OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, May 10, 2017

कोच्चीमेट्रोयोजनायै प्रयाणानुमतिः।
कोच्ची> कोच्ची मेट्रो रेल् यानयोजनायै प्रयाणानुमतिः लब्धा। आलुवातः पालारिवट्टं पर्यन्तं १३ कि मी. दूरं यावदेव मेट्रो रेल् सुरक्षाधिकारिणा अनुमतिः दत्ता। अद्य परिशीलनप्रयाणम् आरभ्यते।  केरलस्य प्रथममेट्रो योजनां प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटनं कारयितुमेव राज्यसर्वकारस्य अभिलाषः। तदर्थं प्रधानमन्त्रिणः कार्यालयेन सह पर्यालोचना आरब्धा।
न्यायाधीशाय कर्णाय मासषट्कस्य कारागारवासः।
नवदिल्ली>कोल्कोत्ता उच्चन्यायालयस्य न्यायाधीशाय सि एस् कर्णाय सर्वोच्चन्यायालयेन षण्मासानां कारागारवासदण्डः विहितः नीतिपीठं प्रति अनादरम् आचरितम् इति व्यवहारे एव सर्वोच्चन्यायालयस्य मुख्यन्यायाधिशस्य जे एस् खेहार् वर्यस्य आध्यक्ष्ये सप्ताङ्गनीतिपीठेन कारागारवासरूपं दण्डं विहितम्।
      गतदिने न्याया. कर्णेः सर्वोच्चन्यायालयस्य मुख्यन्यायाधिपसहितान् अष्टान् न्यायाधिपान् पञ्चसंवत्सराणां कारागृहवासाय अदण्डयत् इति अपूर्वघटना अपि सञ्जाता आसीत्।
वृक्षछेदनाय इच्छा नागता। नियमसभा सामाजिकः स्व उत्तरदायित्वे वृक्षरोपणं कृतवान्।
विशाखपट्टणम्>राष्ट्रिय-मार्गस्य  विकासे  वृक्षछेदनम् अनिवार्ये सति नियमसभा सामाजिकः स्व उत्तरदायित्वे वृक्षन् सर्वान् उत्क्षिप्य अन्यत्र तेषाम् पुनस्सथापनम् अकरोत्। आन्ध्रा राज्यस्य नियमसभा सामाजिकः बोधे प्रसादः एवम् आदर्शभूतः सञ्जातः। मूलानां नाशं न अभवत् अनेन वृक्षाः समीचीनतया वर्धन्ते। एकलक्षं रूप्यकाणि व्ययं कृत्वा तेन एतत् कार्यं कृतम्। वृक्षछेदनात् पूर्वं तान् अन्यत्र स्थापितुं शक्यते वा इति सर्वैः अवश्यम् चिन्तनीयमिति सः अयोजयत्।
Episode 45- Sanskrit News
Subhadra K Namboothiri, Std.10, Brahmanandodayam HSS, Kalady, Ernakulam, Kerala.

