OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, June 27, 2017

बाह्याकाशानुसन्धानं च मिलित्वा एकादशसम्मतपत्राणि भारत-पोर्चुगलमध्ये।  
लिसबण:> भारत-पोर्चुगलबन्धं दृढीकृत्य एकादशसम्मतपत्राणि। प्रधानमन्त्री नरेन्द्रमोदी पोर्चुगलप्रधानमन्त्रिणा अन्टोणियो कोस्टेऩ सह मेलनानन्तरमेव सम्मतपत्रेषु द्वावपि हस्ताक्षरं दत्तवन्तौ। बाह्याकाशगवेषणम्, द्वन्द्वकरग्राहनिवारणम्, नानोतन्त्रज्ञानम्, सांस्कारिकविनिमय: एतेषु रङ्गेषु सहकारधारणा कृता। पोर्चुगल- भारतवाणिज्यक्रयविक्रयारम्भसाङ्केतिकस्थानकस्यापि उद्घाटनम् मोदिना निरूढम्। शास्त्रसाङ्केतिकगवेषणेभ्य: चत्वारिंशत् लक्षं यूरोमितं रूप्यकाणां संयुक्तनिधि: च प्राख्यापयताम्।  भीकरविरुद्धप्रवर्तनेषु, वातावरणपठनेषु च सहकर्तुंम्  अपि धारणा कृता। त्रिराष्ट्रसन्दर्शनस्य प्रारम्भं कृत्वा प्रधानमन्त्री नरेन्द्रमोदी पोर्चुगलम् प्राप्तवान्। विमानपत्तने पोर्चुगलविदेशकार्यमन्त्री अगस्टो सान्टोस् सिल्वा तम् स्व्यकरोत्। पोर्चुगलं सन्दर्श्यमान: प्रथमभारतीयप्रधानमन्त्री एव मोदी। पोर्चुगलप्रधानमन्त्रिणा अन्टोणियो कोस्टेन सह मोदी चर्चामकरोत्। अस्मिन् वर्षे जनुवरिमासे कोस्ट: भारतं सन्दृष्टवान्। तदा आविष्कृतधारणापत्राणाम् पुरोगतिरपि ताभ्याम् अवलोकिता। सप्तदशशतके यदा गोवा पोर्चुगलाधीने आसीत् तदा प्रवृत्ते शासनापरपत्रविनिमयानाम् मुद्रितप्रतिकृतिरपि   अधिकारिण: मोदिने अदात्।  पोर्चुगलत: अमरीकाम् प्रति गच्छन् मोदी षड्विंशत्यां वाषिङ्टणे राष्ट्रपतिं ट्रम्पं मेलिष्यति। द्वावपि इदम्प्रथमतया साक्षान्मेलिष्यत:। केषाञ्चन वैयवसायिकसंस्थानाम् सी ई ओ (अधिकारिण:) अपि सन्दर्शनोत्सुक: मोदी। तत: सप्तविंशत्यां स: नेतरलान्डं गमिष्यति। डच्च् प्रधानमन्त्री मार्क् रूट्टेनामकं, राजानं विल्यम् अलक्साण्डरम् राज्ञीं माक्सिमां च सन्दर्श्य चर्चां करिष्यति।
जनान् क्लेशघट्टे पातयत: सर्वकारोद्योगस्थान् बन्धितुं  केरळस्य जाग्रताविभागेन पट्टिका सज्जीक्रियते।

