OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, June 15, 2017

उत्तरप्रदेशे नियमलङ्घकानां लोकयानचालकानां भावचित्रग्रहणे तु पुरस्कार:।
        लख्नौ>नियमलङ्घकेभ्य: लोकयानचालकेभ्य: दण्डनविधानं शाक्तीकर्तुं नूतनपद्धत्या सह उत्तरप्रदेशसर्वकार:। वाहनं चालयन् एव दूरवाणीसम्भाषणं, नियमलङ्घनं  वा कुर्वत: चालकस्य भावचित्रं स्वीकृत्य "वाट्स् आप् " माध्यमेन गतागतविभागाय प्रेषयितुं शक्यते। एवं ये चित्राणि प्रेषयन्ति, तेभ्य: पुरस्कारान् दातुं च सर्वकारेण निश्चितमिति  पी टी ऐ न्यवेदयत्। यानचालनसमये जङ्गमदूरवाण्या सम्भाषणं  नियमेन निरोधितं चेदपि  यात्रिका: प्रतिदिनम् परिदेवनानि कुर्वन्ति इति  उत्तरप्रदेशस्य गतागतमन्त्री स्वतन्त्रदेवसिंह: अवदत्।  अत: यात्रिकाणां साहाय्यार्थमेव  एतत् क्रमीकरणं स्वीकृतम्। नियमलङ्घकानां यानचालकानां चित्रं गृहीत्वा यात्रिका: प्रेषयितुमर्हन्ति। चित्रं गृहीत्वा प्रेषकाणां यात्रिकाणां कृते  रूप्यकपुरस्कारं यच्छेयु: इत्यपि स:  न्यवेदयत्। क्रमीकरणस्य एतस्य कृते यात्रिकाणाम् पक्षात् उत्तमप्रतिकरणमपि लभते इति मन्त्री सूचितवान् । आशयोयं द्विधा सफलीकृत: भवेत्, स: योजितवान्।  नियमलङ्घनम् सूचयितुम् अधिकार: प्राप्त: इति  चिन्ता यात्रिकाणाम् भवेत्।  तथैव चालका: दायित्वबोधयुक्ताश्च भवेयु: इति प्रतीक्षापि तेन प्रकटीकृता। नियमलङ्घकानां षण्मासं यावत् कारागारवास: सहस्ररूप्यकाणां  दण्डनं च प्राप्तव्ये  बहुत्र एतानि नियमलङ्घनानि नैव आवेद्यन्ते।  एतस्य परिहाररूपेणापि  आशयोयम् उत्तरप्रदेशसर्वकारेण  रूपीकृत:। अनेन अश्रद्धया वाहनचालनेन सम्भूयमानापघातान् न्यूनीकर्तुं  शक्नुम: इत्यपि स: प्रतीक्षाम् प्राकटयत्।।

Wednesday, June 14, 2017

गुप्तः भूत्वा न्याय. कर्णस्य सेवानिवृत्तिः।
कोल्कोत्ता> विवादेन विख्यातः न्यायाधीशः सि एस् कर्णः कोल्कोत्ता उच्चन्यायालयात् सोमवासरे सेवानिवृत्तः अभवत्। न्यायालयम् अनागत्य रहःस्थानं वर्तयित्वा विरमितः न्यायाधीशः इत्यपूर्वविशेषता अपि तेन प्राप्ता।
     कर्णस्य अभावात् औपचारिककार्यक्रमाः के पि नासन्निति उच्चन्यायालयस्य पञ्जिकाधिकारिणा सुगतो मजुंदारेण उक्तम्। तदाभ्यन्तरे, न्यायालयं प्रति अनादरहेतुना सर्वोच्चन्यायालयेन षण्मासीय कारागारवासविहितं कर्णं सङ्गृहीतुं वङ्गदेशारक्षसेनायाः परिश्रमः अनुवर्तते च। न्यायालयविधेरनन्तरं "विटपान्तरितविग्रहः" न्याय. कर्णः तमिलनाट् राज्ये वर्तते इत्यस्ति विश्वासः।
महागोधिकाकालस्य पक्षिण: जीर्णभौतिकावशिष्टम् प्राप्तम्।।
           
