OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, May 18, 2017

संस्कृतं पठित्वा जना: अत्याधुनिका: भवितुम् अर्हन्ति- मुरलीमनोहर जोशी
कानपुरम् >अद्य कानपुरे त्रिदिवसीया प्राविधिक-संस्कृत-शैक्षिक-उपकरण-निर्माण-कार्यशाला आरब्धा । अस्यां देशस्य नाना-भागेभ्य: आगता: सप्तत्यधिका: सहभागिन: प्रशिक्षणं प्राप्नुवन्ति । अवसरेsस्मिन् भाषमाण: सुख्यात: आचार्य: पूर्व-मानव-संसाधन-विकास-मन्त्री श्री मुरलीमनोहर-जोशी अवदत् यत् संस्कृतं पठित्वा जना: अत्याधुनिका: भवितुम् अर्हन्ति । सारस्वतातिथि: डॉ.बलदेवानन्द-सागर: सबलं अवादीत् यत् एतादृश्य: कार्यशाला: देशस्य विभिन्नभागेषु आयोज्य संस्कृतस्य उपयोगित्वं साधनीयम् ।
शक्तिं प्रदर्श्य भारतीयसेना
जयपुरम्>शक्तिं प्रदर्श्य राजस्थान राज्ये भारत सेनायाः अभ्यासप्रकटनम्। २०००० भटाः अनेकानि डाङ्क वहनानि अत्याधुनिक निरीक्षणोपकरणानि च मिलित्वा आसीत् तार शक्ति इति नाम्ना जातम् अभ्यासप्रकटनम्।
एकमासस्य प्रशिक्षणस्य अन्तिम भागत्वेन आसीत् बृहदिदं शक्तिप्रकटनम्। अत्युष्णं ऊषरभूमेः दुष्कर्म वातावरणे कर्मकरणार्थं सविशेषं प्रशिक्षणं सेनायै दत्तमासीत्।
सीमाप्रदेशे स्थितस्य राजस्थान ऊषरभूमौ कृतम् अभ्यायप्रकटनं पाक्किस्थानं प्रति पूर्वनिर्देशमिति गण़यति। लफ्ट्नण्ट् जनरल् अश्विनी कुमारेण सेनायाः उपकरणानां च परीक्षायाम् कृता। सानानां पूर्वसन्नाहं धीरता च संतृप्ता इति लफ्ट्नण्ट् केणल् मनीष् ओज अवदत्।
चतुर्वारम् एवरस्ट् श्रृङ्गम् अभिभूय भारतीयवनिता।
इटानगरम्>अरुणाचलप्रदेशवासिनी अन्षु जम् सेन्पा चतुर्वारम् हिमालयपर्वतस्य एवरस्ट् श्रृङ्गं पराजितवती। एतद्विजयं प्रापयन्ती प्रथमभारतीयवनिता भवति अन्षु। गतशनिवासरे उषसि सार्धैकवादने बेस् शिबिरात् पर्वतारोहणम् आरब्धवती सा नववादने एवरस्ट् श्रृङ्गस्य उत्तुङ्गं प्राप्य भारतपताकाम् उत्थापितवती।
पठनाधिगमं विना पदोन्नतिं न प्राप्स्यते।
नवदिल्ली>ये छात्राः निश्चितम् अध्ययनमानं न प्राप्नुवन्ति तान् पञ्चमाष्टमकक्ष्ययोः अभिभावयितुम् उद्दिष्टमानं विधेयकम् अवतारयिष्यतेति केन्द्रमानवशेषि-विकसनमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। नरेन्द्रमोदीमन्त्रिमण्डलस्य संवत्सरत्रयपूर्तीकरणमनुबध्य मानवशेषि-विकसनमन्त्रालयस्य शासनोत्कर्षान् अवतार्यमाणः आसीत् सः। नवमकक्ष्यापर्यन्तं छात्राः अभिभूयमानाः न भवितुमर्हाः इति व्यवस्थायां परिवर्तनमपेक्षते इदं विधेयकम्।

अन्ताराष्ट्रन्यायालयस्य हस्तक्षेपः न अङ्गीक्रियते- न्यायालयादेशं तृणवत्कृत्य पाकिस्थानः