Tuesday, May 9, 2017

वृद्धदम्पत्यो: सम्पाद्यम्  एककोटि:  प्रतिरोधनिधये।
 अहमदाबाद:> गुर्जरदेशे वृद्धदम्पत्यौ  आजीवनान्तं स्वीयं सम्पाद्यम् पूर्णतया राष्ट्रियप्रतिरोधनिधिम् प्रति  दत्तवन्तौ । भावनगरस्थ: जनार्दनभाईभट्ट: तस्य पत्नी च व्यत्यस्तप्रवृत्या श्रद्धाकेन्द्रे भवत:। स्टेट् बाङ्क् ओफ् इन्डियाया: निवृत्तोद्योगस्तौ उभावपि । उद्य़ोगात् लब्धवेतनात् संरक्षितानि एककोटि: रूप्यकाणि एतौ प्रतिरोधनिधिम् प्रति दत्तवन्तौ । सैनिकानां तथा तेषां बान्धवानां च क्षेमाय रूपीकृता भवति राष्ट्रियप्रतिरोधनिधि: । प्रधानमन्त्रिण: आध्यक्ष्ये काचन समिति: एव  एतस्य  प्रवर्तनानि क्रमीकरोति । प्रतिरोधमन्त्री , धनकार्यमन्त्री  प्रमुखा: तस्या: अङ्गानि । प्रतिरोधनिधि: तु आर् . बी . ऐ  पश्यति । सामान्यजनानां सम्भावनामाश्रित्य एव प्रतिरोधनिधि:  तिष्ठति । """भारतकविर् ""  इति  नाम्नि कश्चन आप्  तथा वेब्सैट् च आभ्यन्तरमन्त्रालयेन आविष्कृतमासीत् । एतेन राष्ट्राय जीवत्यागं कृतवतां धीरसैनिकानां कुटुम्बाङ्गानां वित्तकोशखाताम् प्रति जनै:  साक्षात् धनसाहाय्यं कर्तुं शक्यते इति पद्धत्या: प्रयोजनम् ।।
 अन्तर्विद्यालयीया संस्कृत-वार्तावतारण-प्रतियोगिता समनुष्ठिता
नवदिल्ली>नवदिल्यां सम्प्रति वार्ता: इति नाम्ना संस्कृतसमाचार वाचनप्रतियोगिता समायोजिता।  प्रतियोगितायामस्यां छात्रै: संस्कृतस्य पृथक् पृथक् वार्तानां  वाचनमभिप्रस्तुतम् । अथ च अस्यां प्रतियोगितायां  दिल्ल्या: प्रतिष्ठितानां द्वादश विद्यालयानां  छात्रा: प्रतिभागित्वेन उपस्थिता: अवर्तन्त। ध्येयमस्ति यत् प्रतियोगितायामेतस्यां द्वादशविद्यालयानां  षष्ट्यधिका:  विद्यार्थिन: भागमभजन्त।
अथ च प्रतियोगितायां आर के पुरमस्थ: डी. पी.एस. विद्यालयीया: छात्रा: प्रथमम्, पूसा रोड स्थस्य रा मजस पब्लिक विद्यालयस्य  छात्रा: द्वितीयम् , द्वारकोपनगरस्थस्य बाल भारती पब्लिक विद्यासलयस्य च छात्रा:  तृतीयं स्थानमधिगतवन्त:।
अवसरेsस्मिन्  निर्णयमण्डले डॉ. सुनीता गेहानी वर्या, श्रीमती पूनम शर्मा महोदया च अवर्तन्त।  अत्रावसरे निर्णयमण्डलीया सदस्या डॉ. सुनीता गेहानी  महाशया प्रत्यपादयत् यत्  अद्यतने आधुनिके युगे संस्कृत भाषा वैश्विकभाषाया: स्वरूपे परिवर्तते सर्वत्र विश्वस्तरे संस्कृतस्य लोकप्रियता संवर्धते, अतः संस्कृत भाषाया: संवर्धनाय अनुसंधानाय च नवयुवकानाम् अतोSपि समेधनस्य आवश्यकता वर्त्तते। प्रतियोगिताया: प्रारम्भ: मातु: सरस्वत्या: वन्दनापूर्वकं सरस्वत्या: मूर्तौ  माल्यार्पणेन  दीपप्रज्वलनेन सह सञ्जात:।  