   बीजिङ् > महागोधिकाकाले जीवितवत्या: लघुपक्षिण: पूर्णमातृका इदम्प्रथमतया  शास्त्रलोकेन  उपलब्धा। पीत 'कुन्दिरु' सदृशवृक्षस्रवे पतिताया: पक्षिण: नखानि पक्षाग्राश्च  सहितम् पूर्णरूपं प्राप्तुमर्हति। म्यान्मरस्य खने: प्राप्त: वृक्षस्रव: नव दशांशम् अष्ट कोटि: वर्षाणाम् प्राचीन: भवति। सार्धषट् कोटि: वर्षेभ्य: पूर्वं जीवितवत्या: दन्तयुक्तपक्षिविभागस्य एन्टोणियोर्णित्तीन्स् मध्ये अन्तर्भवति एषा पक्षिरिति मन्यते। शरीरघटनाया: पक्षाग्राणां च सविशेषताभि: पक्षिशाबक: इति निगमनं च क्रियते। अतिप्राचीनकालस्य अधुनातनकालस्य च पक्षिण: मध्ये विद्यमानभेदान् पठितुं  निरीक्षणमोतत् सहायकम् भवति। सामान्यतया जीर्णभौतिकावशिष्टेषु  पक्षाग्रा: नैव व्यक्तीभवन्ति। किन्तु एतस्मिन् विशिष्टवृक्षस्रावे   पक्षाग्रा: स्पष्टा: स्वीकर्तुं शक्यन्ते। पूर्वमपि एवम्  वृक्षस्रावे समानकालघट्टस्य पक्षिणां जैवभौतिकावशिष्टानि प्राप्तानि चेदपि कृत्यतया रूपप्राप्ति: प्रथमतया एव। पक्षिशाबकस्य दैर्घ्यं षट् से मी मितम् भवति।
स्वातन्त्र्यप्राप्तेरनन्तरं नवषष्टिवर्षेषु अतीतेषु, उत्तरप्रदेशे फकीरखेराग्रामे वैद्युति:  आगता।
      
अलहाबाद: > स्वातन्त्र्यप्राप्तेरनन्तरं नवषष्टिवर्षेषु अतीतेषु, उत्तरप्रदेशस्य मजरा फकीरखेराग्रामम्   अन्धकारात् स्वातन्त्र्यम् प्राप्तम् तत् तु गतदिने एव। दीर्घप्रतीक्षाया: अन्ते ग्रामेस्मिन्  वैद्युति: प्राप्ता।  गाननृत्तघोषै: ग्रामवासिन: वैद्युतेरागमनम् आघुष्टवन्त:।  भारतस्य विकसनं वर्धनं च चन्द्रयानमपि अतिक्रम्य अग्रे गमनसमये एव नवषष्टि: वर्षाणि यावत् ग्रामेनैकेन वैद्युत्यै प्रतीक्षा करणीया अभवत्। ग्रामे बच्चस्य गेहे प्रप्रथमं गोलदीपे प्रकाशिते  नृत्तं कृत्वा ग्रामीणा: सन्तोषमेनम् प्राकाशयन्। प्रथमदिने तावत् दारिद्र्यरेखायाम् अन्तर्भूतानाम् पञ्चत्रिंशत् कुटुम्बानां वैद्युतिबन्ध: प्राप्त:। दारिद्र्यरेखाया: उपरि (ए पी एल्)  विभागस्य एकस्य कुटुम्बस्यापि कृते वैद्युति: दत्ता इति दौत्यस्वीकारात्परम् विंशतिदिनान्तरे  ग्रामस्य वैद्युतिलभ्यताम् सफलं कृतवान् लेसाया: सामान्यप्रबन्धक: आशुतोषश्रीवास्तव: अवदत्। केन्द्रसर्वकारस्य ग्रामीणवैद्युतीकरणयोजनानुसारमेव ग्रामे वैद्य़ुतिम्  प्रापयन्। आहत्य एकविंशतिर्लक्षं रूप्यकाणि  पद्धत्यै व्ययीकृतानि  इत्यपि श्रीवास्तवा योजितवान्।

Tuesday, June 13, 2017

 भूगर्भदुर्गादपि भीकरान् द्रष्टुं शक्यते; सैन्यशक्तिवर्धकं रडार्।
         नवदिल्ली > गुप्तान् गोलिकास्त्रप्रयोक्तॄन् भीकरान् इत: परम् भारतीयसेना न बिभ्येत्। भूगर्भप्रकोष्ठेषु  गृहान्तर्भागेषु वा गुप्तान्  भीकरान्  द्रष्टुं साध्यानि  अत्यन्ताधुनिकरडारयन्त्राणि सेनाया: स्वकीयानि  भवन्ति ।  यु एस् , इस्रायेल् राष्ट्रेभ्य: सेना हैटेक् रडारयन्त्राणि क्रीणाति स्म। काश्मीरे नियन्त्रणरेखायां
