः युद्धनौकायाः निर्माणं इदानीं यावत् चैना सेना अगोपयत्। ह्रस्वेन कालेन अस्य निर्माणं पूर्तीकृतम् इति चैना माध्यमैः प्रस्तुतम्।

मोदिनः यु एस् सन्दर्शनं - आगोलप्रवेशयोजनां प्रति भारतस्य अङ्गत्वम्
वाषिङ्टण्> आकस्मिकावश्यार्थं अमेरिक्कां प्रति प्रवेशः सुकरं कर्तुम् उद्दिष्टमानायां "International Expedited Traveler Initiative" नामिकायाम् आगोलयोजनायां भारताय अपि अङ्गत्वं लब्धम्। भारतं विना स्विट्सर्लान्ट्, ब्रिटन् राष्ट्रद्वयमेव अस्यां योजनायाम् अन्तर्भूतम्।
     अमेरिक्कां प्रति विभीषिकारहितान् तथा पूर्वमेव यात्रानुमतिं लब्धवतां यात्रिकानाम्  अनया योजनया प्रवेशः सुकरः भविष्यति। व्यापार - शैक्षिक बन्धानाम् अभिवृद्धये योजनेयं उपकरिष्यति।
. रक्षासमिति स्थिराङ्गत्वम् - भारताय सहयोगः।
वाषिङ्टण्> ऐक्यराष्ट्ररक्षासमित्यां स्थिराङ्गत्वलाभाय आणववितरणसङ्घप्रवेशाय [एन् एस् जि अङ्गत्वं] च भारताय अमेरिक्काराष्ट्रस्य सहयोगः वाग्दत्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलने डोणाल्ड् ट्रम्प एव भारताय सहयोगं वाग्दत्तवान्।
      राष्ट्रद्वयस्य  परस्परवाणिज्यबन्धः शक्तीकरिष्यतीति ट्रम्पेन उक्तम्। भारतस्य सामाजिकार्थिकपरिवर्तनेषु मुख्ययोजनासु च यू एस् राष्ट्राय प्रमुखं स्थानं कल्पतेति मोदिना निगदितम्।
.

.

Wednesday, June 28, 2017

Episode-50
 आकाशे भारतस्य त्रयोदश गुप्तचरनेत्राणि।
      नवदिल्ली> कार्टोसाट् २ ई उपग्रहस्य सफलविक्षेपणेन सैनिकावश्यकतायै भारतेन विक्षेपितानाम् निरीक्षणोपग्रहाणां सङ्ख्या त्रयोदश अभवन् इति ऐ एस् आर् ओ सूचयति। एतानुपयुज्य राष्ट्रसीमानां निरीक्षणम्, समुद्रमार्गेण भौममार्गेण वा शत्रूणां चलनानि च अवगन्तुं शक्यते इत्यपि ऐ एस् आर् ओ वृत्तानि ज्ञापयति। कार्टोसाट्, रिसाट् उपग्रहा: एव प्राधान्येन निरीक्षणाय उपयुज्यन्ते। नाविकसेनया एतानतिरिच्य जीसाट् सप्त उपग्रहश्च सैनिकावश्याय उपयुज्यते। समीपकाले विक्षेपितस्य कार्टोसाट् २ परम्परान्तर्गतस्य निरीक्षणोपग्रहस्य भूम्या: शून्यं दशांशं षट्  चतुरश्रमीटर् मितोन्नतवसतूनि अपि कृत्यतया निरीक्षितुं शक्ति: वर्तते। गतशुक्रवासरे एव कार्टोसाट् परम्परान्तर्गतम् कार्टोसाट् २ उपग्रहम् भारतम् व्याक्षिपत्।  भारतस्य सर्वे  निरीक्षणोपग्रहा: भौमोपरितलात् द्विशतत: द्विशतोत्तरसहस्रं किलोमीटर् पर्यन्तं पोलार् भ्रमणपथे वर्तन्ते। कृत्यतया भूमिं निरीक्षितुम् एतत् सहायकरम्। किन्तु भारतस्य  उपग्रहवेधायुधानि विक्षेप्तुं शक्तिरस्ति तथापि बहिराकाशस्य सैनिकवत्करणे तात्पर्यं नास्तीत्यपि ऐ एस् आर् ओ शास्त्रज्ञा: व्यक्तीकृतवन्त:।
केरळे वृष्टिः शक्ता; बहुत्र नाशनष्टानि। 
कोच्ची >दक्षिणपश्चिमीयः मण्सूण् वर्षाकालः केरले शक्तः अभवत्। नदीषु जलवितानम् उद्गन्तुमारब्धम्। अतः तीरदेशवासिनां कृते जाग्रतानिर्देशः कृतः। दक्षिणजनपदेषु बहुत्र अतिवृष्ट्या मृत्पातः जातः। एरणाकुलं जनपदे मुवाट्टुपुष़ा प्रदेशे 'एम् सि रोड्' इति देशीयमार्गे भूपातेन होराः यावत् गतागतं स्थगितम्। बहूनि भवनान्यपि विशीर्णानि।
     झंझावातेन वृक्षशाखाः पतित्वा मार्गपार्शस्थितानां यानानां   क्षताः जाताः। आगामिनि दिनद्वये अपि वृष्टिः शक्ता भविष्यतीति पर्यावरण निरीक्षणकेन्द्रेण निगदितम्।

अतिवृष्टिः - केरले चतुर्षु जनपदेषु विद्यालयानाम् अद्य विरामः।
कोच्ची - केरले वर्षाकाले शक्ते सन्दर्भे बहुत्र जलोपप्लवेन यात्रादुरितमनुभूतम् इत्यतः एरणाकुलम् , इटुक्की , आलप्पुष़ा , कोल्लम् इत्येषु जनपदेषु विद्यालयानां जनपदाधिकारिभिः अद्य विरामः विज्ञापितः। आलप्पुषा जनपदे श्व अपि विरामः भविष्यति।