अस्य नूतनकार्यक्रमस्योपक्रमस्य  स्वरुपस्य च संकल्पना डॉ. ज्योत्स्ना श्रीवास्तव वर्यया   श्री युवराजभट्टराई महोदयद्वारा च विहिता आसीत्। आयोजनमिदमत्यन्तं सफलं शलाघ्नीयम् कतिपयपक्षैश्च आश्चर्यकरं  च अवर्तत। अद्य यावत् प्रायः सर्वेषु विद्यालयेषु समायोज्यमानेषु, समायोजयिष्यमाणेषु च संस्कृतस्य पारम्परिक प्रतियोगिताभ्य: पृथग्भूय संस्कृतमाधुनिकतया संयोजनदृशा कार्यक्रमोSयमत्यन्तमेव सान्दर्भिक: उपयुक्तश्च संसिद्ध:। कार्यक्रमस्य सफलायोजने दीपककुमारशर्मण: महद् योगदानम् आसीत्।
न्यू राजेन्द्रनगरस्थितेन बालभारती पब्लिक विद्यालयेन एव  सम्प्रति वार्ता:  इति नाम्ना संस्कृतसमाचार वाचनप्रतियोगिता समायोजिता आसीत् ।

Monday, May 8, 2017

फ्रान्स् निर्वाचनं समाप्तं- मक्रोणाय अग्र्यत्वम्।
पारीस् > यूरोप् भूखण्डस्य भविष्ये निर्णायकमिति मन्यमानं फ्रान्स् राष्ट्रस्य निर्वाचनं समाप्तम्। रविवासरे सम्पन्ने अन्तिमचरणे निर्वाचने एन् मार्ष् दलस्य स्थानाशी यूरोप्यन् यूणियन् संघस्य अनुकूली च एम्मानुवल् मक्रोण् नामकाय विजयसाध्याता कल्प्यते। नाषणल् फ्रण्ट् दलस्य नेता मारिन् ले पेन् नामकः मक्रोणस्य मुख्यप्रतियोगी अस्ति।
     निर्वाचनात् प्रागेव प्रकाशितेषु अभिवीक्षणफलेषु मारिन् वर्यात् मक्रोण् वर्यः अग्रगामित्वं प्राप्तवानस्ति। गुरुवासरे आधिकारिकं फलप्रख्यापनं भविष्यति।


ओडीषा मन्त्रिमण्डलं पुनर्घटितम्।
भुवनेश्वरम्> दश नूतनपुरुषान् संयोज्य ओडीषामुख्यमन्त्री नवीन् पट्नायिक् स्वमन्त्रिमण्डलं पुनःसंघटितवान्। नवमुखेषु चत्वारः सहमन्त्रिरूपेण नियुक्ताः। विद्यमानौ द्वौ सहमन्त्रिणौ क्याबिनट् पदं प्राप्तवन्तौ।
विद्यालये हिन्दी पाठनं निर्बन्धरुपेण मा भवतु - सर्वोच्चन्यायालयः।
नवदिल्ली> विद्यालयेषु अष्टमकक्ष्यापर्यन्तं हिन्दीपठनं निर्बन्धरूपेण  भवेदिति सार्वजनीनतात्पर्यनीतिन्यायापेक्षा सर्वोन्नतनीतिन्यायालयेन  तिरस्कृता । हिन्दी निर्बन्धत़या  पाठयितुं न शक्यते ;  तादृशमेकं सम्मतपत्रं अवतारितं चेत् श्व: कोपि संस्कृतम्  पञ्चाबीं वा ऩिर्बन्धरूपेण पाठनीयमिति वदन्ति चेत् किं कर्तुं शक्यते इति उच्चन्यायाध्यक्षस्य