  तिरुवनन्तपुरम्>जनानां क्लेशजनकान् सर्वकारोद्योगस्थान् बन्धितुं पट्टिका सज्जीक्रियते जाग्रताविभागेन ( विजिलन्स् )। जनैस्सह साक्षात् व्यवह्रियमाणेषु- आयकरविभाग:, यन्त्रवाहनविभाग:, निरीक्षणस्थानकानि (चेक् पोस्ट्), सामान्यविपणनविभाग:- एतेषु विभागेषु निरीक्षणम् आरभ्यते।  क्लेशकरान् उद्योगस्थान् अधिकृत्य  जाग्रताविभाग: सर्वकारस्य समीपम् आवेदयति। अत्याचारिण: ग्रहीतव्या: इति सर्वकारनिर्देशानुसारमेव जाग्रताविभागस्य निर्णय:। सामान्यजनानां कृते  क्लेशदायकानाम् उत्कोचग्राहकाणा निर्बन्धोपहारग्राहकाणां च पट्टिका जाग्रताविभागेन सज्जीक्रियते। ततोपरि अधिकनिवेदनं यं कार्यालयमधिकृत्य प्राप्नोति तस्य कार्यालयस्य विशदांशान् सङ्गृह्य सर्वकाराय समर्प्यते।  जेकब् तोमस: यदा जाग्रता विभागस्य अधिकारी आसीत् तदा  विविधविभागानाम् अत्याचारान् अधिकृत्य सूचिका सज्जीकृता आसीत्।  एतस्य अनुवर्तनमेव निर्णय:। विविधविभागानाम् अत्याचारान् निर्दिश्य निवेदनप्रलय: एव जाग्रताविभागस्य आस्थाने।  एतदाधारेण कृते अन्वेषणे ग्रामकार्यालयेषु एव अधिकक्रमभङ्ग: लक्षित:। मध्यस्थान् ग्रहीतुम् समग्ररूपरेखां निर्मातुं च मण्डलमेधाविभ्य: जाग्रताविभाग: निर्देशमदात्।  ग्रामकार्यालयेषु, गतागतविभागेषु, निरीक्षणकेन्द्रेषु च गतसप्ताहे प्रवृत्ते शोधनिरीक्षणे जाग्रताविभागेन अनेके क्रमदोषा: लक्षीकृता:।

Monday, June 26, 2017

वनम् पोषकसमृद्धमिति मध्यप्रदेशमन्त्रिणी अर्चना चिट्निस्।
  
षिल्लोङ्>वनम् पोषकसमृद्धं नास्ति चेत् सीताश्रीरामौ वर्षाणि यावत् कथं वनमध्ये उषितवन्तौ इति मध्यप्रदेशवनिताशिशुविकसनविभागमन्त्रिण्या: प्रतिप्रश्न:। राज्ये वनवासिनो जना: पोषकाहारापर्याप्तताम् अभिमुखीकुर्वन्तीति माध्यमप्रवर्तकस्य परामर्शं श्रुत्वैव पुराणमुपजीव्य प्रत्युत्तरम् अर्चना चिट्निस् अदात्। शुक्रवासरे षिल्लोङ् मध्ये प्रचालिते  पोषकाहारानुपलब्धि: कृषिरीतय: च  इति सङ्गोष्ठ्याम् भाषते स्म मन्त्रिणी। प्रादेशिकविभवान् खादित्वा पोषकाहारापर्याप्तताम्  परिहरेयुरिति विषये अवबोधजागरणाय एव सङ्गोष्ठी चालिता। स्वीयावश्यानि परिहृत्य मितानि भक्ष्यवस्तूनि एव कर्षका: विक्रयेयुरिति च पुराणमुद्धृत्य मन्त्रिणी व्यक्तमसूचयत्। महाभारतस्य कंसकृष्णयो: कथा कार्याणि विशदयितुं प्रेरिका अभवत् ।
आस्त्रेलियन् ओपण् बाड्मिन्टण् - श्रीकान्तः चरमपादे।
मेल्बण्> पिच्छकन्दुकक्रीडाङ्कणे अत्युज्वलं क्रीडाकौशलम् अनुवर्तमानः भारतपुत्रः किडम्बि श्रीकान्तः चीनायाः चतुर्थसीड् क्रीडकं षि युक्किं पराजित्य आस्ट्रेलियन् ओपण् सूप्पर् सीरीस् पिच्छकन्दुकक्रीडायाः [बाड्मिन्टण्] अन्तिमपादं प्रविष्टः। चीनायाः चेन् लोङः श्रीकान्तस्य प्रतियोगी भविष्यति।
    पूर्वं सिङ्कप्पूर् ओपण् तथा इन्डोनेष्यन् ओपण् क्रीडयोः चरमपादमपि श्रीकान्तेन प्रविष्टः।
मोदी-ट्रम्प् मेलनम् अद्य।
वाषिङ्टण्> त्रिराष्ट्रसन्दर्शनस्य अंशतया अमेरिक्कां प्राप्तः भारतप्रधानमन्त्री नरेन्द्रमोदी अमेरिक्काराष्ट्रपतिः डोणाल्ड् ट्रम्प्  इत्येतयोः मेलनम् अद्य सम्पद्यते। आगोलतले अस्मै मेलनाय महत्प्राधान्यं कल्प्यते।
    भारतस्याभिवृद्धिः यू एस् राष्ट्रस्यापि अभिवृद्धये भविष्यतीति भारतप्रधानमन्त्रिणा वाषिङ्टणे उक्तम्।

