OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 17, 2017

कर्णाटके नवीननियम:, चिकित्सामूल्यं सर्वकार: निश्चेष्यति; अधिकमूल्यस्य कृते  पञ्चलक्षं रूप्यकाणि यावत् दण्डनम्।
      बङ्गलूरु > कर्णाटके स्वकार्यातुरालयेषु  चिकित्सामूल्यं निश्चिनोतुं  सर्वकारै: नियम: आनीयते। स्वकार्यातुरालया:  अधिकमूल्यम्  स्वीकुर्वन्ति इति निवेदनं व्यापकमभवत्  इत्यत: नियम: आनीयते। चिकित्सामूल्यनिर्णयं लक्षीकृत्य कर्णाटके स्वकार्यवैद्यविन्यासभेदगतिपत्रं स्वास्थ्यमन्त्री  रमेशकुमार: नियमसभायाम्  अवातारयत्। स्वकार्यवैद्यकलालयस्य,  आतुरालयप्रबन्धकानां च सम्मर्दं  अवगण्य एव  सर्वकार: भेदगतिविज्ञापनं नियमसभायाम् आनयत्। स्वकार्यातुरालयान् पट्टिकारूपेण विन्यस्य   स्यात् चिकित्सामूल्यनिर्णय:। एतदर्थं वैद्यरङ्गे विदग्धान् संयोज्य  समिति: निर्मीयते। राज्यचरित्रे इदंप्रथमतया एव एतादृशनियमनिर्माणाय  सर्वकारपक्षत: क्रमीकरणम्। स्वकार्यातुरालयेषु  लभ्यमानचिकित्सार्थं स्वीकार्यमाणव्यय:  सर्वकारेण निश्चीयते। अङ्गीकृतचिकित्सामूल्यमुल्लङ्घ्य ये अधिकं स्वीकुर्वन्ति ते पञ्चविंशतित: पञ्चलक्षं यावत् रूप्यकाणां दण्डनम् ,  षण्मासत: वर्षत्रयं यावत् कारागारवासं च अनुभवेयु:। रोगिभ्य: चिकित्सार्थं  पूर्वमेव धनस्वीकारोपि  न शक्यते। चिकित्सामध्ये म्रियमाणरोगिणाम् मृतदेहप्राप्त्यै  चिकित्सामूल्यं दद्यादिति  निर्बन्धोपि  न भवेत् । मृतदेहदानानन्तरं  व्ययं स्वीकुर्यात्। वैद्यनिरीक्षणायापि व्ययं निश्चिनोति सर्वकार:। तीव्रपरिचरणविभाग:, शस्त्रक्रियाप्रकोष्ठ:,  कृत्रिमश्वासविधानम्, शय्याबाठकम् ,  वैद्यसन्दर्शनशुल्कम् इति आतुरालयक्रमाणां सर्वेषामपि  शुल्कं निश्चीयते। एतस्मात् उपरि प्राप्तुं नार्हति। चिकित्साव्ययाय रोगिण: बन्धूनाम् अनुवादोपि प्राप्तव्य:।  रोगिणां कृते  चिकित्साया: व्ययस्य  स्वरूपपत्रम् पूर्वमेव दद्यात्।  अन्तिमशुल्कपत्रम् एतस्मात् अधिकं न भवेत्। रोगिण: विशदांशान् - कन्नडा, आङ्गलेयम्, हिन्दी - भाषासु प्रदर्शयेत्  इति व्यवस्थापि नियमे विद्यते। आतुरालयेभ्य: चिकित्साप्राप्ति:  रोगिणाम् अवकाशं कारयति  निर्दिष्टनियम:। सामाजिक- आर्थिक - जाति - मतभेदं विना सर्वेभ्य: चिकित्साप्राप्तिदृढीकरणमेव लक्ष्यम्। रोगिण: वैद्यान् आतुरालयकर्मकरान् प्रत्यपि मान्यरीत्या व्यवहरेयु: च इत्यपि तत्र निर्देश:। आतुरालयसम्बद्धनिवेदनानाम् परिहाराय  मण्डलनिवेदनपरिहारशाला प्रवर्तिष्यते। मण्डलग्रामसभा मुख्यनिर्वाहकाधिकारिण:  अध्यक्षतायां निवेदनपरिहारशाला प्रवर्तते।  सिविल् न्यायालयस्य अधिकार: शालाया: भवेत्।

Friday, June 16, 2017

महाट्टालिकाभवनम् अग्निगोपुरम् अभवत्, अनेके हता:।
