OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, June 3, 2017

कूटंकुलम् आणवनिलयाय रूस् राष्ट्रस्य साहाय्यम्। 
 सेन्ट् पीटेर्स्बर्ग्> तमिल् नाट् राज्ये कूटंकुलम् अणुशक्तिनिलयस्य अन्तिमपादद्वय-निर्माणाय रूस् राष्ट्रस्य आर्थिकसाहाय्यं लभते। एतदनुरूपे सम्मतिपत्रे भारतप्रधानमन्त्री नरेन्द्रमोदी रष्याराष्ट्रपतिश्च सेन्ट् पीटेर्स् बर्ग् मध्ये कृतयाः चर्चायाः अनन्तरं हस्ताक्षरं कृतवन्तौ। अणुशक्तिनिलयस्य पञ्चम षष्ठ पादाभ्यामेव रूस् राष्ट्रस्य साहाय्यं लप्स्यते। सहस्रमेगावाट् परिमितं वैद्युतिम् उत्पादयितुम् एकैकं पादं समर्थमस्ति।

Friday, June 2, 2017

संस्कृताय शैक्षिकनयं रूपवत्करिष्यति - डो . जे. प्रसादः।
कालटी - केरलेषु संस्कृतशैक्षिकमण्डलं कर्मोत्सुकं कारयितुं संस्कृतशैक्षिकनयं रूपवत्कर्तुम् अपेक्षमाणाः पदक्षेपाः स्वीकरिष्यन्ते इति एस् सि ई आर् टि निदेशकः डो. जे. प्रसादः प्रोक्तवान्।
   "केरलेषु संस्कृतशिक्षा - अभिग्रहः सम्भाव्यता च" इत्यस्याः त्रिदिनसङ्गोष्ठ्याः समापनसम्मेलनम् उद्घाटनं कुर्वन्नासीत् प्रसादवर्यः। डो. जि . गङ्गाधरन् नायर् अध्यक्षपदम् अलङ्कृतवान्। कालटी संस्कृतविश्वविद्यालयस्य उपोपकुलपतिः धर्मराज् अटाट् , एम् एस् मुरलीधरन् पिल्लै , महेष्बाबुः , के. रमादेवियम्मा , एन् विजयमोहनन् पिल्लै इत्येते प्रभाषणं कृतवन्तः।
पारिस् वाग्दत्तसन्धिभ्यः अमेरिक्का प्रतिनिवृत्ता।
वाषिङ्टण् > वातावरणव्यत्ययसम्बद्धः पारिस् सन्धिभ्यः अमेरिका राष्ट्रेण प्रतिनिवृत्यते इति  डोणाल्ड् ट्रम्पेन प्रख्यापितः। निर्वाचन-सन्दर्भे दत्तं वाचं पालयितुमेव एतादृशी प्रतिनिवृत्तिः। आगोलतापनं विरुद्ध्य संग्रामाय लोक राष्ट्राणि ऐकमत्येन तिष्ठन्ति। अतः अनेन निश्चयेन यूरोप् जनानां मध्ये ट्रम्पः अप्रियः भविष्यति। अयं सन्धिः यू एस् विरुद्धः विवेचनात्मकः तथा चीनायाः गूढबुद्धेः परिणितफलं च भवति इति ट्रम्पेन उक्तम्।
पञ्चदशधिक द्वि सहस्रतमे संवत्सरे (२०१५ ) पञ्चनवत्यधिकैकशतं (१९५) राष्ट्रैः सन्धौ हस्ताक्षरं कृतम्। सिरिया निक्वराग्व च सन्धौ नास्ताम्। अन्तरीक्षमलिनीकरणस्य कारणभूतः अङ्गारवायोः बहिर्गमनं न्यूनीकृत्य व्यावसायिक-सङ्ग्रामात् पूर्वम् आसीनेषु अवस्था स्थापनीया इति एव पारिस् सन्धौ प्रख्यापितः। सन्धौ एव सदा घुवं स्थास्यते इति चैना अवोचत्।
बीहार राज्ये उच्चतरमाध्यमिकस्तरे  प्रतिशतं ६४ छात्राः पराजिताः। छात्राः प्रतिषेधं कुर्वन्ति।
पाट्ना> बीहार राज्ये उच्चतरमाध्यमिकस्तरे परीक्षालिखितेषु छात्रेषु प्रतिशतं चतुषष्ठि छात्राः पराजिताः। इण्डर कौण्सिल् कार्यालयस्य पुरतः मिलित्वा छात्राः प्रतिषेधं अकुर्वन्। आरक्षकाणां छात्राणां मध्ये संघर्षः जातः।
पाषाणखण्डैः कार्यालयं क्षिपतः छात्रान् दण्डेन आरक्षकाः अधावयन्। माधेपुरा एम् पी राजेष् रञ्जन् इति पप्पु यादवस्य अनुयायिनः शतशः युवजनप्रवर्तकाः संग्रामे भागभाजः अभवन्। षट् छात्राः आरकषकैः गृहीताः। बीहार शिक्षामन्त्रिणा अक्रमराहित्याय छात्राः निवेदिताः। छात्राः यस्मिन् विषये  पराजिताः तस्मिन्  झटित्येव पुनःपरीक्षां लिखित्वा विजयिनः भविष्यन्ति चेत् पराजितानां तेषां एकसंवत्सरं नष्टं नभविष्यतीति मन्त्रिणा उक्तम्। परीक्षा संपूर्णतया सुतार्यतया प्रचलति। उन्नतविजयं प्राप्तान् कुशलान् उपरिपठनाय प्रेषयति इति सः अयोजयत्।

