OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 13, 2017

कृत्रिमद्वीपेषु  चैनाया: रहस्ययुद्धसन्नाहः;  अण्वस्त्रसंविधानानि  विन्यस्तानि I
               दक्षिणचैनासमुद्रस्य कृत्रिमद्वीपेषु रहस्यसैनिकसन्नाह:  प्रचलतीत्यस्य दृष्टान्तै: सह  उपग्रहचित्राणि बहिरागतानि । प्रतिरोधवार्ताजालसङ्केतेन ( डिफन्स् न्यूस् वेब्सैट् ) एव  नूतनोपग्रहचित्राणि  एतानि बहिरानीतानि । इमेज्साट्  इन्टर्नाषणल् एरोस् बी साटलैट् द्वारा स्वीकृतं नूतनचित्रं गत सोमवारे  बहिरागतम्। कृत्रिमद्वीपेषु व्यापकतया  सैनिकसन्नाहा: प्रचलन्ति इति चित्रेभ्य: स्पष्टं प्रतीयते  । भूपक्षत: विक्षेप्तुमर्हा:  अण्वस्त्रविक्षेपण्य:  अपि विन्यस्ता: भवन्ति  इत्यपि  आवेदने कथयति । तानि च अतिनूतनानि अण्वस्त्रसंविधानानि भवेयु: इत्यपि प्रतिरोधवार्तया आवेदितं वर्तते । मार्च् पञ्चदश ( १५ ) , मई  अष्ट ( ८ )  दिनाङ्कयो: प्राप्तेषु उपग्रहचित्रेषु  विद्यमानभेदा:  एव  चर्चिता: । एच् डी  निपुणानि  चित्राणि एव प्राप्तानि । अस्याम् मेखलायां चैनया बहुविधानि आयुधसंविधानानि सज्जीकृतानि इति पूर्वमेव  अमरीकया आरोपितं वर्तते ।  प्रतिसज्जानि वायुसेनायानानि  ( एयर् क्राफ्ट् ) , प्रतिसज्जानि अण्वस्त्रायुधानि च  अत्र विन्यस्तानि इत्येव अमरीकाया: वाद: ।।
समग्र-राष्ट्रिय -शैक्षिकनयः सिद्धः, साङ्केतिकपरीक्षायै नीट् परिगण्यते। 
नवदिल्ली> भारते समग्रः शैक्षिकनयः सिद्ध अस्तीति मानवशेषिविकसनमन्त्रिणा प्रकाश् जावेद्करेण उक्तम्। सप्ताहाभ्यन्तरे एषः नयः प्रसिद्धीकरणयोग्यः भविष्यति।
     वैद्यकप्रवेशाय इव साङ्केतिकशास्त्रपठनप्रवेशाय च अखिलभारतीयपरीक्षाम् आयोजयितुं पर्यालोचना अस्तीति केन्द्रमन्त्रिणा उक्तम्। सर्वाः प्रवेशपरीक्षाः एकच्छत्राधीने समायोजयितुं प्रारम्भपदक्रमः आरब्धः।
एस्. बि. ऐ. वित्तकोशः भवनऋणकुसीतमूल्यं न्यूनमकरोत् । 
मुम्बै > एस्. बि ऐ. वित्तकोशः भवनऋणकुसीतमूल्यम् न्यूनीकृतवान् I त्रिंशत् लक्षमितस्य ऋणस्य o.२५ प्रतिशतं कुसीतम् न्यूनीभविष्यति। ८.३५ प्रतिशतं भवति नूतनमूल्यम्I नूतनं मूल्यं मङ्गलवासरे प्रबलीभवति स्म। त्रिंशत् लक्षाधिकऋणस्य मूल्यं ८.६०तः ८.५० इति न्यूनीभवति । भवनऋणग्राहकाणां लक्षसंख्याकानां जनानाम् अस्य प्रयोजनं भविष्यति इति व्यवस्थापकनिदेशकः रजनिष् कुमारः अवदत्I

