OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 29, 2017

श्रीलङ्काप्रलयः - मरणानि १४६ , भारतस्य नाविकसाहाय्यम्।
कोलम्बो> श्रीलङ्काराष्ट्रे अतिवृष्ट्या जलोपप्लवेन च मारितानां सङ्ख्या १४६ अभवत्। ११२ जनाः अप्रत्यक्षाः अभवंश्च। पञ्चलक्षाधिकं जनाः भवनरहिताः जाता इति अधिकारिभिः सूचितम्।
     प्रलयेन दुरितबाधितानां कृते भारतस्य साहाय्यः प्राप्तः। भारतीय नौसेनायाः ऐ एन् एस् किर्च् नामिका महानौका श्रीलङ्कां प्रापयामास।  शार्दुलमहानौका अवश्यवस्तुभिः साकं रविवासरे लङ्कातीरं प्राप्य रक्षाप्रवर्तनानि आरब्धानि।
सी बी एस् ई  द्वादशकक्ष्याफलम् ;  रक्षा गोपाल:  प्रथमस्थाने  ( प्रथमराङ्क् जेत्री )।
         नवदिल्ली >अद्य प्रख्यापिते सी बी एस् ई द्वादशकक्ष्याफले  नवनवति: दशांशं षट् ( ९९.६ '/. ) प्रतिशतम् अङ्कैस्सह रक्षा गोपाल: राष्ट्रे प्रथमस्थानीया अभवत् । नोयिडायाम् अमिट्टि अन्ताराष्ट्रविद्यालयस्य मानविकशास्त्रविभागे विद्यार्थिनी भवति  रक्षा । नवनवति: दशांशं चत्वारि प्रतिशतम्  ( ९९.४ '/. ) अङ्कान् प्राप्य चण्डिगडस्थे डी ए वी विद्यालयस्य  भूमि: सावन्त: द्वितीयस्थाने आगता ।  चण्डिगडे एव भवन्स् विद्यामन्दिरस्य आदित्य जैन: नवनवति: दशांशं द्वे प्रतिशतम् (९९.२ '/. ) अङ्कान् प्राप्य तृतीयस्थाने च विराजते । अधिकाङ्कदानेन एव द्वादशकक्ष्याफलम् प्रसिद्धीकृतम् । द्व्यशीतिप्रतिशतम् ( ८२'/. ) छात्रा: उन्नतशिक्षायै योग्यताम् आर्जितवन्त: । उपरिपठनावसरम् बाधते इत्यत: अधिकाङ्कदानमसमापननिर्णय: आगामिवर्षादारभ्य स्वीकुर्यात् इति न्यायालयनिर्देश: ।