     लण्डन्>अनुवर्तिभीकराक्रमणानाम्  आघातात् अनुत्थितं लण्डन्नगरं कम्पयित्वा  महाग्निबाधा। नगरस्य पश्चिमदिशि नोट्टिङ् हिल् प्रदेशे विद्यमानं  महाट्टालिकाभवनम्  अक्षरार्थे अग्निगोपुरम् अभवत्। द्वादशजना: हता: इति प्राथमिकनिगमनम्। बुधवारे प्रात:  एव अस्य चतुर्विंशत्यट्टभवनस्य अग्निबाधा लक्षिता।  घण्टानामनन्तरमपि  भवनम् ज्वलदेव भवति। अस्मिन् भवनसमुच्चये द्विशतं जना: वासं कुर्वन्ति इति चिन्तयति। अग्निबाधाकारणं न स्पष्टम्। अनेके हता: स्यु: इत्यपि  विचार्यते। किन्तु अस्मिन् विषये औद्योगिकस्थिरीकरणं  नास्ति। कति जना: मृता:  कति जना: क्षतदेहा:  इति कृत्यतया वक्तुं न शक्यते। अग्निनियन्त्रणे  अर्धमात्रं वा विजय: दृष्ट: चेदेव  एतादृशकार्येषु  निरीक्षणं साध्यम् भवति  इति चिन्तयति आरक्षकवृन्द: अग्निशमनसेना च। नोट्टिङ् हिल् प्रदेशस्य  लाटिमर् मार्गे  ग्रोण्फेल् टवर् नामकम् भवनमेव लण्डन् नगरचरित्रे एव अश्रुतपूर्वया अग्निबाधया विनष्टम्। द्वितीयाट्टस्य उपरिष्टादेव अग्निबाधाया: प्रारम्भ:। पश्चात् अग्नि: करालहस्तावृता । एकैकस्यापि अट्टस्य अग्निबाधा  जाता। भवनं यस्मिन् कस्मिन्नपि क्षणे  भूमौ पतेत् इति  स्थितिम् प्राप्तम्। अग्निशमनसेनाया: चत्वारिंशत् एककानाम् नेतृत्वे, अग्निनियन्त्रणप्रवर्तनानि   अनुवर्तितानि। शतसंख्यकानि अग्निशमनसेनाङ्गानि  जीवन्मरणसम्मर्दप्रवर्तनेषु नियुक्तानि  इति आवेद्यन्ते। लण्डन् नगरस्य पञ्चसु आतुरालयेषु   च चतुष्षष्टिजनान् प्रावेशयत् इति प्राथमिकनिगमने सूच्यते। एतेषु नैकेषां स्थिति: गुरुतरा। भवने रक्षामार्गविनष्टा:  जङ्गमदूरवाणीस्थकरदीपान् प्रकाश्य  साहाय्यम् अभ्यर्थयन्त: वर्तन्ते।  बहुवारम् अट्टगृहेभ्य: वैद्युतयन्त्रसामग्र्य:  महाशब्दै: सह  स्फोटनात्परम् बहि: पतिता:।

भूतपूर्वः सर्वोच्चन्यायालयमुख्यन्यायाधीशः पि एन् भगवतिः दिवंगतः। 
नवदिल्ली >सर्वोच्चन्यायालयस्य भूतपूर्वः मुख्यन्यायाधीशः न्याय. पि एन् भगवतिः [९५] दिवंगतः। सर्वोच्चन्यायालयस्य सप्तदशतम मुख्यन्यायाधिपः आसीत्। ततः पूर्वं गुजरात् उच्चन्यायालयस्य मुख्यप्राड्विवाकरूपेण सेवां करोति स्म। पौराणाम् अधिकार संरक्षणाय नितान्तजाग्रतां प्रदर्शयन्नासीत्।
    अन्तिमसंस्कारक्रियाः श्वः भविष्यति।
पुनरपि वित्तकोशलयनोद्यमेन केन्द्रसर्वकारः।
नवदिल्ली> पुनरपि लघुवित्तकोशानां लयनं निर्वोढुं केन्द्रसर्वकारस्य उद्यमः। देना बैंक्, विजया बैंक्, यूको बैंक्, यूणियन्  बैंक् ओफ् इन्डिया, युणैटड् बैंक् ओफ् इन्डिया इत्येतान् वित्तकोशान् कानरा बैंक्, बैंक् ओफ् बरोडा इत्येताभ्यां वित्तकोशाभ्यां सह लाययितुमेव सर्वकारस्य उद्यमः। एतस्य साध्यतां परिशोधयितुं नीति आयोग संस्थां प्रति निर्देशः कृतः।