च पाक्भीकराणां गुप्तातिक्रम: तथा अक्रमाश्च व्यापकरीत्या लक्षिता:  इत्यत: सेना  आधुनिकसङ्केतानधिकृत्य  अचिन्तयत्। सूक्ष्मवीचीतरङ्गान् ( मैक्रोवेव् तरङ्गान् ) आधारीकृत्यैव रडारस्य प्रवर्तनम्। कश्मीराधित्यकायाम् भीकरान् प्रतिरोद्धुम्  इदानीमेव एतादृशरडार् यन्त्राणि उपयुज्यन्ते इति उन्नतसैनिकवृत्तानि अवदन्। अतिसूक्ष्मता एव रडार् यन्त्राणां सविशेषता।   सविशेषभित्तीनाम् अन्त: , गृहान्तर्भागे, भूगर्भप्रकोष्ठान्त: वा गुप्तान् भीकरान् रडार् द्वारा  कृत्यतया  दृष्टिपथान् कर्तुं शक्यते। सैनिकानाम् पक्षे मनुष्यनाशं न्यूनीकृत्य  प्रहरशेषीवर्धनमेव तन्त्रम् । जनवासमेखलासु जनान् कवचत्वेन स्वीक्रियमाणान्  भीकरान् कृत्यतया लक्षीकर्तुं  शक्यते  इत्येतत् तस्य  सक्रियता।
 ऐ एस् भीकरा: सौदी अरेब्याम् भीषयन्ति  इति प्रख्यापितवन्त:।।
 दुबाय्>सौदी अरेब्याम् प्रति युद्धम् प्रख्याप्य  ऐ एस् भीकरा: रङ्गे । टेहराने सप्तदशजनानां  हननकारणभूतस्य  आक्रमणस्य उत्तरदायित्वं स्वीकृत्य अनन्तरमपि सौदी अरेब्यायाम्  आक्रमणं कर्तुम् ऐ एस् निर्णय: अभवदिति "" सैट् इन्टलिजन्स् निरीक्षणसङ्घ: "" ( मेखलाविज्ञानिनां निरीक्षणसङ्घेन ) आवेदितमस्ति। टेहरान् आक्रमणस्य  किञ्चित् पूर्वमेव मुखाच्छादकं धृत्वा पञ्च ऐ एस् भीकरै: कृत:  भीषणसन्देश: अन्तर्जालपटे आगत: । इरानस्य षिया मुहम्मदान्  सौदी अरेब्याया: सर्वकारांश्च भीकरा: भीषणं कुर्वन्ति। " भवतां राष्ट्रम् अतिक्रम्य  भवत: विरुद्ध्य आक्रमणं  कुर्म:।  वयं कस्यापि सहयोगिन: न भवाम:। वयम् अल्लाहौ तस्य दूते च विश्वसिम: " इत्यपि दृश्यचित्रसन्देशे वदन्ति ते। पूर्वमेव सिरियाया: इराखस्य च केषाञ्चन प्रदेशानां नियन्त्रणम्  ऐ एस् भीकरा: स्वीकृतवन्त:। किन्तु सौदीसुरक्षासेनाया: आक्रमणात्  बहुप्रदेशेभ्य: तै: पलायनं करणीयम् अभवत्। स्वीयविरुद्धशक्तिं सौदीम् अधीनं कर्तुं समर्थान् पद्धतीन्  दृढनिर्णयैस्सह रचयन्ति ऐ एस् भीकरा:।
अपघातजनयित्री  विदेशमहानौका गृहीता; त्रीणि मरणानि।
           गोश्रीपुरम् (कोची )> गोश्रीपुरे मत्स्यबन्धनाय गतायां  यन्त्रनौकायाम, महानौकायां घट्टितायाम्   अप्रत्यक्षभूतानां त्रयाणां कर्मकराणांम्  मृतदेहा:  पश्चात् उपलब्धा:। कुलच्चिलस्वदेशिन:  तम्पि दुरै इत्यस्य, असमस्वदेशिनो:  द्वयोश्च मृतदेहा: तथा प्राप्ता:। नाविकसेना  तीरसंरक्षणसेना  मत्स्यबन्धनकर्मकरा: च मिलित्वा  अन्वेषणं कृतवन्त:। तन्मध्ये, यन्त्रनौकया सङ्घट्य  अपघातकारिणीम्  महानौकां प्रत्यभिज्ञातवन्त:। पनामायाम् पञ्जीकृता   भारवाहिनी महानौका "आम्बर् " नामिका एव अपघातकारिणी। गोश्रीपुरात्  अष्ट नोट्टिक्कैल् मैल् मितं दूरं गताम् महानौकां नाविकसेना अगृह्णात्। महानौकाया:  मुख्यनेतृसहितान् प्रति  नरहत्यायै  