OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, May 6, 2017

 एस् एस् एल् सि २०१७ - विजयः प्रतिशतं ९५.९८ 
कोच्ची> केरले अध्ययनप्रणालीपरिष्करणानन्तरं प्रथमतया आयोजितायाः दशमीकक्ष्यापरीक्षायाः मूल्यनिर्णयफलं प्रसिद्धीकृतम्। सार्धचतुर्लक्षाधिकं छात्रेषु परीक्षां लिखितवत्सु सप्तत्रिंशत्सहस्राधिकचतुर्लक्षं छात्राः उपरिपठनार्हतां प्राप्तवन्तः। [प्रतिशतं ९५.९८]।
   सप्तषष्ट्यधिक नवशतोत्तर विंशतिसहस्रं छात्राः सर्वेषु विषयेषु   ए-प्लस् श्रेणीं प्राप्तवन्तः।[ प्रतिशतं ४.६]। प्रतिशतविजये पत्तनंतिट्टा जिल्ला प्रथमस्थानं प्राप्तवती - ९८.८२ प्रतिशतम्।अन्तिमस्थाने तु वयनाट् जिल्ला - ८९.६५ प्रतिशतम्। ११७४ विद्यालयेषु सर्वे छात्राः विजयीभूताः। तेषु सर्वकारविद्यालयानां संख्या ४०५ भवन्ति।


 निर्भया विषये मृत्युदण्डनम् अङ्गीकृतम्। 
नवदिल्ली > राष्ट्रवित्रस्ते निर्भयायाः उपरि कृतबलात्कारहत्याविषये यत् उच्चन्यायालयेन विहितं  चतुर्णामपि अपराधिनां मृत्युदण्डनं तत् सर्वोच्चन्यायालयेन अङ्गीकृतम्। मृत्युदण्डः निराकरणीयः इति अपराधिभिः समर्पितम् आवेदनं नीतिपीठेन निरस्तम्।  निर्लज्जं राक्षसीयम् अतिक्रूरं च आक्रमणमेव अपराधिभिः कृतमिति न्याय. दीपक् मिश्रा वर्यस्य अाध्यक्षत्वेन विद्यमानेन त्र्यङ्गनीतिपीठेन उक्तम्। मृत्युदण्डं  विधातुं युक्तः अपूर्वेषु अपूर्वंः व्यवहारः भवत्येष इति नीतिपीठेन निरीक्षितम्।
    अपराधिनां कृते उच्चन्यायालयेन  विहितं मृत्युदण्डं निरस्य आजीवनान्तः कारागारवासः कल्पनीयः इति अमिक्कस् क्यूरि न्यायाधीशैः परिदेवनं कृतमित्यतः आकाङ्क्षापूर्वमेव राष्ट्रं विधिं प्रतिक्ष्यमाणम् अवर्तत।
निर्वाचनयन्त्रम् - द्वादशदिनाङ्के सर्व सदस्यमेलनम् ।
नवदेहली> निर्वाचनयन्त्रेषु दोषारोपणमधिकृत्य चर्चितुं यन्त्राणि सुरक्षितानि इति स्थापयितुं च निर्वाचनाधिकृतः सर्वसदस्यमेलनाय आह्वानमकरोत् ।
अस्मिन् मासे द्वादशदिनाङ्के  देहलीस्थे निर्वाचनसदने एव मेलनम् । उत्तरप्रदेशनियमसभानिर्वाचने    देहलीतद्देशनिर्वाचने च बा. ज. पा. दलस्य महाविजयप्राप्तौ एव निर्वाचनयन्त्रेषु दोषानारोप्य आम् आद्मी दलीयाः, बि. एस् . पि. दलीयाः च अग्रे आगाता: ।
अस्मिन् सन्दर्भे सर्वसदस्यमेलनाय  आह्वानम् कर्तुं यन्त्रेषु दोषाविष्करणमसाध्यमिति  स्थापयितुं च  निर्वाचनाधिकृत: स्पष्टीकरोति स्म ।