Sunday, June 25, 2017

  चीनायां भूपातः, १४० जनाः तिरोभूताः।
बेय्जिङ्> चीनाराष्ट्रे सिच्वान् प्रविश्यायां सिन्मो नामके ग्रामे दुरापन्नेन महता मृत्पातेन चत्वारिंशदुत्तरशताधिकं जनाः तिरोभूताः अभवन्। शनिवासरे प्रातः षड्वादने [प्रादेशिकसमयः] एव ग्रामस्थितस्य पर्वतस्य कश्चन भागः निपतितः। ४६ गृहाणि सार्धैककिलोमीटर् परिमितः मार्गश्च विनाशं प्राप्तानीति तद्देशीयाभिः वार्तापत्रिकाभिः ज्ञायते।
    दिनानि यावत् अनुवर्तमाना वृष्टिरेव पर्वतनिपातस्य कारणमिति अभिज्ञैः सूच्यते।
सिख् वंशजा कानडायाम् परमोन्नतनीतिपीठे न्यायाधीशा।
कानबरा>मनुष्यावकाशप्रवर्तिका  सिख् वंशजा अभिभाषिका  पलवीन्दर कौर् षेरलिङ् कानडायाम् परमोन्नतनीतिपीठे न्यायाधीशत्वेन नियुक्ता। इदम्प्रथमतया एतादृशपदवीम् प्राप्ता सिख् वंशजा  इयमेव। मई एकत्रिंशत्तमे  विरमितस्य न्यायाधीशस्य अरनोल्ड् बेय्लि महाशयस्य स्थाने एव एतस्या: नियुक्ति:। नीतिन्यायविभागमन्त्रिणा जोडी विल्सण् रेबोल्डेन नियमनम् प्रख्यापितम्।
त्रिराष्ट्रसन्दर्शनं - नरेन्द्रमोदी अद्य अमेरिक्कां प्राप्नोति। 
नवदिल्ली - यू एस् , पोर्चुगल् ,नेतर्लान्ट् इत्येतानि राष्ट्राणि सन्द्रष्टुं प्रस्थितः भारतप्रधानमन्त्री नरेन्द्रमोदी पोर्चुगालस्न्दर्शनं समाप्य अद्य प्रातः यू एस् राष्ट्रं सम्प्राप्नोति। सोमवासरे अमेरिक्काराष्ट्रपतिना डोणाल्ड् ट्रम्पेन सह मेलनं भविष्यति। मोदी-ट्रम्पयोः प्रथमं मेलनं भवतीदम्।
   शनिवासरे सायं पोर्चुगालं प्राप्तं मोदिनं विदेशकार्यमन्त्री अगस्टो सान्टोस् सिल्वा गुजरातीविभवैः स्वीकृतवान्। तदनन्तरं नरेन्द्रमोदी पोर्चुगालप्रधानमन्त्रिणा भारतवंशजेन अन्टोणियो कोस्टा वर्येण सह मेलनं कृतवान्। परस्परव्यापार निक्षेपादिविषयेषु चर्चां कृत्वा सम्मतिपत्रेषु हस्ताक्षरमपि कृतवान्।

