OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 21, 2017

 वातावरणे व्यत्‍ययः ; भूतलं गलिष्यति वा समुद्र:?
                     वातावरणे आगच्छत् लघु परिवर्तनमपि  प्रकृत्याम्  बृहत् प्रतिफलनानि  कुर्यात् । वातावरणव्यतियानम्  अधिकाधिकं रूक्षतरं दृश्यमानसाहचर्येस्मिन् प्रकृत्यामपि एतस्य अनुरणनम् दृष्टिसाध्यमेव । समुद्रजलोपरितलमानके लघु वर्धनमपि  लोके सर्वत्र समुद्रजलस्य तीरदेशागिलनस्य  तथा समुद्राक्रमणस्य च तीव्रतां द्विगुणितं वर्धयेदिति नूतनपठनानि ।  वातावरणव्यतियानस्य भागतया  समुद्रतलोत्प्लव: ,  तेन च  रूक्षवीच्य: तथा समुद्रक्षोभा: च सम्भवन्तीति गवेषका: सूचयन्ति ।  आगोलतापनात् हिमफलकानि  द्रवीकृतानि , समुद्रजलस्य  उष्णता वर्धते  परं समुद्रजलोपरितलम् प्रतिवर्षं  चत्वारि मिल्लीमीटर् मितमुन्नतं च समपद्यते । वर्तमानसाहचर्यानुसारं वर्षाणि यावत् प्रतिभासोयम् अनुवर्तते।  प्रथमदृष्ट्या  लघुमानेन समुद्रजलवर्धनम्  इति भासते तथापि प्रत्याघात: महान् भविष्यति इति गवेषका: पूर्वसूचनां यच्छन्ति । समुद्रजलोपरितलव्यतियानं महावातानाम् उन्नतावृत्तियुक्तवीचीनां च कारणं स्यात् । समुद्राक्रमणं प्रतिरोद्धुं  सामान्यप्रतिरोधमार्गा:  अपर्याप्ता: भवेयु: । भूमध्यरेखासमीपप्रदेशेषु  समुद्राक्रमणरूक्षता  अधिका अनुभूता भवेत् । आफ्रिक्का , अमरीकाभूखण्डस्य दाक्षिणात्या: प्रदेशा: , दक्षिणपूर्वेष्या , यूरोपस्य अटलान्डिकतीरम् , अमरीकाया: पूर्वतीरम्  एतेषु स्थानेषु शक्तानि प्रतिफलनानि भवेयु: - गवेषका:  अभिप्रयन्ति । शास्त्रावेदनजेर्णल्  ( सयन्टिफिक् रिपोर्ट्स् जेर्णल् ) मध्ये  एतत्सम्बद्धपठनरेखा: प्रसिद्धीकृता: ।

Saturday, May 20, 2017

पण्यवस्तुसेवनकरपरिष्करणं प्रवृत्तिपथे।
श्रीनगरम् >स्वातन्त्र्यानन्तरं भारते सम्भूतं बृहत्तमं करपरिष्करणं प्रवृत्तिपथमानेतुं सिद्धमभवत्। श्रीनगरे दिनद्वयेन सम्पन्ने पण्यवस्तु सेवन करसमित्याः [जि एस् टि] उपवेशने एतदधिकृत्य समर्पितेभ्यः प्रायेण सर्वेभ्यः निर्देशेभ्यः अङ्गीकारः लब्धः। शैक्षिक - स्वास्थ्य मण्डलानि पूर्णतया शुल्कविमुक्तानि अवस्थापितानि। केन्द्रवित्तमन्त्रिणः अरुण् जेय्ट्  ली वर्यस्य आध्यक्षे जम्मू काश्मीरस्य श्रीनगरे संवृत्ते मेलने आसीदयं निर्णयः।
    प्रतिशतं पञ्च, द्वादश, अष्टादश, अष्टविंशति इति राजस्वविधानं चतुर्धा अस्ति। आडम्बरवस्तूनां धूमपत्रोत्पन्नानां कृते शुल्केन सह "सेस्स्" अपि विधास्यति।