     पूर्वं एस् बि टि प्रभृतीनां  वित्तकोशानां  लयनं कारितमासीत्। तस्य द्वितीयपादरूपेणैव अयमुद्यमः। सार्वजनीनवित्तकोशानाम् अनुपलब्ध ऋणस्य समस्यां पुरस्कृत्य एव सर्वकारस्य अयं पदक्षेपः। राष्ट्रे वित्तकोशानां सप्तलक्षाधिककोटिरूप्यकाणां अनुपलब्धर्णमस्तीति भारतीय रिसर्व् बैङ्क् द्वारा निगदितमासीत्।
आयुः २३, भारतीय-शासन-सेवायां १३तमश्रेण्याम् ।
कण्णूर्>कण्णूर्  जनपदस्य  परिवारं देशीयः अतुल् जनार्दनन् भारतीय शासन सेवायां १३तमं  श्रेणीं प्राप्तवान्। सः केरलराज्यस्तरे  प्रथमश्रेणीस्थः। भारतीय  विदेशसेवा अस्ति अस्य लक्ष्यम्। विदेश-नयतन्त्रबन्धेषु सः तत्परः अस्ति। सम्यक् स्वपिति। हिन्दी गीतानि शृणोति, आङ्गलेय-दूरदर्शनदृश्यानि पश्यति। पठनाय विशेषसमयं नास्ति। मेक्कानिक्कल् अभियान्त्रिक विद्यायां बिरुदप्राप्तः। बिरुदानन्तरं विनाभ्यासं परीक्षा तेन लिखिता। किन्तु पराजितवान्। द्वितीयवारं अभ्यासेन सह परीक्षां लिखितवान्। भूमिशात्रं ऐच्छिकविषयत्वेन स्वीकृतवान्। परीक्षाः कठिनाः  आसन्।  साक्षात्कारपरीक्षा अपि किञ्चित् कठिनमासीत्। राजनैतिक क्षेत्राणां प्रश्नाः,  केरलसम्बन्धयः प्रश्नाः च प्रमुखतया आसन्। अभियान्त्रिक ज्ञानं भारतीय शासन सेवायां प्रचोदनं अकरोत्। निश्चिता निर्धारिता च पठनरीतिः नासीत्। रात्रौ एकादाशवादनतः प्रातः सार्ध सप्तवादनं वा अष्टवादनपर्यन्तं वा स्वपिति। परीक्षावेलासु ग्रामस्य विवाहादि कार्येषु भागभाक् न अभवत्। सर्वेषां विषयाणां विशदं पठनं आवश्यकं। पठनेषु सुहृदां साहाय्यं आसीत्। भारतीयसेनातः विरमितः एम् वी जनार्दनस्य लतायाः च पुत्रः। सहोदरी नीतू वैभव्।
पठनस्य कृते तेन अवलंबितः  मार्गः।
पठनार्थं स्वरीतीणां स्वीकरणं कार्यम्।
समीचनं परिश्रमं कार्यम्।
सर्वेषां विषयाणां कण्ठस्थीकरणाय श्रमं न कुर्यात्।
प्रधानज्ञानानां लघुलेखाः निर्मातव्याः।
सगौरवं पठनं कुर्यात्।
समूहमाध्यामानां उपयोगं कुर्यात्।

Thursday, June 15, 2017

तम्बाकचर्वणं कृत्वा समायातं वरं वरयितुं विसम्मतिमकरोत्  वधू।
चतुर्विंशतिघण्टा: अपि  मुखे तम्बाकचर्वणं कुर्वन्त: युवान: जाग्रताम् पालयन्तु,   उत्तरप्रदेशस्य एतस्या: युवत्या: निर्णयं सर्वा: युवत्य: मातृकां कुर्वन्ति चेत् आजीवनान्तं भवन्त: विवाहं विना एव जीवेयु:। उत्तरप्रदेशे बल्लिया मण्डले मुरार्पत्तिग्रामस्य  युवती एव कठिनमेतं निर्णयं स्वीकृतवती। विवाहदिने तम्बाकचर्वणेन सहागतं वरं  त्यक्तवती एषा। लालगञ्जमण्डले दलनचपाराग्रामे वरस्य गृहम्। विवाहदिने वधूगृहम् प्रविष्टाय वरसङ्घाय महत् स्वीकरणम् अलभत।  गृहस्य अन्त: प्रत्येकं सज्जीकृतां विवाहवेदिकाम् प्रति वरस्य आगमनसमये  एव एकं कार्यं वध्वा लक्षितम्। वर: सर्वदा  तम्बाकचर्वणं कुर्वन्नस्ति।  