OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, May 14, 2017

इत: परं सर्वेषु निर्वाचनेषु  सम्मतिदानं कृतमित्यस्य  रेखापत्रम् ।।
                     नवदिल्ली > लोकसभां तथा  नियमसभां  प्रति  इत: परं प्रचाल्यमानेषु सर्वेषु निर्वाचनेषु सम्मतिदानं कस्मै दत्तम् इति प्रदर्श्यमानं  विविपाट् संविधानम्  प्रवृत्तिपथम् आनयेत् इति देशीयनिर्वाचनसमित्या व्यक्तीकृतम् । निर्वाचनयन्त्रेषु अस्तव्यस्ततायै साध्यता वर्तते इति प्रतिपक्षकक्षिभि:  आक्षेपम् उन्नीतसाहचर्ये आहूते योगे एव निर्वाचनसमित्या निर्णय: व्यक्तीकृत:। सप्त (७) अखिलभारतीय पक्षदलानि ,  पञ्चत्रिंशत् (३५) राज्यपक्षदलानि  च  आहत्य द्विचत्वारिंशत्  (४२) अङ्गीकृतपक्षदलानि योगेस्मिन् भागं स्वीकृतवन्त:। सुतार्यतां कृत्यतां वा दृढीकर्तुं  निर्वाचनयन्त्रेषु विद्यमानानि विविपाट् रेखापत्राणि गणयेयु:  इति देशीयनिर्वाचनसमित्या: अध्यक्ष: नसीं सय्दि:  उक्तवान्। यन्त्रेषु रेखाङ्कितसम्मतिदानानि  रेखापत्राधारेण  सम्मतिदानानि च परस्परं तोलयितुम् एतत् सहायकम्  भवेत् । परिष्करणसम्बद्धमार्गरेखा:  झटिति प्रख्यापयेयु:। आगामिवर्षस्य  अर्धं तावत्  प्रवर्तनमिदं  सफलं कुर्यादिति सूचना । विविपाट् संविधानम् प्रवृत्तिपथम् आनेतुं  त्रिशतोत्तरत्रिसहस्रं ( ३३०० ) कोटि: रूप्यकाणि  , अग्रिमपरम्परानिर्वाचनयन्त्राणां कृते  नवशतोत्तरसहस्रम्  ( १९०० ) कोटि: रूप्यकाणि च व्यय: लक्षीक्रियते ।निर्वाचनप्रक्रियाया: विश्वास्यतां संरक्षयेदिति  मुख्यावश्यमेव राष्ट्रीयपक्षदलै:  उन्नीतम् इति पुरोवर्तकघटकाध्यक्ष: (फोर्वेड् ब्लोक्  सेक्रटरी ) जी देवराज: उक्तवान्।  निर्वाचनपत्रिकां प्रतिगच्छेम इति  केचन राष्ट्रीयपक्षदलस्था:  आवश्यमुन्नीतवन्त: । किन्तु दोषान् परिहर्तुं  तथा साङ्केतिकरङ्गे आगतानि परिवर्तनानि उत्प्लवनानि वा निर्वाचनप्रक्रियास्वपि प्रयुक्तानि भवेयु: इत्यासीत् सामान्यविकार:। निर्वाचनयन्त्रेषु पत्यमानं किञ्चन रेखापत्रम्  सम्मतिदायकहस्ते प्राप्यमाणम् अपरं रेखापत्रं च आवश्यकमिति  राष्ट्रीयपक्षदलै: अभिप्राया: उन्नीता:। निर्वाचनयन्त्रस्य सुरक्षितत्वम् प्रत्येकताश्च अधिकृत्य देशीयनिर्वाचनसमित्या:  निदेशकमुख्येन श्रीमता सुदीप जेन् महाशयेन  कृतावतरणेन सह योग: आरब्ध: ।         सम्मतिदाने कृते रेखापत्रम्।  कस्मै सम्मतिदानं कृतमिति स्फुटीकर्तुं   रेखापत्रं प्राप्तुं योग्यं संविधानम् भवति विविपाट् ।