इस्लामाबाद्> कुलभूषण-जादवस्य मृत्युदण्डः अन्तिम न्यायादेशस्य निर्णयपर्यन्तम् अन्ताराष्ट्र नीतिन्यायालयेन निरस्तः। किन्तु न्यायालयस्य आदेशः पाकिस्था नेन तृणवत्कृतम्I राष्ट्रिय सुरक्षाविषयेषु राष्ट्रान्तर न्यायालयस्य निर्णयः नोऽङ्गीकियते इति पाकिस्थानस्य विदेशकार्यमन्त्रालयेन व्यक्तीकृतम्।  कुलभूषणस्य मृत्युदण्डः न्यायालयेन निवारिते क्षणे आसीत् पाकिस्थानस्य अभिमत प्रकाशनम्।
 भारतस्य चारः इति आरोप्य पाकिस्थानस्य सैनिकन्यायालयेन कुलभूषणः मृत्युदण्डः प्रापितः।  पाकिस्थानस्य स्वतन्त्र न्यायालये पुनर्वादः करणीयः इति च राष्ट्रान्तर-न्यायालयेन निर्दिष्टः।

Wednesday, May 17, 2017

नासया विक्षिप्यते भारत-विद्यार्थिनः लघुतमः उपग्रहः।
नवदिल्ली > भारतीयानाम् अभिमाननिमेषः अयम्। भारतविद्यार्थी रिफात्त् षारूखेन निर्मितः लघूपग्रहः जूण्मासस्य एकविंशति (११) दिने नासया विक्षिप्यते। विश्वस्य प्रप्रथमः अयं लघूपग्रहस्य नाम 'कलांसाट्' इति भवति। तमिळ् नाट् राज्यस्य पल्लिप्पटि निवासी भवति रिफात्त् षारुखः। अष्टादशवर्ष-देशीयस्य अस्य प्रवेशः क्यूब्स् इन् स्पेस् इति स्पर्धाया एव आसीत्। स्पेस् किट्स् इन्ट्या नाम संस्थया एव अस्य अनुसन्धानस्य कृते धनव्ययः कृतः। बाह्याकाशस्य 'ग्राविटि' 'माग्नट्टोफियर्' भ्रमणं, एतान् अधिकृत्य अनुसन्धानमेव विक्षेपणस्य लक्ष्यम्। वालोस् द्वीपस्थ नासायाः केन्द्रतः एव विक्षेपणं भविष्यति।⁠⁠⁠⁠
Episode 45- Sanskrit News
Namyalakshmi R, Std.10,MGM HSS, Nayathodu, Ernakulam, Kerala.

Tuesday, May 16, 2017

राष्ट्रिय शैक्षिक अनुसन्धान-परिशीलन-परिषदेन (NCERT) पुस्तकानि नवीक्रियन्ते।
नव दिल्ली > गतेभ्यः दशसंवत्सरेभ्यः परं  राष्ट्रिय-शिक्षा अनुसन्धान प्रशिक्षण-परिषदेन (NCERT ) विद्यालयपुस्तकानि नवीक्रियन्ते। परिषदः अध्यक्षेण हृषिकेशसेनापतिना राष्टिय वार्तामाध्यमेभ्यः प्रदत्तां प्रस्तुत्याम् एव वार्तेयं व्यक्तीकृता।
सप्तोत्तर-द्विसहस्रतमानन्तरं (२००७) प्रथमतया एव पुस्तकानां परिष्करणं प्रचलति। अत एव अत्यधिकतया परिष्करणानि अवश्यकानि तथापि पुस्तक वितरणं जवेन करिष्यति इति च हृषिकेशमहाभागेन उक्तम्।
यादवः स्वयमम् अपराधः कृतः इति  कृताङ्गीकारस्य आधारभूता  चलनमुद्रिका न द्रष्टव्या इति अखिलराज्यन्यायालयः।
हेग्>कुलभूषण यादवस्य मृत्युदण्डः मास्तु  इति  भारतस्य निवेदनं त्यक्तव्यमिति पाक्किस्थानः। राज्यान्तर न्यायालये आसीत् पाक्किस्थान स्य मतप्रकटनम्। किन्तु कुलभूषण यादवः स्व स्खालित्यं स्वयं स्वीकरणस्य चलनमुद्रिका याः प्रदर्शने पाक्किस्थानस्य श्रमं पराजितम्।तदर्थं न्यायालयस्य अनुमतिः न लब्धा।