एतं वरयितुम्  न शक्यते  इति वक्तुं सा सङ्कोचं न प्राकटयत् । सर्वे स्तब्धा: जाता:। बान्धवा: युवतिं निर्णयात्  प्रत्यानेतुम् परिश्रमं कृतवन्त:, पराजिताश्च।  तस्यां रात्रौ उभयो: बान्धवा: सुहृदश्च चर्चां कृत्वा प्रश्नपरिहाराय  अयतन्त। किन्तु स्वनिर्णये अचञ्चलमनस्का अतिष्ठत् युवतिरियम्। वरस्य गृहस्था:  समीपस्थे  दोकाति - आरक्षणालये स्थितिं  न्यवेदयन्। आरक्षणालयस्य सहनिरीक्षक: युवत्या सह वार्तालापं कृतवान् चेदपि निर्णयात् नैव व्यत्यचलत् सापि । विवाहदिनेपि त्यक्तुमशक्यस्य तम्बाकचर्वणशीलस्य  सेवकेन एकेन सह जीवितुं सन्नद्धा नेति आरक्षकानपि न्यवेदयत् सा।
अभिज्ञानपत्राणां प्रतिलिपयः नवमाध्यमेन न दद्युः 
त्रिशिवपेरुर्> वैयक्तिकसङ्केताः तथा प्रत्यभिज्ञान पत्राणां प्रतिलिप्यः च वाट्स्-आप्, फेस्-बुक् आदि नवीनमाध्यमद्वारा विनिमयः मास्तु इति आरक्षकाणां अन्तर्जालावेक्षकविभागेन स्पष्टीकृतम्।  विनिमयः पटलद्वारा भवति चेत् एतस्य दुरुपयोगसाध्यता अस्ति।  स्वकीय प्रमाणपत्राणां प्रतिलिपयः सार्वजनिक-सङ्गणकयन्त्रे स्थापयति चेत् तदपि आपत्करः इति अपराधान्वेषण-सङ्घेनापि व्यक्तीक्रियते।  एतादृशान् प्रमाणान् उपयुज्य अन्तर्जालापराधाः वर्धिताः इत्यनेन  एतादृशी उद्घोषणा।  मुख्यप्रमाणानां प्रतिलिपयः जंगम दूरवाण्यामपि मा स्थापयेत्।  ई-मेल्, फेस् -बुक्, ट्विट्टर् आदि उपयुज्यानान्तरं  लेखतः बहिरागमनं करणीयम्।  एतान् उपयुज्य कापुरुषाः अपराधान् कर्तुं प्रयत्नं कुर्वन्तः सन्ति इति आरक्षकाः वदन्ति।
उत्तरप्रदेशे नियमलङ्घकानां लोकयानचालकानां भावचित्रग्रहणे तु पुरस्कार:।
        लख्नौ>नियमलङ्घकेभ्य: लोकयानचालकेभ्य: दण्डनविधानं शाक्तीकर्तुं नूतनपद्धत्या सह उत्तरप्रदेशसर्वकार:। वाहनं चालयन् एव दूरवाणीसम्भाषणं, नियमलङ्घनं  वा कुर्वत: चालकस्य भावचित्रं स्वीकृत्य "वाट्स् आप् " माध्यमेन गतागतविभागाय प्रेषयितुं शक्यते। एवं ये चित्राणि प्रेषयन्ति, तेभ्य: पुरस्कारान् दातुं च सर्वकारेण निश्चितमिति  पी टी ऐ न्यवेदयत्। यानचालनसमये जङ्गमदूरवाण्या सम्भाषणं  नियमेन निरोधितं चेदपि  यात्रिका: प्रतिदिनम् परिदेवनानि कुर्वन्ति इति  उत्तरप्रदेशस्य गतागतमन्त्री स्वतन्त्रदेवसिंह: अवदत्।  अत: यात्रिकाणां साहाय्यार्थमेव  एतत् क्रमीकरणं स्वीकृतम्। नियमलङ्घकानां यानचालकानां चित्रं गृहीत्वा यात्रिका: प्रेषयितुमर्हन्ति। चित्रं गृहीत्वा प्रेषकाणां यात्रिकाणां कृते  रूप्यकपुरस्कारं यच्छेयु: इत्यपि स:  न्यवेदयत्। क्रमीकरणस्य एतस्य कृते यात्रिकाणाम् पक्षात् उत्तमप्रतिकरणमपि लभते इति मन्त्री सूचितवान् । आशयोयं द्विधा सफलीकृत: भवेत्, स: योजितवान्।  