Saturday, May 13, 2017

द्विचक्रिकया सह यात्रिकः भस्मीभूतःI अन्ये यात्रिकाः निसड्गतया अगच्छन्।
ब्रीड् (महाराष्ट्रम्)> द्वयोः द्विचक्रिकयोः घट्टनेनैव अपघातः सञ्जातः। महाराष्ट्र स्य बीड्   जनपदस्य राजमागे एव इयं द्वौर्भाग्य घटना। घट्टनानन्तरनिमिषे एव महत्या अग्निबाधया यानमेकं यात्रिकेन सह भस्मीभूतः। किन्तु पथि विद्यमानाः पथिकाः निसङ्गाः भूत्वा गतवन्तः। सहायतायै कोऽपि न उद्युक्तः। नयनयोः पुरतः एकः अग्निना दह्यते इति दृष्ट्वा अपि एनं परित्यज्य गन्तुं शक्ताः करुणाहीनाः इति भीतिदः  विषयः एव। मानवानां संस्कृतिः एवं करुणाहीनं चेत् भविष्यकाले भारतस्य का गतिः ?l यात्रिकेषु येनकेनापि ग्रहीतं चलनचित्रखण्डं दृष्ट्वा मानव मनस्काः चिन्तयन्ति। चलनचित्रखण्डम् इदानीं सामूहिकमाध्यमेषु श्रद्धा बिन्दुः अभवत् ।
आरक्षकाः आगत्य अग्निशमनम् अकरोत्। अस्मिन्नन्तरे द्विचक्रिका तथा यात्रिकः च भस्मीभूतः अभवत्।  अत एव यानस्य सङ्खाफलकात् यात्रिकं प्रत्यभिज्ञातुं न शक्यते इति आरक्षकाः अवदन्।
निर्वाचनायोगेन सर्वदलीयोपवेशनम् आकारितम् 
नव दिल्ली >निर्वाचनायोगेन समेभ्यः राजनीतिकदलेभ्यः विगतविधानसभानिर्वाचनेषु EVM इति वैद्युदीय-मतदानयन्त्राणां कथितदुष्प्रभावप्रकरणे निजपक्षप्रस्तवनाय अवसरः प्रदत्तः। एतदर्थम् आयोगेन विशेषदिनं नैव निर्धारितम्। आयोगेन ईवीएम अथ च  वी.वी.पी.ए.टी. इति मतदानपुष्टियन्त्राणां विश्‍वसनीयता सम्बद्धप्रकरणे  नवदिल्‍ल्यां सर्वदलीयोपवेशने  चर्चा कृता ।
   उपवेशनान्तरं वार्ताहरैः सह सम्भाषमाणः मुख्यनिर्वाचनायुक्तः नसीमजैदी अब्रवीत् यत्
भविष्‍ये समस्तविधानसभानिर्वाचनेषु  संसदीयनिर्वाचनेषन मतदानपुष्टियन्त्राणि प्रयोक्ष्न्ते। यन्त्रैः मतदातारः ज्ञास्यन्ति यत् तेषां मतदानं वाञ्छितप्रत्याशिने सञ्जातं न वा इति ।
उच्चतमन्यायालये त्रितलाकप्रकरणे वादश्रवणम् 
उच्चतमन्यायालयेन प्रोक्तं यत् त्रितलाकव्यवस्था मुस्लिं समुदाये वैवाहिक सम्बन्धविच्छेदस्य अवाञ्छनीया व्यवस्था वर्तते।  