Sunday, May 28, 2017

"सिका वैरस्" भारतेऽपि। 
अहम्मदाबाद् > भारते सिका वैरस् रोगबाधा स्थिरीकृता इति विश्व स्वास्थ्य संस्था। अहम्मदाबादे त्रयः जनाः रोगबाधिताः इति सूच्यते। इदं प्रथममेव भारते रोगस्थिरीकरणम्।  अहम्मदाबादस्थे बि जे मेडिक्कल् कोलेज् आतुरालये कृते रक्तपरिशोधे आसीत् त्रिषु जनेषु रोगबाधा दृष्टा। प्रथमं कस्मिंश्चित् ६४ वयस्के , ततः कस्यांचित् ३४वयस्कायां , पुनः २२वयस्कायां गर्भवत्यां च रोगबाधा स्थिरीकृता।
       शिरोवेदना , ज्वरः, पेशीवेदना , नयनयोः रक्तवर्णः इत्यादीनि यानि लक्षणानि "डङ्किज्वरे" दृश्यन्ते तान्येव अस्मिन् रोगे अपि दृश्यन्ते।
अधिकाङ्कदानविरोधी  राज्यन्यायालयविधि:  सी  बी  एस्  ई  निरोधपत्रं न दास्यति।
      नवदिल्ली > अधिकाङ्कदानं कुर्यात् इति दिल्लीन्यायालयस्य विधिम् विरुद्ध्य सी बी एस् ई  निरोधपत्रं न दास्यति ।  एतस्य पश्चात्  द्वादशकक्ष्यापरीक्षाफलं झटिति प्रख्यापयेत् ।  अधिकाङ्कदानसम्बद्धानि आशयवैरुद्ध्यानि सन्तीत्यत: फलप्रख्यापने विलम्ब: भवेदिति सूचना वर्तते एव । तथापि अद्य परिक्षाफलं प्रकाश्ययते इति सूचना अस्ति । अधिकाङ्कदानं निरोधयेत् इति निर्णय: परीक्षाया: परमेव आगत:  इति कारणम् प्रदर्श्य  एव अस्मिन् वर्षे दिल्लीराज्यन्यायालयेन  तत् निरोधितम् । परीक्षाफलं निश्चितसमयाभ्यन्तरे एव प्रख्यापयेयु: इति मानवशेषिमन्त्री  प्रकाशजावदेकर: गतदिने निवेदितवान् ॥
दीर्घतमां सेतुं राष्ट्राय समार्पयत्  प्रधानमन्त्री ।
 गुवाहाटी >भारते दीर्घतमा " धोला - सदिया "सेतु:  उद्घाटिता प्रधानमन्त्रिणा  असमे । केन्द्रसर्वकारेण वर्षत्रये पूर्तीकृते एष: समारोप: । सर्वकारस्य तृतीयवार्षिकाघोषाणाम् औद्योगिकप्रारम्भ:  अनेन अभवत् । असमे सदियाया: आरभ्यमाणा नव दशांशं एकं पञ्च कि मी दीर्घा इयं सेतु: धोलायाम्  समाप्यते । असमस्य टिन् सुकिया मण्डले ब्रह्मपुत्राया: पोषकनद्या: लोहिताया: उपरि एव सेतुरियम् । एतावत्पर्यन्तं बिहारस्य  महात्मागान्धिसेतुरेव  ( पञ्च दशांशं  सप्त पञ्च कि मी ) राष्ट्रे दीर्घतमा आसीत् । तृतीयस्थाने च मुम्बै मध्ये बान्द्र - वरली समुद्रसेतु:  ( पञ्च दशांशं पञ्च सप्त कि मी दीर्घयुता )।

Saturday, May 27, 2017

अद्य रमदान् १ - पुण्यदिनानां समारम्भः। 
कोष़िक्कोट् - ह्यः केरले काप्पाट् प्रदेशे मासप्रसूतिः [चन्द्रोदयः] दृष्टा  इत्यस्य आधारे इस्लामधर्मजनानां पुण्यदिनानि समारब्धानि। अद्य रमदान् मासस्य प्रथमदिनं भवतीती केरलानां इस्लामधर्मपुरोहितैः निगदितम्।