नियमपत्रं  दास्यति इति  गोश्री नगरारक्षणमेधावी  एम् पी दिनेश:  न्यवेदयत्। राष्ट्रान्तरनियमान् अपि  परिगण्य नियमरक्षानिर्णय: स्वीक्रियते  इत्यपि स: उक्तवान्। प्रात: सार्धद्विवादने  पुतुवैप्पिन्स्थानकात्  विंशति: नोट्टिक्कल् मैल् मिते दूरे  अपघात: प्रवृत्त:। यन्त्रनौकायां विद्यमानेषु चतुर्दशसु जनेषु  एकादशजना: रक्षाम् प्राप्तवन्त:। दिनद्वयात्पूर्वम्  मत्स्यबन्धनाय निर्गता  "कर्मलमाता " नामिका यन्त्रनौका  अपघाते पतिता। यन्त्रनौकाया:  गति: महानौकानाम् मार्गेण नासीत्  इति कर्मकरा: उक्तवन्त:। प्रात: अपघातसमये अन्या यन्त्रनौका एतेषाम् समीपे आसीत्। उच्चै: शब्दं श्रुत्वा आगता: तस्या: यन्त्रनौकाया: कर्मकरा:  रक्षाप्रवर्तनं कृतवन्त:। अपघाते मत्स्यबन्धननौका  पूर्णतया विनष्टा। रक्षितान् एकादशजनान्  फोर्ट्कोच्च्याम् आतुरालयम् प्रावेशयत्। एतेषु द्वयो: स्थिति: अतीव गुरुतरेति कारणात्  एरणाकुलम् सर्वकारातुरालयंम् प्रति तौ परिवर्त्य प्रवेशितौ।।
इतःपरं कर्मनिषेधेन निस्सहकरणमिति केरलवणिजः
कुक्कुटक्रोडदेश:>पूर्वविज्ञापनं विना सूचितकर्मनिषेधेन निस्सहकर्तुं केरलवाणिज्य व्यवसाय - एकोपनसमिति: निश्चितवती। कुक्कुटक्रोडदेशे राज्यस्तरीयसचिवमेलने अनुवर्तमानकर्मनिषेधेन निस्सहकर्तुञ्च निश्चितम्।  कर्मनिषेधनाम्ना वणिक्षु अत्याचारारोपाय राष्ट्रियदलीयानां विचारं न अङ्गीकरिष्यति इति राज्याध्यक्षः अवदत्। वणिजाम् एतिस्मन् विरोधं सर्वान् राष्ट्रियदलीयान् ज्ञापयितुं च निश्चितवान्।
मत्स्यबन्धननौका महानौकाघट्टनेन भग्ना - द्वौ मृत, एकः अदृष्टः।
कोच्ची> केरले कोच्ची समुद्रतटात् चतुर्दश नोट्टिक्कल् मैल् [२६ कि.मी]परिमिते दूरे कीलेन बन्धितां "कार्मल् माता" नामिकां मत्स्यबन्धननौकाम् "आम्बर् एल्" इत्याख्या पण्यवस्तुयुक्ता महानौका घट्टति स्म। दुर्घटनायां द्वौ धीवरौ मृतौ। एकः अदृष्टः अभवत्।  रविवासरे प्रत्युषसि मत्स्यबन्धनानन्तरं धीवरेषु सुप्तेषु इयं दुर्घटना जाता।

Monday, June 12, 2017

उन्मादकवस्तुविक्रयणम् - जनसमूहेन हस्तपादच्छेदितः युवा मृतः । 
भट्टिन्ड [पञ्चाबदेश:]>भागिवान्दर् ग्रामे उन्मादकवस्तुविक्रयहेतुना जनसमूहः यस्य हस्तपादच्छेद नम् अकरोत् सः मृतः।  उन्मादकवस्तुविक्रयहेतुना दण्डं प्राप्य चतुर्दिनपूर्वं कारागारात् बहिरागतः विनोदकुमारः (३०) एव हतः पुरुषः। तस्य उन्मादकवस्तुविक्रयनिमित्तक दुःखनिवेदनस्य आरक्षकव्यवहारविधिस्वीकारः न अभवदिति ग्रामीणाः वदन्ति। एतदर्थं डि . वै. एस् . पि. इत्यमुं द्रष्टुम् गतान् तान् विनोद : अवरुणद्धि स्म। तदेव हस्तपादच्छेदनेन पर्यवस्यति स्म।
प्रशिक्षणार्थं चत्वारि युद्धनौकाः कराच्ची समुद्रतीरे।