Friday, May 12, 2017

कुलभूषणयादवस्य मृत्यु दण्डः निरोधितः।  
नवदिल्ली> गुप्तारोपणम् पुरस्कृत्य पाकिस्थानसैनिकन्यायालयेन मृत्युदण्डं विहितस्य  भारतीयनाविकसेनोद्योगस्थस्य कुलभूषणयादवस्य मृत्युदण्डः निरोधितः।  भारतस्य नीतिन्यायापेक्षाम्  पुरस्कृत्य  अन्ताराष्ट्र नीतिन्यायालयेनैव वधशिक्षा निरोधिता। नाविकसेनाया: विरामात्परं वाणिज्यं कुर्वन्तं कुलभूषणम् इरानत: अपहृत्य पाकिस्थानस्य गुप्तचर: इति आरोपणम् उन्नीय मृत्युदण्डः विहितः आसीत्। गतमासे एव पाकिस्थानसैनिकन्यायालयेन कुलभूषणस्य मृत्युदण्डः विहितः।  एतद्विरुध्य भारतेन शक्तियुक्तं प्रतिषिद्ध:  ज्येष्ठाभिभाषक: हरीषसाल्वे  महाशय: भारतस्य कृते अन्ताराष्ट्र नीतिन्यायालये उपस्थित: भवति। बलूचिस्थानात् कुलभूषणं  षोडशोत्र्तरद्विसहस्रतमे (२०१६ ) वर्षे गृहीतवन्त: इति पाकिस्थानस्य वाद:। किन्तु एष: न गुप्तचर: सैन्यात् विरमित: इति भारतेन व्यक्तीकृतम्। तन्न केवलम्; ग्रहणसमये कुलभूषणस्य हस्ते पारपत्रं चासीत्;  तथा न क्रियते गुप्तचरै: इत्यपि भारतेन व्यक्तीकृतम्।

Thursday, May 11, 2017

आधार् नाम मूलप्रमाणपत्रस्य पञ्चीकरणं स्खालित्यदूरीकरणं च स्थगितम्।
कोच्ची> आधार् नाम मूलप्रमाणपत्रस्य पञ्चीकरणं स्खालित्यदूरीकरणं  च स्थगिते जाते। तन्त्राधिगमस्य पुनर्नवीकरणे जातं मन्दगमनमेव अस्य निदानम्। विद्यालयेषु प्रवेशनकालमिदमित्यनेन एतत् क्लेशं सृजति।आधारपत्रस्य विनिमयाधिकारं आधार विभागः ऐ टी मिषणाय अयच्छत्। ऐ टी मिषण् ऐ  टी अट् स्कूलाय, अक्षयाय, केलट्रोणाय च विनिमयाधिकारम् अयच्छत्। अलाभकारणेन ऐ टी अट् स्कूल् तथा केल्ट्रोण् च तस्मात् अत्तरदायित्वात् निर्गच्छतः। इदानीं विनिमयोत्तरदायित्वं अक्षयायां निक्षिप्तमस्ति। ऐप्रिल् प्रथमदिनादारभ्य तन्त्राधिगमस्य पुनर्नवीकरणं कर्तव्यमिति अक्षयकेन्द्रान् निर्देशं दत्तमासीत्। किन्तु तत् न कार्यान्वितम्।
समाजमाध्यमद्वारा राष्ट्रहिताय युद्धं कुर्म:।