Friday, May 19, 2017

केन्द्रमन्त्री अनिल् दवे दिवंगतः। 

नवदिल्ली> भारतस्य वनं-पारिस्थितिकमन्त्री अनिल् माधव दवे [६०] हृद्रोगबाधया दिल्ली एयिम्स् आतुरालये दिवंगतः। अन्त्यकर्माणि शुक्रवासरे प्रभाते दशवादने मध्यप्रदेशस्थे बान्द्राबान् नामके जन्मग्रामे संवर्तन्ते।
       २००९ आरभ्य मध्यप्रदेशतः राज्यसभाङ्गः भवति अनिल् दवे। जूलाई मासे सम्पन्ने मन्त्रिसभापुनःसंघटनायां स्वतन्त्रोत्तरदायित्वयुक्तः परिस्थितिमनत्री अभवत्।
 कुलभूषणस्य मृत्युदण्डनम् अवष्टम्भितम्।
हेग् >गुप्ताचारं कृतमित्यारोप्य बलूचिस्थाने गृहीतस्य भूतपूर्वभारतीय-नौसेनाभटस्य कुलभूषणयादवस्य पाकिस्थानीय-सैनिकन्यायालयेन विहितं मृत्युदण्डनं अन्ताराष्ट्रनीतिपीठेन अवष्टम्भितम्। हेगस्थस्य अन्ताराष्ट्रिय-नीतिन्यायालयस्य अध्यक्षेण रोणि अब्रहामेन अभिव्याप्तस्य एकादशाङ्गयुक्तनीतिपीठस्यैवायं विधिः। कुलभूषणस्य मृत्युदण्डनं यावच्छीघ्रं निरुद्धव्यमिति भारतेन निवेदितमासीत्। भारताय वरिष्ठः न्यायवादी हरीष् साल्वे वर्यः उपस्थितः। प्रतिराष्ट्रं सार्धैकहोरां यावत् वादप्रतिवादाय समयः लब्धः आसीत्। राष्ट्रद्वयस्यापि न्यायवादं श्रुत्वा विधिः प्रस्तुतः।  महाराष्ट्रस्य साङ्ली स्वदेशीयः भवति कुलभूषणः। मुम्बय्यां पोवायिल् प्रदेशे सकुटुम्बं वसन्नस्ति।

भीमाकारं उपग्रहविक्षेपण वाहनम् आगामिनि मासे बाह्याकाशं गमिष्यति।
चेनै>ऐ एस् आर् ओ द्वारा इतः पर्यन्तेषु  निर्मितेषु भीमाकारं उपग्रहविक्षेपण वाहनं विक्षेपणाय सज्जं जातम्। ६४० डण् भारवदिदं विक्षेपवाहनम्। बृहदुपग्राहाणां विक्षेपणाय बृहदानां विक्षेपणवाहनानां आवश्यकता अस्ति। भारतेन स्वयमेव निर्मितं अतिशीत यन्त्रमस्ति अस्य विशेषता। द्वादश मासस्य प्रयत्नस्य फलमस्ति एतत् विमानम्। श्रीहरिकोट्टातः अस्ति अस्य विक्षेपणम्। प्राथमिक कार्याणि सर्वाणि जातानि।
जिसाट्ट् १९ उपग्रहं एतत् द्वारा बहिराकाशं प्रेषिष्यति।अस्य भारं ३.२ टण् अस्ति। क्रमेण अस्य भारवाहक क्षमतां वर्धिष्यति। उपग्रहस्य कालपरिधिः १६ संवत्सराणि भवन्ति।
अफ्गानस्य दूरदर्शनकेन्दे 'ऐ एस्' आक्रमणम् ; दशजनाः मृताः अष्टादश व्रणिताः।
काबुल्> अफ्गान् सर्वकारस्य वाहिनी म् अतिक्रम्य भीकरैः कृते अत्याचारे मृतयः अभवन्। मृतेषु चत्वारः वाहिन्याः कर्मकराः द्वौ आरक्षकौ च। अपि च चत्वारः भीकराः हताः।  अफ्गानिस्थाने परह्यः प्रवृत्ते विस्फोटकाक्रमणे त्रयः पुरवासिनः हताः, त्रयः आरक्षकेन सहितः दशजनाः व्रणिताः।
पूर्व नंगर्हार् प्रविश्यायाः प्रादेशिक दूरदर्शन वाहिनीकेन्द्रः एव आक्रमितः। अयं हर्म्यः राज्यपालस्य प्रासादचत्वरस्य समीपे भवति। चत्वारः भीकराः झटित्यागत्य विस्फोटनं कृत्वा अनन्तरं गोलिका प्रहरः अपि अकरोत्। सुरक्षासेनानिन्यः अपि प्रत्याक्रमणमकुर्वन्। ऐ एस् भीकराः एव अस्य दुष्कर्मस्य उत्तरदायिनः इति तैः विज्ञापितः। पाकिस्थानस्य समीपवर्ती प्रविश्या भवति नंगर् हार्।