नवदेहली > भारतीय महासमुद्रे  आधिपत्यं स्थापितुं चैनायाः श्रमं द्रढीकुर्वन्तः चत्वारि चीनीय युद्धनौकाः पाक्किस्थानस्य समुद्रकूले आगताः। पाकिस्थानेन सह चैनायाः बन्धं दृढीभवति इति भारतः चिन्तयति। चतृणां दिनानां प्रशिक्षणार्थं युद्धनौकाः पाक्किस्थानम् आगताः। गतशनिवारे युद्धनौकाः पाक्किस्थानम् आगताः इति चैनायाः औपचारिक वार्तादलेन व्यकतीकृताः।
द्वायोः राष्ट्पतेः परस्परधारणा तथा विश्वासश्च वर्धयितुं सन्दर्शनमिदं साहाय्यं करोति इति चैनीस् पीप्पिल्स् लिबरेषन् आर्मी कमाण्डर सहन् हू अवदत्। राष्ट्रयोः नविकसेनयोः परस्परं आशयविनिमयं साध्यते  तद्वारा विश्वसमाधानं च साध्यते इति सः  अयोजयत्।
चीनायुद्धनौकायां पाक्किस्थान नाविकसेना मेधाविनं गार्ड् आफ् ओर्णर् अयच्छत्। चीना कर्यकर्तारः पाक्किस्थानः कार्यकर्तृभिः सह चर्चां करिष्यन्ति।
पूर्वं चैनायाः अन्तर्वाहिनी कराच्ची तीरे आगता इति सूचना लब्धा आसीत्। मासेभ्यः पूर्वं गूगिल् एर्त् मध्ये आगतं चित्रं बहिरागतम्। गतमेई मासे कराच्ची समुद्रतीरे चैनायाः अन्तर्वाहिनी आगता। भारत महासमुद्रे स्व स्वाधीनं वर्धयितुं तेषां श्रंममिति भारतीय प्रतिरोधकार्यकर्तारः निरीक्षणं कुर्वन्ति।
गगने यन्त्रं शिथिलं जातम्। विमानं सुरक्षितरूपेण अवतारितम्।
सिड्नी> यन्त्रभागे बृहद्वारस्य दर्शनेन डयितं विमानं सुरक्षितरूपेण अवतारितम्। सिड्नीतः चैनायाः षाङ्हायं प्रति गन्तव्यं चैना ईस्टेण् विमानं सुरक्षितरूपेण अवतारितम्। एयर्बस् ए ३३०-२०० ट्विन् जड् विमानं सोमवासरे अद्भुततया रक्षां प्रापत्। सर्वे यात्रिकाः सुरक्षिताः इति अधिकृतैः उक्तम्।
 विमानस्य उद्डयनानन्तरं दक्षिणयन्त्रभागे का अपि समस्या अस्तीति वैनानिकानां चिन्ता आगता। अनन्तरं विमानं अधः अवतारयितुं निर्णयं स्वीचकार। अवतरणानन्तरमेव भकरावस्था ते ज्ञातवन्तः। विमानस्य दक्षिणयन्त्रस्य बृहद्भागं पूर्णतया शिथलमासीत्। रोल्स् रोयिसेण निर्मितमस्ति विमानस्य यन्त्रम्। संभवमधिकृत्य परिशोधनां कुर्मः इति ते अवदन्।

Sunday, June 11, 2017

ऐ एस् भीकरा: सौदी अरेब्याम् प्रति युद्धं प्रख्यापितवन्त:
दुबाय् > सौदी अरेब्याम् प्रति युद्धम् प्रख्याप्य  ऐ एस् भीकरा: रङ्गे। टेहराने सप्तदशजनानां  हननकारणभूतस्य  आक्रमणस्य उत्तरदायित्वं स्वीकृत्य अनन्तरमपि सौदी अरेब्यायाम्  आक्रमणं कर्तुम् ऐ एस् निर्णय: अभवदिति  सैट् इन्टलिजन्स् निरीक्षणसङ्घ: आवेदितमस्ति। टेहरान् आक्रमणस्य  किञ्चित् पूर्वमेव मुखाच्छादकं धृत्वा पञ्च ऐ एस् भीकरै: कृत:  भीषणसन्देश: अन्तर्जालपटे आगत:। इरानस्य षिया मुहम्मदान्  सौदी अरेब्याया: सर्वकारांश्च भीकरा: भीषणं कुर्वन्ति। " भवतां राष्ट्रम् अतिक्रम्य  भवत: विरुद्ध्य आक्रमणं  कुर्म:।  वयं कस्यापि सहयोगिन: न भवाम: । वयम् अल्लाहौ तस्य दूते च विश्वसिम: " इत्यपि दृश्यचित्रसन्देशे वदन्ति ते। पूर्वमेव सिरियाया: इराखस्य च केषाञ्चन प्रदेशानां नियन्त्रणम्  ऐ एस् भीकरा: स्वीकृतवन्त:। किन्तु सौदीसुरक्षासेनाया: आक्रमणात्  बहुप्रदेशेभ्य: तै: पलायनं करणीयम् अभवत्। स्वीयविरुद्धशक्तिं सौदीम् अधीनं कर्तुं समर्थान् पद्धतीन्  दृढनिर्णयैस्सह रचयन्ति ऐ एस् भीकरा:।