      नवदिल्ली> समाजमाध्यमेषु  विद्वेषजनकसन्देशान् मा विनिमयेयु: इति केन्द्रमन्त्री  राज्यवर्धनसिंहराथोड: आह्वानं कृतवान्। राष्ट्रशत्रुभि: प्रचार्यमाण-सन्देशा: राष्ट्रविरुद्धा: तादृशसन्देशान् प्रति  " समरभटा: " भवेम वयम् समाजमाध्यमोपयोक्तार:  इति च स: निर्दिष्टवान्।  वनिता धनतत्वफोरम्  ( विमन् इकणोमिक् फोरम् )  उद्घाटनसम्मेलने भाषमाण: आसीत् स:।  राष्ट्रहिताय युद्धं कर्तुम् भवद्भि: गणवस्त्रं धरणीयम् उत सीमा गन्तव्या इति किमपि नास्ति। समाजमाध्यमद्वारा अस्मद्गेहप्राप्तान् राष्ट्रविरुद्धसन्देशान् प्रति युद्धं कुर्म:। तादृशसन्देशान् मा विनिमयेम, मा प्रेषयेम।  मन्त्री सूचितवान्।
भारतस्य वर्धनसूचिकाङ्क: ७.७  प्रतिशतम् भविष्यति इति ऐ एम् एफ्। 
वाषिङ्टण:> चलत्साम्पत्तिकवर्षे - २०१७ - २०१८ (सप्तदशोत्तरद्विसहस्रम् - अष्टादशोत्तरद्विसहस्रम्) भारतेन ७.२% (सप्त दशांशं द्वे प्रतिशतम् ) वर्धनम् आर्ज्यते तथा च २०१८ - २०१९ ( अष्टादशोत्तरद्विसहस्रम् -  नवदशोत्तरद्विसहस्रम् ) साम्पत्तिकवर्षे भारतस्य वर्धनसूचिकाङ्क: ७.७% ( सप्त दशांशम् सप्त प्रतिशतम् ) प्रति  कूर्दिष्यते इति च अन्ताराष्ट्रनाणकनिधे: ( ऐ एम्  एफ् ) आवेदनम् । विपण्या: कार्यक्षमतादृढीकरणाय  दीर्घकालाधारेण घटनापरा:  प्रतिसन्धी: परिवर्तयेत् इति च ऐ एम् एफ्  निर्देश: ।  राष्ट्रनाण्यरूपविनिमयपरिष्करणेन सह राष्ट्रे  आविर्भूतात् रूप्यकदौर्लभ्यात् उद्भूता: तात्कालिकरोधा:  सप्तदशोत्तरद्विसहस्रतमे  क्रमानुगतं लुप्ता:  भविष्यन्ति  इत्यपि स्वस्य प्रादेशिक धनतत्व बहिरालोकने  ( रीजणल् इकणोमिक् औट्लुक् ) ऐ एम् एफ् संस्थया व्यक्तीकृतम् । विनिमयेषु विद्यमानानि ८६ % ( षडशीति प्रतिशतम् )  रूप्यकाणि  झटिति निरुध्य कृतं साम्पत्तिकपरिष्करणं स्वकार्योपभोगेषु सारवत्तया प्रतिफलितमभवत् । एतत् सामान्यस्थितिम् प्रापयितुं चलद्वित्तीयवर्षे  शक्नुयाम इति प्रतीक्षापि  संवेद्यते ऐ एम् एफ् संस्थया । भारतीयवित्तकोशसंविधानेन अभिमुखीक्रियमाणा: प्रतिसन्धय:ह्रस्वकालं यावत् ॠणवर्धनेषु  प्रतिफलिष्यन्ति इत्यपि संस्थया सूच्यते । धनपरम् एकीकरणम् , रूप्यकमूल्यवर्धननियन्त्रणाय नया: च सम्पन्मेखलाया: आत्मविश्वासं प्रतिष्ठापयेत्  इति ऐ एम्  एफ् सूचयति । आवेदनानुसारम्  षोडशोत्तरद्विसहस्रे   (२०१६ ) आर्जितात् ५.३ % ( पञ्च दशांशं त्रीणि  प्रतिशतात् ) j सप्तदशोत्तरद्विसहस्रतमे ( २०१७ ) एष्या  ५.