OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, May 26, 2017

नेप्पाल् प्रधानमन्त्री स्थानं त्यक्तवान्।
काठ्मण्टु> नेप्पालराष्ट्रस्य प्रधानमन्त्री तथा भूतपूर्व मावोवादीनेता च प्रचण्डः स्वस्थानम् अत्यजत्। शासनदलसङ्घस्य पूर्वकृतव्यवस्थानुसारमेव तस्य त्यागपत्रम्। प्रचण्डाभिव्यापितसङ्घस्य मुख्यदलत्वेन वर्तमानस्य नेप्पालि कोण्ग्रस् दलस्य नेता षेर् बहादुर देवुवः नूतनप्रधानमन्त्री भविष्यति।  पूर्वं त्रिवारं सः प्रधानमंत्रिपदम् अलङ्कृतवानासीत्।

Thursday, May 25, 2017

संस्कृतविश्वविद्यालयाः जाग्रतया वर्तयेयुः - डॉ विवेक नागपाल्।

डॉ के उण्णिकृष्णः प्रबन्धम् अवतारयति। डॉ ज्योस्ना, डॉ पि वि रामन् कुट्टी, सि पि सनल् चन्द्रः, टि के सन्तोष्कुमारः च समीपे।
कालटी >संस्कृतविश्वविद्यालयाः संस्कृतभाषाप्रचाराय जाग्रतया वर्तयेयुः इति डॉ. विवेक नागपाल् महोदयेन उक्तम् । संस्कृतभाषया अभिमुखीकुर्वाणः आह्वा तथा सुविधा च इति विषयमधिकृत्य कालटी श्री शङ्कराचार्य विद्यालये आयोजिते   त्रिदिवसीयसङ्गोष्ठ्याः उद्घाटनं कृत्वा भाषमाणः आसीत् सः।
द्वितीयसत्रे सार्वजनिकशिक्षायां संस्कृतभाषायाः दायित्वम् इति विषयमधिकृत्य विचिन्तनमभवत्।
भारतीय-आयुर्विज्ञान-संस्‍थानस्य स्‍थापनाविषये निर्णयःजातः 
नवदिल्ली> केन्‍द्रीयमन्त्रिमण्डलेन असमराज्यस्य  कामरूपक्षेत्रे नवीन-अखिल-भारतीय-आयुर्विज्ञान-संस्‍थानस्य स्‍थापनाविषये अनुमतिः प्रदत्तास्ति। अस्य स्थापना प्रधानमंत्री स्‍वास्‍थ्‍यसुरक्षायोजनान्तर्गतं भविष्यति । यस्मिन्  एकस्मिन् समये सार्धसप्तशतं रोगिणां चिकित्सायाः व्‍यवस्‍था भविष्यति । सममेव परिसरे चिकित्सा महाविद्यालयस्य स्थापनापि विधास्यते । अस्यां परियोजनायां 1123 को़टिरूप्यकाणां राशेः प्रतिवर्षं व्ययः भविष्यति, परियोजनेयं 2021 तमे वर्षे पूर्णतामेष्यति।

"शान्तिस्थापकः भवतु" - ट्रम्पं प्रति मार्पाप्पा। 
वत्तिक्कान् नगरम् > आगोलशान्त्यर्थं प्रवर्तयन् शान्तिस्थापकः भवतु इति अमेरिक्कायाः राष्ट्रपतिं डोणाल्ड् ट्रम्पं प्रति मार्पाप्पावर्यस्य उपदेशः! पाप्पावर्यस्य अभ्यर्थनां शिरसा वहामीति ट्रम्पः प्रत्युदैरयत्!  पश्चिमेष्यासन्दर्शनानन्तरं वत्तिक्कानं प्राप्तः  अमेरिक्काराष्ट्रपतिः बुधवासरे पाप्पावर्यं मिलितवान्!