जूलै प्रथमदिनाङ्कत: आयकरप्रत्यर्पणाय  नूतनस्थिरखातासङ्ख्यायै च आधारसमपत्रं निर्बन्धतया आवश्यकम् ।
नवदिल्ली>जूलै प्रथमदिनाङ्कत:  आयकरप्रत्यर्पणाय  आधारसमपत्रं निर्बन्धं कृतम्। स्थिरखातासङ्ख्ययापि  आधारसङ्ख्या बन्धनीया इति सी बी डी टी ( सेन्ट्रल् बोर्ड् ओफ्  डयरक्ट् टाक्सस्  ) ( साक्षात् करविभागस्य केन्द्रफलकेन )  विज्ञापनं कृतम् । स्थिरखातासङ्ख्यायुक्ता:  नूतनतया अपेक्षिताश्च  झटित्येव आधारसङ्ख्याम्   आयकरविभागस्य अधिकारिण:  ज्ञापयेयु: ।   आयकरप्रत्यर्पणाय तथा स्थिरखातासङ्ख्यालब्धये  च निर्बन्धतया आधारसमपत्रमावश्यकम्  इति नियमभेदगति:  न शासनघटनाविरुद्धा , किन्तु आधारसमपत्रस्याभावे  स्थिरखातासङ्ख्या असाधु: भविष्यति इति नियम: भागिकतया निरुद्ध्येदिति  परमोन्नतनीतिपीठस्य विधिन्याय: । केवलम्  आधारसङ्ख्यारहितानाम् कृते दीयमान: भागिकाश्वास: परमोन्नतनीतिपीठस्य विधिन्याय: इति, सम्प्रति  आधारसङ्ख्यारहितानाम्  स्थिरखातासङ्ख्या  असाधुर्न भवेदिति च  सी बी टी डी न्यवेदयत्। परमोन्नतनीतिपीठविधिन्यायम् पठितवन्त: धनकार्यमन्त्रालयस्य  तथा सी बी टी डी मध्ये विद्यमाना: उन्नततलसमितिरेव आधारनिर्बन्धाय निर्णयं स्व्यकुर्वन्। किन्तु स्थिरखातासङ्ख्याया: असाधुत्वे उपयोक्ता यान् कानपि वित्तकोशक्रयविक्रयान् वा कर्तुं नार्हति। आयकरप्रत्यर्पणसञ्चिकाकरणाय  नूतनस्थिरखातासङ्ख्याप्राप्त्यै च जूलै प्रथमदिनाङ्कादारभ्य  आधारसङ्ख्यानिर्बन्धं  कृतवन्त: इति उन्नतायकरविभागोद्योगस्थ: उक्तवान्। आधारसङ्ख्याभावे  स्थिरखातासङ्ख्या असाधु: भविष्यति  इति व्यवस्था प्रवृत्तिपथानयनात्  पूर्वम् भागिकतया निरुद्ध्येदिति  नीतिपीठस्थानां न्यायाधिपानाम् ए के सिक्रि:, अशोकभूषण:  एतेषाम् उत्पीठिकया व्यक्तीकृता।
काष्ठचुल्लीत: वैद्युति:-  दशमीकक्ष्याछात्र:  केरलस्य अभिमानतारम्।
आलप्पुषा>काष्ठचुल्लीत: वैद्युतिमुत्पाद्य  दशमकक्ष्याछात्र:, हरिप्पाटे पिलाप्पुषायां  ग्रीष्मायाम् आदित्यचन्द्रप्रशान्त: स्वीयगवेषणेन  प्रदेशस्य अभिमानम् अवर्धयत् । मलिनीकरणन्यूनकं वैद्युतोत्पादनसमर्थं  काष्ठचुल्ल्याम् प्रवर्तनक्षमम्   एक्को कुक्क् पवर् प्लस्  इति काष्ठचुल्ली एव एतस्य बालशास्त्रज्ञस्य सफलं शास्त्रनिरीक्षणम् ।  