मध्याह्ने आसीत् भारतस्य वादः। न्यायालयस्य वेद्यां भारतं राजतन्त्रम् प्रयुनक्ति इति पाक्किस्थानः आरुरोप। भारतस्य निवेदनम् अनावश्यमेव। समाधानमार्गेण समस्याः परिहर्तुं पाक्किस्थानः यतते। जादवस्य पास्पोर्ट् रेखां प्रति भारतेन विशदीकरणं न दत्तमिति पाक्किस्थानाय उपस्थितः अट्टोर्णी जनरल् खवार खुरेषी न्यायालये अवदत्।

Monday, May 15, 2017

न्युमोणिया नाम ज्वरस्य प्रतिरोधौषधं भारतेन सम्पादितम्।
नव दिल्ली> रोगप्रतिरोध प्रवर्तनानां आवश्यकतायै न्युमोणिया नाम रोगस्य रोधाय औषधः भारतेन निर्मितम्। पञ्चवयसः न्यूनाः ये शिशवः सन्ति, तेषां मध्ये प्रतिशतं विंशतिः मरणं अनेन न्युमोणिया मनञ्चैट्टिस् रोगेण संभवति।  तं रोगं रोद्धुमेव पि सि वि नाम इदं औषधम्।
राष्ट्रस्य शिशूनां रोगव्यापनस्य तथा मरणस्य च संख्या न्यूनीकर्तुम् सर्वकारः बद्धश्रद्धः इति स्वास्थ्यमन्त्रिणा जे पि नड्डेन उक्तम्। प्रतिरोधौषधस्य अभावेन एकस्यापि शिशोः मृत्युः मा भवेत् इति सर्वकारस्य लक्ष्यम् इति च तेन उक्तम्।
हिमाचल प्रदेशे उत्तर् प्रदेशे  बिहारे च औषधप्रयोगः आरब्धः। द्वितीयश्रेण्यां मध्यप्रदेशे राजस्थाने च औषध प्रयोगः भविष्यति। आभारतम् औषधदानमेव लक्ष्यमिति मन्त्रिमहोदयेन उक्तम्।
भारतेन सीमाग्रामात् ग्रामीणाः सुरक्षितस्थानेषु प्राप्स्यन्ते।
श्रीनगरम्> जम्मू काश्मीरस्य नियन्त्रित रेखायां पाकिस्थानेन क्रियमाणः विद्रोह प्रवृत्तयः असह्याः जाताः। जनवास स्थानान् उद्दिशय गोलीकाप्रहरः 'षेल्' आक्रमणानि च अनुस्यूततया प्रचलन्ति। अत एव जनान् सुरक्षित स्थानं प्रतिप्रेषयति। शनिवासरे पाकिस्थानेन कृते आक्रमणे द्वौ नागरिकौ मृतौ आसीत्। इदानीं भारत सैनिकाः प्रत्या क्रमणं कुर्वन्ति च।
रजौरिजनपदस्य सप्तान्  ग्रामान् उद्दिश्य आसीत् आक्रमणम्। ग्रामत्रयात्नवपञ्चाशतधिक द्विशतं कुटुम्बाः सुरक्षासेनया सुरक्षितस्थानं प्रापिताः। नौषेर मण्डलेषु विद्यालयाः बन्धिताः। ओनेनकारणेन षटशीति विद्यालयाः एवं बन्धिताः।
सोमवारे पुनरपि सैबर् आक्रमणसाध्यता ;  अधुना लक्ष्यम्  एष्या।
              वाषिङ्टण् > लोके आशङ्काजनकं तत् सैबर् आक्रमणं सोमवारे पुनरपि सम्भवेत् इति विदग्धानां सूचना । विरामानन्तरं कार्यालया: सोमवारे एव उद्घाट्यन्ते इति तस्य कारणं च ।  एतावता एकलक्षं सङ्गणकयन्त्राणि  सैबर् आक्रमणेन विनष्टानि  वानाक्रै इति रान्संवेयरस्य नूतनसम्पुट: एव आगामिदिनेषु  आगच्छेत् इत्यपि सूचनायां कथयति । शुक्रवासरे प्रवृत्तस्य सैबर् आक्रमणस्य तीव्रता कियन्मात्रा इति  इदानीमपि न स्पष्टम् इति अधिकारिण:। बृहदाक्रमणम् अप्रवृत्ता एष्या स्यात् तेषाम् अग्रिमलक्ष्यमित्यपि निगमनानि सन्ति । एष्यायां तावत् सोमवार: सामान्येन सम्मर्द्दयुक्तदिनम् भवति। अत:  आक्रमणसाध्यता अधिका इति सिंगप्पूरु केन्द्रीकृत्य प्रवर्तनं कुर्वन्त: सुरक्षागवेषका: अवदन्।