Friday, May 5, 2017

G SAT 9 प्रतिवेशिकराष्ट्राणां कृते भारतस्य उपहारः
नवदिल्ली>सार्कसाटलेट् उपग्रहविक्षेपणम् अद्य सम्पन्नम्।  दक्षिणएष्या राष्ट्रेभ्यः उपहाररूपेण उपग्रहः संमानयिष्यति इति प्रधानमन्त्रिणः वाग्दानं  याथार्तः अभवत्।  जि साट्  ९ उपग्रहः मय् मासे पञ्चम दिनांके विक्षेपणं करिष्यति इति प्रधानमन्त्रिणा स्वकीय रेडियो प्रभाषणे मन् की बात् मध्ये प्रख्यपितम् आसीत् ।
ऐ एस् आर् ओ एव उपग्रहस्य विक्षेपणं अकरोत्।  पूर्वं सार्कसाटलेट् इति आसीत् नाम। पुनः पकिस्तनास्य विप्रतिपत्या तान् तिरस्कृत्य सौत् एष्यन् उपग्रहः इति नामकरणम् अकरोत् उपग्रहस्य भारं २१९५ किलोमितम् अस्ति।
२०१४ मध्ये काद्मण्डु सार्क संमेलने एव प्रधानमन्त्रिणः प्रख्यापनम्  अभवत्।
१२ वर्षपर्यन्तं वार्तविनिमये उपग्रहस्य सेवनं लप्स्यते प्रकृति दुरन्ताणां प्रवचनमपि लप्स्यते। विभिन्न सार्क राष्ट्रेभ्यः अनुगुणं भवति उपग्रहस्य सेवनम्।
काश्मीरसम्बन्धिन्यः समस्याः, राष्ट्रस्य हस्तक्षेपः नास्तीति चैना।
बैय्जिङ्- काश्मीर समस्या भारतस्य पाक्किस्थानस्य च मध्ये वर्तते। तत्र मध्यस्थचर्चायै नास्तीति चैना। काश्मीर विषये चैनायाः स्थानं व्यक्तं स्थिरं च भवति। भारतस्य पाक्किस्थानस्य च इतिहासस्य भागमस्ति काश्मीर संम्बन्धीनि समस्याः ।उभयकक्षि चर्चाभिः ताः परिहर्तव्याः इति चैनीस् विदेशकार्य मन्त्रालयेन विज्ञापितम्। काश्मीर विषये तृतीयस्य राष्ट्रस्य हस्ताक्षेपः सर्वदा भारतं न इच्छति।
तृश्शूर् पूरं - स्फोटकोत्सवाय सोपाधिकानुमतिः।
तृश्शिवपेरूर् > तृश्शूर् पूरम् इति विख्यातस्य तृश्शिवपेरूर् मन्दिरोत्सवस्य अंशत्वेन प्रचाल्यमानाय स्फोटकोत्सवाय सोपाधिकानुमतिः। तीव्रध्वनियुक्तानि निरुद्धरासवस्तुयुक्तानि च स्फोटकानि अपहाय परम्परागतस्फोटकपदानि उपयोक्तुं स्फोटकनियन्त्रणाधिकारिणा अनुमतिः लब्धा। 
     श्व एव तृश्शूर् पूरम्। ह्यः सम्पन्नः आदर्शस्फोटकोत्सवः शब्दकठोरात् नयनमनोहरेण वर्णसङ्घातेन आस्वाद्यकरः आसीत्।

कोच्ची मेट्रो सुरक्षा अवलोकनम् अद्य समाप्यते। 
कोच्ची >यात्रानुमत्याः परिकल्पनाय दिनत्रयेण  क्रियमाणं कोच्ची मेट्रो रेल् यानयोजनायाः  सुरक्षावलोकनं शुक्रवासरे समाप्यते। सुरक्षाधिकारिणः के ए मनोहरस्य नेतृत्वे विद्यमानेन सङ्घेनैव अवलोकनं क्रियते।
     आलुवा निस्थानात् बुधवासरे आरब्धं निरीक्षणं अद्य मुट्टं यार्ड् स्थानस्य अवलोकनेन समाप्यते। अस्य आवेदनम् अचिरेणैव समर्पयिष्यते। तदाधारीकृत्य सुरक्षाप्रमाणपत्रं लभते।
 सीमायां पुनरपि पाकिस्थानस्य प्रकोपनम्;  शक्तियुक्तम् प्रतिरुद्ध्य भारतसैन्यम्
            श्रीनगरम्> जम्मु - काश्मीरस्य सीमायाम् अतिशक्तगोलिकास्त्रप्रयोगै: पुनरपि पाकिस्थानपक्षत: प्रकोपनम् । पूञ्च् मण्डलस्य मेन्दरमेखलायामेव पाक् मेखलासैनिका: अतितीव्रगोलिकास्त्रप्रयोगं कृतवन्त: । भारतम् च अतिशक्तम् प्रत्युत्तरम् अदात् । मेखलायाम् पाकिस्थानेन मध्ये मध्ये गोल्यस्त्रप्रयोग: क्रियमाण: वर्तते । सैनिकानाम् मृतदेहा: विकृतं कृता: पाकिस्थानेन । पाकिस्थानस्य  अमुं आचरणम् प्रति भारतेन प्रत्याक्रमणसूचना दत्ता आसीत् । तन्मध्ये एव अनस्यूतं गोल्यस्त्रप्रयोगलङ्घननियमम् उल्लङ्घ्य पाकिस्थानेन प्रकोपनम् अनुवर्तते। प्रात: २.३० (  सार्ध द्विवादने  ) आरब्धं गोल्यस्त्रवर्षम् घण्टात्रयं यावत् अनुवर्तितम्।   द्वौ भारतसैनिकौ निष्ठुरं  हत्वा मृतदेहौ प्रति अनादरम् आचरितम् पाकिस्थानेन इत्यत: अतिशक्तप्रतिरोधाय तथा प्रत्याक्रमणायापि केन्द्रसर्वकारै: सैन्याय सम्पूर्णस्वातन्त्र्यं दत्तम् ।