Saturday, June 24, 2017

अफ्गानिस्थान-अयर्लान्ट् राष्ट्राभ्यां निकषदलपदप्राप्तिः। 
लण्टन् > अफ्गानिस्थानाय अयर्लान्ट् देशाय च क्रिक्कट् क्रीडामण्डले निकषदलपदं दातुं अन्ताराष्ट्रक्रिक्कट् समित्याः [ऐ सि सि] सांवत्सरिकोपवेशने निर्णयः अभवत्। अनेन निकषदलानां संख्या द्वादश अभवत्। अफ्गानिस्थानः अयर्लीन्टः च यथाक्रमं एकादशं द्वादशं निकषदलं भविष्यति।
     आभ्यन्तरक्रिक्कट्क्रीडायाः परिपोषणाय राष्ट्रद्वयेनापि कृतानि परिष्करणानि निकषपदप्राप्त्यर्थं सुकराण्यभवन्।
समाजमाध्यमानि निरीक्षितुं केन्द्रं सन्नद्धतां करोति।
      नवदिल्ली >भारतविरुद्धप्रचारणाय समाजमाध्यमानां दुरुपयोगं कुर्वन्ति वेति निरीक्षितुं केन्द्रसर्वकार: संविधानं करोति। सुरक्षादलानाम्  आभ्यन्तरमन्त्रालयस्य च मेलनं देहल्यां प्रचाल्य एतस्य विशदांशान् अधिकृत्य चर्चामकरोत्।  अधुना समाजमाध्यमेभ्य:  सुशक्तनियन्त्रणानि  न सन्ति। एतस्य कृते  सुव्यक्तमार्गनिर्देशानां रूपीकरणमेव लक्ष्यम्। राष्ट्रतात्पर्यं विरुद्ध्य समाजमाध्यमानि उपयोक्तुं  काश्चन भीकरसङ्घटना: श्रमं कृतवत्य: इति साहचर्ये केन्द्रनयस्य प्राधान्यं वर्तते।
भारताय अमरीकाया: 22 अतिलघु विमानानि।
          वाषिङ्टण्>भारताय द्वाविंशति:  रक्षाकर्तृड्रोणराणि विक्रेतुम् अमरीका अनुमतिं अदात्। प्रधानमन्त्रिण: नरेन्द्रमोदिन: अमरीकासन्दर्शनात् पूर्वमेव उभयकक्षिबन्धं दृढीकरणस्य भागत्वेन एवम्। निर्णयमेतत् भारतसर्वकारं ड्रोणर् निर्मातॄन् च अमरीकाया: राज्यविभाग: सूचनामकरोत् इति सर्वकारवृत्तानि सूचितानि  किन्तु एतस्मिन् औद्योगिकप्रख्यापनं  नागतम् त्रिशतं कोट्या:विनिमयोयम्। सामान्यस्वमिश्रडोणराणि   भारताय दीयते ।भारतेन सह सुशक्तबन्धं प्रबलं कर्तुम्  ट्रन्प् शासनकूटस्य रीतिरियम्। एतानि सम्बद्ध्य प्रश्नान् प्रतिकर्तुं  श्वेतगृहेण राज्यविभागेन वा सन्नद्धतां न प्राकटयत्। औद्योगिकप्रख्यापनं शाघ्रमागच्छेत्।
केन्नत्त् जस्टर् भारते यू एस् स्थानपतिः।
वाषिङ्टण् >अमेरिक्कायाः राष्ट्रपतेः डोणालेड् ट्रम्पस्य आर्थिककार्यसमित्याः प्रमुखः 'केन्नत्त् जस्टर्' नामकः तस्य राष्ट्रस्य स्थानपतिरूपेण भारते नियुक्तः भविष्यति। भारतज्ञः सः ट्रम्पस्य अन्ताराष्ट्र - आर्थिककार्यसमित्याः तथा देशीयसम्पत्समित्याः च उपनिदेशकः भवति। जस्टरस्य नियुक्तये 'सेनट्' सभायाः अङ्गीकारः प्रतीक्षते।भूतपूर्वभारतस्थानपतेः  रिच्चड् वर्मणः स्थाने एवास्य नियुक्तिः।