हरिप्पाटे सर्वकारमातृकाबालोच्चतरविद्यालयात्  दशमीकक्ष्या परीक्षायां सर्वविषयेषु  ए+ प्राप्तवान् अयं समर्थ: बाल:। ऐक्यराष्ट्रसभाधारस्य ग्लोबल्  अलयन्स् फोर् क्लीन् कुक्क् स्टौ  (मालिन्यरहितचुल्लीपचनागोलसहकरणकार्यक्रमे ) कार्यक्रमे स्थानम् प्राप्तवान्  अप्राप्यपूर्तीकृतवयस्क:  प्रथमव्यक्ति: अयम् । जप्पानस्य शास्त्रसाङ्केतिकसमित्या:तथा केन्द्रशास्त्रसाङ्केतिकविभागस्य च संयुक्ताभिमुख्ये  उच्चविद्यालयछात्राणां कृते  प्रचाल्यमाने  साक्कुरा युवजनविनिमयशास्त्रकार्यक्रमे सप्तदशोत्तरद्विसहस्रतमे केरलात् आदित्य: चित: आसीत्। जप्पाने शास्त्रसाङ्केतिकविदग्धै: नोबल् सम्मानजेतृभि:  सह संवादे भागं वोढुं तत्रत्य शास्त्रसाङ्केतिकसंस्था: सन्द्रष्टुं  कलाकार्यक्रमेषु भागभाक् भवितुं च आदित्यस्य अवसर: प्राप्त:। राष्ट्रपतिभवनस्य मुगलोद्याने मार्च् चतुर्थे प्रचलिते  गवेषणप्रदर्शनोत्सवे भागं गृहीत्वा  एक्को कुक्क्  पवर् प्लस् प्रोजक्ट् राष्ट्रपते: , केन्द्र शास्त्रसाङ्केतिकमन्त्रिण:, केन्द्र वनिता शिशुक्षेममन्त्रिण: च पुरत: अवतारितवान्। अमरीकाया: कोलराडो सर्वकलाशाला, ऐक्यराष्ट्रसभाया: परिस्थितिकार्यक्रम: , डेन्मार्क् साङ्केतिकसर्वकलाशाला या: गवेषणविभाग: एता: संस्था: एक्को कुक्क् पवर् प्लस्  प्रोजक्टं गवेषणाय चितवन्त:। ऐ एस् आर् ओ संस्थाया: आगामिविक्षेपणं साक्षात् द्रष्टुं श्रीहरिक्कोट्टाया: सतीश धवान बहिराकाशकेन्द्रम् प्रति आदित्यं निमन्त्रितवन्त:। एकादशकक्ष्यायां शास्त्रविषयं स्वीकृत्य पठितुमेव अयं वाञ्छति। जप्पानस्य टोकियो सर्वकलाशालायां नेगोया सर्वकलाशालायां  अनुवर्तिशिक्षणं वाग्दत्तमपि। मुद्रणयन्त्रव्यापारिण:प्रशान्तकुमारस्य राजी  प्रशान्तस्य च पुत्रोयम्। तस्य सहोदर: अतुलचन्द्रप्रशान्त:  नवमीकक्ष्यायां   सहोदरी  पार्वती चन्द्रप्रशान्त: षष्ठीकक्ष्यायां च पठत:। 
ऐ एस् द्वारा बन्दिन:कृता: 39 भारतीया: अपि मोसूले- सुषमा स्वराज:।
नवदिल्ली>त्रिवर्षेभ्य: पूर्वम् इराखे ऐ एस् भीकरै: बन्दिन: कृता: नवत्रिंशत्  भारतीया: अपि मोसूले जीवन्त: सन्तीति केन्द्रसर्वकार:। विदेशकार्यमन्त्रिणी सुषमा स्वराज:  एतदनुबद्धकार्याणि असूचयदिति बन्दिन: कुटुम्बाङ्गानि न्यवेदयन्। इराखसेना ऐ एस् भीकरै: सह रूक्षयुद्धं प्रचलन्ती इराखस्य उत्तरप्रविश्या एव मोसूल:। ऐ एस् सकाशात्  मोसूलस्य नवतिप्रतिशतम् भागान् इराखीसेना प्रतिस्व्यकरोत्  तथापि भारतीयान् बन्दिन: न दृष्टवन्त:। किन्तु  एते सर्वे ऐ एस् नियन्त्रणे विद्यमानायाम्  मोसूल् मेखलायाम् भवितुमर्हन्ति इति सूषमा स्वराज: न्यवेदयदिति  बन्दिषु एकस्य कुटुम्बाङ्गम् गुरपीन्दर कौर: न्यवेदयत्। इराखे बन्दिन: अन्वेषणं सम्बद्ध्य केन्द्रसर्वकार: एतावता मौनमभजत। तन्मध्ये एकादशवारम् बन्दिन: मोचनं सम्बद्ध्य बान्धवा: केन्द्रसर्वकारेण सह चर्चाम् कृतवन्त:। चतुर्दशोत्तरद्विसहस्रे जूण् चतुर्दशे एव  ऐ एस् भीकरा: नवत्रिंशत् भारतीयान्  अपहृतवन्त:। तुर्कीस्वकीये मोसूले प्रवर्तमानात् निर्माणकार्यालयात् बाग्दादम् प्रतिगमनमध्ये  चतुर्दशोत्तरद्विसहस्रे जूण् एकादशदिनाङ्के भारतीयान् भीकरा: अपाहरन्। पञ्चाब, बङ्गालस्वदेशिन: एतेषु भूरिजना:।