नियमलङ्घनम् सूचयितुम् अधिकार: प्राप्त: इति  चिन्ता यात्रिकाणाम् भवेत्।  तथैव चालका: दायित्वबोधयुक्ताश्च भवेयु: इति प्रतीक्षापि तेन प्रकटीकृता। नियमलङ्घकानां षण्मासं यावत् कारागारवास: सहस्ररूप्यकाणां  दण्डनं च प्राप्तव्ये  बहुत्र एतानि नियमलङ्घनानि नैव आवेद्यन्ते।  एतस्य परिहाररूपेणापि  आशयोयम् उत्तरप्रदेशसर्वकारेण  रूपीकृत:। अनेन अश्रद्धया वाहनचालनेन सम्भूयमानापघातान् न्यूनीकर्तुं  शक्नुम: इत्यपि स: प्रतीक्षाम् प्राकटयत्।।

Wednesday, June 14, 2017

गुप्तः भूत्वा न्याय. कर्णस्य सेवानिवृत्तिः।
कोल्कोत्ता> विवादेन विख्यातः न्यायाधीशः सि एस् कर्णः कोल्कोत्ता उच्चन्यायालयात् सोमवासरे सेवानिवृत्तः अभवत्। न्यायालयम् अनागत्य रहःस्थानं वर्तयित्वा विरमितः न्यायाधीशः इत्यपूर्वविशेषता अपि तेन प्राप्ता।
     कर्णस्य अभावात् औपचारिककार्यक्रमाः के पि नासन्निति उच्चन्यायालयस्य पञ्जिकाधिकारिणा सुगतो मजुंदारेण उक्तम्। तदाभ्यन्तरे, न्यायालयं प्रति अनादरहेतुना सर्वोच्चन्यायालयेन षण्मासीय कारागारवासविहितं कर्णं सङ्गृहीतुं वङ्गदेशारक्षसेनायाः परिश्रमः अनुवर्तते च। न्यायालयविधेरनन्तरं "विटपान्तरितविग्रहः" न्याय. कर्णः तमिलनाट् राज्ये वर्तते इत्यस्ति विश्वासः।
महागोधिकाकालस्य पक्षिण: जीर्णभौतिकावशिष्टम् प्राप्तम्।।
           
   बीजिङ् > महागोधिकाकाले जीवितवत्या: लघुपक्षिण: पूर्णमातृका इदम्प्रथमतया  शास्त्रलोकेन  उपलब्धा। पीत 'कुन्दिरु' सदृशवृक्षस्रवे पतिताया: पक्षिण: नखानि पक्षाग्राश्च  सहितम् पूर्णरूपं प्राप्तुमर्हति। म्यान्मरस्य खने: प्राप्त: वृक्षस्रव: नव दशांशम् अष्ट कोटि: वर्षाणाम् प्राचीन: भवति। सार्धषट् कोटि: वर्षेभ्य: पूर्वं जीवितवत्या: दन्तयुक्तपक्षिविभागस्य एन्टोणियोर्णित्तीन्स् मध्ये अन्तर्भवति एषा पक्षिरिति मन्यते। शरीरघटनाया: पक्षाग्राणां च सविशेषताभि: पक्षिशाबक: इति निगमनं च क्रियते। अतिप्राचीनकालस्य अधुनातनकालस्य च पक्षिण: मध्ये विद्यमानभेदान् पठितुं  निरीक्षणमोतत् सहायकम् भवति। सामान्यतया जीर्णभौतिकावशिष्टेषु  पक्षाग्रा: नैव व्यक्तीभवन्ति। किन्तु एतस्मिन् विशिष्टवृक्षस्रावे   पक्षाग्रा: स्पष्टा: स्वीकर्तुं शक्यन्ते। पूर्वमपि एवम्  वृक्षस्रावे समानकालघट्टस्य पक्षिणां जैवभौतिकावशिष्टानि प्राप्तानि चेदपि कृत्यतया रूपप्राप्ति: प्रथमतया एव। पक्षिशाबकस्य दैर्घ्यं षट् से मी मितम् भवति।
स्वातन्त्र्यप्राप्तेरनन्तरं नवषष्टिवर्षेषु अतीतेषु, उत्तरप्रदेशे फकीरखेराग्रामे वैद्युति:  आगता।
      