Thursday, May 18, 2017

संस्कृतं पठित्वा जना: अत्याधुनिका: भवितुम् अर्हन्ति- मुरलीमनोहर जोशी
कानपुरम् >अद्य कानपुरे त्रिदिवसीया प्राविधिक-संस्कृत-शैक्षिक-उपकरण-निर्माण-कार्यशाला आरब्धा । अस्यां देशस्य नाना-भागेभ्य: आगता: सप्तत्यधिका: सहभागिन: प्रशिक्षणं प्राप्नुवन्ति । अवसरेsस्मिन् भाषमाण: सुख्यात: आचार्य: पूर्व-मानव-संसाधन-विकास-मन्त्री श्री मुरलीमनोहर-जोशी अवदत् यत् संस्कृतं पठित्वा जना: अत्याधुनिका: भवितुम् अर्हन्ति । सारस्वतातिथि: डॉ.बलदेवानन्द-सागर: सबलं अवादीत् यत् एतादृश्य: कार्यशाला: देशस्य विभिन्नभागेषु आयोज्य संस्कृतस्य उपयोगित्वं साधनीयम् ।
शक्तिं प्रदर्श्य भारतीयसेना
जयपुरम्>शक्तिं प्रदर्श्य राजस्थान राज्ये भारत सेनायाः अभ्यासप्रकटनम्। २०००० भटाः अनेकानि डाङ्क वहनानि अत्याधुनिक निरीक्षणोपकरणानि च मिलित्वा आसीत् तार शक्ति इति नाम्ना जातम् अभ्यासप्रकटनम्।
एकमासस्य प्रशिक्षणस्य अन्तिम भागत्वेन आसीत् बृहदिदं शक्तिप्रकटनम्। अत्युष्णं ऊषरभूमेः दुष्कर्म वातावरणे कर्मकरणार्थं सविशेषं प्रशिक्षणं सेनायै दत्तमासीत्।
सीमाप्रदेशे स्थितस्य राजस्थान ऊषरभूमौ कृतम् अभ्यायप्रकटनं पाक्किस्थानं प्रति पूर्वनिर्देशमिति गण़यति। लफ्ट्नण्ट् जनरल् अश्विनी कुमारेण सेनायाः उपकरणानां च परीक्षायाम् कृता। सानानां पूर्वसन्नाहं धीरता च संतृप्ता इति लफ्ट्नण्ट् केणल् मनीष् ओज अवदत्।
चतुर्वारम् एवरस्ट् श्रृङ्गम् अभिभूय भारतीयवनिता।
इटानगरम्>अरुणाचलप्रदेशवासिनी अन्षु जम् सेन्पा चतुर्वारम् हिमालयपर्वतस्य एवरस्ट् श्रृङ्गं पराजितवती। एतद्विजयं प्रापयन्ती प्रथमभारतीयवनिता भवति अन्षु। गतशनिवासरे उषसि सार्धैकवादने बेस् शिबिरात् पर्वतारोहणम् आरब्धवती सा नववादने एवरस्ट् श्रृङ्गस्य उत्तुङ्गं प्राप्य भारतपताकाम् उत्थापितवती।
पठनाधिगमं विना पदोन्नतिं न प्राप्स्यते।
नवदिल्ली>ये छात्राः निश्चितम् अध्ययनमानं न प्राप्नुवन्ति तान् पञ्चमाष्टमकक्ष्ययोः अभिभावयितुम् उद्दिष्टमानं विधेयकम् अवतारयिष्यतेति केन्द्रमानवशेषि-विकसनमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। नरेन्द्रमोदीमन्त्रिमण्डलस्य संवत्सरत्रयपूर्तीकरणमनुबध्य मानवशेषि-विकसनमन्त्रालयस्य शासनोत्कर्षान् अवतार्यमाणः आसीत् सः। नवमकक्ष्यापर्यन्तं छात्राः अभिभूयमानाः न भवितुमर्हाः इति व्यवस्थायां परिवर्तनमपेक्षते इदं विधेयकम्।