आध्यक्ष्ये उत्पीठिकया पृष्टा । हिन्दीभाषाया: प्रोत्साहनाय  सर्वकारेण बहूनि कार्याणि  क्रियमाणानि सन्ति इति न्यायालयेन सूचितम् । एतत्सर्वमपि सर्वकारनयानाम् भाग:    ; तत्र रेखानुमतिदाने न्यायालय: अशक्त: इति च न्यायालयेन व्यक्तीकृतम् । देहली बी जे पी वक्ता अश्विनी उपाध्याय:  न्यायापेक्षां समर्पितवान् । देशीयोद्ग्रथनाय हिन्दी निर्बन्धरूपेण अवश्यम् पाठयेदिति  ; शासनघटनानुसारं तस्य व्यवस्था वर्तते इति च  न्यायापेक्षायां सूच्यते ।
बोयिङ्  विमानं तथा वातलोकयानम्  च अतिक्रान्तुं स्वकीयेन जेट् विमानेन सह चैना ।।
 षाङ्हाय:> आगोलवत्करणकालघट्टे स्वकीयै: उत्पन्नै: लोकविपणिं जिता चैना   व्योमयानव्यवसायरङ्गेपि सान्निध्यं शक्तं करोति ।चैनया निर्मितं तद्देशीयं  यात्राजेट् विमानम्  इदंप्रथमतया  उड्डयनं  कृतम् । अशीति: (८० ) निमेषात्मकं डयनं समाप्य १६८ ( अष्टषष्ट्युत्तरशतम् )  यात्रिकाणां कृते सुसज्जं विमानम् भूमिं प्रत्यागत्य सुस्थितम् अभवत् । औषधादारभ्य यन्त्रमनुष्यपर्यन्तम् उत्पन्ननिर्माणाय आवलिस्थायाम् मेय्ड् इन् चैना  २०२५ (पञ्चविंशत्युत्तरद्विशतम् ) पद्धत्यां सुप्रधाननिर्मिति: एव जेट् विमानम् । चैनाया: वैयवसायिक  वायुयन्त्र निर्माण महाविधानेन ( कोमेर्स्यल्  एयर् क्राफ्ट् कोर्परेषन् ओफ् चैना  (कोमाक् ) ) सी ९१९  ( नवदशोत्तरनवशतम् )  जेट् विमानं निर्मितम् । २०२४ ( चतुर्विंशत्युत्तरद्विसहस्र् ) तमे  वर्षे लोके अतिबृहत्तरा व्योमयानविपणि:  इति स्थानम् अमरीकाम्  उल्लङ्घ्य चैना स्वायत्तीकुर्यात् ।
बुद्धिशक्त्या  महावैज्ञानिकम् ऐन्स्टीन् महोदयम् अतिशेते द्वादश वयस्का रजौरी।
लण्टन्> बुद्धिशक्तिमापने अल्बर्ट् ऐन्स्टीन् स्टीफन् होक्किङ् वर्यौ अतिशेते भारतीयवंशो जाता रजौरी पवारः। ब्रिट्टण् राष्ट्रस्य चेषयर् देशे वासति सा।  ब्रिट्टनस्य प्रसिद्धस्य बुद्धिमापनकेन्द्रस्य मेन्स नाम संस्थायाः परीक्षायां ऐन्स्टीन्  होक्किङ् महोदयाभ्यां द्वौ अङ्गौ अधिकं प्राप्य तया विजिता। गते मासे माञ्चस्टर् नगरे एव परीक्षा आयोजिता। द्विषष्ठ्यधिकशतम् (१६२)अङ्काः तया प्राप्ताः।
अस्याः पिता डॉ सुराज् कुमारः मासञ्चर् विश्वविद्यालयस्य गवेषक-वैज्ञानिकः भवति।   माहाराष्ट्रायाः बारामती एव अस्याः जन्म देशः।