तथापि कतिपयजनाः इमां व्यवस्थां विधिस्वरूपं प्रदास्यन्ति । प्रकरणेस्मिन् द्वितीये दिने अनवरतवादश्रवणेन गतदिने उच्चतमन्यायालयस्य पक्षं दृष्टिपथम् आयातम्। न्यायालयं व्यक्तिगतस्तरे साहाय्यं विदधतेन वरिष्ठाधिवक्त्रा सलमानखुर्शीदेन न्यायपीठं प्रोदीरितं यत् अस्य प्रकरणस्य न्यायिकान्वेषणस्य आवश्यकता न विद्यते सममेवोक्तं यत् निकाहनामा इत्यस्मिन् प्रावधानं वर्तते यत् महिलाः स्वयमेव त्रितलाकम् अपाकर्तुं प्रभवन्ति। न्यायपीठेन सलमानखुर्शीदः समादिष्टः यत् तादृशानां देशानां सूचि प्रस्तूयात् येषु त्रितलाकव्यवस्थायां प्रतिबन्धः विद्यते । 
शतम् किलोमितात्  पलास्तिकात्  पञ्चाशीति:  ( ८५ ) लीटर् मितम्  पेट्रोल्  ( वाहनतैलम् )  ; प्रतीक्षां जनयति सिरियानां  निरीक्षणम् ।
                   युद्धहालाहलानाम्  अभयार्थित्वस्य  च मध्ये स्थित्वा  दुरितं सहमानाया: सिरियाया:  एषा वार्ता आविश्वम् प्रतीक्षां जनयति । न केवलम् भक्षणम् , प्राथमिकसौकर्याणि  ;  किन्तु इन्धनमपि  आवश्यानुसारम्  अलब्धसाहचर्येषु  पलास्तिकमालिन्येभ्य:  इन्धनोत्पादनसमर्थां विद्यां विकासितवन्त: सिरियानिवासिन: केचन कर्मकरा: । रोयिटेर्स् वार्तामाध्यमेन एषा वार्ता  प्रसारिता । सिरियासर्वकारै:  यदा सैनिकसन्नाहनियन्त्रणानि शाक्तीकृतानि  तदा इन्धनमूल्यं  च उपरि कूर्दितम् ।  कृषिकर्मसु  अपेक्षितजलानयनाय समर्थानि यन्त्राणि प्रवर्तयितुं वा इन्धनं क्रेतुमशक्ता अवस्था सञ्जाता । अस्मिन् साहचर्ये एव इन्धनाय कार्यक्षमम् अपरम् मार्गम् अन्वेष्टुं  तै: परिश्रम: आरब्ध: । अबु कसम् नामकेन निर्माणमेखलाकर्मकरेण , पलास्तिकमालिन्यं वर्धितोष्मणि तापीकृत्य प्रत्येकक्रमेण तस्मात् इन्धनं निष्कासयितुं समर्था रीति: विकासीकृता । अन्तर्जालसङ्केतेभ्य:  दृश्यखण्डानि , इतरसाङ्केतिकविद्या: च उपयुज्य तेनायोजितपरीक्षणानामन्ते , पलास्तिकात्  इन्धनम् निर्मातुम् अबु कसम: विजयं प्राप्तवान्  ।।
कृत्रिमद्वीपेषु  चैनाया: रहस्ययुद्धसन्नाहः;  अण्वस्त्रसंविधानानि  विन्यस्तानि I
               दक्षिणचैनासमुद्रस्य कृत्रिमद्वीपेषु रहस्यसैनिकसन्नाह:  प्रचलतीत्यस्य दृष्टान्तै: सह  उपग्रहचित्राणि बहिरागतानि । प्रतिरोधवार्ताजालसङ्केतेन ( डिफन्स् न्यूस् वेब्सैट् ) एव  नूतनोपग्रहचित्राणि  एतानि बहिरानीतानि । इमेज्साट्  इन्टर्नाषणल् एरोस् बी साटलैट् द्वारा स्वीकृतं नूतनचित्रं गत सोमवारे  बहिरागतम्। कृत्रिमद्वीपेषु व्यापकतया  सैनिकसन्नाहा: प्रचलन्ति इति चित्रेभ्य: स्पष्टं प्रतीयते  । भूपक्षत: विक्षेप्तुमर्हा:  अण्वस्त्रविक्षेपण्य:  अपि