संस्कृतं भारतीयभाषाणां जीवच्छक्तिः भवेत् - डो . के . जि. पौलोस्। 
कालटी>  कैरली , हिन्दी, गुजराती इत्यादीनां बहूणां भारतीयभाषाणां जीवच्छक्तिरूपेण संस्कृतभाषा वर्तमाना भवेदिति केरलकलामण्डलस्य भूतपूर्व उपकुलपतिः तथा कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य भूतपूर्वः पञ्जिकाघिकारी डो. के.जि.पौलोस् वर्यः प्रोक्तवान्। संस्कृतविश्वविद्यालये प्रचाल्यमानायां संस्कृतशिक्षणं - अभिग्रहः संभाव्यता च नामिकायां  त्रिदिनसङ्गोष्ठ्यां  मुख्यभाषणं कुर्वन् आसीत् सः। कैरल्याम् उपयुज्यमानेषु पदेषु बहुभूरिपदानि संस्कृतात् निष्पन्नानि भवन्ति। ओजस्तेजोयुक्तायाः मलयालभाषायाः सुस्थित्यर्थं संस्कृतभाषाशिक्षणं प्रयोगश्च अनिवार्यं भवतीति पौलोस्वर्येण उक्तम्।
     प्रोफ. मुत्तलपुरं मोहनदासः अध्यक्षपदमलंकृतवान्। डो. पि.के .शङ्करनारायणः[विश्व संस्कृत प्रतिष्ठानं]  एन् .के रामचन्द्रः [सम्प्रतिवार्ता] , अय्यम्पुष़ा हरिकुमारः [सम्प्रतिवार्ता मुख्यसम्पादकः] , वेणु कक्कट्टिल् , डॉ महेष् बाबुः , मार्गि मधुः , गोपालप्पणिक्कर् इत्येते विविधविषयेषु प्रबन्धान् अवतारितवन्तः।
भारतं विशालतया चिन्तयति द्रुतगत्या चलति च- यु एस्।
वाषिड्टण्> राष्ट्रविकासे पूर्वस्थितं चैना राष्ट्रं पश्चात् कारयितुं भारतं विशालतया चिन्तयति द्रुतगत्या चलति च इति यु एस् । विविधेषु क्षेत्रेषु भारतं वर्धते। यु एस् सदृशराष्ट्रं प्रतिरपि अनेके साध्यताः ते अवतारयन्ति इति यु एस् नियमज्ञः रोबर्ट् ओर् अवदत्।
सैरोर्जं, वायु ऊर्जं इत्यादि क्षेत्रेषु बृहती प्रतीक्षा अस्ति भारतस्य। गार्हिकक्षेत्रे राज्यान्तर क्षेत्रे च एतयोः निक्षेपं तैः क्रियते। प्रधानमन्त्रिणः स्मार्ट् सिट्टी पद्धत्याम् अनेके घटकाः सन्ति। विकासक्षेत्रे आर्थिकक्षेत्रे श्रद्धां दत्वा तन्त्रप्रधानं निर्णयं भारतेन स्वीक्रियते इति सः अयोजयत्।
गतागतधर्मलङ्घनं - षार्जायां पादचारिभ्यः शुल्कदण्डनं विहितम्। 
षार्जा >वीथीसुरक्षाम् अनुबन्ध्य कृते आलोकने गतागतविधिम् उल्लङ्घितवतां पादचारिणां कृते अधिकृतैः शुल्कदण्डनं विहितम्। उपचतुस्सहस्रं पदचारियात्रिकाः एतादृशदण्डनविधेयाः अभवन्।
     यत्र मार्गव्यत्यस्तः न विधीयते तैः स्थानेैः मार्गव्यत्यस्तः कृतः इत्यनेन कारणेनैव २०० दिर्हक्रमेण दण्डः विहितः। यदा  गतागतविधिः उल्लङ्घ्यते तदा आरक्षकैः अपराधिनां कृते अवबोधनमपि क्रियते।