अन्ताराष्ट्रन्यायालयस्य हस्तक्षेपः न अङ्गीक्रियते- न्यायालयादेशं तृणवत्कृत्य पाकिस्थानः
इस्लामाबाद्> कुलभूषण-जादवस्य मृत्युदण्डः अन्तिम न्यायादेशस्य निर्णयपर्यन्तम् अन्ताराष्ट्र नीतिन्यायालयेन निरस्तः। किन्तु न्यायालयस्य आदेशः पाकिस्था नेन तृणवत्कृतम्I राष्ट्रिय सुरक्षाविषयेषु राष्ट्रान्तर न्यायालयस्य निर्णयः नोऽङ्गीकियते इति पाकिस्थानस्य विदेशकार्यमन्त्रालयेन व्यक्तीकृतम्।  कुलभूषणस्य मृत्युदण्डः न्यायालयेन निवारिते क्षणे आसीत् पाकिस्थानस्य अभिमत प्रकाशनम्।
 भारतस्य चारः इति आरोप्य पाकिस्थानस्य सैनिकन्यायालयेन कुलभूषणः मृत्युदण्डः प्रापितः।  पाकिस्थानस्य स्वतन्त्र न्यायालये पुनर्वादः करणीयः इति च राष्ट्रान्तर-न्यायालयेन निर्दिष्टः।

Wednesday, May 17, 2017

नासया विक्षिप्यते भारत-विद्यार्थिनः लघुतमः उपग्रहः।
नवदिल्ली > भारतीयानाम् अभिमाननिमेषः अयम्। भारतविद्यार्थी रिफात्त् षारूखेन निर्मितः लघूपग्रहः जूण्मासस्य एकविंशति (११) दिने नासया विक्षिप्यते। विश्वस्य प्रप्रथमः अयं लघूपग्रहस्य नाम 'कलांसाट्' इति भवति। तमिळ् नाट् राज्यस्य पल्लिप्पटि निवासी भवति रिफात्त् षारुखः। अष्टादशवर्ष-देशीयस्य अस्य प्रवेशः क्यूब्स् इन् स्पेस् इति स्पर्धाया एव आसीत्। स्पेस् किट्स् इन्ट्या नाम संस्थया एव अस्य अनुसन्धानस्य कृते धनव्ययः कृतः। बाह्याकाशस्य 'ग्राविटि' 'माग्नट्टोफियर्' भ्रमणं, एतान् अधिकृत्य अनुसन्धानमेव विक्षेपणस्य लक्ष्यम्। वालोस् द्वीपस्थ नासायाः केन्द्रतः एव विक्षेपणं भविष्यति।⁠⁠⁠⁠
Episode 45- Sanskrit News
Namyalakshmi R, Std.10,MGM HSS, Nayathodu, Ernakulam, Kerala.

Tuesday, May 16, 2017

राष्ट्रिय शैक्षिक अनुसन्धान-परिशीलन-परिषदेन (NCERT) पुस्तकानि नवीक्रियन्ते।
नव दिल्ली > गतेभ्यः दशसंवत्सरेभ्यः परं  राष्ट्रिय-शिक्षा अनुसन्धान प्रशिक्षण-परिषदेन (NCERT ) विद्यालयपुस्तकानि नवीक्रियन्ते। परिषदः अध्यक्षेण हृषिकेशसेनापतिना राष्टिय वार्तामाध्यमेभ्यः प्रदत्तां प्रस्तुत्याम् एव वार्तेयं व्यक्तीकृता।
सप्तोत्तर-द्विसहस्रतमानन्तरं (२००७) प्रथमतया एव पुस्तकानां परिष्करणं प्रचलति। अत एव अत्यधिकतया परिष्करणानि अवश्यकानि तथापि पुस्तक वितरणं जवेन करिष्यति इति च हृषिकेशमहाभागेन उक्तम्।
यादवः स्वयमम् अपराधः कृतः इति  कृताङ्गीकारस्य आधारभूता  चलनमुद्रिका न द्रष्टव्या इति अखिलराज्यन्यायालयः।
हेग्>कुलभूषण यादवस्य मृत्युदण्डः मास्तु  इति  भारतस्य निवेदनं त्यक्तव्यमिति पाक्किस्थानः। राज्यान्तर न्यायालये आसीत् पाक्किस्थान स्य मतप्रकटनम्। किन्तु कुलभूषण यादवः स्व स्खालित्यं स्वयं स्वीकरणस्य चलनमुद्रिका याः प्रदर्शने पाक्किस्थानस्य श्रमं पराजितम्।तदर्थं न्यायालयस्य अनुमतिः न लब्धा।
मध्याह्ने आसीत् भारतस्य वादः। न्यायालयस्य वेद्यां भारतं राजतन्त्रम् प्रयुनक्ति इति पाक्किस्थानः आरुरोप। भारतस्य निवेदनम् अनावश्यमेव। समाधानमार्गेण समस्याः परिहर्तुं पाक्किस्थानः यतते। जादवस्य पास्पोर्ट् रेखां प्रति भारतेन विशदीकरणं न दत्तमिति पाक्किस्थानाय उपस्थितः अट्टोर्णी जनरल् खवार खुरेषी न्यायालये अवदत्।