Sunday, May 14, 2017

उत्तरप्रदेशे  पुस्तकस्यूतरहितं दिनम्।
लक्नऊ>उत्तरप्रदेशे शनिवार: पुस्तकस्यूतरहितदिनत्वेन उद्घुष्यते  ( नो बाग् डे ) ।  तस्मिन् दिने छात्रा: विना पुस्तकं विना स्यूतं विद्यालयम् आगच्छेयु: । सायं चतुर्वादनपर्यन्तं सक्रीडहासैस्सह तत्र विहरेयु: च  । मुख्यमन्त्रिण: योगी आदित्यनाथस्य निर्देशानुसारमेव  इदम् प्रावर्तीक्रियते ।  एतत् छात्राणां शारीरिकमानसिकारोग्यं  वर्धयेत् ।व्यक्तित्वविकासायापि युक्तं स्यात् । उपमुख्यमन्त्री दिनेश शर्मा  उक्तवान् । प्रथमकक्ष्यात: द्वादशकक्ष्यापर्यन्तम्  एतत् बाधकम् भवति । छात्राध्यापकयो: आत्मबन्धश्च संवर्धयेत् ।भारवत् स्यूतम् एकदिनं वा निवारयेत् इति गुणश्च अस्ति । स्वकीयभारस्य अधिकम् ( त्रिशत् त: चत्वारिंशत् प्रतिशतम् अधिकभार: )  उन्नीयते प्रतिदिनं तै: । किन्तु सर्वकाराणाम् अभिमतेन सह सहमति: नास्ति अध्यापकानाम् । तद्दिने कक्ष्यासु वर्गा: न स्वीक्रियन्ते इत्यत: रक्षितार: छात्रान् विद्यालयं न प्रेषयेयु: । क्रीडापेक्षया ते गृहे भवन्तु इति रक्षितार: चिन्तयेयु: । मध्याह्नं यावत् पठनम्  तत: सायं यावत् क्रीडाश्च भवतु इति तेषाम् अभिप्राय: ।
अक्रमद्वेषरूढमूलानि मनांसि लोकसमाधानस्य भीषा -  मोदी।
   कोलम्बो>  अक्रमद्वेषरूढमूलानि मनांसि  लोकसमाधानस्यापि भीषणिर्जायेयु: इति प्रधानमन्त्री नरेन्द्रमोदी। श्रीलङ्कासन्दर्शनाभ्यन्तरे  कोलम्बोनगरे प्रचलिते अन्ताराष्ट्रबुद्धपूर्णिमादिनाघोषकार्यक्रमे भाषमाण: आसीत् स: ।  एकविंशत्यां शतकेस्मिन्नपि बौद्धसन्देशा: प्रसक्ता: । बुद्धपूर्णिमादिने चिन्ताविषयत्वेन स्वीकृता समाजनीति: तथा लोकसमाधानं च बौद्धदर्शनै: सह मिलितानि एव इत्यपि नरेन्द्रमोदी उक्तवान् । श्रीलङ्काया: राष्ट्रनिर्माणप्रवर्तनेभ्य: भारतस्य आलम्बहस्तं स: वाग्दत्तवान् ।  क्रयविक्रयणम् ,  निक्षेप: , साङ्केतिकता , गतागतम् , ऊर्जम् , प्राथमिकसौकर्याणि  एतादृशकार्येषु सहकारेण प्रवर्तयेम इति च तेन व्यक्तीकृतम् ।
इन्डेनेष्याया: तीरे भीमाकारस्य अज्ञातजीविन: जडः।