Friday, May 26, 2017

नरेनेद्रमोदि सर्वकारस्य तृतीयवार्षिकाघोषम् अद्य।
नवदेहली>नरेनेद्रमोदि सर्वकारस्य तृतीयवार्षिकाघोषम् अद्य आघुष्यते। वर्षत्रयस्य शासनेन भारतराष्ट्रस्य विभिन्नक्षेत्रेषु  विकासाः जाताः इति सुस्पष्टाः। २०१६ नवंबर् मासस्य अष्टमदिनाङ्कादारभ्य रुप्यकपत्राणां निरोधनमासीत् शासनसमयस्य प्रमुखं चर्चाविषयम्। अनन्तरं धनविनिमयं अधिकाशतया टिजिट्टल् रूपेण जातम्। दीर्घकालेन रुप्यकपत्राणां निरोधनं भारतानुगुणमेव भविष्यतीति विश्वार्थिकालयः अपि वदति।
उत्तरप्रदेश राज्यस्य भा जा पा सर्वकारस्य विजयस्य हेतू रुप्यकपत्राणां निरोधनं तथा सीमाप्रदेशे कृत सर्जिक्कल् स्ट्रैक् च भवतः।
जी एस् टी हेतुना जूलाई मासादारभ्य धान्यानां मूल्यं न्यूनं भविष्यति।
टिजिट्टल् इण्डिया परियोजनया केन्द्रसर्वकारस्य  सर्वेषाम् क्षेत्राणां आधाररेखाः टिजिट्टल् संजातम्।
भीं नामस्य आगमनेन आधारपत्रानुबन्ध आर्थिकविनिमयं सरलं जातम्।
वर्षत्रयाभ्यन्तरे मोदिना ५७ विदेशयात्राः कृताः। एवं ४५ विदेशराष्ट्रेषु सन्दर्शनं कृतम्। सन्दर्शनेन नयतन्त्रनिर्णयान् स्वीकर्तुं निर्णायक समयेषु हस्ताक्षरं कर्तुं च शक्यते स्म।
सौहृद उपग्रहस्य विक्षेपणेन पाकिस्थानं विहाय सप्त राष्ट्राणां वार्ताविनिमये साहाय्यता लभते। उपग्रहस्य नाम सौत् एषिया साट्लैट् इति आसीत्।पाक्किस्थानः अस्याः परियोजनायाः प्रारंभे एव पृष्टे गतः।
चतुर्वर्षाभ्यन्तरे एक कोटि युवजनान् कार्यं दतुं प्रधानमन्त्रि नैपुण्य विकासप्धतिः आरब्धः। ६० लक्षं युवजनान् कार्यप्रश्क्षणं तथा ४० जनान् नैपुण्याय अनौपचारिकं प्रमाणपत्रं च दातुं लक्ष्यमस्ति।
राष्ट्रे सर्वत्र जन् धन् योजना आविष्कृता। सर्वेषां कृते आर्थिकसेवाः अस्ति अस्य लक्ष्यम्।
मेय्क् इन् इण्डिया पद्धत्यनुसारं विदेशव्यवसायिनां साहाय्येन उत्पन्नानां निर्माणं अत्रैव प्रारभत।
२०१४ तमे लोकसभा विजयेन सह अंश(share market)विपण्यां जातं मोदिप्रेमं अद्यापि तिष्ठति। विदेशराष्ट्रेभ्यः भारतविपणिं प्रति धनं प्रवहति।
वर्षत्रयाभ्यन्तरे भारतं सम्पूर्ण शौचकूपराष्ट्रं भविष्यतीति मोदिना २०१६ वर्षस्य गान्धिजयन्ति दिने प्रख्यापितं। स्वच्छभारत पद्धत्यनुसारं कार्याणि द्रुतगत्या प्रचलति।
षट् शताब्दस्य तीव्रवादाक्रमणस्य अन्त्यं कृत्वा नागालाण्ट् राज्यस्य तीव्रवादिना सह केन्द्र सर्वकारेण चर्चां कृता। नागासमाधान समये हस्ताक्षरं कृतम्।
मन की बात् इति आकाशवाणी कार्यक्रमद्वारा प्रतिवारं समान्यजनैः सह प्रधानमन्त्री संवदति।
जीवनसुरक्षा प्रतिरोधकेषेत्रं भारत रेयिल्वे इत्यादि क्षेत्रेषु प्रत्यक्ष विदेशनिक्षेपनियमाः उदारीकृताः।
स्वप्न स्मार्ट् सिट्टी पद्धत्यनुसारं पञ्चवर्षेण ५०००० कोट्युपरि रूप्यकाणां निक्षेपं चयितेषु नगरेषु भविष्यति।
दशसहस्रं ग्रामाः वैद्युतीकृताः।  इदानीं विद्युत् विहीनाः केवलं ४००० ग्रामाः राष्ट्रे विद्यन्ते।
वाहनेषु बीक्कण् दीपाः निरोधिताः।
आसूत्रणायोगस्य बदलरूपेण नीति आयोगः आविष्कृतः।
वर्षत्रयाभ्यन्तरे ६ कोटि नवीन पाकवातक बन्धाः दत्ताः।
प्रथम प्रसूति आनुकूल्यतया ६००० रूप्यकाणि वनितानां कृते दीयते।
जवहर्लालस्य इव्दिरागान्धिनः च अनन्तरं सम्पूर्णविजयी भारत प्रधानमन्त्री भवति नरेन्द्रमोदी इति प्रमुख इतिहासकारेण श्री रामचन्द्र गुहेन उक्तम्। लण्डन् स्कूल् आफ् इक्णोमिक्स् संस्थायाः संगोष्ठ्यां भाषयन्नासीत् सः।
दक्षिणचैनासमुद्रे अमेरिकायाः युद्धनौका।
वाषिड्टण्> चैनाराष्ट्राय भीषणिमुत्पाद्य दक्षिणचैनासमुद्रे अमेरिकायाः युद्धनौका आगता।  यु एस् एस् ड्यूवे इति युद्धनौका दक्षिणचैनासमुद्रे आगता। चैनया निर्मितस्य कृत्रिमद्वीपस्य १२ नोट्टिक्कल् मैल् अन्तरभागम् अगच्छत्।
डोणाल्ट् ट्रंपस्य स्थानारोहणानन्तरं प्रथमवारमस्ति अमेरिकायाः एतादृशं चलनम्।
ऐक्यराष्ट्रसभायाः समयानुसारं समुद्रकूलात् १२ नोट्टिक्कल् मैल् पर्यन्तं प्रदेशं राष्ट्रस्य अधीनतायां भवति। परन्तु दक्षिणचैनासमुद्रस्य द्वीपेषु एकाधिक राष्ट्राणाम् अवकाशः अस्ति।
नेप्पाल् प्रधानमन्त्री स्थानं त्यक्तवान्।
काठ्मण्टु> नेप्पालराष्ट्रस्य प्रधानमन्त्री तथा भूतपूर्व मावोवादीनेता च प्रचण्डः स्वस्थानम् अत्यजत्। शासनदलसङ्घस्य पूर्वकृतव्यवस्थानुसारमेव तस्य त्यागपत्रम्। प्रचण्डाभिव्यापितसङ्घस्य मुख्यदलत्वेन वर्तमानस्य नेप्पालि कोण्ग्रस् दलस्य नेता षेर् बहादुर देवुवः नूतनप्रधानमन्त्री भविष्यति।  पूर्वं त्रिवारं सः प्रधानमंत्रिपदम् अलङ्कृतवानासीत्।