अलहाबाद: > स्वातन्त्र्यप्राप्तेरनन्तरं नवषष्टिवर्षेषु अतीतेषु, उत्तरप्रदेशस्य मजरा फकीरखेराग्रामम्   अन्धकारात् स्वातन्त्र्यम् प्राप्तम् तत् तु गतदिने एव। दीर्घप्रतीक्षाया: अन्ते ग्रामेस्मिन्  वैद्युति: प्राप्ता।  गाननृत्तघोषै: ग्रामवासिन: वैद्युतेरागमनम् आघुष्टवन्त:।  भारतस्य विकसनं वर्धनं च चन्द्रयानमपि अतिक्रम्य अग्रे गमनसमये एव नवषष्टि: वर्षाणि यावत् ग्रामेनैकेन वैद्युत्यै प्रतीक्षा करणीया अभवत्। ग्रामे बच्चस्य गेहे प्रप्रथमं गोलदीपे प्रकाशिते  नृत्तं कृत्वा ग्रामीणा: सन्तोषमेनम् प्राकाशयन्। प्रथमदिने तावत् दारिद्र्यरेखायाम् अन्तर्भूतानाम् पञ्चत्रिंशत् कुटुम्बानां वैद्युतिबन्ध: प्राप्त:। दारिद्र्यरेखाया: उपरि (ए पी एल्)  विभागस्य एकस्य कुटुम्बस्यापि कृते वैद्युति: दत्ता इति दौत्यस्वीकारात्परम् विंशतिदिनान्तरे  ग्रामस्य वैद्युतिलभ्यताम् सफलं कृतवान् लेसाया: सामान्यप्रबन्धक: आशुतोषश्रीवास्तव: अवदत्। केन्द्रसर्वकारस्य ग्रामीणवैद्युतीकरणयोजनानुसारमेव ग्रामे वैद्य़ुतिम्  प्रापयन्। आहत्य एकविंशतिर्लक्षं रूप्यकाणि  पद्धत्यै व्ययीकृतानि  इत्यपि श्रीवास्तवा योजितवान्।

Tuesday, June 13, 2017

 भूगर्भदुर्गादपि भीकरान् द्रष्टुं शक्यते; सैन्यशक्तिवर्धकं रडार्।
         नवदिल्ली > गुप्तान् गोलिकास्त्रप्रयोक्तॄन् भीकरान् इत: परम् भारतीयसेना न बिभ्येत्। भूगर्भप्रकोष्ठेषु  गृहान्तर्भागेषु वा गुप्तान्  भीकरान्  द्रष्टुं साध्यानि  अत्यन्ताधुनिकरडारयन्त्राणि सेनाया: स्वकीयानि  भवन्ति ।  यु एस् , इस्रायेल् राष्ट्रेभ्य: सेना हैटेक् रडारयन्त्राणि क्रीणाति स्म। काश्मीरे नियन्त्रणरेखायां
च पाक्भीकराणां गुप्तातिक्रम: तथा अक्रमाश्च व्यापकरीत्या लक्षिता:  इत्यत: सेना  आधुनिकसङ्केतानधिकृत्य  अचिन्तयत्। सूक्ष्मवीचीतरङ्गान् ( मैक्रोवेव् तरङ्गान् ) आधारीकृत्यैव रडारस्य प्रवर्तनम्। कश्मीराधित्यकायाम् भीकरान् प्रतिरोद्धुम्  इदानीमेव एतादृशरडार् यन्त्राणि उपयुज्यन्ते इति उन्नतसैनिकवृत्तानि अवदन्। अतिसूक्ष्मता एव रडार् यन्त्राणां सविशेषता।   सविशेषभित्तीनाम् अन्त: , गृहान्तर्भागे, भूगर्भप्रकोष्ठान्त: वा गुप्तान् भीकरान् रडार् द्वारा  कृत्यतया  दृष्टिपथान् कर्तुं शक्यते। सैनिकानाम् पक्षे मनुष्यनाशं न्यूनीकृत्य  प्रहरशेषीवर्धनमेव तन्त्रम् । जनवासमेखलासु जनान् कवचत्वेन स्वीक्रियमाणान्  भीकरान् कृत्यतया लक्षीकर्तुं  शक्यते  इत्येतत् तस्य  सक्रियता।
 ऐ एस् भीकरा: सौदी अरेब्याम् भीषयन्ति  इति प्रख्यापितवन्त:।।
