OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, May 22, 2017

जम्मूकाश्मीरस्य नौगामक्षेत्रे सैन्यबलैः आतंकिचतुष्टयं व्यापादितम् ।

 नव दिल्ली > जम्‍मूकश्‍मीरस्य नौगामक्षेत्रे नियंत्रणरेखायां निकषा प्रवृत्ते संघर्षे सुरक्षाबलैः आतंकिचतुष्टयं व्यापादितम् । संघर्षे सैन्यभटत्रयं वीरत्वंगतम् । सैन्यबलैः आतंकवादिनाम् अवैधप्रवेशनिराकरणानन्तरं संघर्षः प्रारब्धः ।  स्रोतोभिः विज्ञापितं यत् प्रतिसंघर्षः इदानीमपि प्रवर्तमानं वर्तते |
इरानं विरुद्ध्य ड्रम्पः - आतङ्कवादिने आयुध: प्रयोगशिक्षा च दीयते ।
रियाद्> आतङ्कवादान् प्रतिरोद्धुं माहम्मदीयराष्ट्राणि नेतृत्वं स्वीकुर्येयुः इति यु ए स् राष्ट्रपतिः डोणाल्ड् ट्रम्पः अवदत्। सौदिराष्ट्रे रियाद् नगरे भाषमाणः आसीत् सः। सौदिराष्ट्रेण सह नूतनः संबन्ध आरब्धः। मण्डलेषु तथा लोकेषु सर्वत्र शान्ति भवतु इति अभिलाषः अस्ति इति सः अयोजयत्।
इरानं विमृश्य आसीत् ट्रम्पस्य भाषणम्। मध्य पूर्वदेशस्य अस्वस्थतायाः उत्तरदायित्वम् इरानस्य एव भवति। एते भीकरान् प्रति आयुधः आयोधनशिक्षा च दास्यति। सिरियायां बाषर् अल्षादेन कृतानि विद्रोहकर्माणि वाक्याधीतानि। असदस्य विद्रोहप्रवर्तनेषु इरानस्य भागभाक्त्वमस्तीति। ट्रम्पः अवदत्। यू एस् आरभ्य भारतपर्यन्तं , ओस्ट्रेलियादारभ्य रष्याराष्ट्रपर्यन्तं सर्वे आतङ्कवादस्य दुर्फलानि सोढवन्तः सन्ति। अतः युष्माकं विशुद्धधरातः तान् निष्कासितव्याः इत्यपि ट्रम्पः अभवत्।
हतभाग्यानाम् अर्धसैनिकानां परिवारेभ्यः कोटि रूप्यकाणि। 
नवदिल्ली>संघट्टनेषु बलिदानित्वं प्राप्यमाणानां केन्द्रसायुध आरक्षकसेनाङ्गानां परिवारेभ्यः एक कोटि रूप्यकाणि नष्टपरिहाररूपेण दास्यन्तेति गृहमन्त्रिणा राजनाथसिंहेन उद्घुष्टम्। चीनाराष्ट्रेण सह सीमांशभागिनां पञ्चानां राज्यानां मुख्यमन्त्रिभ्यः साकं गाङ्टोके कृते सुरक्षावलोकनोपवेशनानन्तरं भाषमाणः आसीत् राजनाथसिंहः।