    'ओलिव्' वृक्षस्य लघुशिल्पं पाप्पा ट्रम्पाय प्रादात्! "शान्तिस्थापकः ओलिव् वृक्ष इव भवान् भवतु इति ममाभिलाषः" पाप्पावर्येण उक्तम्!
एकवर्षाभ्यन्तरे भारतस्य सर्वेषु ग्रामेषु वैद्युति:।।
   नवदिल्ली > राष्ट्रस्य सर्वेषु ग्रामेषु एकवर्षाभ्यन्तरे विद्युतिम् प्रापयेदिति प्रधानमन्त्री नरेन्द्रमोदी । प्रतिसन्धय: अनेका:। किन्तु वैद्युतीकरणं कर्तुं शक्यते इति प्रतीक्षा च वर्तते  प्रधानमन्त्री उक्तवान्। गुर्जरदेशे गान्धिनगरे आफ्रिक्काविकसनवित्तकोशस्य  वार्षिकसम्मेलनम् उद्घाटयन् स: एवं  सूचितवान्। कर्षकाणां दरिद्राणां स्त्रीणां च उन्नमनमेव सर्वकारस्य प्रथमपरिगणना । शिक्षामेखलायां तावत्  आफ्रिकादेशसमानैस्सह  हस्तयोजनम्  भारतस्य अभिमानास्पदम् इत्यपि स: उक्तवान् । चतुर्दशोत्तरद्विसहस्रतमे  (२०१४) शासने  आगमनात्परं  भारतस्य विदेशसाम्पत्तिकनयेषु  तेन  आफ्रिकाया: कृते प्रातिनिध्यं दत्तम् । षण्णवत्युत्तरनवशताधिकसहस्रतमात् (१९९६) षोडशोत्तरद्विसहस्रपर्यन्तम्  (२०१६)  आफ्रिकाराष्ट्रैस्सह साक्षात् विदेशनिक्षेप: पञ्चसु एकं जातम् च (१/५)। एकाशीति: राष्ट्रेभ्य: त्रिसहस्राधिका:  प्रतिनिधय: सम्मेलने भागं भजन्ते।
तीव्रवादाय धनसहाय:; पञ्चदशजना:  द्रोहिण: इति एन् ऐ ए  न्यायालय:।
          गुवाहती > असमे तीव्रवादप्रवर्तनानां कृते धनसाहाय्यं कृतमिति आरोप्य पञ्चदशजना:  द्रोहिण: इति एन् ऐ  ए  विशिष्टन्यायालय:। दण्ड: विधीयते मङ्गलवासरे।  नवोत्तरद्विसहस्रतमे  एन् ऐ ए न स्वीकृतद्वयो: न्यायवादयो: एव न्यायालयनिर्णय: सोमवारे  आगत:। प्राक्तीव्रवादिन:  जनप्रतिनिधय:  तथा सर्वकारोद्योगस्थाश्च  द्रोहिणाम् पट्टिकायाम्  सन्ति। विकसनप्रवर्तनानां कृते स्थापितसर्वकारधनयोजनाभ्य: साम्पत्तिकव्यय: इतरमार्गै: इति आरोपणम् पूर्वमासीत्। एतस्य अन्वेषणवेलायाम्  साम्पत्तिकं सर्वं तीव्रवादम् प्रति   गच्छति  इति ज्ञातवन्त: । सहसंयोजका:  हवाला मध्यस्था:  सर्वकारोद्योगस्थाश्च मिलित्वा  साम्पत्तिकस्य दुरुपयोगं कुर्वन्ति एवम् । अन्वेषणस्य भागतया  मिसोरामे परिशोधनायां सिंगप्पूरुनिर्मितम् एम् - षोडश रैफिल्स्  तथा अनेके आयुधशेखराश्च दृष्टा: गृहीताश्च। एककोटि: द्वात्रिंशत्  लक्षम् रूप्यकाणि   द्वयो: न्यायवादयो: कृते एन् ऐ ए  स्वीकृतवन्त: ।पञ्चराज्याणि सन्दर्श्य स्पष्टीकरणरेखा: स्वरूपिता:। असमस्य, मिसोरामस्य, कर्णाटकाया:  बङ्गालस्य च आरक्षकाणां साहाय्यं सेवनं च एन् ऐ ए उपयुक्तवन्त:।।