विन्यस्ता: भवन्ति  इत्यपि  आवेदने कथयति । तानि च अतिनूतनानि अण्वस्त्रसंविधानानि भवेयु: इत्यपि प्रतिरोधवार्तया आवेदितं वर्तते । मार्च् पञ्चदश ( १५ ) , मई  अष्ट ( ८ )  दिनाङ्कयो: प्राप्तेषु उपग्रहचित्रेषु  विद्यमानभेदा:  एव  चर्चिता: । एच् डी  निपुणानि  चित्राणि एव प्राप्तानि । अस्याम् मेखलायां चैनया बहुविधानि आयुधसंविधानानि सज्जीकृतानि इति पूर्वमेव  अमरीकया आरोपितं वर्तते ।  प्रतिसज्जानि वायुसेनायानानि  ( एयर् क्राफ्ट् ) , प्रतिसज्जानि अण्वस्त्रायुधानि च  अत्र विन्यस्तानि इत्येव अमरीकाया: वाद: ।।
समग्र-राष्ट्रिय -शैक्षिकनयः सिद्धः, साङ्केतिकपरीक्षायै नीट् परिगण्यते। 
नवदिल्ली> भारते समग्रः शैक्षिकनयः सिद्ध अस्तीति मानवशेषिविकसनमन्त्रिणा प्रकाश् जावेद्करेण उक्तम्। सप्ताहाभ्यन्तरे एषः नयः प्रसिद्धीकरणयोग्यः भविष्यति।
     वैद्यकप्रवेशाय इव साङ्केतिकशास्त्रपठनप्रवेशाय च अखिलभारतीयपरीक्षाम् आयोजयितुं पर्यालोचना अस्तीति केन्द्रमन्त्रिणा उक्तम्। सर्वाः प्रवेशपरीक्षाः एकच्छत्राधीने समायोजयितुं प्रारम्भपदक्रमः आरब्धः।
एस्. बि. ऐ. वित्तकोशः भवनऋणकुसीतमूल्यं न्यूनमकरोत् । 
मुम्बै > एस्. बि ऐ. वित्तकोशः भवनऋणकुसीतमूल्यम् न्यूनीकृतवान् I त्रिंशत् लक्षमितस्य ऋणस्य o.२५ प्रतिशतं कुसीतम् न्यूनीभविष्यति। ८.३५ प्रतिशतं भवति नूतनमूल्यम्I नूतनं मूल्यं मङ्गलवासरे प्रबलीभवति स्म। त्रिंशत् लक्षाधिकऋणस्य मूल्यं ८.६०तः ८.५० इति न्यूनीभवति । भवनऋणग्राहकाणां लक्षसंख्याकानां जनानाम् अस्य प्रयोजनं भविष्यति इति व्यवस्थापकनिदेशकः रजनिष् कुमारः अवदत्I

Friday, May 12, 2017

कुलभूषणयादवस्य मृत्यु दण्डः निरोधितः।  
नवदिल्ली> गुप्तारोपणम् पुरस्कृत्य पाकिस्थानसैनिकन्यायालयेन मृत्युदण्डं विहितस्य  भारतीयनाविकसेनोद्योगस्थस्य कुलभूषणयादवस्य मृत्युदण्डः निरोधितः।  भारतस्य नीतिन्यायापेक्षाम्  पुरस्कृत्य  अन्ताराष्ट्र नीतिन्यायालयेनैव वधशिक्षा निरोधिता। नाविकसेनाया: विरामात्परं वाणिज्यं कुर्वन्तं कुलभूषणम् इरानत: अपहृत्य पाकिस्थानस्य गुप्तचर: इति आरोपणम् उन्नीय मृत्युदण्डः विहितः आसीत्। गतमासे एव पाकिस्थानसैनिकन्यायालयेन कुलभूषणस्य मृत्युदण्डः विहितः।  