Sunday, May 21, 2017

सुसिद्धतायै व्योमसेना निर्दिष्टा। 
नवदिल्ली > भारतस्य सीमायां विभीषिकायां वर्तमानायां व्योमसेनाङ्गाः सर्वसज्जाः भवन्तु इति सेनाधिपस्य एयर् चीफ् मार्षल् बि एस् धनोवा इत्यस्य आदेशः। यदा निर्देशः लभते तदैव कर्तव्यपालनाय सिद्धाः भवेयुः, तदर्थं परिशीलनं च पूर्तीकरणीयम्  इति द्वादशसहस्रं व्योमसेनाधिकारिणां कृते पृथक् पृथक् प्रेषितैः लेखैः निर्दिष्टम्।
वर्णाभः ऊट्टि पुष्पोत्सवः प्रारब्धः। 
ऊट्टी>दक्षिणभारतस्य सुप्रसिद्धे ऊट्टी विनोदसञ्चारकेन्द्रे अस्य संवत्सरस्य पुष्पमेला समारब्धा। सम्पूर्णं सदः साक्षीकृत्य मुख्यमन्त्री एडप्पाटी के .पळनिसामी वनसपतिसस्योद्याने   प्रचाल्यमानामिमां मेलामुद्घाटनं कृतवान्।
        लक्षत्रयाधिकैः विविधैः सूनैः समृद्धे बोट्टाणिक्कल् गार्डन् मध्ये लक्षाधिकैः कुसुमैः विरचितं पल्लवराजशासनकालीनः महाबलिपुरं शिल्प एव अस्य कुसुमोत्सवस्य उत्कृष्टमाकर्षणम्। त्रिशत्पादपरिमितम् उन्नतः भवत्ययं शिल्पः। त्रिसहस्रं पुष्पैः विरचितः चातकः , बहुवर्णकुसुमैः विकसिताः मयूराः , रङ्गोली इत्यादयः सन्दर्शकान् आकर्षन्ति।
विष्णुप्रयागे भूपातः, तीर्थाटकानां दुर्दशा। 
प्रयागः > उत्तराखण्डराज्ये प्रसिद्धे विष्णुप्रयागनामके तीर्थस्थानमार्गे तत्र तत्र सञ्जातेन शक्तेन भूपातेन सहस्रशः तीर्थाटकाः दुर्दशायां पतिताः। गतागतं स्थगितम्। विविधस्थानेषु १५,०००परं तीर्थाटकाः आशङ्कायां वर्तन्ते। किन्तु व्योममार्गेण साहाय्यमानीय तीर्थाटकानाम् आशङ्कामपाकर्तुं यतामहे इति अधिकृतैः उक्तम्।
समान्तरप्रपञ्चस्य दृष्टान्त:।
                नेके प्रपञ्चा: वर्तन्ते वा ???  प्रश्नोयं बहुकालेभ्य: गवेषकानां कष्टं जनयति ।  समान्तरप्रपञ्चा: ( मल्टि वेल्ड्स् )  भवेयुरिति  शास्त्रज्ञा: अपि अभिप्रयन्ति । इदानीम् इदम्प्रथमतया समान्तरप्रपञ्चस्य दृष्टान्त: व्यक्त : इति ब्रिटण् राष्ट्रस्य राजकीयज्योतिश्शास्त्रसमाज: ( रोयल् अस्ट्रोणमिकल् सोसैटी )  अधीशत्ववादम् उन्नयति । प्रपञ्चस्य विदूरमेखलायां दृष्टिपथमागत: अशीत्यधिकैकशतम्  ( १८० )   विशाल: अतिशैत्यप्रदेश:  एव इतरप्रपञ्चस्य दृष्टान्तत्वेन गवेषकै: सूच्यते ।