Thursday, May 25, 2017

संस्कृतविश्वविद्यालयाः जाग्रतया वर्तयेयुः - डॉ विवेक नागपाल्।

डॉ के उण्णिकृष्णः प्रबन्धम् अवतारयति। डॉ ज्योस्ना, डॉ पि वि रामन् कुट्टी, सि पि सनल् चन्द्रः, टि के सन्तोष्कुमारः च समीपे।
कालटी >संस्कृतविश्वविद्यालयाः संस्कृतभाषाप्रचाराय जाग्रतया वर्तयेयुः इति डॉ. विवेक नागपाल् महोदयेन उक्तम् । संस्कृतभाषया अभिमुखीकुर्वाणः आह्वा तथा सुविधा च इति विषयमधिकृत्य कालटी श्री शङ्कराचार्य विद्यालये आयोजिते   त्रिदिवसीयसङ्गोष्ठ्याः उद्घाटनं कृत्वा भाषमाणः आसीत् सः।
द्वितीयसत्रे सार्वजनिकशिक्षायां संस्कृतभाषायाः दायित्वम् इति विषयमधिकृत्य विचिन्तनमभवत्।
भारतीय-आयुर्विज्ञान-संस्‍थानस्य स्‍थापनाविषये निर्णयःजातः 
नवदिल्ली> केन्‍द्रीयमन्त्रिमण्डलेन असमराज्यस्य  कामरूपक्षेत्रे नवीन-अखिल-भारतीय-आयुर्विज्ञान-संस्‍थानस्य स्‍थापनाविषये अनुमतिः प्रदत्तास्ति। अस्य स्थापना प्रधानमंत्री स्‍वास्‍थ्‍यसुरक्षायोजनान्तर्गतं भविष्यति । यस्मिन्  एकस्मिन् समये सार्धसप्तशतं रोगिणां चिकित्सायाः व्‍यवस्‍था भविष्यति । सममेव परिसरे चिकित्सा महाविद्यालयस्य स्थापनापि विधास्यते । अस्यां परियोजनायां 1123 को़टिरूप्यकाणां राशेः प्रतिवर्षं व्ययः भविष्यति, परियोजनेयं 2021 तमे वर्षे पूर्णतामेष्यति।

"शान्तिस्थापकः भवतु" - ट्रम्पं प्रति मार्पाप्पा। 
वत्तिक्कान् नगरम् > आगोलशान्त्यर्थं प्रवर्तयन् शान्तिस्थापकः भवतु इति अमेरिक्कायाः राष्ट्रपतिं डोणाल्ड् ट्रम्पं प्रति मार्पाप्पावर्यस्य उपदेशः! पाप्पावर्यस्य अभ्यर्थनां शिरसा वहामीति ट्रम्पः प्रत्युदैरयत्!  पश्चिमेष्यासन्दर्शनानन्तरं वत्तिक्कानं प्राप्तः  अमेरिक्काराष्ट्रपतिः बुधवासरे पाप्पावर्यं मिलितवान्!