५ % (पञ्च दशांशं पञ्च प्रतिशतम् ) वर्धनं रेखाङ्कयेत् इति प्रवचनम् । गतवित्तीयवर्षे ओक्टोबरमासस्य लोक धनतत्वबहिरालोकनम् (वेल्ड् इकणोमिक् औट्लुक्) अपेक्ष्य  सप्तदशोत्तरद्विसहस्रतमे (२०१७) चैनाया: जापानस्य च वर्धनसूचिकाङ्क:  उपरि गच्छेत् इति सूचनापि दीयते ऐ एम्  एफ् संस्थया । भारतस्य कार्ये ; कार्षिकरङ्गे उत्पादनवर्धनाय  अग्रेपि प्रतिसन्धय: परिगणनीया: भवेयु: इति निरीक्षणम्  । कार्षिकरङ्गसम्बद्धान् प्रश्नान् अभिमुखीकर्तुम् बहुविधकार्याणि करणीयानि च वर्तन्ते  इति ऐ एम् एफ्  निर्देश:।।

Wednesday, May 10, 2017

कोच्चीमेट्रोयोजनायै प्रयाणानुमतिः।
कोच्ची> कोच्ची मेट्रो रेल् यानयोजनायै प्रयाणानुमतिः लब्धा। आलुवातः पालारिवट्टं पर्यन्तं १३ कि मी. दूरं यावदेव मेट्रो रेल् सुरक्षाधिकारिणा अनुमतिः दत्ता। अद्य परिशीलनप्रयाणम् आरभ्यते।  केरलस्य प्रथममेट्रो योजनां प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटनं कारयितुमेव राज्यसर्वकारस्य अभिलाषः। तदर्थं प्रधानमन्त्रिणः कार्यालयेन सह पर्यालोचना आरब्धा।
न्यायाधीशाय कर्णाय मासषट्कस्य कारागारवासः।
नवदिल्ली>कोल्कोत्ता उच्चन्यायालयस्य न्यायाधीशाय सि एस् कर्णाय सर्वोच्चन्यायालयेन षण्मासानां कारागारवासदण्डः विहितः नीतिपीठं प्रति अनादरम् आचरितम् इति व्यवहारे एव सर्वोच्चन्यायालयस्य मुख्यन्यायाधिशस्य जे एस् खेहार् वर्यस्य आध्यक्ष्ये सप्ताङ्गनीतिपीठेन कारागारवासरूपं दण्डं विहितम्।
      गतदिने न्याया. कर्णेः सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपसहितान् अष्टान् न्यायाधिपान् पञ्चसंवत्सराणां कारागृहवासाय अदण्डयत् इति अपूर्वघटना अपि सञ्जाता आसीत्।
वृक्षछेदनाय इच्छा नागता। नियमसभा सामाजिकः स्व उत्तरदायित्वे वृक्षरोपणं कृतवान्।
विशाखपट्टणम्>राष्ट्रिय-मार्गस्य  विकासे  वृक्षछेदनम् अनिवार्ये सति नियमसभा सामाजिकः स्व उत्तरदायित्वे वृक्षन् सर्वान् उत्क्षिप्य अन्यत्र तेषाम् पुनस्सथापनम् अकरोत्। आन्ध्रा राज्यस्य नियमसभा सामाजिकः बोधे प्रसादः एवम् आदर्शभूतः सञ्जातः। मूलानां नाशं न अभवत् अनेन वृक्षाः समीचीनतया वर्धन्ते। एकलक्षं रूप्यकाणि व्ययं कृत्वा तेन एतत् कार्यं कृतम्। वृक्षछेदनात् पूर्वं तान् अन्यत्र स्थापितुं शक्यते वा इति सर्वैः अवश्यम् चिन्तनीयमिति सः अयोजयत्।
Episode 45- Sanskrit News
Subhadra K Namboothiri, Std.10, Brahmanandodayam HSS, Kalady, Ernakulam, Kerala.