 पञ्चदशोत्तरद्विसहस्रतमे (२०१५ ) वर्षे दृष्टभूतायाम् अस्याम्  सामान्येन भवितव्या:उपायुता: नक्षत्रसमूहा: न्यूना:  इति पठनेषु व्यक्तं प्रतिभाति । प्रपञ्चेतरभागान् अपेक्ष्य विंशति: प्रतिशतं द्रव्यमपि अत्र ऊनमेव । प्रतिभासस्यास्य विशदीकरणं  दातुं गवेषका: असमर्था: । तथा अन्य: कश्चन प्रपञ्च: अस्माकम् प्रपञ्चम् अतिक्रम्यारूढ: स्यादित्यपि अनुमीयते । नक्षत्रसमूहान् द्रव्याणि च समीपप्रपञ्च:  अगिलत् इति सार: । अस्माकम् प्रपञ्च:  कोटिश: विद्यमानसमान्तरप्रपञ्चै: सह घट्टनात्परं गिलनस्य अवशिष्टं स्यात् इयं शीतमेखलेति गवेषणस्य नेतृस्थानीय: ड्यूर्हाम् सर्वकलाशालाया: ज्योतिश्शास्त्रविभागमेधावी प्रोफ . टोम् षान्क्स् अभिप्रैतवान् । कोरनल् सर्वकलाशालाया:  आर्कैव् ओर्ग् सैट् मध्ये पठनम् प्रसिद्धीकृतं वर्तते । स्टीफन् होकिंङ्स् प्रभृतय: विख्याता: भौतिकशास्त्रज्ञा:अन्यप्रपञ्चा: भवेयुरिति पूर्वमेव उक्तवन्त:  । तत्रत्या:  भौतिकनियमा: अस्मत्त: भिन्नाश्च भवेयुरिति सूचयन्ति । एकस्मात् अपरप्रपञ्चं प्रति प्रवेशनमपि असाध्यमिति निगमनम् ।
 वातावरणे व्यत्‍ययः ; भूतलं गलिष्यति वा समुद्र:?
                     वातावरणे आगच्छत् लघु परिवर्तनमपि  प्रकृत्याम्  बृहत् प्रतिफलनानि  कुर्यात् । वातावरणव्यतियानम्  अधिकाधिकं रूक्षतरं दृश्यमानसाहचर्येस्मिन् प्रकृत्यामपि एतस्य अनुरणनम् दृष्टिसाध्यमेव । समुद्रजलोपरितलमानके लघु वर्धनमपि  लोके सर्वत्र समुद्रजलस्य तीरदेशागिलनस्य  तथा समुद्राक्रमणस्य च तीव्रतां द्विगुणितं वर्धयेदिति नूतनपठनानि ।  वातावरणव्यतियानस्य भागतया  समुद्रतलोत्प्लव: ,  तेन च  रूक्षवीच्य: तथा समुद्रक्षोभा: च सम्भवन्तीति गवेषका: सूचयन्ति ।  आगोलतापनात् हिमफलकानि  द्रवीकृतानि , समुद्रजलस्य  उष्णता वर्धते  परं समुद्रजलोपरितलम् प्रतिवर्षं  चत्वारि मिल्लीमीटर् मितमुन्नतं च समपद्यते । वर्तमानसाहचर्यानुसारं वर्षाणि यावत् प्रतिभासोयम् अनुवर्तते।  प्रथमदृष्ट्या  लघुमानेन समुद्रजलवर्धनम्  इति भासते तथापि प्रत्याघात: महान् भविष्यति इति गवेषका: पूर्वसूचनां यच्छन्ति । समुद्रजलोपरितलव्यतियानं महावातानाम् उन्नतावृत्तियुक्तवीचीनां च कारणं स्यात् । समुद्राक्रमणं प्रतिरोद्धुं  सामान्यप्रतिरोधमार्गा:  अपर्याप्ता: भवेयु: । भूमध्यरेखासमीपप्रदेशेषु  समुद्राक्रमणरूक्षता  अधिका अनुभूता भवेत् । आफ्रिक्का , अमरीकाभूखण्डस्य दाक्षिणात्या: प्रदेशा: , दक्षिणपूर्वेष्या , यूरोपस्य अटलान्डिकतीरम् , अमरीकाया: पूर्वतीरम्  एतेषु स्थानेषु शक्तानि प्रतिफलनानि भवेयु: - गवेषका:  अभिप्रयन्ति । शास्त्रावेदनजेर्णल्  ( सयन्टिफिक् रिपोर्ट्स् जेर्णल् ) मध्ये  एतत्सम्बद्धपठनरेखा: प्रसिद्धीकृता: ।