एतद्विरुध्य भारतेन शक्तियुक्तं प्रतिषिद्ध:  ज्येष्ठाभिभाषक: हरीषसाल्वे  महाशय: भारतस्य कृते अन्ताराष्ट्र नीतिन्यायालये उपस्थित: भवति। बलूचिस्थानात् कुलभूषणं  षोडशोत्र्तरद्विसहस्रतमे (२०१६ ) वर्षे गृहीतवन्त: इति पाकिस्थानस्य वाद:। किन्तु एष: न गुप्तचर: सैन्यात् विरमित: इति भारतेन व्यक्तीकृतम्। तन्न केवलम्; ग्रहणसमये कुलभूषणस्य हस्ते पारपत्रं चासीत्;  तथा न क्रियते गुप्तचरै: इत्यपि भारतेन व्यक्तीकृतम्।

Thursday, May 11, 2017

आधार् नाम मूलप्रमाणपत्रस्य पञ्चीकरणं स्खालित्यदूरीकरणं च स्थगितम्।
कोच्ची> आधार् नाम मूलप्रमाणपत्रस्य पञ्चीकरणं स्खालित्यदूरीकरणं  च स्थगिते जाते। तन्त्राधिगमस्य पुनर्नवीकरणे जातं मन्दगमनमेव अस्य निदानम्। विद्यालयेषु प्रवेशनकालमिदमित्यनेन एतत् क्लेशं सृजति।आधारपत्रस्य विनिमयाधिकारं आधार विभागः ऐ टी मिषणाय अयच्छत्। ऐ टी मिषण् ऐ  टी अट् स्कूलाय, अक्षयाय, केलट्रोणाय च विनिमयाधिकारम् अयच्छत्। अलाभकारणेन ऐ टी अट् स्कूल् तथा केल्ट्रोण् च तस्मात् अत्तरदायित्वात् निर्गच्छतः। इदानीं विनिमयोत्तरदायित्वं अक्षयायां निक्षिप्तमस्ति। ऐप्रिल् प्रथमदिनादारभ्य तन्त्राधिगमस्य पुनर्नवीकरणं कर्तव्यमिति अक्षयकेन्द्रान् निर्देशं दत्तमासीत्। किन्तु तत् न कार्यान्वितम्।
समाजमाध्यमद्वारा राष्ट्रहिताय युद्धं कुर्म:।
      नवदिल्ली> समाजमाध्यमेषु  विद्वेषजनकसन्देशान् मा विनिमयेयु: इति केन्द्रमन्त्री  राज्यवर्धनसिंहराथोड: आह्वानं कृतवान्। राष्ट्रशत्रुभि: प्रचार्यमाण-सन्देशा: राष्ट्रविरुद्धा: तादृशसन्देशान् प्रति  " समरभटा: " भवेम वयम् समाजमाध्यमोपयोक्तार:  इति च स: निर्दिष्टवान्।  वनिता धनतत्वफोरम्  ( विमन् इकणोमिक् फोरम् )  उद्घाटनसम्मेलने भाषमाण: आसीत् स:।  राष्ट्रहिताय युद्धं कर्तुम् भवद्भि: गणवस्त्रं धरणीयम् उत सीमा गन्तव्या इति किमपि नास्ति। समाजमाध्यमद्वारा अस्मद्गेहप्राप्तान् राष्ट्रविरुद्धसन्देशान् प्रति युद्धं कुर्म:। तादृशसन्देशान् मा विनिमयेम, मा प्रेषयेम।  मन्त्री सूचितवान्।
भारतस्य वर्धनसूचिकाङ्क: ७.७  प्रतिशतम् भविष्यति इति ऐ एम् एफ्। 