अष्टादश वर्षेभ्यः अधोजानां विभागे प्राप्ता अधिकः अङ्कः भवति अयम्। प्रतिभामापनाय निर्दिष्टाङ्कः चत्वारिंशत् अधिकशतमेव। षट्चत्वारिंशदधिक नव शतोत्तर (१९४६)तमे स्थापितस्य चरित्रे विंशतिसहस्रं संख्याकाः विद्यार्थिनः १६२ अङ्कः प्राप्ताः सन्ति।
नरेन्द्रमोदिना एव काश्मीर राज्यस्य समस्याः परिहर्तुं शक्यते।
जम्मु> प्रधानमन्त्रिणा नरेन्द्रमोदिना एव काश्मीर राज्यस्य समस्याः परिहर्तुं शक्यते इति जम्मूकाश्मीररा ज्यस्य मुख्यमन्त्रिणी मेहबूबा मुफ्ति। काश्मीर राज्ये शान्तिं प्रापयितुं   आवश्यकं निश्चयदार्ढ्यम् आज्ञाशक्तिश्च केवलं  मोदिनः सकाशे एव  वर्तते। काश्मीरकीं समस्यां परिहर्तुं यदि मोदिवर्यः यं किमपि निर्णयं स्वीकरोति चेत्  तेन सह सम्पूर्णं राष्ट्रं तिष्ठति एव। मोद्या सह जनानां सहवर्त्तित्वं साहाय्यं च वर्तते। तदेव तस्य शक्तिः।  २०१५ तमे लाहोर गन्तुं पाक्किस्थान प्रधानमन्त्रिणं द्रष्टुं मोद्या स्वीकृतं निर्णयं तस्य शक्तिरेव सूचयति मेहबूब अवदत्।

Sunday, May 7, 2017

दिल्ल्यां विषवायुपरिस्रवः - ४५० छात्राः आतुरालयप्रविष्टाः।
नवदिल्ली> दक्षिणपूर्वदिल्ल्यां विषवायोः परिस्रवेण अस्वस्थबाधिताः पञ्चाशदधिक चतुश्शतं विद्यालयीयछात्राः नव अध्यापकाश्च आतुरालयं प्रविष्टाः तुग्लक्काबादे राणी झान्सी सर्वोदय कन्याविद्यालयः , सर्वकार बालिका सीनियर् सेक्कन्टरि विद्यालयः इत्येतयोः विद्यालययोः छात्राः एव अस्वस्थबाधिताः अभवन्। सर्वे सुरक्षिता इति मुख्यमन्त्रिणा अरविन्द् केज्रिवालेन निगदितम्।
     शनिवासरे प्रभाते विद्यालययोः समीपस्थायाः वायुसम्भरणशालायाः परिस्रवणमभवत्। चीनादेशादानीतं कीटनाशिनीनिर्माणोपकारकं क्लोरोमीतैल् पैरिडिन् नामकं वायुरूपं वस्तु एव दुरन्तकारणमभवत्
योगिन: मार्गे चौहान: -  मध्यप्रदेशे २५ (पञ्चविंशति:) विरामदिनानि  निष्कास्यन्ते।
       भोपाल:>उत्तरप्रदेशे मुख्यमन्त्री योगी आदित्यनाथ: सार्वजनीन-विरामदिनानि ऊनीकृतवान्; शासनक्रममेतम् अनुसृत्य मध्यप्रदेशसर्वकारेणापि २५ (पञ्चविंशति:) विरामदिनानि निष्कास्यन्ते।  प्रमुखानां जनन,मरण , वार्षिकदिनेषु दीयमानविरामा:  एव  निष्कास्यन्ते । २० (विंशति:) त: २५ (पञ्चविंशति:) विरामदिनानि एवं निष्कासयितुम् उद्दिष्टानीति शिक्षामन्त्री  दीपक जोशी उक्तवान् । भगतसिंहस्य चरमवार्षिकदिने विरामदानेन छात्रा:  तमुद्दिश्य किं पठेयु:?, तथा च विरामदानापेक्षया  तत् कस्य जन्म, चरमवार्षिकं वा भवतु; तेषां जीवनं सम्भावनाश्च  छात्रान् पाठयाम: इति दीपक जोशी योजितवान्।   