शुनकानां विपणने अपि नियन्त्रणम्।
नवदिल्ली> वाणिज्यं लक्ष्यीकृत्य शुनकानां प्रजननाय विक्रयणाय च केन्द्रसर्वकारेण नूतनव्यवस्थानियन्त्रणादिकम् आयोजितम्। प्राणिहिंसानिरोधननियमस्य आधारे एव नूतनव्यवस्था आयोजिता। धेनुनाम् अलङ्कारमत्स्यानां च विक्रयण-प्रदर्शनमधिकृत्य आयोजितेन नियन्त्रणेन सह एव केन्द्रवनं-परिस्थितिमनत्रालयेन सारमेयानां कृते अनुशासनं कृतम्।
     मासद्वयोनानां शुनकानां विक्रयणं निरुध्यते। बालशुनकानां परीक्षणार्थं विक्रयः अपि निरुध्यते। प्रजननकेन्द्रेषु अवश्यमानाः सुविधाः करणीयाः। यथेष्टं भोजनं जलं स्थानम् इत्यादयः सज्जीकरणीयाः इत्यपि नूतनविज्ञापने अन्तर्भावितमस्ति।

Saturday, June 10, 2017

इराने स्थानद्वये  ऐ एस्  भीकराक्रमणम्;  द्वादश मरणानि।
टेहरान्>  इरानस्य नियमनिर्माणसभायाम् ( पार्लमेन्ट् )  तथा परमोन्नतनेतु:  आयत्तुल्ला खुमैने: अन्त्यविश्रमस्थाने च  प्रवृत्ते सन्नद्धमरणभीकराक्रमणे द्वादशजना: हता:  । द्विचत्वारिंशत्  जनानां  क्षता: अभवन्  ।नियमनिर्माणसभायाम् घण्टा: यावत् प्रवृत्तसङ्घट्टनानन्तरं  चतुर: भीकरान् सुरक्षासेना अहनत् । द्वन्द्वाक्रमणयो:  दायित्वम्  भीकरसङ्घटनेति ख्याता ऐ एस्  सङ्घटनया स्वीकृतम् । षिया भूरिपक्षराष्ट्रे इराने  षियाविरुद्धै: ऐ एस् भीकरै: क्रियमाणम् प्रथमम् भीकराक्रमणम् एतत् ।षियामुहम्मदान्  मतद्रोहिन:  इति पश्यन्तीम् ऐ एस् सङ्घटनां विरुद्ध्य  सिरियायाम् इराखे च युद्धरङ्गे  इरानाश्रित्य स्थिता: षियाविभागा: एव । मध्यटेहराने नियमनिर्माणमन्दिरे  ह्य: प्रात: प्रवृत्ते  सम्मेलनमध्ये  एव यन्त्रभुशुण्डिभि: सह  चत्वार: सन्नद्धमरणा:  अतिक्रम्य प्रविष्टा:। एतेषु एक:  स्फोटनेन सह स्वयंम् भग्नगात्रश्च अभवत् । चत्वारोपि स्त्रीवेषे आगता: इति  इरानस्य आभ्यन्तरमन्त्री  मुहम्मद: हुसैन् सुल्फगारि:  अवदत् । पञ्चाधिकघण्टा: यावत्  प्रवृत्तस्य सैनिकप्रवर्तनस्य  पश्चात् भीकरा: सैनिकाधीना: जाता: इति अधिकारिण: न्यवेदयन् । नियमनिर्माणसभायाम् आक्रमणस्य समनन्तरमेव सन्नद्धमरणानाम्  अन्य: सङ्घ:  इरानस्य विप्लवनायकस्य आयत्तुल्ला खुमैने:  अन्त्यविश्रमस्थानम् अपि आक्रामत् । तस्य अन्त्यविश्रमस्थानयुतस्य स्मारकस्य समीपं सन्नद्धमरणानां स्फोटनम् प्रवृत्तम् इति वदन्ति । भीकरेषु  एकं सैनिका: अहनत्  एकां स्त्रियं गृहीतवन्तश्च इत्यपि आवेदयन्ति ।