वाषिङ्टण:> चलत्साम्पत्तिकवर्षे - २०१७ - २०१८ (सप्तदशोत्तरद्विसहस्रम् - अष्टादशोत्तरद्विसहस्रम्) भारतेन ७.२% (सप्त दशांशं द्वे प्रतिशतम् ) वर्धनम् आर्ज्यते तथा च २०१८ - २०१९ ( अष्टादशोत्तरद्विसहस्रम् -  नवदशोत्तरद्विसहस्रम् ) साम्पत्तिकवर्षे भारतस्य वर्धनसूचिकाङ्क: ७.७% ( सप्त दशांशम् सप्त प्रतिशतम् ) प्रति  कूर्दिष्यते इति च अन्ताराष्ट्रनाणकनिधे: ( ऐ एम्  एफ् ) आवेदनम् । विपण्या: कार्यक्षमतादृढीकरणाय  दीर्घकालाधारेण घटनापरा:  प्रतिसन्धी: परिवर्तयेत् इति च ऐ एम् एफ्  निर्देश: ।  राष्ट्रनाण्यरूपविनिमयपरिष्करणेन सह राष्ट्रे  आविर्भूतात् रूप्यकदौर्लभ्यात् उद्भूता: तात्कालिकरोधा:  सप्तदशोत्तरद्विसहस्रतमे  क्रमानुगतं लुप्ता:  भविष्यन्ति  इत्यपि स्वस्य प्रादेशिक धनतत्व बहिरालोकने  ( रीजणल् इकणोमिक् औट्लुक् ) ऐ एम् एफ् संस्थया व्यक्तीकृतम् । विनिमयेषु विद्यमानानि ८६ % ( षडशीति प्रतिशतम् )  रूप्यकाणि  झटिति निरुध्य कृतं साम्पत्तिकपरिष्करणं स्वकार्योपभोगेषु सारवत्तया प्रतिफलितमभवत् । एतत् सामान्यस्थितिम् प्रापयितुं चलद्वित्तीयवर्षे  शक्नुयाम इति प्रतीक्षापि  संवेद्यते ऐ एम् एफ् संस्थया । भारतीयवित्तकोशसंविधानेन अभिमुखीक्रियमाणा: प्रतिसन्धय:ह्रस्वकालं यावत् ॠणवर्धनेषु  प्रतिफलिष्यन्ति इत्यपि संस्थया सूच्यते । धनपरम् एकीकरणम् , रूप्यकमूल्यवर्धननियन्त्रणाय नया: च सम्पन्मेखलाया: आत्मविश्वासं प्रतिष्ठापयेत्  इति ऐ एम्  एफ् सूचयति । आवेदनानुसारम्  षोडशोत्तरद्विसहस्रे   (२०१६ ) आर्जितात् ५.३ % ( पञ्च दशांशं त्रीणि  प्रतिशतात् ) j सप्तदशोत्तरद्विसहस्रतमे ( २०१७ ) एष्या  ५.५ % (पञ्च दशांशं पञ्च प्रतिशतम् ) वर्धनं रेखाङ्कयेत् इति प्रवचनम् । गतवित्तीयवर्षे ओक्टोबरमासस्य लोक धनतत्वबहिरालोकनम् (वेल्ड् इकणोमिक् औट्लुक्) अपेक्ष्य  सप्तदशोत्तरद्विसहस्रतमे (२०१७) चैनाया: जापानस्य च वर्धनसूचिकाङ्क:  उपरि गच्छेत् इति सूचनापि दीयते ऐ एम्  एफ् संस्थया । भारतस्य कार्ये ; कार्षिकरङ्गे उत्पादनवर्धनाय  अग्रेपि प्रतिसन्धय: परिगणनीया: भवेयु: इति निरीक्षणम्  । कार्षिकरङ्गसम्बद्धान् प्रश्नान् अभिमुखीकर्तुम् बहुविधकार्याणि करणीयानि च वर्तन्ते  इति ऐ एम् एफ्  निर्देश:।।

Wednesday, May 10, 2017

कोच्चीमेट्रोयोजनायै प्रयाणानुमतिः।
कोच्ची> कोच्ची मेट्रो रेल् यानयोजनायै प्रयाणानुमतिः लब्धा। आलुवातः पालारिवट्टं पर्यन्तं १३ कि मी. दूरं यावदेव मेट्रो रेल् सुरक्षाधिकारिणा अनुमतिः दत्ता। अद्य परिशीलनप्रयाणम् आरभ्यते।  केरलस्य प्रथममेट्रो योजनां प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटनं कारयितुमेव राज्यसर्वकारस्य अभिलाषः। तदर्थं प्रधानमन्त्रिणः कार्यालयेन सह पर्यालोचना आरब्धा।