कानि कानि विरामदिनानि निष्कासयेयु: इति आलोचनायाम् वर्तन्ते।  एकस्मिन् शैक्षणिकवर्षे विरामदिनानि ३५ ( पञ्टत्रिंशत् ) इति ऊनीक्रियन्ते इत्यपि सूचना अस्ति।  मध्यप्रदेशसर्वकारस्य सार्वजनीनदिनदर्शिकानुसारं ७६ (षट् सप्तति:) विरामदिनानि सन्ति।  एतेषु ५४ (चतुष्पञ्चाशत्) नियन्त्रितविरामाश्च अन्तर्भवन्ति।  एकस्मिन् अध्ययनवर्षे १५० (सार्धशतम्) प्रवृत्तिदिनानि सन्ति  तानि च १८५ (पञ्चाशीत्युत्तरशतम्) इति वर्धयितुमेव  सर्वकारै: लक्षीक्रियन्ते।।
सेना रहस्याणि अपहृताः त्रयः पाक्क् चाराः गृहीताः।
लख्नौ >उत्तरप्रदेश-भीकरविरुद्ध संघस्य तथा महाराष्ट्रा आरक्षकाणां च आसूत्रिते प्रवर्तने त्रयः पाक्किस्थान चाराः गृहीताः।  ते ऐ एस् ऐ प्रवर्तकाः इति संशयो वर्तते। अफ्ताफ् अलि, अल्ताफ् खुरेषि, जावेद् इक्बाल् एते गृहीतवन्तः।  उत्तरप्रदेशस्य फैसाबाद्तः गृहीतस्य अफ्ताबस्य वाचः अवलम्ब्य बुधवासरे रात्रौ मुम्बाईतः अन्ये गृहीतवन्तः। अफ्ताबस्य दूरवाण्यां फैसाबाद् मध्ये वर्तमानस्य सेनाकेन्द्रस्य चित्राणि आसन्। अमृतसर देशस्य सेनाप्रस्थानानि एषः पाक्क् हैक्कम्मीषणरं निवेदिचवान्। भारतस्य प्रमुखानि मन्दिराणि तथा तीर्थस्थानानि च आक्रमितुं ते नियुक्ताः इति आरक्षकाः वदन्ति। खुरेष्याः गृहात् ७१.५७ लक्षं रूप्यकाणि अपि गृहीतवन्तः।
नीट् परीक्षा अद्य प्रचलति।
अनन्तपुरी>वैद्यक दन्तशास्त्र प्रवेशनार्थं क्रियमाणा अखिलभारतीयप्रवेशनपरीक्षा [नीट्] अद्य प्रचाल्यते। राष्ट्रस्य १०३ नगरेषु २२०० परीक्षाकेन्द्राणि वर्तन्ते। केरले अनन्तपुरी , कोच्ची , कोष़िक्कोट् , कण्णूर् , तृश्शिवपेरूर् इत्येतेषु नगरेषु परीक्षाकेन्द्राणि सन्ति। 
   अस्मात् संवत्सरादारभ्य आराष्ट्रं  वैद्यक दन्तीय कलालयेषु प्रवेशनार्थं नीट् नामिका एकीकृतप्रवेशनपरीक्षा अवश्या अस्ति।
सर्वोच्चन्यायालयस्य आदेशे टि पि सेन्कुमारस्य  पुनर्नियुक्तिः।
नवदिल्ली> केरलसर्वकारस्य याचिकां पुनर्याचिकां च निरस्य सर्वोच्चनीतिपीठस्य कर्कशादेशम् अनुसृत्य गतसंवत्सरे स्थानभ्रष्टः टि पि सेन्कुमारः  केरलस्य आरक्षकाधिकारिस्थाने पुनर्नियुक्तः। पिणरायि विजयस्य नेतृत्वे केरले नूतनसर्वकारस्य स्थानारोहणमनुबन्ध्य आसीत्  डि जि पि स्थानात् सेन्कुमारस्य स्थानभ्रंशः। तद्विरुध्य सः सर्वोच्चन्यायालये याचिकां समर्पितवान्।