सैनिकयो: शिरच्छेदरूपस्य किरातप्रक्रियाम् पाकिस्थानं जाग्रतानिर्देशो दत्त:
नवदिल्ली >सैनिकयो: शिरच्छेदरूपस्य किरातप्रक्रियाम् प्रति उचितरीत्या प्रतिषेध: क्रियते इति असन्दिग्धभाषायाम्  पाकिस्थानं प्रति भारतेन जाग्रतानिर्देशो दत्त:। षण्मासाभ्यन्तरे  तृतीयवारमेव भारतसैनिकानाम् मृतदेहा: विकृतं कृता: पाकिस्थानेन। किन्तु सैनिकानाम् मृतदेहान् अनादृत्य किमपि न कृतवन्त: इति वादमुखम् उन्नीयत्  पाकिस्थानम्  भारतस्य प्रतिकरणं विमृशति च।   तन्मध्ये षोप्पियाने मण्डलन्यायालयाङ्कणवर्तिनं  आरक्षकस्तूपम् अतिक्रम्य आगता: भीकरा: सेनाया: गोलिकायुधान् गृहीत्वा गतवन्त:। रक्षाम् प्राप्तानाम् भीकराणां कृते अन्वेषणम् ऊर्जितम् अनुवर्तते । सन्दर्भेस्मिन् पञ्च आरक्षका:  सेवनरताश्चेदपि एतान् अतिक्रम्य एव भीकरा: गोलिकायुधै:  धाविता: । पञ्च आरक्षकान् अपि  तात्कालिकरीत्या उद्योगात् निष्कासितवन्त: इति अधिकारिण:  आवेदयन् । भूसेनामेधावी  बिपिनरावत:  श्रीनगरं सन्दर्श्य सुरक्षाक्रमीकरणस्य स्थितिं निरीक्षितवान्  । तदनन्तरमेव पाकिस्थानस्य प्रकोपनम् ।।

Thursday, May 4, 2017

कोलम्बस् वर्यस्य महानौकायाः नौकाबन्धी उपलब्धः।
वाषिङ्टण्>  करीबियायाः द्वीपसमूहानां मध्ये सागरान्तर्भागात् लब्धा पुरातनी नौकाबन्धी क्रिस्तफर् कोलम्बस् वर्यस्य इति निधिग्राहकाः। लोकाधिनिवेशकालस्य पञ्चानां नौकानां छेदप्रदेशेषु कृते अन्वेषणे एव पुरातनवस्तुभिः सह नौकाबन्धी अपि उपलब्धः। डारल् मिल्कोस् भवति अन्वेषण सङ्घस्य अध्यक्षः।
अमेरिक्का राष्ट्रस्य बाह्याकाश सञ्चारिणा गोर्डन् कूपर् नामकेन बाह्याकाशे स्थित्वा निर्मितेन भूमानचित्रमुपयुज्य आसीत् मिल्कोस् वर्यस्य अन्वेषणम्। डिस्कवरि वाहिनी द्वारा प्रसारिते कूप्पेस् ट्रषर् नाम श्रृङ्खलाकार्यक्रमे आसीत् अस्याः वार्तायाः प्रसारणम्।