Friday, June 23, 2017

यू एन् राजधान्यां योगदिनाचरणं, सविशेषमुद्राप्रकाशनं च।
न्यूयोर्क्> तृतीयम्  अन्ताराष्ट्रयोगदिनारणं जलपूजासहितम् ऐक्यराष्ट्रसभायाः राजधान्यां संवृत्तम्। दिनाचरणं पुरस्कृत्य विविधयोगाभ्यासरीतिनां चित्राणि , देवनागरिलिप्याम् "ऊँ" इति च आलेखनं कृतवत्यः मुद्राः प्रकाशिताः च।
      मङ्गलवासरे यू एन् आस्थाने संवृत्ते "योगाचार्यैः सह योगाभ्यासः" इत्यस्मिन् कार्यक्रमे नानाराष्ट्राणां यू एन् स्थिराङ्गाः,  नयतन्त्रप्रतिनिधयः, यू एन् कार्यालयसेवकाः इत्यादयाभिव्याप्ताः सहस्राधिकाः जनाः भागभाक्त्वं स्वीकृतवन्तः।
     हृषिकेशे परमार्थनिकेतन आश्रमात् स्वामी चिदानन्दसरस्वती , साध्वी भगवती सरस्वती इत्येतयोः नेतृत्वे जलपूजा संवृत्ता। सर्वेभ्यः शुद्धजलं लभतामिति प्रार्थनया आदर्शभूगोलस्य उपरि जलधारां कृत्वा प्रतीकात्मतया पूजा कृता।
     'स्वस्थे शरीरे स्वस्थं मनः' इति उक्तिः योगाभ्यासेन साक्षात्क्रियते इति यू एन् सामान्यसभाध्यक्षेन पीटर् तोम्सण् वर्येण उक्तम्।
 राष्ट्रपतिप्रत्याशिनः घोषणा
नव देहली-राष्ट्रपतिनिर्वाचनमालक्ष्य पक्षविपक्षाभ्यां प्रत्याशिनः घोषणा विहिता। राष्ट्रियजनतान्त्रिकसंयुत्या  बिहारराज्यस्य प्राक्तन् राज्यपाल: रामनाथकोविन्द: प्रत्याशित्वेन समुद्घोषितः। अथ च संयुक्तप्रगतिशीलसंयुत्या कांग्रेसदलाध्यक्षाया: सोनिया- गान्धिन: नेतृत्वे पूर्व लोकसभाध्यक्षा मीराकुमारः प्रत्याशित्वेन प्रचिता। मीरायाः नामोद्घोषणंं विपक्षिदलानां सांकेतिकं विरोधं प्रकटयति, यतोहि  राष्ट्रियजनतान्त्रिकसंयुत्या पार्श्वे राष्ट्रपतिनिर्वाचनाय आवश्यकमतानि सन्त्येव। अतो विचारणीयोSयं यत् विपक्षेन किमर्थं रामनाथ कोविन्दं विरुध्य मीरायाः नामोद्घोषितम् ।

प्रत्याशिद्वयस्य साम्यं वैषम्यम् च
दलितप्रतिनिधि:-

रामनाथकोविन्द: कर्णपुरस्य निवासी वर्तते।अतः कोविन्दस्य नामोद्घोषणेन केतिपय राज्येषु गतमासेषु रुष्टदलितजनानां मध्ये दलितहितसंरक्षकत्वेन छविनिर्माणमप्यस्ति कारणमेकम्, अतः तामेव पद्धतिमनुसृत्य संयुक्तप्रगतिशीलसंयुत्या अपि दलितप्रतिनिधित्वेन मीराकुमारः प्रचिता अनेन निर्णयेन संयुक्तप्रगतिशीलसंयुत्या दलितविरोधी छवि: न भविष्यति ।