Monday, May 15, 2017

न्युमोणिया नाम ज्वरस्य प्रतिरोधौषधं भारतेन सम्पादितम्।
नव दिल्ली> रोगप्रतिरोध प्रवर्तनानां आवश्यकतायै न्युमोणिया नाम रोगस्य रोधाय औषधः भारतेन निर्मितम्। पञ्चवयसः न्यूनाः ये शिशवः सन्ति, तेषां मध्ये प्रतिशतं विंशतिः मरणं अनेन न्युमोणिया मनञ्चैट्टिस् रोगेण संभवति।  तं रोगं रोद्धुमेव पि सि वि नाम इदं औषधम्।
राष्ट्रस्य शिशूनां रोगव्यापनस्य तथा मरणस्य च संख्या न्यूनीकर्तुम् सर्वकारः बद्धश्रद्धः इति स्वास्थ्यमन्त्रिणा जे पि नड्डेन उक्तम्। प्रतिरोधौषधस्य अभावेन एकस्यापि शिशोः मृत्युः मा भवेत् इति सर्वकारस्य लक्ष्यम् इति च तेन उक्तम्।
हिमाचल प्रदेशे उत्तर् प्रदेशे  बिहारे च औषधप्रयोगः आरब्धः। द्वितीयश्रेण्यां मध्यप्रदेशे राजस्थाने च औषध प्रयोगः भविष्यति। आभारतम् औषधदानमेव लक्ष्यमिति मन्त्रिमहोदयेन उक्तम्।
भारतेन सीमाग्रामात् ग्रामीणाः सुरक्षितस्थानेषु प्राप्स्यन्ते।
श्रीनगरम्> जम्मू काश्मीरस्य नियन्त्रित रेखायां पाकिस्थानेन क्रियमाणः विद्रोह प्रवृत्तयः असह्याः जाताः। जनवास स्थानान् उद्दिशय गोलीकाप्रहरः 'षेल्' आक्रमणानि च अनुस्यूततया प्रचलन्ति। अत एव जनान् सुरक्षित स्थानं प्रतिप्रेषयति। शनिवासरे पाकिस्थानेन कृते आक्रमणे द्वौ नागरिकौ मृतौ आसीत्। इदानीं भारत सैनिकाः प्रत्या क्रमणं कुर्वन्ति च।
रजौरिजनपदस्य सप्तान्  ग्रामान् उद्दिश्य आसीत् आक्रमणम्। ग्रामत्रयात्नवपञ्चाशतधिक द्विशतं कुटुम्बाः सुरक्षासेनया सुरक्षितस्थानं प्रापिताः। नौषेर मण्डलेषु विद्यालयाः बन्धिताः। ओनेनकारणेन षटशीति विद्यालयाः एवं बन्धिताः।
सोमवारे पुनरपि सैबर् आक्रमणसाध्यता ;  अधुना लक्ष्यम्  एष्या।
              वाषिङ्टण् > लोके आशङ्काजनकं तत् सैबर् आक्रमणं सोमवारे पुनरपि सम्भवेत् इति विदग्धानां सूचना । विरामानन्तरं कार्यालया: सोमवारे एव उद्घाट्यन्ते इति तस्य कारणं च ।  एतावता एकलक्षं सङ्गणकयन्त्राणि  सैबर् आक्रमणेन विनष्टानि  वानाक्रै इति रान्संवेयरस्य नूतनसम्पुट: एव आगामिदिनेषु  आगच्छेत् इत्यपि सूचनायां कथयति । शुक्रवासरे प्रवृत्तस्य सैबर् आक्रमणस्य तीव्रता कियन्मात्रा इति  इदानीमपि न स्पष्टम् इति अधिकारिण:। बृहदाक्रमणम् अप्रवृत्ता एष्या स्यात् तेषाम् अग्रिमलक्ष्यमित्यपि निगमनानि सन्ति । एष्यायां तावत् सोमवार: सामान्येन सम्मर्द्दयुक्तदिनम् भवति। अत:  आक्रमणसाध्यता अधिका इति सिंगप्पूरु केन्द्रीकृत्य प्रवर्तनं कुर्वन्त: सुरक्षागवेषका: अवदन्।