Thursday, June 1, 2017

अफ्गानिस्थाने भारतीयदौत्यालयसमीपं महत्स्फोटनम्, अधिकारिणः सुरक्षिताः।
काबूल्> अफ्गानिस्थाने भारतीयदौत्यालयसमीपे  संवृत्ते महति स्फोटने उपपञ्चाशत् जनाः मारिताः इति सूच्यते। नैकाः आहताः। दौत्यालयात् शतमीटर् दूरे सञ्जातस्य स्फोटनस्य प्रकम्पने कार्यालस्य द्वाराणि वातायनानि च छिन्नभिन्नानि जातानि।  कार्यालये वर्तिताः अधिकारिणः सर्वे सुरक्षिताः वर्तन्ते इति विदेशकार्यमन्त्रिणी सुषमा स्वराजः ट्विट्टर् द्वारा न्यवेदयत्।
 आक्रमणस्य उत्तरदायित्वं येनकेनापि न स्वीकृतम्।
अनङ्गीकृतान्  आङ्गलमाध्यमविद्यालयान् प्रतिषिद्ध्य नियमक्रम: आगच्छति।  
कण्णूरु>शिक्षाधिकारनियमस्य पादं गृहीत्वा अनङ्गीकृतान् आङ्गलमाध्यम-विद्यालयान् प्रतिषिद्ध्य केरले नियमक्रम: आगच्छति। प्रारम्भरूपेण राज्यस्तरे एव आहत्य कति एतादृशविद्यालया: सन्तीति गणनां कृत्वा शिक्षाविभागेन तत् प्रसिद्धीक्रियते।  तन्मध्ये विविधमण्डलेषु  केचन विद्यालया: कीलितुं सन्नद्धा: पुरतः आगता:। कण्णूरुमण्डले एव उपत्रिंशत् संस्था: इत्थम् पुरतः आगता:। कील्यमानविद्यालयछात्रा: तत्समीपस्थसर्वकारविद्यालयम् प्रविशन्ति। तिरुवनन्तपुरम्, कोल्लम्, कोषिक्कोड्, मलप्पुरम् जनपथेषु च एतादृशविद्यालया: अधिका: ।  प्राय: पञ्चशतोत्तरसहस्रं (१५००) त: द्विसहस्रं (२०००) पर्यन्तं ते भवितुमर्हन्ति। स्थानम्, भवनम्, अन्यप्राथमिकसौकर्याणि  योग्या: शिक्षका: च विना प्रवर्तमानेषु एतेषु  सी बी एस् ई द्वारा  अङ्गीकारोपि न लभन्ते। पश्चात् अङ्गीकार: स्वायत्तीकरिष्यति इति वाग्दानेन सह छात्रान् प्रवेशयन्ति च। अनङ्गीकृतेषु तेषु प्रवेशो मास्तु छात्रान् सर्वकारविद्यालयम् प्रवेशयन्तु इति सामान्यशैक्षणिकाध्यक्षेण प्रतिवर्षं निर्देशो दीयते। किन्तु किमपि न सम्भवति । प्रबन्धकसहकरणसमित्या: स्वाधीने  यथापूर्वं कार्याणि  सफलानि  च सम्भूतानि । अस्मिन् वर्षे मण्डलस्तरे एव गणनां कृत्वा अनङ्गीकृतसंस्थानाम् आवलि: बहि: प्रकाशयितुम् उद्देश्यते।  अनवधानतया  छात्रा: ता: संस्था: मा प्रविशेयु: इति उद्दिश्य एवं क्रियते। शिक्षाधिकारनियमस्य कर्शनस्वीकारेण एतेषां सुस्थिति: विनष्टा भवेत् इति शिक्षाविभागेन उच्यते। सन्दर्भेस्मिन् सर्वकारविद्यालयेषु  छात्राणां सङ्ख्या वर्धिता च।