Tuesday, May 9, 2017

वृद्धदम्पत्यो: सम्पाद्यम्  एककोटि:  प्रतिरोधनिधये।
 अहमदाबाद:> गुर्जरदेशे वृद्धदम्पत्यौ  आजीवनान्तं स्वीयं सम्पाद्यम् पूर्णतया राष्ट्रियप्रतिरोधनिधिम् प्रति  दत्तवन्तौ । भावनगरस्थ: जनार्दनभाईभट्ट: तस्य पत्नी च व्यत्यस्तप्रवृत्या श्रद्धाकेन्द्रे भवत:। स्टेट् बाङ्क् ओफ् इन्डियाया: निवृत्तोद्योगस्तौ उभावपि । उद्य़ोगात् लब्धवेतनात् संरक्षितानि एककोटि: रूप्यकाणि एतौ प्रतिरोधनिधिम् प्रति दत्तवन्तौ । सैनिकानां तथा तेषां बान्धवानां च क्षेमाय रूपीकृता भवति राष्ट्रियप्रतिरोधनिधि: । प्रधानमन्त्रिण: आध्यक्ष्ये काचन समिति: एव  एतस्य  प्रवर्तनानि क्रमीकरोति । प्रतिरोधमन्त्री , धनकार्यमन्त्री  प्रमुखा: तस्या: अङ्गानि । प्रतिरोधनिधि: तु आर् . बी . ऐ  पश्यति । सामान्यजनानां सम्भावनामाश्रित्य एव प्रतिरोधनिधि:  तिष्ठति । """भारतकविर् ""  इति  नाम्नि कश्चन आप्  तथा वेब्सैट् च आभ्यन्तरमन्त्रालयेन आविष्कृतमासीत् । एतेन राष्ट्राय जीवत्यागं कृतवतां धीरसैनिकानां कुटुम्बाङ्गानां वित्तकोशखाताम् प्रति जनै:  साक्षात् धनसाहाय्यं कर्तुं शक्यते इति पद्धत्या: प्रयोजनम् ।।
 अन्तर्विद्यालयीया संस्कृत-वार्तावतारण-प्रतियोगिता समनुष्ठिता
नवदिल्ली>नवदिल्यां सम्प्रति वार्ता: इति नाम्ना संस्कृतसमाचार वाचनप्रतियोगिता समायोजिता।  प्रतियोगितायामस्यां छात्रै: संस्कृतस्य पृथक् पृथक् वार्तानां  वाचनमभिप्रस्तुतम् । अथ च अस्यां प्रतियोगितायां  दिल्ल्या: प्रतिष्ठितानां द्वादश विद्यालयानां  छात्रा: प्रतिभागित्वेन उपस्थिता: अवर्तन्त। ध्येयमस्ति यत् प्रतियोगितायामेतस्यां द्वादशविद्यालयानां  षष्ट्यधिका:  विद्यार्थिन: भागमभजन्त।
अथ च प्रतियोगितायां आर के पुरमस्थ: डी. पी.एस. विद्यालयीया: छात्रा: प्रथमम्, पूसा रोड स्थस्य रा मजस पब्लिक विद्यालयस्य  छात्रा: द्वितीयम् , द्वारकोपनगरस्थस्य बाल भारती पब्लिक विद्यासलयस्य च छात्रा:  तृतीयं स्थानमधिगतवन्त:।
अवसरेsस्मिन्  निर्णयमण्डले डॉ. सुनीता गेहानी वर्या, श्रीमती पूनम शर्मा महोदया च अवर्तन्त।  अत्रावसरे निर्णयमण्डलीया सदस्या डॉ. सुनीता गेहानी  महाशया प्रत्यपादयत् यत्  अद्यतने आधुनिके युगे संस्कृत भाषा वैश्विकभाषाया: स्वरूपे परिवर्तते सर्वत्र विश्वस्तरे संस्कृतस्य लोकप्रियता संवर्धते, अतः संस्कृत भाषाया: संवर्धनाय अनुसंधानाय च नवयुवकानाम् अतोSपि समेधनस्य आवश्यकता वर्त्तते। प्रतियोगिताया: प्रारम्भ: मातु: सरस्वत्या: वन्दनापूर्वकं सरस्वत्या: मूर्तौ  माल्यार्पणेन  दीपप्रज्वलनेन सह सञ्जात:।  