 दुबाय्>सौदी अरेब्याम् प्रति युद्धम् प्रख्याप्य  ऐ एस् भीकरा: रङ्गे । टेहराने सप्तदशजनानां  हननकारणभूतस्य  आक्रमणस्य उत्तरदायित्वं स्वीकृत्य अनन्तरमपि सौदी अरेब्यायाम्  आक्रमणं कर्तुम् ऐ एस् निर्णय: अभवदिति "" सैट् इन्टलिजन्स् निरीक्षणसङ्घ: "" ( मेखलाविज्ञानिनां निरीक्षणसङ्घेन ) आवेदितमस्ति। टेहरान् आक्रमणस्य  किञ्चित् पूर्वमेव मुखाच्छादकं धृत्वा पञ्च ऐ एस् भीकरै: कृत:  भीषणसन्देश: अन्तर्जालपटे आगत: । इरानस्य षिया मुहम्मदान्  सौदी अरेब्याया: सर्वकारांश्च भीकरा: भीषणं कुर्वन्ति। " भवतां राष्ट्रम् अतिक्रम्य  भवत: विरुद्ध्य आक्रमणं  कुर्म:।  वयं कस्यापि सहयोगिन: न भवाम:। वयम् अल्लाहौ तस्य दूते च विश्वसिम: " इत्यपि दृश्यचित्रसन्देशे वदन्ति ते। पूर्वमेव सिरियाया: इराखस्य च केषाञ्चन प्रदेशानां नियन्त्रणम्  ऐ एस् भीकरा: स्वीकृतवन्त:। किन्तु सौदीसुरक्षासेनाया: आक्रमणात्  बहुप्रदेशेभ्य: तै: पलायनं करणीयम् अभवत्। स्वीयविरुद्धशक्तिं सौदीम् अधीनं कर्तुं समर्थान् पद्धतीन्  दृढनिर्णयैस्सह रचयन्ति ऐ एस् भीकरा:।
अपघातजनयित्री  विदेशमहानौका गृहीता; त्रीणि मरणानि।
           गोश्रीपुरम् (कोची )> गोश्रीपुरे मत्स्यबन्धनाय गतायां  यन्त्रनौकायाम, महानौकायां घट्टितायाम्   अप्रत्यक्षभूतानां त्रयाणां कर्मकराणांम्  मृतदेहा:  पश्चात् उपलब्धा:। कुलच्चिलस्वदेशिन:  तम्पि दुरै इत्यस्य, असमस्वदेशिनो:  द्वयोश्च मृतदेहा: तथा प्राप्ता:। नाविकसेना  तीरसंरक्षणसेना  मत्स्यबन्धनकर्मकरा: च मिलित्वा  अन्वेषणं कृतवन्त:। तन्मध्ये, यन्त्रनौकया सङ्घट्य  अपघातकारिणीम्  महानौकां प्रत्यभिज्ञातवन्त:। पनामायाम् पञ्जीकृता   भारवाहिनी महानौका "आम्बर् " नामिका एव अपघातकारिणी। गोश्रीपुरात्  अष्ट नोट्टिक्कैल् मैल् मितं दूरं गताम् महानौकां नाविकसेना अगृह्णात्। महानौकाया:  मुख्यनेतृसहितान् प्रति  नरहत्यायै  नियमपत्रं  दास्यति इति  गोश्री नगरारक्षणमेधावी  एम् पी दिनेश:  न्यवेदयत्। राष्ट्रान्तरनियमान् अपि  परिगण्य नियमरक्षानिर्णय: स्वीक्रियते  इत्यपि स: उक्तवान्। प्रात: सार्धद्विवादने  पुतुवैप्पिन्स्थानकात्  विंशति: नोट्टिक्कल् मैल् मिते दूरे  अपघात: प्रवृत्त:। यन्त्रनौकायां विद्यमानेषु चतुर्दशसु जनेषु  एकादशजना: रक्षाम् प्राप्तवन्त:। दिनद्वयात्पूर्वम्  मत्स्यबन्धनाय निर्गता  "कर्मलमाता " नामिका यन्त्रनौका  अपघाते पतिता। यन्त्रनौकाया:  गति: महानौकानाम् मार्गेण नासीत्  इति कर्मकरा: उक्तवन्त:। प्रात: अपघातसमये अन्या यन्त्रनौका एतेषाम् समीपे आसीत्। उच्चै: शब्दं श्रुत्वा आगता: तस्या: यन्त्रनौकाया: कर्मकरा:  रक्षाप्रवर्तनं कृतवन्त:। अपघाते मत्स्यबन्धननौका  पूर्णतया विनष्टा। रक्षितान् एकादशजनान्  फोर्ट्कोच्च्याम् आतुरालयम् प्रावेशयत्। एतेषु द्वयो: स्थिति: अतीव गुरुतरेति कारणात्  एरणाकुलम् सर्वकारातुरालयंम् प्रति तौ परिवर्त्य प्रवेशितौ।।
इतःपरं कर्मनिषेधेन निस्सहकरणमिति केरलवणिजः