Saturday, May 20, 2017

पण्यवस्तुसेवनकरपरिष्करणं प्रवृत्तिपथे।
श्रीनगरम् >स्वातन्त्र्यानन्तरं भारते सम्भूतं बृहत्तमं करपरिष्करणं प्रवृत्तिपथमानेतुं सिद्धमभवत्। श्रीनगरे दिनद्वयेन सम्पन्ने पण्यवस्तु सेवन करसमित्याः [जि एस् टि] उपवेशने एतदधिकृत्य समर्पितेभ्यः प्रायेण सर्वेभ्यः निर्देशेभ्यः अङ्गीकारः लब्धः। शैक्षिक - स्वास्थ्य मण्डलानि पूर्णतया शुल्कविमुक्तानि अवस्थापितानि। केन्द्रवित्तमन्त्रिणः अरुण् जेय्ट्  ली वर्यस्य आध्यक्षे जम्मू काश्मीरस्य श्रीनगरे संवृत्ते मेलने आसीदयं निर्णयः।
    प्रतिशतं पञ्च, द्वादश, अष्टादश, अष्टविंशति इति राजस्वविधानं चतुर्धा अस्ति। आडम्बरवस्तूनां धूमपत्रोत्पन्नानां कृते शुल्केन सह "सेस्स्" अपि विधास्यति।

Friday, May 19, 2017

केन्द्रमन्त्री अनिल् दवे दिवंगतः। 

नवदिल्ली> भारतस्य वनं-पारिस्थितिकमन्त्री अनिल् माधव दवे [६०] हृद्रोगबाधया दिल्ली एयिम्स् आतुरालये दिवंगतः। अन्त्यकर्माणि शुक्रवासरे प्रभाते दशवादने मध्यप्रदेशस्थे बान्द्राबान् नामके जन्मग्रामे संवर्तन्ते।
       २००९ आरभ्य मध्यप्रदेशतः राज्यसभाङ्गः भवति अनिल् दवे। जूलाई मासे सम्पन्ने मन्त्रिसभापुनःसंघटनायां स्वतन्त्रोत्तरदायित्वयुक्तः परिस्थितिमनत्री अभवत्।
 कुलभूषणस्य मृत्युदण्डनम् अवष्टम्भितम्।
हेग् >गुप्ताचारं कृतमित्यारोप्य बलूचिस्थाने गृहीतस्य भूतपूर्वभारतीय-नौसेनाभटस्य कुलभूषणयादवस्य पाकिस्थानीय-सैनिकन्यायालयेन विहितं मृत्युदण्डनं अन्ताराष्ट्रनीतिपीठेन अवष्टम्भितम्। हेगस्थस्य अन्ताराष्ट्रिय-नीतिन्यायालयस्य अध्यक्षेण रोणि अब्रहामेन अभिव्याप्तस्य एकादशाङ्गयुक्तनीतिपीठस्यैवायं विधिः। कुलभूषणस्य मृत्युदण्डनं यावच्छीघ्रं निरुद्धव्यमिति भारतेन निवेदितमासीत्। भारताय वरिष्ठः न्यायवादी हरीष् साल्वे वर्यः उपस्थितः। प्रतिराष्ट्रं सार्धैकहोरां यावत् वादप्रतिवादाय समयः लब्धः आसीत्। राष्ट्रद्वयस्यापि न्यायवादं श्रुत्वा विधिः प्रस्तुतः।  महाराष्ट्रस्य साङ्ली स्वदेशीयः भवति कुलभूषणः। मुम्बय्यां पोवायिल् प्रदेशे सकुटुम्बं वसन्नस्ति।