    'ओलिव्' वृक्षस्य लघुशिल्पं पाप्पा ट्रम्पाय प्रादात्! "शान्तिस्थापकः ओलिव् वृक्ष इव भवान् भवतु इति ममाभिलाषः" पाप्पावर्येण उक्तम्!
एकवर्षाभ्यन्तरे भारतस्य सर्वेषु ग्रामेषु वैद्युति:।।
   नवदिल्ली > राष्ट्रस्य सर्वेषु ग्रामेषु एकवर्षाभ्यन्तरे विद्युतिम् प्रापयेदिति प्रधानमन्त्री नरेन्द्रमोदी । प्रतिसन्धय: अनेका:। किन्तु वैद्युतीकरणं कर्तुं शक्यते इति प्रतीक्षा च वर्तते  प्रधानमन्त्री उक्तवान्। गुर्जरदेशे गान्धिनगरे आफ्रिक्काविकसनवित्तकोशस्य  वार्षिकसम्मेलनम् उद्घाटयन् स: एवं  सूचितवान्। कर्षकाणां दरिद्राणां स्त्रीणां च उन्नमनमेव सर्वकारस्य प्रथमपरिगणना । शिक्षामेखलायां तावत्  आफ्रिकादेशसमानैस्सह  हस्तयोजनम्  भारतस्य अभिमानास्पदम् इत्यपि स: उक्तवान् । चतुर्दशोत्तरद्विसहस्रतमे  (२०१४) शासने  आगमनात्परं  भारतस्य विदेशसाम्पत्तिकनयेषु  तेन  आफ्रिकाया: कृते प्रातिनिध्यं दत्तम् । षण्णवत्युत्तरनवशताधिकसहस्रतमात् (१९९६) षोडशोत्तरद्विसहस्रपर्यन्तम्  (२०१६)  आफ्रिकाराष्ट्रैस्सह साक्षात् विदेशनिक्षेप: पञ्चसु एकं जातम् च (१/५)। एकाशीति: राष्ट्रेभ्य: त्रिसहस्राधिका:  प्रतिनिधय: सम्मेलने भागं भजन्ते।
तीव्रवादाय धनसहाय:; पञ्चदशजना:  द्रोहिण: इति एन् ऐ ए  न्यायालय:।
          गुवाहती > असमे तीव्रवादप्रवर्तनानां कृते धनसाहाय्यं कृतमिति आरोप्य पञ्चदशजना:  द्रोहिण: इति एन् ऐ  ए  विशिष्टन्यायालय:। दण्ड: विधीयते मङ्गलवासरे।  नवोत्तरद्विसहस्रतमे  एन् ऐ ए न स्वीकृतद्वयो: न्यायवादयो: एव न्यायालयनिर्णय: सोमवारे  आगत:। प्राक्तीव्रवादिन:  जनप्रतिनिधय:  तथा सर्वकारोद्योगस्थाश्च  द्रोहिणाम् पट्टिकायाम्  सन्ति। विकसनप्रवर्तनानां कृते स्थापितसर्वकारधनयोजनाभ्य: साम्पत्तिकव्यय: इतरमार्गै: इति आरोपणम् पूर्वमासीत्। एतस्य अन्वेषणवेलायाम्  साम्पत्तिकं सर्वं तीव्रवादम् प्रति   गच्छति  इति ज्ञातवन्त: । सहसंयोजका:  हवाला मध्यस्था:  सर्वकारोद्योगस्थाश्च मिलित्वा  साम्पत्तिकस्य दुरुपयोगं कुर्वन्ति एवम् । अन्वेषणस्य भागतया  मिसोरामे परिशोधनायां सिंगप्पूरुनिर्मितम् एम् - षोडश रैफिल्स्  तथा अनेके आयुधशेखराश्च दृष्टा: गृहीताश्च। एककोटि: द्वात्रिंशत्  लक्षम् रूप्यकाणि   द्वयो: न्यायवादयो: कृते एन् ऐ ए  स्वीकृतवन्त: ।पञ्चराज्याणि सन्दर्श्य स्पष्टीकरणरेखा: स्वरूपिता:। असमस्य, मिसोरामस्य, कर्णाटकाया:  बङ्गालस्य च आरक्षकाणां साहाय्यं सेवनं च एन् ऐ ए उपयुक्तवन्त:।।

Wednesday, May 24, 2017

ब्रिट्टने भीकराक्रमणं - २२ मरणानि।
माञ्चेस्टर्> ब्रिट्टन् राष्ट्रे माञ्चेस्टर् नगरे प्रचलितायां कस्यांश्चन सङ्गीतनिशायां दुरापन्ने आत्मघातिस्फोटने द्वाविंशति जनाः मारिताः। एकोनषष्टिः[५९] व्रणिताः।
     नगरस्थे बृहत्तमे गृहान्तःस्थे क्रीडाङ्कणे - माञ्चेस्टर् अरीना - अमेरिक्कीयगायिकायाः अरियाने ग्रान्डे इत्यस्यायाः सङ्गीतकार्यक्रमम् आस्वदितुं प्राप्ता एव दुरन्तविधेयाः अभवन्। आक्रमणस्य उत्तरदायित्वम् ऐ एस्  संस्थया स्वीकृतम्।