केरलविद्यालयेषु अद्य विद्यारम्भः।
कोच्ची> ग्रीष्मविरामकालं समाप्य केरले विद्यालयाः अद्य उद्घाट्यन्ते। सर्वेषु विद्यालयेषु अद्य प्रवेशनोत्सवः प्रचाल्यते।
      सार्वजनीनशिक्षासंरक्षणयज्ञस्य उत्साहे एव अध्यापकाः रक्षाकर्तृसमितयः अधिकारिणश्च। छात्रान् स्वीकर्तुं विद्यालयाः सज्जाः वर्तन्ते। नवागतान्  बालकान् आकर्षयितुं सन्तोषयितुं च विविधाः मनोरञ्जककार्यक्रमाः अध्यापकैः ज्येष्ठछात्रैश्च आयोजिताः सन्ति।
वानाक्रै आक्रमणस्य पृष्ठत:  उत्तरकोरिया न; चैना ?
लण्डन्>  वानाक्रै आक्रमणस्य पृष्ठत: चैनादेशीया: साङ्केतिकचूषका: इति पठनम्। " फ्लाष् पोयिन्ट् " नामिकाया: सैबर् सुरक्षासंस्थाया:  विदग्धा: कर्मकरा:  एव विशदीकरणैस्सह रङ्गं प्रविष्टा:। मालवेयर् बाधितेषु सङ्गणकेषु  मोचनद्रव्यम् अर्थित्वा प्रत्यक्षीभूतेषु सन्देशेषु भाषापरा: प्रत्येकता: शोधयित्वा एव चैनाबन्ध: सूच्यते। व्यत्यस्तराष्ट्रेषु   अष्टाविंशति: भाषासु सन्देशा: प्रत्यक्षीभूता: । एतेषु चीनाभाषायाम्  प्रत्यक्षीभूते सन्देशे एव व्याकरणनियमा:  ससूक्ष्मम्  पालिता:। आङ्गलेयम् चीनाभाषाम् च विहाय  अन्या: भाषा: सङ्गणकसाह्येन परिभाषिता: ( अनूदिता: )  इत्यपि लक्षिता: । आङ्गलेये च व्यापकतया व्याकरणदोषा:  उन्नीता: तै:। अत: चीनाभाषाविदग्धेन केनचित् सन्देशा: प्रेषिता: भवेयुरिति विदग्धा: अभिप्रयन्ति। भाषावैशिष्ट्यमात्रम् पुरस्कृत्य  आक्रमणस्य पृष्ठत: चैना एवेति वक्तुं न शक्यते   इत्यपि ते वदन्ति। वानाक्रै आक्रमणस्य उत्तरकोरियया सह अभेद्यबन्ध: अस्तीति प्रस्तूयमानम् आवेदनपत्रं  अमरीकाया: प्रमुखसैबर् सुरक्षासंस्थया सीमान् टेक् द्वारा गतसप्ताहे एव  बहिराविष्कृतम्। यू के नाश नल् क्रैम् एजन्सी , यू एस् अन्वेषणविभाग: एफ् बी ऐ, यूरोपस्य आरक्षक एजन्सी यूरोपोल्  एतानि केन्द्राणि वानाक्रै आक्रमणम् अधिकृत्य अन्विषन्ति ।