भीमाकारं उपग्रहविक्षेपण वाहनम् आगामिनि मासे बाह्याकाशं गमिष्यति।
चेनै>ऐ एस् आर् ओ द्वारा इतः पर्यन्तेषु  निर्मितेषु भीमाकारं उपग्रहविक्षेपण वाहनं विक्षेपणाय सज्जं जातम्। ६४० डण् भारवदिदं विक्षेपवाहनम्। बृहदुपग्राहाणां विक्षेपणाय बृहदानां विक्षेपणवाहनानां आवश्यकता अस्ति। भारतेन स्वयमेव निर्मितं अतिशीत यन्त्रमस्ति अस्य विशेषता। द्वादश मासस्य प्रयत्नस्य फलमस्ति एतत् विमानम्। श्रीहरिकोट्टातः अस्ति अस्य विक्षेपणम्। प्राथमिक कार्याणि सर्वाणि जातानि।
जिसाट्ट् १९ उपग्रहं एतत् द्वारा बहिराकाशं प्रेषिष्यति।अस्य भारं ३.२ टण् अस्ति। क्रमेण अस्य भारवाहक क्षमतां वर्धिष्यति। उपग्रहस्य कालपरिधिः १६ संवत्सराणि भवन्ति।
अफ्गानस्य दूरदर्शनकेन्दे 'ऐ एस्' आक्रमणम् ; दशजनाः मृताः अष्टादश व्रणिताः।
काबुल्> अफ्गान् सर्वकारस्य वाहिनी म् अतिक्रम्य भीकरैः कृते अत्याचारे मृतयः अभवन्। मृतेषु चत्वारः वाहिन्याः कर्मकराः द्वौ आरक्षकौ च। अपि च चत्वारः भीकराः हताः।  अफ्गानिस्थाने परह्यः प्रवृत्ते विस्फोटकाक्रमणे त्रयः पुरवासिनः हताः, त्रयः आरक्षकेन सहितः दशजनाः व्रणिताः।
पूर्व नंगर्हार् प्रविश्यायाः प्रादेशिक दूरदर्शन वाहिनीकेन्द्रः एव आक्रमितः। अयं हर्म्यः राज्यपालस्य प्रासादचत्वरस्य समीपे भवति। चत्वारः भीकराः झटित्यागत्य विस्फोटनं कृत्वा अनन्तरं गोलिका प्रहरः अपि अकरोत्। सुरक्षासेनानिन्यः अपि प्रत्याक्रमणमकुर्वन्। ऐ एस् भीकराः एव अस्य दुष्कर्मस्य उत्तरदायिनः इति तैः विज्ञापितः। पाकिस्थानस्य समीपवर्ती प्रविश्या भवति नंगर् हार्।