Wednesday, May 24, 2017

ब्रिट्टने भीकराक्रमणं - २२ मरणानि।
माञ्चेस्टर्> ब्रिट्टन् राष्ट्रे माञ्चेस्टर् नगरे प्रचलितायां कस्यांश्चन सङ्गीतनिशायां दुरापन्ने आत्मघातिस्फोटने द्वाविंशति जनाः मारिताः। एकोनषष्टिः[५९] व्रणिताः।
     नगरस्थे बृहत्तमे गृहान्तःस्थे क्रीडाङ्कणे - माञ्चेस्टर् अरीना - अमेरिक्कीयगायिकायाः अरियाने ग्रान्डे इत्यस्यायाः सङ्गीतकार्यक्रमम् आस्वदितुं प्राप्ता एव दुरन्तविधेयाः अभवन्। आक्रमणस्य उत्तरदायित्वम् ऐ एस्  संस्थया स्वीकृतम्।
जनानाम् अभिमतज्ञानाय 'जन्‌की बात'॥
नवदिल्ली> नरेन्द्रमोदी मन्त्रिसभायाः त्रितीयसंवत्सरीय समारोहस्य अनुबन्धतया 'जन् की बात्' नाम जनानां स्वाभिमतप्रकाशनसन्दर्भः आयोक्ष्यते। 'मन की बात' नाम आकाशवाणी कार्यक्रमे प्रधानमन्त्री जनान् प्रति भाषणं करोति। जन की बात कार्यक्रमे जानाः प्रधानमन्त्रिणं प्रति भाषणं कुर्वन्ति इत्येव अस्ति विशेषता। मेय्मासस्य षट्विंशति दिनाङ्कतः जूण् एकादश दिनाङ्क पर्यन्तं आयोक्ष्यमाणेषु कार्यक्रमेषु एव जनेभ्यः अभिमतस्वीकरः। केन्द्रयोजनां प्रति जनानां मतः एव क्रोडीक्रियते।  आराष्ट्रं नवशतेषु केन्द्रेषु मोदी फेस्ट् (Making Of Developed India )आयोक्ष्यते ।
केन्द्र सर्वकारस्य विकास -पद्धतेः प्रचारः एव लक्ष्यः ।
अस्मिन्मासस्य षट्विंशे (२६) दिने गुवाहत्यां सार्वजनिक सम्मेलने संवत्सरीय-समारोहः प्रधानमन्त्रिणा उद्घाट्यते। अन्येषु राज्येषु राजनैतिक दलाध्यक्षः अमित्षा महाभागेन अघोषस्य उद्घाटनं करिष्ये।
मिरिण्डा शीतलपानीये प्राणी दृष्टा।१५००० रूप्यकाणि नष्टपरिहारम्।
चेन्नै>मिरिण्डा शीतलपानीये मृताः प्राण्यः दृष्टाः। शीतलपानीय निर्मातॄन् चेनै उपभोक्तृन्यायालयेन आज्ञप्तः। दशसहस्रं आवेदकस्स कृते पञ्चसहस्रं मनेवेदनायै च भवतः। धनं षण्मासाभ्यन्तरे दातव्यम्।
पी. तलपतिः अस्ति निवेदकः। २०१३ जूलाई मासे २७ दिवाङ्के सः चेन्नै नगरे स्ट्रहनास् वीथ्यां तस्माक् मद्यशालातः मिरिण्डा अक्रीणत्। पानात् पूर्वमेव तेन मृतप्राण्यः अदृष्टाः। तस्मिन्नेव दिने सः उपभोक्तृन्यायालये निवेदनं प्रदत्तम्।
राष्ट्रिय सङ्गोष्ठी संस्कृतभाषायाम्
कोच्ची >केरळेषु संस्कृतशिक्षायाः प्रतिबन्धः सौलभ्यः च  इति विषयमधिकृत्य तृदिवसीय-राष्ट्रियसङ्गोष्ठी मेय् मास स्य पञ्चविंशाति  दिनाङ्के भविष्यति। भारतस्य विभिन्नदेशेभ्यः विद्वांसः भागभाजाः भविष्यन्ति।  कालटी श्री शङ्कराचार्य विश्वविद्यालये एव सङ्‌गेष्ठ्याः वेदी इति पूर्वनिश्चितः। सप्त विंशति दिने कार्यक्रमस्य पूर्णता भविष्यति।
"एवरस्ट्" शृङ्गस्य कश्चन भाग:  भग्न: पतितश्च  इति पर्वतारोहका:।  