Wednesday, May 31, 2017

 भारतस्य सैन्‍यसज्जतैव देशरक्षायाः प्रमुखमस्त्रम् - जेटली 
प्रतिरक्षामंत्री अरुणजेटली अवोचत् यत् भारतस्य सैन्‍यसज्जतैव देशरक्षायाः प्रमुखम् अस्त्रं विद्यते । अनेन प्रत्येकस्मिन् क्ष्‍ेात्रे शान्तेः स्थापना भवितुं शक्नोति । गतदिने नवदिल्ल्याम् एकस्मिन् कार्यक्रमे श्री जेटलिना निगदितं यत् भौगोलिक-राजनैतिक परिस्थितयः वीक्ष्यः रक्षोत्‍पादनक्षेत्रे पर्याप्‍तवृद्धेः आवश्यकता वर्तते । सममेव रक्षामन्त्रिणा देशस्य सार्वजनिकानि संस्थागतानि च क्षेत्राणि उन्‍नतास्त्रप्रणाल्याः विकासाय अध्यर्थितानि । अत्रावसरे समायोजिते कार्यक्रम सार्वजनिकक्षेत्रस्य रक्षोपक्रमेभ्यः २०१४-१५ अथ च २०१५-१६ वर्षद्वयाय उत्‍कृष्‍टप्रदर्शनाय रक्षामंत्री पुरस्‍काराः  प्रदत्ताः ।

Episode 48- Sanskrit News
Anjana Shaji, Std.10,MGMHSS, Nayathodu, Ernakulam, Kerala.