कोलम्बस्
नवीनं लेकम् अन्विष्य १४९२ तः आरभ्य बहुवारं नौकायात्रां कृतवान्।  १४९२ तमे ओक्टोबर् मासस्य १२ दिनाङ्के बहमास् द्वीपे नौका प्राप्ता। एषः भूखण्डः एव पश्चात् अमेरिका इति प्रख्यातः। तत्पूर्वं तादृशः भूखण्डः अस्ति इति ज्ञानं लोके नासीत्I

नौकाबन्धिनः कालः 
५४५-६८० किलो मितः भवति नौकाबन्धिनां भारः। कोलम्बस् वर्यस्य कालेषु नौका बन्धिनीनां भारः एतदेव भवति। अयं बन्धी स्पेयिन् राष्ट्रे निर्मितः इति गोवषकाः अभिप्रयन्ति। स्पेयिन् राष्ट्रस्य राज्ञः अनुज्ञया आसीत् कोलम्बस् वर्यस्य समुद्रयात्रा।

दूरदर्शनं, आकाशवाणी आवेदनं श्रोतुं केन्द्र सर्वकारस्य संविधानम्।

नवदेहली>दूरदर्शनं भिन्नतरङ्गस्थाः, आकाशवाणी,एफ् एम् आकाशवाणी,सामाजिकाकाशवाणी इत्यादीनां कार्यक्रमाः, वार्ताः, विज्ञप्तिः इत्यादीन् अवलम्ब्य जनानाम् आक्षेपान् अभिप्पायान् च विमर्शयितुं अथवा परिगणयितुं केन्द्र सर्वकारेण सौविध्यं कृतम्।
सर्वकारस्तरे प्रथमवारम् एवं कार्यान्वयनम्।
जिल्लायां जिल्ला मजिस्ट्रेट् , आरक्षक कम्मीषणर् च स्तः अस्य अधिकारिणौ। सामान्यजनाः आवेदनानि तयोः सकाशे दातुं प्रभवन्ति। तस्मादतिरिच्य केन्द्र सर्वकारस्य pgportal.gov.in द्वारा अपि अवेदनानि दातुं शक्यते।

समीपस्थ-राष्ट्राणां कृते भारतस्य उपहारः
सार्कसाटलेट् उपग्रह विक्षेपणं मेय् मासे पञ्चम दिनांके दक्षिणएष्या राष्ट्रेभ्यःउपहारः रूपेण उपग्रहः संमानयिष्यति इति प्रधानमन्त्रिणः वाग्दानं मेय् मासे पञ्चम दिनांके याथार्तः भवति।  जि साट्  ९ उपग्रहः मय् मासे पञ्चम दिनांके विक्षेपणं करिष्यति इति प्रधानमन्त्रिणा स्वकीय रेडियो प्रभाषणे मन् की बात् मध्ये प्रख्यपितम्।
ऐ एस् आर् ओ एव उपग्रहस्य विक्षेपणं करिष्यति।  पूर्वं सार्कसाटलेट् इति नामकरणम् अकरोत्। पुनः पकिस्तनास्य विप्रतिपत्या तान् तिरस्कृत्य सौत् एष्यन् उपग्रहः इति नामकरणम् अकरोत् उपग्रहस्य भारं २१९५ किलोमितम् अस्ति।
२०१४ मध्ये काद्मण्डु सार्क संमेलने एव प्रधानमन्त्रिणः प्रख्यापनम्  अभवत्।
१२ वर्षपर्यन्तं वार्तविनिमये उपग्रहस्य सेवनं लप्स्यते प्रकृति दुरन्ताणां प्रवचनमपि लप्स्यते। विभिन्न सार्क राष्ट्रेभ्यः अनुगुणं भवति उपग्रहस्य सेवनम्।
जम्मूकाश्मीरराज्ये पुनः भीकराक्रमणम्। सप्त हताः तेषु पञ्च आरक्षकः।
नवदेहली>जमन्मूकाश्मीरराज्ये भीकरैः कृते आक्रमणे पञ्च आरक्षकाः द्वे वित्तकोश कार्यकर्तारः च हताः। जम्मु आण्ट् काश्मीर वित्तकोशस्य कुल्गां शाखां रूप्यकाणि स्वीकृत्य गच्छन्तं वाहनं प्रति आसीत् आक्रमणम्। क्षतबाधिताः समीपस्थम् आतुरालयं प्रवेशितवन्तः।
धनापहरणमासीत् भीकराणां लक्ष्यम्। किन्तु सुरक्षा कार्यकतॄणां परिश्रमेण तत् श्रमं पराजितम्। पलायितान् भीकरान् सुरक्षा कर्मकराणाम् अन्वेषणम् ऊर्जितं जातम्।
 अद्य प्रातः पूञ्च् जिल्लायां नियन्त्रणरेखायाः समीपे क्षेपणी आक्रमणेन पाक् सेनया द्वे भारतीयौ सैनिकौ हतौ। तयोः मृतदेहौ विकृतौ कारितौ च। तस्य प्रतिक्रिया करिष्यतीति भारतीयसेनया व्यक्तीकृतम्। तस्य अनन्तरमस्ति एतत् आक्रमणम्।