काठ्मण्डु: >"एवरस्ट् शृङ्गात् कश्चन भाग: भग्न: पतितश्चेति पर्वतारोहका:। त्रिपञ्चाशदुत्तरनवदशशततमे प्रथमतया एवरस्ट् आरूढवन्त: एड्मण्ड् हिलरी तथा टेन्सिंह: नोरगे च यत्र पादं स्थापितवन्त: स: भाग: एव विनष्ट:। हिलरीस्टेप् (पाद:) इति स्थानमिदम् आहूयते । पञ्चदशोत्तरद्विसहस्रतमे  नेपाले प्रवृत्तभूकम्पात्परमेव भागेयम् विनष्ट: इति पर्वतारोहका: चिन्तयन्ति। एवरस्ट् शृङ्गस्य दक्षिणपूर्वभागे  स्थिता द्वादश कि मी दैर्घ्ययुता शिला एव गता एवम्। एतस्य भङ्ग: पूर्वमेव संशयित: तथापि हिमाच्छादितावसंथायाम् स्थिरीकरण-साध्यता नासीत्। ब्रिटिष् पर्यवेक्षक: टीम् मोसेदाले एव हिलरीपाद: विनष्ट:, इति स्थिरीकृतवान्। एतस्य चित्रमपि स: मुखपुस्तके (फेस् बुक्) विनिमीतमपि ।गतवर्षे एव पादोयम् विनष्टमिति आवेदनानि आगतानि। स्थिरीकरणाय च बहुविधश्रमा: प्रचलिता:। समुद्रोपरितलात् नवत्युत्तरसप्तशताधिकअष्ट मीटर् मितौन्नत्ये एव  अस्य स्थिति:। तीक्ष्णारोहणप्रदेश: अयम्  एवरस्ट् अतिक्रान्तै: अन्तिमम् अतिक्रेतव्य: प्रदेश:। पश्चादवरोहणायापि एतत् स्थानम् नष्टमित्येतत् पर्वतारोहकान् अपघाते पातयेत्।  उपरि प्राप्तुं च आरॉहका: कष्टम् अनुभवन्ति। अतिशैत्ये प्रतीक्षा करणीया इति साहचर्यम् च वर्तते।
अटूर् गोपालकृष्णाय जे सि डानियेल् पुरस्कारः।
अनन्तपुरी> मलयालचलनचित्रमण्डले समग्रयोगदानाय दीयमानः २०१६तमसंवत्सरस्य जे सि डानियल् पुरस्काराय अन्ताराष्ट्रप्रसिद्धः कैरलीचलनचित्रनिदेशकः अटूर् गोपालकृष्णः चितः।  भारतीयचलच्चित्रमण्डलस्य परमोन्नतपुरस्कारः दादासाहिब् फाल्के पुरस्कारः २००४तमे संवत्सरे अनेन लब्धः आसीत्।  तथा पद्मश्री, पद्मभूषणपुरस्काराभ्यां सः आदृतश्च आसीत्।
    स्वयंवरम्, अनन्तरम्, एलिप्पत्तायं, कोटियेट्टं, मुखामुखं, मतिलुकल्, विधेयन् इत्यादीनि आगोलप्रशस्तिमाप्तानि तस्य प्रमुखानि चलच्चित्राणि भवन्ति।
चीनासीमायां भारतीयव्योमसेनाविमानं भग्नं - अवशिष्टानि दृष्टानि।
नवदिल्ली> भारतीयव्योमसेनायाः सुखोय् - ३० नामकं युद्धविमानं परिशीलन-प्रयाणमध्ये चीनाराष्ट्रस्य सीमोपान्ते अप्रत्यक्षमभवत्। बहुहोराणाम् अन्वेषणान्ते असमराज्यस्य घोरवने अवशिष्टानि दृष्टानि। किन्तु वैमानिकद्वयमधिकृत्य कापि सूचना न लब्धा। असमस्य तेज़पुरात् उड्डयितं विमानं उत्तरदिशि ६० कि मी दूरे चीनायाः सीमासमीपमेव रडार् यन्त्रात् अप्रत्यक्षं जातम्।
    भारतीयव्योमसेनायाः नष्टभूतं अष्टमं युद्धविमानं भवति इदं सुखोय्। २४० सुखोय् विमानानि भारतव्योमसेनायै  सन्ति।
Episode 47- Sanskrit News