Thursday, May 18, 2017

संस्कृतं पठित्वा जना: अत्याधुनिका: भवितुम् अर्हन्ति- मुरलीमनोहर जोशी
कानपुरम् >अद्य कानपुरे त्रिदिवसीया प्राविधिक-संस्कृत-शैक्षिक-उपकरण-निर्माण-कार्यशाला आरब्धा । अस्यां देशस्य नाना-भागेभ्य: आगता: सप्तत्यधिका: सहभागिन: प्रशिक्षणं प्राप्नुवन्ति । अवसरेsस्मिन् भाषमाण: सुख्यात: आचार्य: पूर्व-मानव-संसाधन-विकास-मन्त्री श्री मुरलीमनोहर-जोशी अवदत् यत् संस्कृतं पठित्वा जना: अत्याधुनिका: भवितुम् अर्हन्ति । सारस्वतातिथि: डॉ.बलदेवानन्द-सागर: सबलं अवादीत् यत् एतादृश्य: कार्यशाला: देशस्य विभिन्नभागेषु आयोज्य संस्कृतस्य उपयोगित्वं साधनीयम् ।
शक्तिं प्रदर्श्य भारतीयसेना
जयपुरम्>शक्तिं प्रदर्श्य राजस्थान राज्ये भारत सेनायाः अभ्यासप्रकटनम्। २०००० भटाः अनेकानि डाङ्क वहनानि अत्याधुनिक निरीक्षणोपकरणानि च मिलित्वा आसीत् तार शक्ति इति नाम्ना जातम् अभ्यासप्रकटनम्।
एकमासस्य प्रशिक्षणस्य अन्तिम भागत्वेन आसीत् बृहदिदं शक्तिप्रकटनम्। अत्युष्णं ऊषरभूमेः दुष्कर्म वातावरणे कर्मकरणार्थं सविशेषं प्रशिक्षणं सेनायै दत्तमासीत्।
सीमाप्रदेशे स्थितस्य राजस्थान ऊषरभूमौ कृतम् अभ्यायप्रकटनं पाक्किस्थानं प्रति पूर्वनिर्देशमिति गण़यति। लफ्ट्नण्ट् जनरल् अश्विनी कुमारेण सेनायाः उपकरणानां च परीक्षायाम् कृता। सानानां पूर्वसन्नाहं धीरता च संतृप्ता इति लफ्ट्नण्ट् केणल् मनीष् ओज अवदत्।
चतुर्वारम् एवरस्ट् श्रृङ्गम् अभिभूय भारतीयवनिता।
इटानगरम्>अरुणाचलप्रदेशवासिनी अन्षु जम् सेन्पा चतुर्वारम् हिमालयपर्वतस्य एवरस्ट् श्रृङ्गं पराजितवती। एतद्विजयं प्रापयन्ती प्रथमभारतीयवनिता भवति अन्षु। गतशनिवासरे उषसि सार्धैकवादने बेस् शिबिरात् पर्वतारोहणम् आरब्धवती सा नववादने एवरस्ट् श्रृङ्गस्य उत्तुङ्गं प्राप्य भारतपताकाम् उत्थापितवती।
पठनाधिगमं विना पदोन्नतिं न प्राप्स्यते।
नवदिल्ली>ये छात्राः निश्चितम् अध्ययनमानं न प्राप्नुवन्ति तान् पञ्चमाष्टमकक्ष्ययोः अभिभावयितुम् उद्दिष्टमानं विधेयकम् अवतारयिष्यतेति केन्द्रमानवशेषि-विकसनमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। नरेन्द्रमोदीमन्त्रिमण्डलस्य संवत्सरत्रयपूर्तीकरणमनुबध्य मानवशेषि-विकसनमन्त्रालयस्य शासनोत्कर्षान् अवतार्यमाणः आसीत् सः। नवमकक्ष्यापर्यन्तं छात्राः अभिभूयमानाः न भवितुमर्हाः इति व्यवस्थायां परिवर्तनमपेक्षते इदं विधेयकम्।

अन्ताराष्ट्रन्यायालयस्य हस्तक्षेपः न अङ्गीक्रियते- न्यायालयादेशं तृणवत्कृत्य पाकिस्थानः
इस्लामाबाद्> कुलभूषण-जादवस्य मृत्युदण्डः अन्तिम न्यायादेशस्य निर्णयपर्यन्तम् अन्ताराष्ट्र नीतिन्यायालयेन निरस्तः। किन्तु न्यायालयस्य आदेशः पाकिस्था नेन तृणवत्कृतम्I राष्ट्रिय सुरक्षाविषयेषु राष्ट्रान्तर न्यायालयस्य निर्णयः नोऽङ्गीकियते इति पाकिस्थानस्य विदेशकार्यमन्त्रालयेन व्यक्तीकृतम्।  कुलभूषणस्य मृत्युदण्डः न्यायालयेन निवारिते क्षणे आसीत् पाकिस्थानस्य अभिमत प्रकाशनम्।
 भारतस्य चारः इति आरोप्य पाकिस्थानस्य सैनिकन्यायालयेन कुलभूषणः मृत्युदण्डः प्रापितः।  पाकिस्थानस्य स्वतन्त्र न्यायालये पुनर्वादः करणीयः इति च राष्ट्रान्तर-न्यायालयेन निर्दिष्टः।