अस्य नूतनकार्यक्रमस्योपक्रमस्य  स्वरुपस्य च संकल्पना डॉ. ज्योत्स्ना श्रीवास्तव वर्यया   श्री युवराजभट्टराई महोदयद्वारा च विहिता आसीत्। आयोजनमिदमत्यन्तं सफलं शलाघ्नीयम् कतिपयपक्षैश्च आश्चर्यकरं  च अवर्तत। अद्य यावत् प्रायः सर्वेषु विद्यालयेषु समायोज्यमानेषु, समायोजयिष्यमाणेषु च संस्कृतस्य पारम्परिक प्रतियोगिताभ्य: पृथग्भूय संस्कृतमाधुनिकतया संयोजनदृशा कार्यक्रमोSयमत्यन्तमेव सान्दर्भिक: उपयुक्तश्च संसिद्ध:। कार्यक्रमस्य सफलायोजने दीपककुमारशर्मण: महद् योगदानम् आसीत्।
न्यू राजेन्द्रनगरस्थितेन बालभारती पब्लिक विद्यालयेन एव  सम्प्रति वार्ता:  इति नाम्ना संस्कृतसमाचार वाचनप्रतियोगिता समायोजिता आसीत् ।

Monday, May 8, 2017

फ्रान्स् निर्वाचनं समाप्तं- मक्रोणाय अग्र्यत्वम्।
पारीस् > यूरोप् भूखण्डस्य भविष्ये निर्णायकमिति मन्यमानं फ्रान्स् राष्ट्रस्य निर्वाचनं समाप्तम्। रविवासरे सम्पन्ने अन्तिमचरणे निर्वाचने एन् मार्ष् दलस्य स्थानाशी यूरोप्यन् यूणियन् संघस्य अनुकूली च एम्मानुवल् मक्रोण् नामकाय विजयसाध्याता कल्प्यते। नाषणल् फ्रण्ट् दलस्य नेता मारिन् ले पेन् नामकः मक्रोणस्य मुख्यप्रतियोगी अस्ति।
     निर्वाचनात् प्रागेव प्रकाशितेषु अभिवीक्षणफलेषु मारिन् वर्यात् मक्रोण् वर्यः अग्रगामित्वं प्राप्तवानस्ति। गुरुवासरे आधिकारिकं फलप्रख्यापनं भविष्यति।


ओडीषा मन्त्रिमण्डलं पुनर्घटितम्।
भुवनेश्वरम्> दश नूतनपुरुषान् संयोज्य ओडीषामुख्यमन्त्री नवीन् पट्नायिक् स्वमन्त्रिमण्डलं पुनःसंघटितवान्। नवमुखेषु चत्वारः सहमन्त्रिरूपेण नियुक्ताः। विद्यमानौ द्वौ सहमन्त्रिणौ क्याबिनट् पदं प्राप्तवन्तौ।
विद्यालये हिन्दी पाठनं निर्बन्धरुपेण मा भवतु - सर्वोच्चन्यायालयः।
नवदिल्ली> विद्यालयेषु अष्टमकक्ष्यापर्यन्तं हिन्दीपठनं निर्बन्धरूपेण  भवेदिति सार्वजनीनतात्पर्यनीतिन्यायापेक्षा सर्वोन्नतनीतिन्यायालयेन  तिरस्कृता । हिन्दी निर्बन्धत़या  पाठयितुं न शक्यते ;  तादृशमेकं सम्मतपत्रं अवतारितं चेत् श्व: कोपि संस्कृतम्  पञ्चाबीं वा ऩिर्बन्धरूपेण पाठनीयमिति वदन्ति चेत् किं कर्तुं शक्यते इति उच्चन्यायाध्यक्षस्य आध्यक्ष्ये उत्पीठिकया पृष्टा । हिन्दीभाषाया: प्रोत्साहनाय  सर्वकारेण बहूनि कार्याणि  क्रियमाणानि सन्ति इति न्यायालयेन सूचितम् । एतत्सर्वमपि सर्वकारनयानाम् भाग:    ; तत्र रेखानुमतिदाने न्यायालय: अशक्त: इति च न्यायालयेन व्यक्तीकृतम् । देहली बी जे पी वक्ता अश्विनी उपाध्याय:  न्यायापेक्षां समर्पितवान् । देशीयोद्ग्रथनाय हिन्दी निर्बन्धरूपेण अवश्यम् पाठयेदिति  ; शासनघटनानुसारं तस्य व्यवस्था वर्तते इति च  न्यायापेक्षायां सूच्यते ।
बोयिङ्  विमानं तथा वातलोकयानम्  च अतिक्रान्तुं स्वकीयेन जेट् विमानेन सह चैना ।।