Jayalakshmi K J, Std.8,Govt. VHSS, Chottanikkara, Ernakulam, Kerala.

Tuesday, May 23, 2017

विकिरण-अपघातस्य परिहारः उपलब्धः॥
बाह्याकाशयात्रासु मनुजं  प्राणवेदनया हन्यमान: कश्चन अपघात: गुप्त: आसीत्  एतावत्कालं  यावत् ।।  न केवलम् मनुजं किन्तु पेटकानि तथा उपग्रहांश्च  विकिरणम् ( रेडियेषन् ) नामकोयं भीकर: ग्रसति स्म । सूर्यात्   तथा क्षीरपथस्य अज्ञातस्रोतभ्य: विकिरणस्य प्रभव: । मनुष्यचर्मसु एतस्य प्रभावेण अर्बुदरोग: भवितुमर्हति । विकिरणमेतत् अधीनं कर्तुम् मानव:  वर्षेभ्य: प्रयत्नं कुर्वन्नस्ति । भूमौ  एतस्य कृत्रिमसृजनेन प्रतिपर्यवेक्षणे कोटीनां लाभ: भवेत् । तदपि न , विकिरणातिप्रसरयुक्के कुजे वाससाध्यतापद्धतिषु निर्णायकं स्यात् एतत् ।  किमपि वा भवतु पद्धतिना विजय: दृष्ट: । बाह्याकाशदुरन्तकारकान् विकिरणप्रवाहान् गवेषका: परीक्षणशालायां सृष्टवन्त: । स्कोटलन्टे स्ट्रात् क्लैड् सर्वकलाशासाया: भौतिकशास्त्रविभागेन  सहायकमुपकरणं च निर्मितम् । लेसर् प्लास्मा  वेगनियन्त्रकै: एतत् प्रवर्तते । सामान्यपरीक्षणशालासु  एवं कृते अत्यूर्जप्रसरणयुक्तानि विकिरणानि अनियन्त्रणसाध्यानि बहि: स्फुरन्ति ।  इङ्ग्लेण्ड् देशस्थलेसर् - प्लास्माश्रितसेन्ट्रल् लेसर् परीक्षणशालायां  परीक्षणसौकर्ये प्राप्ते निर्णायकपद्धत्या विजय: प्राप्त: । भूम्या: बाह्यं कान्तिकमण्डलम् अस्मान् बाह्याकाशविकिरणेभ्य: संरक्षन्ते । अन्तरिक्षं च त्रिपादमितलोहपालीसमानसुरक्षां च अस्मभ्यं यच्छति । भूमौ प्रत्येक: नर: प्रतिदिनं  प्राय: दश (१०) मैक्रोसीवर्ट् ( ०.००००१) विकिरणं बाधते । बाह्याकाशयात्रिकेन  ० .६६ ( पूज्यं दशांशं षट् षट् ) विकिरणानि बाधते  तच्च मरणकारणमपि  स्यात् । चन्द्रे कान्तिकमण्डलं दुर्बलम् । कुजे निर्वीर्यप्रायं च । साहचर्येस्मिन् विक्षेपणात्पूर्वं पेटकोपग्रहनिर्माणेषु एतत् सहायकं  स्यात्