    व्यवहारे सेन्कुमारः अनुकूलविधिं सम्पादितवानपि सर्वकारः व्यक्ततायाचिकां समर्प्य नियुक्तिं विलम्बीकर्तुम् उद्युक्तोsभवत्। नीतीपीठं व्यक्ततायाचिकां निरस्य सर्वकारे भर्त्सिते सेन्कुमारस्य नियुक्तिं कृत्वा मुख्यमन्त्रिणः आदेशः आगतः।
भारते सर्वत्र संस्कृतप्रचरणान्दोलनस्य कालः ।
पि आर् नाथः संस्कृतप्रशिक्षण-शिबिरस्य उद्घाटनं करोति।
मलप्पुरम् > आभारतं प्रचलति संस्कृतान्दोलनम्। प्रमुखेषु वार्तामाध्यमेषु संस्कृत संबन्धिन्यः वार्ताः नागच्छन्ति चेदपि वार्ताप्रकाशने वार्तामाध्यमाः श्रद्धालवः एव। संस्कृतस्य प्राधान्यम् अस्मिन् अन्तर्जालयुगेsपि अस्ति इति जनानां संस्कृताभिमुख्यं निदर्शनमेव।
भारतस्य विविधेषु प्रदेशेषु संस्कृतभारत्याः प्रयत्नेन संस्कृतशिक्षा प्रचलति। सर्वकारस्य साह्यं विना संस्कृतभारत्या: कृता:प्रयत्ना: श्लाघनीया:।
मलप्पुरदेशे आरब्धे संस्कृतशिक्षक-प्रशिक्षण-सत्रे ४१ शिक्षार्थिनः भागं स्वीकृतवन्तः।  सत्रस्य उद्‌घाटनं साहित्यनिपुणेन पि आर् नाथन् वर्येण कृतम्। स्वागतभाषणं नारायणन् अटितिरिप्पाट् वर्यः अकरोत्‌ । पार्वतीनम्बीशन् समारोहस्य अध्यक्षा आसीत्। मेय् मासस्य षोडशदिनाङ्के सत्रं सम्पूर्णं भविष्यति।

Saturday, May 6, 2017

जीवति संस्कृतं संस्कृति सम्पन्ना- वेङ्कय्यनायिडु।
नव दिल्ली>संस्कृतभाषायाम्  संपादिता  प्रथमा पुस्तकमाला "स्वच्छ काननस्य कथा, मातामह्या  कथिता" गते गुरुवासरे नवदेहल्यां केंद्रीय-सूचना-प्रसारण-मंत्रिणा श्री वेंकैयानायडू-महोदयेन लोकर्पिता जाता। संस्कृति सम्पन्ना संस्कृतभाषा जीवतिI अतः बहूनि पुस्तकानि संस्कृतभाषायाम् अविर्भवन्ति च इति वेङ्कय्यनायिडु महोदयेन उक्तम्।
भारत-सर्वकारस्य सूचना-प्रसारण-मंत्रालयान्तर्गत-प्रकाशनविभागेन प्रकाश्यमाना दशाधिक- पुस्तकानां मध्ये एषा प्रथमा पुस्तकमाला अस्ति।
हिंदी-भाषायां डॉ. मधु-पन्त-विरचिता "स्वच्छ जंगल की कहानी, दादी की जुबानी" नाम्नी पुस्तकमाला संस्कृते स्वनामधान्येन विख्यात- विदुषा डॉ. बलादेवानंद-सागर-महाभागेन अनूदिता।
एषा पुस्तकमाला प्रकाशनविभागस्य "एक भारत-श्रेष्ठ भारत" शृंखलान्तर्गतं 15-भारतीय- भाषासु अनूदिता। बालसहज-काव्यरूप- पुस्तकेषु एतेषु स्वच्छता-आचारणाय प्रोत्साहनं प्रदीयते।
एतेषां पुस्तकानां गुजराती-भाषिकोsनुवाद: अपि डॉ.बलदेवानन्द-सागरेण विहितोsस्ति ।