कुक्कुटक्रोडदेश:>पूर्वविज्ञापनं विना सूचितकर्मनिषेधेन निस्सहकर्तुं केरलवाणिज्य व्यवसाय - एकोपनसमिति: निश्चितवती। कुक्कुटक्रोडदेशे राज्यस्तरीयसचिवमेलने अनुवर्तमानकर्मनिषेधेन निस्सहकर्तुञ्च निश्चितम्।  कर्मनिषेधनाम्ना वणिक्षु अत्याचारारोपाय राष्ट्रियदलीयानां विचारं न अङ्गीकरिष्यति इति राज्याध्यक्षः अवदत्। वणिजाम् एतिस्मन् विरोधं सर्वान् राष्ट्रियदलीयान् ज्ञापयितुं च निश्चितवान्।
मत्स्यबन्धननौका महानौकाघट्टनेन भग्ना - द्वौ मृत, एकः अदृष्टः।
कोच्ची> केरले कोच्ची समुद्रतटात् चतुर्दश नोट्टिक्कल् मैल् [२६ कि.मी]परिमिते दूरे कीलेन बन्धितां "कार्मल् माता" नामिकां मत्स्यबन्धननौकाम् "आम्बर् एल्" इत्याख्या पण्यवस्तुयुक्ता महानौका घट्टति स्म। दुर्घटनायां द्वौ धीवरौ मृतौ। एकः अदृष्टः अभवत्।  रविवासरे प्रत्युषसि मत्स्यबन्धनानन्तरं धीवरेषु सुप्तेषु इयं दुर्घटना जाता।

Monday, June 12, 2017

उन्मादकवस्तुविक्रयणम् - जनसमूहेन हस्तपादच्छेदितः युवा मृतः । 
भट्टिन्ड [पञ्चाबदेश:]>भागिवान्दर् ग्रामे उन्मादकवस्तुविक्रयहेतुना जनसमूहः यस्य हस्तपादच्छेद नम् अकरोत् सः मृतः।  उन्मादकवस्तुविक्रयहेतुना दण्डं प्राप्य चतुर्दिनपूर्वं कारागारात् बहिरागतः विनोदकुमारः (३०) एव हतः पुरुषः। तस्य उन्मादकवस्तुविक्रयनिमित्तक दुःखनिवेदनस्य आरक्षकव्यवहारविधिस्वीकारः न अभवदिति ग्रामीणाः वदन्ति। एतदर्थं डि . वै. एस् . पि. इत्यमुं द्रष्टुम् गतान् तान् विनोद : अवरुणद्धि स्म। तदेव हस्तपादच्छेदनेन पर्यवस्यति स्म।
प्रशिक्षणार्थं चत्वारि युद्धनौकाः कराच्ची समुद्रतीरे।
नवदेहली > भारतीय महासमुद्रे  आधिपत्यं स्थापितुं चैनायाः श्रमं द्रढीकुर्वन्तः चत्वारि चीनीय युद्धनौकाः पाक्किस्थानस्य समुद्रकूले आगताः। पाकिस्थानेन सह चैनायाः बन्धं दृढीभवति इति भारतः चिन्तयति। चतृणां दिनानां प्रशिक्षणार्थं युद्धनौकाः पाक्किस्थानम् आगताः। गतशनिवारे युद्धनौकाः पाक्किस्थानम् आगताः इति चैनायाः औपचारिक वार्तादलेन व्यकतीकृताः।
द्वायोः राष्ट्पतेः परस्परधारणा तथा विश्वासश्च वर्धयितुं सन्दर्शनमिदं साहाय्यं करोति इति चैनीस् पीप्पिल्स् लिबरेषन् आर्मी कमाण्डर सहन् हू अवदत्। राष्ट्रयोः नविकसेनयोः परस्परं आशयविनिमयं साध्यते  तद्वारा विश्वसमाधानं च साध्यते इति सः  अयोजयत्।
चीनायुद्धनौकायां पाक्किस्थान नाविकसेना मेधाविनं गार्ड् आफ् ओर्णर् अयच्छत्। चीना कर्यकर्तारः पाक्किस्थानः कार्यकर्तृभिः सह चर्चां करिष्यन्ति।
पूर्वं चैनायाः अन्तर्वाहिनी कराच्ची तीरे आगता इति सूचना लब्धा आसीत्। मासेभ्यः पूर्वं गूगिल् एर्त् मध्ये आगतं चित्रं बहिरागतम्। गतमेई मासे कराच्ची समुद्रतीरे चैनायाः अन्तर्वाहिनी आगता। भारत महासमुद्रे स्व स्वाधीनं वर्धयितुं तेषां श्रंममिति भारतीय प्रतिरोधकार्यकर्तारः निरीक्षणं कुर्वन्ति।