अनन्तनाग् उपनिर्वाचनं निरस्तम्।
नवदिल्ली>जम्मु काशमीरे अनन्तनाग् लोकसभामण्डले मेय् पञ्चविंशतितमे दिनाङ्के कर्तुं निश्चितम् उपनिर्वाचनं निर्वाचनशासनेन अपाकृतम्। जम्मु काश्मीरे अनुवर्तमानस्य भीकराक्रमणस्य सङ्घर्षस्य च आधारे एव एतादृशः निर्णयः।
    एप्रिल् द्वादशदिनाङ्के निर्णीतं निर्वाचनमासीत् मेय् मासं परिवर्तितम्। किन्तु इदानीम् ओक्टोबर् मासे उपनिर्वाचनं कर्तुमेव पर्यालोचना वर्तते।

Wednesday, May 3, 2017

Episode-44 Sanskrit News

Tuesday, May 2, 2017


जनप्रतिनिधयः जनैः सह अवतीर्णवन्तः। प्रतिषेधसमरे भागं स्वीकृतवन्तः।
कोच्ची> ओपरेषन् पालरुवी नाम संग्राम: आसीत् अयम् । केरलेषु नूतनतया धाव्यमानं पालरुवी नाम रेल्यानं रेल् निस्थानेषु स्थगयितुमेव इदम् आन्दोलनम्। नियमसभा सामाजिकाः प्रादेशिक सर्वकारस्य शासन समित्यध्यक्षाः - सभाङ्गाश्च आन्दोलने यात्रिकैः सह भागं स्वीकृतवन्तः। चालक्कुटि मण्डलस्य नियम-सभा सामाजिकः बी डि देवसि प्रतिषेध-समरस्य उद्घाटनम् अकरोत् कोटुङ्ङ्ल्लूर् मण्डलस्य सामाजिकः वि आर् सुनिल् कुमारः मुख्यभाषणम् अकरोत्।
पुनलूरुदेशतः पालक्काट् पर्यन्तं प्रतिदिनं गच्छति यानम्। किन्तु प्रधानेषु रेल् निस्थानेषु न स्थगति। इडप्पल्लि कोरट्टि इरिङ्ङालक्कुटा नेल्लायी पुतुक्काट् वटक्काञ्चेरि नामकेषु रयिल् निस्थानेषु यानस्य स्थगनाय एव इदं जनकीय आन्दोलनम्। समर भटाः श्यामवर्णयुक्तेन वस्त्रखण्डेन वदनं पिधाय प्रतिषेधं प्राकाशयन् । विविधेषु रेल् निस्थानेषु बहवः जनाः भागभाजः अभवन्।
 कोयम्पत्तूरु - पोल्लाच्ची मार्गे बस् यानानां धावनस्पर्धा ; चालकानाम् उद्योग: नष्ट: ।।
              कोयम्पत्तूरु >कोयम्पत्तूरु - पोल्लाच्ची राजमार्गेण धावनस्पर्धीं क्रियमाणयो: बस् यानयो:  चलनचित्रदृश्यम् सामाजिकमाध्यमेषु  स्फुलिङ्गम्  अभवत् । यानचालनस्य आधारतत्वानि अपि  बोधपूर्वं विस्मृत्य धावनस्पर्धां कुर्वतो: बस्  यानयो: दृश्यं कश्चन द्विचक्रिकाकार: स्वीकृतवान्। तत: दृश्यचित्रमेतत्  समाजनाध्यमेषु आगतेषु द्वयो: बस् चालकयो: सकाशं तीव्रविमर्शनानि एव आगच्छन्ति। घटना विवादपूर्णा जाता इत्यत: द्वयो: चालकयो: चालनसामर्थ्यपत्रं निश्चलीकृतम्। अपघातपरं चालनं केन्द्रीकृत्य द्वौ आरक्षकै:  न्यायालयव्यवहाराय पञ्चीकृतौ। पुनर्निर्माणप्रवृत्तिसूचकेन मार्गेण अतिसाहसिकतया  धावनस्पर्धां कृता यानचालकै: इति दृश्येभ्य: स्पष्टम्। पुरोवर्तिनं यानमुल्लङ्घितुं गतागतनियमान् सर्वानपि लङ्घयन्ति चालका: , परं यात्रिकाणां प्राणापायविषये ते लेशमात्रोपि न बोधवन्त: इत्यपि दृश्यानि स्पष्टीकुर्वन्ति । बस् यानानां  धावनस्पर्धां  दृष्ट्वा  प्रतिदिशि आगच्छन्ति वाहनानि अतिश्रमकरं चालनं कृत्वैव अपघातात् रक्षां प्राप्नुवन्ति। उभयदिशि यानेषु अतिवेगं गच्छत्सु  तन्मध्ये प्राणं गृहीत्वा एव अन्ये चालका: यानानि चालितवन्त: इत्यपि व्यक्तमेव । यानयात्रिकाणां कार्यमपि व्यत्यस्तं नास्ति ।
अद्भुतं संसृज्य गोत्रछात्राः।
भोप्पालः>जाम्बुवादेशस्थाः पञ्चपञ्चाशत् गोत्रवर्गछात्रैः  अद्भुतं कार्यं कृतम्। अस्य संवत्सरस्य ऐ ऐ टी- जे इ इ प्रधान परीक्षायाम् उ न्नbतविजयं प्राप्य ते अभियान्त्रिक बिरुदाय प्रवेशनं प्रापुः।
जाम्बुवादेशे अधारसौविध्यानाम् अभावः,निरक्षरता च वर्तेते। एतादृशानि असौविध्यानि अतिजीव्य एव ते एतत् विजयं स्वीचक्रुः। लघु ग्रामीणाः एते छात्रः बहु दूरं पद्भ्यां गत्वा एव पठन्ति स्म।
जाम्बुवा जिल्ला पञ्चायत् कार्यकर्ता अनुराग् चौधर्या  छात्राणाम् अध्ययनाय सौविध्यं निर्मितम्। सर्वकार विद्यालयानां प्रगल्भान् अध्यापकानुपयुज्य विशिष्ट परिशीलनं कृतम्।गतसंवत्सरे त्रिंशत् छात्राः योग्यतां प्रापुः । आगामिनि संवत्सरे पञ्चशतं छात्राणाम् अस्ति लक्ष्यमिति अनुराग् चौधरी अवदत्।