सौम्य स्वभाव: -
एतयो: द्वयो: प्रतिनिधयो: चरित्रं विवादहीनमस्ति।
उभयोः राजनैतिकं जीवनम् अपि ऊहापोह रहितं स्पष्टं च वर्तते |
मीराकुमार् महाभागा विपक्षिदलस्य राष्ट्रपतिस्थानाशिः।
नवदिल्ली > राष्ट्रपति निर्वाचने सामान्यस्थानाशीरूपेण पूर्वतनलोकसभाध्यक्षा मीराकुमार् महाभागा विपक्षि दलैः प्रख्यापिता।  दिल्यां विधानसभागृहे आयोजिते विपक्षिदलानां मेलने एव प्रख्यापनमभवत्। काण्ग्रस् अध्यक्षायाः सोणियागान्धिनः आध्यक्ष्ये आयोजिते मेलने षोडशसंख्याकानां  राजनैतिकदलानां प्रतिनिधयः भागं स्वीकृतवन्तः।  मीराकुमार् महाभागायाः नाम्ना सह अम्बेद्कर् महोदयस्य पौत्रः प्रकाश् अम्बेद्करस्य नामापि परिगणनायाम् आसीत्।
दण्डनम् अनुभोक्तव्यमेव; न्यायाधीशस्य कर्णस्य अपेक्षा अवक्षिप्ता।
  नवदिल्ली> न्यायालयालक्ष्याय  परमोन्नतनीतिपीठेन षण्मासं यावत् कारागारवासेन दण्डित:  कोलकत्ताराज्यन्यायालयस्य पूर्वन्यायाधीश: सी कर्ण:   दण्डनम् अनुभवेदिति  परमोन्नतनीतिपीठ:। लब्ध: षाण्मासिककारागारवास: निरोद्धव्य:, तथा मध्यवेलाजाम्यं च दातव्यमिति सूचयित्वा तेन समर्पिता हरजीं (न्यायापेक्षां)  अवक्षिप्यैव  परमोन्नतनीतिपीठस्य मध्यवेलोत्पीठिकाया:निर्णय:।  अभिभाषकेन समर्पिता न्यायापेक्षा  न्यायालयेन अवक्षिप्ता। सर्वोन्नतन्यायाधीशयुता  सप्ताङ्गोत्पीठिका  एव दण्डनम् व्यदधात्। इत: परम् प्रत्येकोत्पीठिकया एव  न्यायापेक्षा परिगणितुं साध्या इत्यपि न्यायालयेन व्यक्तीकृतम् ।  कर्णं कोलकत्ताया: प्रसिडन्सी कारागारं प्रेषयेत् , उन्नतारक्षकाधिकारिभि: सह कर्णं कोलकत्तां प्रापितवन्त: । मङ्गलवारे सायं षड्वादने जाते कर्णं तमिल्नाडु आरक्षकसाहाय्येन कोलकत्तारक्षका: गृहीत्वा बन्धितवन्त:। आरक्षकान् दृष्ट्वा  जस्टिस् कर्ण: तैस्सह रूक्षवाग्वादानन्तरमेव  नियन्त्रणविधेय: अभवत्। मई नवमदिनाङ्के एव परमोन्नतनीतिपीठस्य सर्वोन्नतन्यायाधीशस्य जे एस् खेहारस्य नेतृत्वे सप्ताङ्गोत्पीठिका कर्णस्य दण्डनं व्यदधात्। तत: आरक्षकेभ्य: रक्षाम् प्राप्य गुप्तचारी अभवत् स:। मद्रासराज्यन्यायालयस्य न्यायाधीशत्वेन प्रवर्तमाने, सहन्यायाधीशान् प्रति उन्नीतानि आरोपणानि  अनुवर्त्य कर्णं कोलकत्तान्यायालयं प्रति स्थानपरिवर्तनं कृतवन्त:। तत: परमोन्नतनीतिपीठस्थन्यायाधीशान् प्रति दण्डनं व्यदधात् इत्येतत् न्यायालयालक्ष्यनिर्णयाय कारणमभवत्। तन्मध्ये दण्डनं रोधितुं परमोन्नतनीतिपीठम् उपगतवान् चेदपि फलं नाभवत्।  न्यायाधीशं कर्णं ग्रहणविषये सहकार: न दत्त: इत्युक्त्वा बङ्गाल डी जी पी तमिल्नाड् आरक्षकान् प्रति रूक्षविमर्शं कृतवान्।