न्यायाधीशाय कर्णाय मासषट्कस्य कारागारवासः।
नवदिल्ली>कोल्कोत्ता उच्चन्यायालयस्य न्यायाधीशाय सि एस् कर्णाय सर्वोच्चन्यायालयेन षण्मासानां कारागारवासदण्डः विहितः नीतिपीठं प्रति अनादरम् आचरितम् इति व्यवहारे एव सर्वोच्चन्यायालयस्य मुख्यन्यायाधिशस्य जे एस् खेहार् वर्यस्य आध्यक्ष्ये सप्ताङ्गनीतिपीठेन कारागारवासरूपं दण्डं विहितम्।
      गतदिने न्याया. कर्णेः सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपसहितान् अष्टान् न्यायाधिपान् पञ्चसंवत्सराणां कारागृहवासाय अदण्डयत् इति अपूर्वघटना अपि सञ्जाता आसीत्।
वृक्षछेदनाय इच्छा नागता। नियमसभा सामाजिकः स्व उत्तरदायित्वे वृक्षरोपणं कृतवान्।
विशाखपट्टणम्>राष्ट्रिय-मार्गस्य  विकासे  वृक्षछेदनम् अनिवार्ये सति नियमसभा सामाजिकः स्व उत्तरदायित्वे वृक्षन् सर्वान् उत्क्षिप्य अन्यत्र तेषाम् पुनस्सथापनम् अकरोत्। आन्ध्रा राज्यस्य नियमसभा सामाजिकः बोधे प्रसादः एवम् आदर्शभूतः सञ्जातः। मूलानां नाशं न अभवत् अनेन वृक्षाः समीचीनतया वर्धन्ते। एकलक्षं रूप्यकाणि व्ययं कृत्वा तेन एतत् कार्यं कृतम्। वृक्षछेदनात् पूर्वं तान् अन्यत्र स्थापितुं शक्यते वा इति सर्वैः अवश्यम् चिन्तनीयमिति सः अयोजयत्।
Episode 45- Sanskrit News
Subhadra K Namboothiri, Std.10, Brahmanandodayam HSS, Kalady, Ernakulam, Kerala.

Tuesday, May 9, 2017

वृद्धदम्पत्यो: सम्पाद्यम्  एककोटि:  प्रतिरोधनिधये।
 अहमदाबाद:> गुर्जरदेशे वृद्धदम्पत्यौ  आजीवनान्तं स्वीयं सम्पाद्यम् पूर्णतया राष्ट्रियप्रतिरोधनिधिम् प्रति  दत्तवन्तौ । भावनगरस्थ: जनार्दनभाईभट्ट: तस्य पत्नी च व्यत्यस्तप्रवृत्या श्रद्धाकेन्द्रे भवत:। स्टेट् बाङ्क् ओफ् इन्डियाया: निवृत्तोद्योगस्तौ उभावपि । उद्य़ोगात् लब्धवेतनात् संरक्षितानि एककोटि: रूप्यकाणि एतौ प्रतिरोधनिधिम् प्रति दत्तवन्तौ । सैनिकानां तथा तेषां बान्धवानां च क्षेमाय रूपीकृता भवति राष्ट्रियप्रतिरोधनिधि: । प्रधानमन्त्रिण: आध्यक्ष्ये काचन समिति: एव  एतस्य  प्रवर्तनानि क्रमीकरोति । प्रतिरोधमन्त्री , धनकार्यमन्त्री  प्रमुखा: तस्या: अङ्गानि । प्रतिरोधनिधि: तु आर् . बी . ऐ  पश्यति । सामान्यजनानां सम्भावनामाश्रित्य एव प्रतिरोधनिधि:  तिष्ठति । """भारतकविर् ""  इति  नाम्नि कश्चन आप्  तथा वेब्सैट् च आभ्यन्तरमन्त्रालयेन आविष्कृतमासीत् । एतेन राष्ट्राय जीवत्यागं कृतवतां धीरसैनिकानां कुटुम्बाङ्गानां वित्तकोशखाताम् प्रति जनै:  साक्षात् धनसाहाय्यं कर्तुं शक्यते इति पद्धत्या: प्रयोजनम् ।।