Tuesday, May 30, 2017

ऐ सि एस् ई दशम - द्वादश कक्ष्यापरीक्षाफलानि प्रसिद्धीकृतानि। 
नवदिल्ली >ऐ सि एस् ई संस्थायाः दशमकक्ष्यायाः तथा द्वादशकक्ष्यायाः च परीक्षाफलानि प्रसिद्धीकृतानि। बालिकानाम् अग्रगामित्वमेव प्रकाशितमस्ति।
      द्वादशकक्ष्यायां प्रतिशतं ९६.४७ छात्राः विजयीभूताः।  कोल्कोत्ता स्वदेशिनी अनन्या मैय्त्ती प्रतिशतं ९९.५ अङ्कैः प्रथमस्थानं प्राप्तवती। लख्नौ स्वदेशीया आयुषी द्वितीयस्थानं प्राप्तवती [प्रतिशतं९९.२५]। कोल्क्कत्तीयः आनन्दः तृतीयस्थानं प्राप्तवान् [प्रतिशतं ९९]।
     दशमकक्ष्यायां प्रतिशतं ९८.५३ छात्राः विजयपदं प्राप्तवन्तः। सप्तदशलक्षाधिकाः छात्राः परीक्षाम् उपचरन्ति स्म।
ग्रीन् लान्ड् देशे भीमाकारं हिमफलकं  प्रस्रवणात् गतमिति गवेषका:।
         भौमोपरितलस्य रूपम् एव परिवर्तनार्हं फलकम् ध्रुवमेखलायाम्  अतिबृहदाकारहिमफलकद्रवीकरणं सम्भूतमिति गवेषका: । पूर्वग्रीन् लान्ड्देशस्थ रिङ्क् हिमफलकमेव बृहता मानकेन द्रवीभूय स्थानात् च्युतमिति नासाया: गवेषका:  दृष्टवन्त: । हिमफलके प्रवृत्तम् अतिभीमं हिमद्रवीकरणम् , तत:  हिमजलमिश्रितं चतुर्माससमयेन चतुर्विंशति: कि मी दूरं सञ्चर्य एव समुद्रे पतितम् ।  हिमस्य बृहत्प्रवाहोयम् भूमे: उपरितलरूपमेव परिवर्तयितुं समर्थं जातमिति , तथा उपरितले छिन्नरेखा: रूपीकृता: अनेन इति च गवेषकेषु अन्यतम: एरिक् लारर: उक्तवान् ।  जलत्वेन हिमत्वेन वा प्रतिमासं सप्तषष्ट्युत्तरशतं कोटि: ( १६७ कोटि: ) टण्मित:  हिमभाग: एव इत: समुद्रं प्रति प्रवहित: । चतुर्माससमयेन तथा विनष्टो हिमभागश्च  अष्टषष्ट्युत्तरषट्शतम् ( ६६८ ) कोटि: टण्मित: ।"जियोफिसिकल् रिसर्च् लेटेर्स् ' ("भौमोपरितलोर्जगवेषणरेखा " ) इति अन्तर्देशीयजर्णल् मध्ये एव एतदनुबद्धम् पठनम् प्रसिद्धीकृतम् । नासाया: जेट् प्रोपल्षन् कृते परीक्षणशालाया: शास्त्रज्ञस्य सुरेन्द्र अधिकारिण: नेतृत्वे पठनम् प्रवृत्तम् । षट् कि मी मितं विशालम् तथा एक - कि मी घनयुतं च भवति रिङ्क् हिमफलकम् । हिमद्रवीकरणं प्राधान्येन प्रवृत्तं च हिमफलकोपरितलस्य अधोभागे एव । हिमस्य बृहती  वीचि: इव  ( वेय्व्  ओफ्  ऐस् बेन्ड् )   एष: हिमद्रवीकरणप्रतिभास:  समभवत् इति गवेषकानाम् अभिप्राय: । किन्तु  निश्चितरूपेण कथमेतत् समभवत् तथैव एतस्य कारणं किम् इत्यपि सुव्यक्तं कथयितुं गवेषका: असमर्था: एव ।
सूर्यम् प्रति उपग्रहं विक्षेप्तुं नासा  सिद्धतां करोति।
                 वाषिङ्टण:>  अमरीकाया: बहिराकाशमध्यवर्ती कार्यालय: नासा सूर्यम् प्रति  उपग्रहं विक्षेप्तुं सिद्धतां करोति ।अस्मिन्नेव सप्ताहे उपग्रहविक्षेपणं साध्यं कर्तुम् पद्धति:  नासाया: । एतदनुबद्धा: औद्योगिकवार्ता: नासा बुधवारे बहिरानेष्यति ।नासया पद्धते: नाम सोलार् प्रोब् प्रस् इति निर्दिष्टम् । कठिनसाहचर्यान् उल्लङ्घ्य उपग्रहेण तरणं  करणीयम् भवति इति शास्त्रज्ञा:  अभिप्रयन्ति । एकं दशांशं त्रीणि सप्त सप्त डिग्री सेल्ष्यस् पर्यन्तम् भवति अत्र तापमानम् । एकादश दशांशं चत्वारि त्रीणि से मी घनयुतम् आवरणं तापं प्रतिरोद्धुं सज्जीक्रियते । घण्टायां सप्त दशांशं  द्वे चत्वारि लक्षं कि मी मितवेगेन पेटकं सञ्चरिष्यति ।
कोच्ची मेट्रो - उद्घाटनं जूण् १७ तमे दिनाङ्के, प्रधानमन्त्रिणा।
कोच्ची > कोच्चीमेट्रो रेल् यानयोजनायाः उद्घाटनं जूण् सप्तदशतमे दिनाङ्के प्रधानमन्त्री नरेन्द्रमोदी निर्वक्ष्यति। उद्घाटनकार्यक्रमाय केरलसर्वकारस्य निमन्त्रणं स्वीकृतमिति विज्ञापनं  प्रधानमन्त्रिणः कार्यालयात् केरलसर्वकाराय लब्धम्।
     उद्घाटनसमयम् इतरकार्यक्रमांश्च अधिकृत्य निर्णयः परं भविष्यति। आलुवायां सविशेषं सज्जमानायां वेदिकायां उद्घाटनकार्यक्रमः भविष्यति।
सा शनैः अचलत्।
लण्डन्- प्रसूत्यनन्तरं क्षणाभ्यन्तरे स्नानं कारयितुं कार्यकर्त्या स्वीकृता बालिका शनैः चलितुं प्रारभत। तस्याः चलनदृशयं समाजमाध्यमेषु झटिति प्रसरति। दक्षिण ब्रसीलराष्ट्रस्य साण्टाक्रूस् आतुरालये बालिकायाः जन्म अभवत्। विश्वे सर्वत्र ७.२ कोटि वारं एतत् चलनदृश्यं जनाः अपश्यन्। १६ लक्षं वारं अप्रसरत्। सार्धत्रिलक्षं प्रतिक्रियाः च अलभन्।