Thursday, June 22, 2017

योगस्य प्रशस्ति: चीनायाः उन्नतप्राकारेपि 
      योगद्वारा भारतयश: आलोकं व्याप्यमाने सन्दर्भेस्मिन् चैनाया: काचित् कौतुकवार्ता । जूण् एकविंशति: योगदिनत्वेन आघुष्यमाणे चैनाया: उन्नतप्राकारे प्रवृत्ते योगाभ्यासे  भागमूढवन्त: बहव: । भारतीया: चीनादेशीयाश्च तत्र भागमभजन्त । चैनाया: भारतनयतन्त्रविभाग: ( चैनीस् पीप्पिल् असोसियेषन् ) चीनाजनकीयसमित्या सह  संयुज्य प्रवर्तनमिदम् आयोजयत् । मङ्गलवासरे प्रात: उपद्वादशयोगाभ्यासिभि: उन्नतप्राकारे कृताभ्यासै: कार्यक्रमस्य आरम्भ: अभवत् । चैनायां योगप्रशस्तिवर्धनम् इति उत्तमलक्ष्येन  कार्यक्रम: आयोजित: । एतादृशकार्यक्रमा: भारतचीनासौहार्दस्य ऊष्मलतां वर्धयेयु:  तदर्थं सहायका: वा भवेयु: इति भारतमन्त्रालयेन व्यक्तीकृतम् । जूण् एकविंशत्यां योगदिने बीजिङ्मध्ये सहस्रं जना: योगाभ्यासे भागमभजन्त । एतस्मादुपरि भारतात् योगे समर्था: ऊनत्रिंशत् वयस्का: विंशति: अभ्यासिन:  बीजिङे तथा  चैनाया: अन्यनगरेषु च योगप्रचारणाय प्रवर्तितवन्त: ।चैनायां गणनानुसारं अष्टशतोत्तरदशसहस्रं (१०८००) योगविद्यालया: प्रवर्तन्ते ।
एकत्रिंशत् कृत्रिमोपग्रहाः श्वः बहिराकाशे।
Add caption
चेनै- भारतस्य कारटोसाट्ट् द्वि ई तथा त्रिंशत् नानो उपग्रहैः सह पी एस् एल् वी श्वः श्रीहरिकोट्टायाः विक्षेपणस्थानात् उद्गच्छति। प्रातः नवविंशत्यधिक नववादने अस्ति विक्षेपणम् । उपग्रहेषु नवविंशति विदेशराष्ट्राणाम् अन्तर्भवन्ति। एकः कन्याकुमारीस्थस्य नूरुल् इस्लां विश्वविद्यालयस्य भवति। द्वादशाधिकसप्तशत किलो भारयुक्तं कारटोसाट्ट् द्वि ई कारटोसाट्ट् परम्परायाः षष्ष्ठतमः  उपग्रहः  भवति। विदूर संवेदन सेवाः अस्य मुख्यं लक्ष्यं। तेन सह भौम निरीक्षणाय अपि उपयुज्यते।
पि एस् एल् वी इत्यस्य चत्वारिशत् तम विक्षेपणमिदम्। पञ्चाधिकपञ्चशत कि. मी उपरिस्थे सौरस्थिर भ्रमणपथे एतान् प्रेषयति। नानो उपग्रहेषु नवविंशति संख्यकाः आस्ट्रिया , बेल्जियम् , चिली , चेक् रिप्पब्लिक्, फिन्लाण्ड् , फ्रान्स् , जर्मनी , इट्टली, जप्पान्,लात्विया, लित्वेनिया, स्लोवाक्या, ब्रिट्टन्, अमेरिका  इत्यादि राष्ट्राणां भवन्ति। आहत्य त्रिंशत् उपग्रहाणां भारः त्रिचत्वारिंशदुत्तरद्विशत किलोमितः  भवति।