 अन्तर्विद्यालयीया संस्कृत-वार्तावतारण-प्रतियोगिता समनुष्ठिता
नवदिल्ली>नवदिल्यां सम्प्रति वार्ता: इति नाम्ना संस्कृतसमाचार वाचनप्रतियोगिता समायोजिता।  प्रतियोगितायामस्यां छात्रै: संस्कृतस्य पृथक् पृथक् वार्तानां  वाचनमभिप्रस्तुतम् । अथ च अस्यां प्रतियोगितायां  दिल्ल्या: प्रतिष्ठितानां द्वादश विद्यालयानां  छात्रा: प्रतिभागित्वेन उपस्थिता: अवर्तन्त। ध्येयमस्ति यत् प्रतियोगितायामेतस्यां द्वादशविद्यालयानां  षष्ट्यधिका:  विद्यार्थिन: भागमभजन्त।
अथ च प्रतियोगितायां आर के पुरमस्थ: डी. पी.एस. विद्यालयीया: छात्रा: प्रथमम्, पूसा रोड स्थस्य रा मजस पब्लिक विद्यालयस्य  छात्रा: द्वितीयम् , द्वारकोपनगरस्थस्य बाल भारती पब्लिक विद्यासलयस्य च छात्रा:  तृतीयं स्थानमधिगतवन्त:।
अवसरेsस्मिन्  निर्णयमण्डले डॉ. सुनीता गेहानी वर्या, श्रीमती पूनम शर्मा महोदया च अवर्तन्त।  अत्रावसरे निर्णयमण्डलीया सदस्या डॉ. सुनीता गेहानी  महाशया प्रत्यपादयत् यत्  अद्यतने आधुनिके युगे संस्कृत भाषा वैश्विकभाषाया: स्वरूपे परिवर्तते सर्वत्र विश्वस्तरे संस्कृतस्य लोकप्रियता संवर्धते, अतः संस्कृत भाषाया: संवर्धनाय अनुसंधानाय च नवयुवकानाम् अतोSपि समेधनस्य आवश्यकता वर्त्तते। प्रतियोगिताया: प्रारम्भ: मातु: सरस्वत्या: वन्दनापूर्वकं सरस्वत्या: मूर्तौ  माल्यार्पणेन  दीपप्रज्वलनेन सह सञ्जात:।  अस्य नूतनकार्यक्रमस्योपक्रमस्य  स्वरुपस्य च संकल्पना डॉ. ज्योत्स्ना श्रीवास्तव वर्यया   श्री युवराजभट्टराई महोदयद्वारा च विहिता आसीत्। आयोजनमिदमत्यन्तं सफलं शलाघ्नीयम् कतिपयपक्षैश्च आश्चर्यकरं  च अवर्तत। अद्य यावत् प्रायः सर्वेषु विद्यालयेषु समायोज्यमानेषु, समायोजयिष्यमाणेषु च संस्कृतस्य पारम्परिक प्रतियोगिताभ्य: पृथग्भूय संस्कृतमाधुनिकतया संयोजनदृशा कार्यक्रमोSयमत्यन्तमेव सान्दर्भिक: उपयुक्तश्च संसिद्ध:। कार्यक्रमस्य सफलायोजने दीपककुमारशर्मण: महद् योगदानम् आसीत्।
न्यू राजेन्द्रनगरस्थितेन बालभारती पब्लिक विद्यालयेन एव  सम्प्रति वार्ता:  इति नाम्ना संस्कृतसमाचार वाचनप्रतियोगिता समायोजिता आसीत् ।