Monday, May 29, 2017

ग्रीन् लान्ड् देशे भीमाकारं हिमफलकं  प्रस्रवणात् गतमिति गवेषका:।
         भौमोपरितलस्य आकृतिम् एव परिवर्तयितुं विधौ ध्रुवमेखलायाम्  अतिगुरुतरहिमफलकद्रवीकरणं सम्भूतमिति गवेषका: । पूर्वग्रीन् लान्ड्देशस्थ रिङ्क् हिमफलकमेव बृहता मानकेन द्रवीभूय स्थानात् च्युतमिति नासाया: गवेषका:  दृष्टवन्त: । हिमफलके प्रवृत्तम् अतिभीमं हिमद्रवीकरणम् , तत:  हिमजलमिश्रितं चतुर्माससमयेन चतुर्विंशति: कि मी दूरं सञ्चर्य एव समुद्रे पतितम् ।  हिमस्य बृहत्प्रवाहोयम् भूमे: उपरितलरूपमेव परिवर्तयितुं समर्थं जातमिति , तथा उपरितले छिन्नरेखा: रूपीकृता: अनेन इति च गवेषकेषु अन्यतम: एरिक् लारर: उक्तवान् ।  जलत्वेन हिमत्वेन वा प्रतिमासं सप्तषष्ट्युत्तरशतं कोटि: ( १६७ कोटि: ) टण्मित:  हमभाग: एव इत: समुद्रं प्रति प्रवहितम् । चतुर्माससमयेन तथा विनष्टो हिमभागश्च  अष्टषष्ट्युत्तरषट्शतम् ( ६६८ ) कोटि: टण्मित: ।"जियोफिसिकल् रिसर्च् लेटेर्स् ' ("भौमोपरितलोर्जगवेषणरेखा " ) इति अन्तर्देशीयजर्णल् मध्ये एव एतदनुबद्धम् पठनम् प्रसिद्धीकृतम् । नासाया: जेट् प्रोपल्षन् कृते परीक्षणशालाया: शास्त्रज्ञस्य सुरेन्द्र अधिकारिण: नेतृत्वे पठनम् प्रवृत्तम् । षट् कि मी मितं विशालम् तथा एक - कि मी घनयुतं च भवति रिङ्क् हिमफलकम् । हिमद्रवीकरणं प्राधान्येन प्रवृत्तं च हिमफलकोपरितलस्य अधोभागे एव । हिमस्य बृहती  वीची इव  ( वेय्व्  ओफ्  ऐस् बेन्ड् )   एष: हिमद्रवीकरणप्रतिभास:  समभवत् इति गव्षकानाम् अभिप्राय:। किन्तु  कृत्यतया कथमेतत् समभवत् तथैव एतस्य कारणं किम् इत्यपि सुव्यक्तं कथयितुं गवेषका: असमर्था: एव ।
काश्मीरे हिस्बुल् नेता हतः।
श्रीनगरम्>हिस्बुल् मुजाहिद्दीन् नामकातङ्कवादसंस्थायाः नायकरूपेण वर्तितस्य बुर्हान्वानि इत्यस्य अनुगामी सब्सर् अहम्मद् भट्टः काश्मीरे भारतसैन्येन सह सङ्घट्टने हतः। हिस्बुल् संस्थायाः सेनापतिः आसीत्। दशलक्षं रूप्यकाणां शिरोमूल्यं भारतसैन्येन प्रख्यापितमासीत्।
      अहम्मदभट्टस्य वधानन्तरं काश्मीरस्य अधित्यकायां विघटनवादिनां प्रक्षोभः शक्तः अभवत्। उपपञ्चाशत् स्थानेषु प्रक्षोभकाः सुरक्षासैन्यं प्रति पाषाणखण्डविक्षेपणं कृतवन्तः।
विंशति: लष्करभीकरा: भारतम् प्रविष्टा: इति आवेद्यते;  प्रमुखनगरेषु जाग्रतानिर्देश:।
नवदिल्ली>विंशति: ततोप्यधिकं वा लष्कर् ई तोय्बा  भीकरा: भारतम् प्रविष्टा:  आक्रमणाय पद्धतिम् आसूत्रयन्त:  सन्ति इत्यपि सूचना प्राप्ता । केन्द्रगुप्तान्वेषणविभाग: राष्ट्रस्य प्रमुखनगराणां कृते जाग्रतानिर्देशम् अयच्छत् । मुम्बै, दिल्ली, पञ्चाब् , राजस्थानम्   एतानि राज्याणि  भीकरा: प्राविशन् इति सूचना । दिल्ली  आरक्षकवृन्दस्य प्रत्येकविभागानां कृतेपि जाग्रतानिर्देश : प्रदत्त: । एतदनुवर्त्य मेट्रो रेल्स्थानकेषु ,  रेल्स्थानकेषु , विमानपत्तनेषु , प्रमुखभोजनशालासु च चतुर्विंशतिघण्टानिरीक्षणम्  आरब्धम् ।