Monday, May 22, 2017

सर्वेषां विप्रतिपत्तिम् उद्पाद्य पुनरपि उत्तरकोरियया
 नूतनाणवास्त्रम्  परीक्षितम् ।
       सोल् >  अमरीकां तथा लोकराष्ट्राणि  आक्रोश्य उत्तरकोरियया पुनरपि आणवास्त्रपरीक्षणं कृतम् ।    रविवारे मध्याह्नात्परमेव अज्ञातपरीक्षणं कृतमिति दक्षिणकोरियया ज्ञापितम् । पुच्याङ्त: नूतनम् मध्यदूरबालिस्टिक् आणवास्त्रम् परीक्षितम् ।।
अतिवेगान्तर्जालप्राप्त्यै भारतेन त्रयः उपग्रहाः विक्षिप्यन्ते।
          नवदिल्ली>अन्तर्जालोपयोगे अमरीकाम् उल्लङ्घ्य लोके द्वितीयं राष्ट्रम्  अभवत्  भारतम् , परं तस्मात् अतिवेगान्तर्जालप्राप्त्यै  त्रीन् उपग्रहान् विक्षेप्तुम् भारतं  सिद्धतां करोति। आगामि अष्टादश ( १८ ) मासाभ्यन्तरे ऐ एस् आर् ओ त्रीन् वार्ताविनिमयोपग्रहान् विक्षेप्स्यति। तत्र प्रथमोपग्रहं जी साट् -  नवदश (१९) जूण्मासे विक्षेप्स्यति। जी एस् एल् वी एम् के - ३ , जी साट् -  नवदशम् भ्रमणपथम् प्रापयेत्। तद्देशीयनिर्मित-क्रयोजनिकेन्ञ्जिन् एव जी एस् एल् वी एम् के - त्रीणि  मध्ये उपयुङ्क्ते। चत्वारि टण् मितभारयुक्तान् उपग्रहान् विक्षेप्तुम् एतेन नूतनबाह्याकाशवाहनेन शक्यते। ऐ एस् आर् ओ संस्थाया: अग्रिमपरम्परा विक्षेपणवाहनत्वेन जी एस् एल् वी एम् के
मन् की बात् कार्यक्रमस्य बृहती अनुकूलता।
नवदेहली- प्रधानमन्त्रिणा नरेन्द्रमोदिना आकाशवाणी द्वारा क्रियमाणस्य मन की बात् कार्यक्रमस्य प्रक्षेपणं १५० राष्ट्रेषु भवतीति आकाशवाणी निदेशकः अवदत्। विदेशराष्ट्राणां भारतीयेभ्यः अस्य कार्यक्रमस्य बृहती अनुकूलता लभ्यते इति सः अयोजयत्।
प्रधानमन्त्रिणः हिन्दीभाषायाः स्थाने तत्समये आंगलभाषया ,रषिया भाषाया,फ्रन्च् भाषया, उरुदू भाषया, चैनीस् भाषया च तस्य अनुवादः दीयते। विश्वस्य सर्वतः जनानां प्रधानमन्त्रिणा सह बन्धं स्थापितुं अवसरः लभ्यते। अरब् राष्ट्रेभ्यः आस्त्रेलियातः,न्यूसिलाण्ट्तः, कानडातः च कार्यक्रमस्य अस्य अनुकूलभावानि लभ्यन्तेति आकाशवाणी निदेशकः अवदत्।