जकार्ता> समुद्रतीरेषु अज्ञातजीविनां मृतदेहा: समुद्गता: भवन्ति इति वार्ता: लोकस्य विभिन्नकोणेभ्य: श्रूयन्ते । नूतनी एतादृशी काचन वार्ता इन्डोनेष्याया:। मई दशमदिनाङ्के  हुलूङ्समुद्रतीरे  वीचीप्रभावेण समुद्गत: भीमाकारजीविन: जड:  एव परिभ्रान्तिं तथा कौतुकं च अजनयत् । ग्रामीणा: विचित्रजन्तो: जडम् प्रथमं दृष्टवन्त:। समुद्रजलवर्णं सपदि रक्तवर्णं समभवत्  इत्यपि ते निरीक्षितवन्त: । गजशरीरात् परं बृहदाकारकमासीत् जीविन: मृतदेह:। किन्तु कस्य जन्तो: मृतदेह: अयमिति प्रत्यभिज्ञातुं ते अशक्ता: अभवन्। एतादृशमेकं जीविनम् अधिकृत्य पूर्वज्ञानं च कस्यापि नास्ति । पञ्चदश मीटर् मितदैर्घ्यम् प्राय: पञ्चत्रिंशत् टण् मित: भार: च अस्य जीविन:  वर्तते इति सूचना । असाधारणबृहदाकारकत्वयुक्त: " कणव " विभागस्थस्य जीविन: भीमाकारस्य तिमिङ्गिलस्य वा जड: भवितुमर्हति इति जन्तुशास्त्रज्ञानाम् प्राथमिकनिगमनम् । सामान्या: शास्त्रज्ञा: एवं सहस्राधिका:  जडसन्दर्शका:।  इदानीम् एतस्य दृश्यचित्राणि माध्यमेषु व्यापकतया  प्रचरन्ति ।
तलाखत्रयम् अतिनीचः अनभिलषणीयः विवाहबन्धविच्छेदनमार्गः - सर्वोच्चन्यायालयः। 
नवदिल्ली > विवाहबन्धविच्छेदनाय इस्लामधर्मानुयायिभिः पुरुषैः  अद्यापि अनुवर्तमानः तलाखत्रयसम्प्रदायः मृत्युदण्डवत्  अतिनीचः अनभिलषणीयश्चेति सर्वोच्चन्यायालयेन निरीक्षितम्। पञ्गाङ्गयुक्तस्य शासनसंविधाननीतिपीठस्य पुरतः आरब्धे त्रितलाखमधिकृत्य न्यायवादे आसीदिदं निरीक्षणम्। किन्तु अयं सम्प्रदायः नियमविधेयः इति विचार्यमाणः कश्चन समूह अद्यापि वर्ततेति नीतिपीठेन सूचितम्।
    पाकिस्थान् अफ्गानिस्थान् मोरोक्को सौदि अरेबिया इत्यादिषु बहुषु इस्लामराष्ट्रेषु तलाखत्रयं निरोधितमिति अमिक्कस् क्यूरिरूपेण वादे भागभागित्वं कृतवता सल्मान् खुर्षिद् वर्येण उक्तम्।
     तलाखत्रयरूपेण विवाहबन्धविच्छेदनं कर्तुं केवलं पुरुषाणामेव अधिकारः अस्ति। अत एव एतत् लिङ्गपरं विवेचनमस्तीति वादः जातः। न्यायवादः सोमवासरे अनुवर्तिष्यते।
भारतम् अभिव्याप्य ९९ राष्ट्राणां विरुध्य सैबर् आक्रमणम्। 
नवदिल्ली >आगोलसैबर् सुरक्षां  धर्षयित्वा भारतम् अभिव्याप्य एकोनशतं राष्ट्राणि प्रति हाक्कर् नामकनीचकर्मचारिणाम् आक्रमणम्। सङ्गणकयन्त्राणि पिधानं कृत्वा मोचनद्रव्याणि अपेक्षमाणं रान्संवेर् नामके विभागे अन्तर्भूतः आयुधः एव आक्रमणकारिभि उपयुक्तः।
   आन्ध्राप्रदेशस्य १०२ आरक्षकसङ्गणकयन्त्राणि आक्रमणविधेयानि अभवन्। स्वीडन् ब्रिट्टन् फ्रान्स् रूस् इत्येतेषु राष्ट्रेषु प्रथमम् आक्रमणं जातम्। मैक्रोसोफ्ट् संस्थायाः विन्डोस् नामकेन प्रवर्तकतत्वेन (Windows Operating System) उपयुज्यमानानि सङ्गणकयन्त्राण्येव आक्रमणविधेयानि अभवन्।