 षाङ्हाय:> आगोलवत्करणकालघट्टे स्वकीयै: उत्पन्नै: लोकविपणिं जिता चैना   व्योमयानव्यवसायरङ्गेपि सान्निध्यं शक्तं करोति ।चैनया निर्मितं तद्देशीयं  यात्राजेट् विमानम्  इदंप्रथमतया  उड्डयनं  कृतम् । अशीति: (८० ) निमेषात्मकं डयनं समाप्य १६८ ( अष्टषष्ट्युत्तरशतम् )  यात्रिकाणां कृते सुसज्जं विमानम् भूमिं प्रत्यागत्य सुस्थितम् अभवत् । औषधादारभ्य यन्त्रमनुष्यपर्यन्तम् उत्पन्ननिर्माणाय आवलिस्थायाम् मेय्ड् इन् चैना  २०२५ (पञ्चविंशत्युत्तरद्विशतम् ) पद्धत्यां सुप्रधाननिर्मिति: एव जेट् विमानम् । चैनाया: वैयवसायिक  वायुयन्त्र निर्माण महाविधानेन ( कोमेर्स्यल्  एयर् क्राफ्ट् कोर्परेषन् ओफ् चैना  (कोमाक् ) ) सी ९१९  ( नवदशोत्तरनवशतम् )  जेट् विमानं निर्मितम् । २०२४ ( चतुर्विंशत्युत्तरद्विसहस्र् ) तमे  वर्षे लोके अतिबृहत्तरा व्योमयानविपणि:  इति स्थानम् अमरीकाम्  उल्लङ्घ्य चैना स्वायत्तीकुर्यात् ।
बुद्धिशक्त्या  महावैज्ञानिकम् ऐन्स्टीन् महोदयम् अतिशेते द्वादश वयस्का रजौरी।
लण्टन्> बुद्धिशक्तिमापने अल्बर्ट् ऐन्स्टीन् स्टीफन् होक्किङ् वर्यौ अतिशेते भारतीयवंशो जाता रजौरी पवारः। ब्रिट्टण् राष्ट्रस्य चेषयर् देशे वासति सा।  ब्रिट्टनस्य प्रसिद्धस्य बुद्धिमापनकेन्द्रस्य मेन्स नाम संस्थायाः परीक्षायां ऐन्स्टीन्  होक्किङ् महोदयाभ्यां द्वौ अङ्गौ अधिकं प्राप्य तया विजिता। गते मासे माञ्चस्टर् नगरे एव परीक्षा आयोजिता। द्विषष्ठ्यधिकशतम् (१६२)अङ्काः तया प्राप्ताः।
अस्याः पिता डॉ सुराज् कुमारः मासञ्चर् विश्वविद्यालयस्य गवेषक-वैज्ञानिकः भवति।   माहाराष्ट्रायाः बारामती एव अस्याः जन्म देशः।
अष्टादश वर्षेभ्यः अधोजानां विभागे प्राप्ता अधिकः अङ्कः भवति अयम्। प्रतिभामापनाय निर्दिष्टाङ्कः चत्वारिंशत् अधिकशतमेव। षट्चत्वारिंशदधिक नव शतोत्तर (१९४६)तमे स्थापितस्य चरित्रे विंशतिसहस्रं संख्याकाः विद्यार्थिनः १६२ अङ्कः प्राप्ताः सन्ति।
नरेन्द्रमोदिना एव काश्मीर राज्यस्य समस्याः परिहर्तुं शक्यते।
जम्मु> प्रधानमन्त्रिणा नरेन्द्रमोदिना एव काश्मीर राज्यस्य समस्याः परिहर्तुं शक्यते इति जम्मूकाश्मीररा ज्यस्य मुख्यमन्त्रिणी मेहबूबा मुफ्ति। काश्मीर राज्ये शान्तिं प्रापयितुं   आवश्यकं निश्चयदार्ढ्यम् आज्ञाशक्तिश्च केवलं  मोदिनः सकाशे एव  वर्तते। काश्मीरकीं समस्यां परिहर्तुं यदि मोदिवर्यः यं किमपि निर्णयं स्वीकरोति चेत्  तेन सह सम्पूर्णं राष्ट्रं तिष्ठति एव। मोद्या सह जनानां सहवर्त्तित्वं साहाय्यं च वर्तते। तदेव तस्य शक्तिः।  २०१५ तमे लाहोर गन्तुं पाक्किस्थान प्रधानमन्त्रिणं द्रष्टुं मोद्या स्वीकृतं निर्णयं तस्य शक्तिरेव सूचयति मेहबूब अवदत्।