     पिहितानि सङ्गणकयन्त्राणि उद्घाटयितुम् एकैकं प्रति ३०० डोलर् परिमितं धनमेव अपेक्षितम्।
सुवर्णादपि मूल्यं वर्तते एतादशानां शिक्षकाणाम्॥
            विशेषवर्ता - रम्या पि. यु
लोके अतिमाननीया वृत्तिरेव  अध्यापनं नाम ।स्वस्य छात्राणां कृते कियन्मात्रं गन्तुं शक्यते तावता गच्छन्त: एव उत्तमाध्यापका: । छात्राणाम् पठनसौकर्यसज्जतायै  मन्त्रिणाम् , शिक्षाविभागाधिकारिणां वा द्वारकुट्टनम् अकृतवन्त: शिक्षकाश्च विरला: । किन्तु छात्राणां कृते  अङ्कनयुतसमर्थकक्ष्यानिर्माणाय   (डिजिटल् स्मार्ट् क्लास्रूम् ) स्वीयसुवर्णाभरणानि  विक्रीतवत्या: कस्याश्चन अध्यापिकाया: कथा श्रवणीया वा ? तमिलनाटे तीण्टिवने कम्पटुग्रामे ग्रामसभायूणियन् प्राथमिकविद्यालये आङ्गलेयाध्यापिका अन्नपूर्णा  मोहन: एव सुवर्णं विक्रीय तृतीयकक्ष्याछात्राणां कृते लोकोत्तरपठनसौकर्यं सज्जीकृतवती । यं कमपि स्वाश्रयविद्यालयम् अतिशेते अन्नपूर्णाया: नेतृत्वे सज्जीकृता सर्वकारीयविद्यालयस्य अस्य आधुनिकसौकर्यै: सहिताङ्कनसमर्थकक्ष्या । आङ्गलेयाध्यापकानां कृते तमिलनाट् सर्वकारेण प्रदत्तं उच्चारणशास्त्रपरिशीलनम् अन्नपूर्णाया: जीवने परिवर्तनम् आनयत् ।परिशीलनानन्तरम् स्वीयान् छात्रान् अन्नपूर्णा उच्चरणशास्त्रमनुसृत्य ( फोणटिक्स् ) पाठयितुमारभत । छात्रा: समर्थाश्चेदपि  आङ्गलेये प्रावीण्याभाव:  तेषाम् पठनम् बाधते इति ज्ञानं यदा आगतं तदा आरभ्य आङ्गलेयपाठनाय अन्नपूर्णा  नूतनमार्गान् उपस्थापितवती ।उच्चारणशास्त्रम् अनुसृत्य  नूतनपरिष्कारै: सहितम् आङ्गलपठनं  कक्ष्यायाम् अद्भुतावहम् परिवर्तनमेव अजनयत् । अध्यापनस्य नूतनरीती:  मुखपुस्तकद्वारा ( फेस् बुक् ) अन्नपूर्णया  तत्र उपस्थापनस्य पश्चात्तले लोकस्य नानाभागेभ्य: अभिनन्दनानि प्रवहितानि  । अन्नपूर्णाया: छात्रान् अन्विष्य बाड्मिन्टण् राकट् आदीनि पुरस्काराणि , तथा रूप्यकावेदनपत्राणि ( मणि ओर्डर् ) चागतानि ।  एतेन छात्राणां कृते लोकोत्तरसौकर्ययुता अङ्कनसमर्थकक्ष्या  सम्माननीया  इति अन्नपूर्णया निश्चय: कृत: । अङ्कनसंविधानानां साहाय्येन छात्रा: समर्था: पठित्वा अनर्गलनिर्गलम् आङ्गलेयम् भाषयेयु: इति अध्यापिकाया: आग्रह:  । आधुनिककालघट्टेस्मिन्  एतादृशाङ्कनसमर्थकक्ष्या  अनिवार्या इत्यपि  अन्नपूर्णा चिन्तयति । स्वस्यछात्राणां  कृते  परीक्षितं विजयं प्राप्तं च उच्चारणशास्त्रानुसारम् पठनतन्त्रम्  तमिलनाटे सर्वेषु विद्यालयेषु अपि अनुवर्तिष्यते इत्येव छात्रान् पुत्रतुल्यं स्निह्यन्त्या: एतस्या:  अध्यापिकाया: प्रतीक्षा ।