Monday, May 1, 2017

श्रीशङ्करजन्मदिनाघोषोत्सवे कालटी ग्रामः।
कालटी >अद्वैतवेदान्तप्रतिष्ठापकस्य श्रीशङ्कराचार्यस्य जन्मग्रामः कालटी जन्मदिनाघोषलहर्यां निमग्ना वर्तते। आदिशङ्करजन्मभूमिक्षेत्रं वर्तमाने श्रृङ्गेरी शारदादेवीमन्दिरे , कुलदेवतास्थाने श्रीकृष्णस्वामिमन्दिरे ,  श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये,श्रीरामकृष्णाश्रमे , श्रीशङ्करकलालये च विविधाः सांस्कृतिक - आध्यात्मिक - कलाकार्यक्रमाः प्रचलन्तः वर्तन्ते।
   श्रीशङ्करस्य कुलदेवतास्थाने श्रीकृष्णमन्दिरे ३२ वैदिकश्रेष्ठानां नेतृत्वे १०,००८वारं दिनद्वयेन कृतः  कनकधारास्तोत्रजपः सम्पूर्णः। जन्मदिने रविवासरे सुकृतहोमः मातृवन्दनं च प्रचलितम्। आदिशङ्करजन्मभूमिस्थाने दिनत्रयात्मकं वाक्यार्थसदः प्रचलदस्ति। आदिशङ्करजन्मदेशविकसनसमित्याः नेतृत्वे सञ्चाल्यमानः महापरिक्रमः राष्ट्ररक्षासहमन्त्रिणा सुभाष् रावु भांरेवर्येण उद्घाटनं कृतम्। काञ्चि शङ्कराचार्यः जयेन्द्रसरस्वतिस्वामिनः अनुग्रहभाषणं कृतवन्तः।

काश्मीरस्य भारतविरुद्ध-समराय पुनरपि साह्यः भविष्यति इति पाक् सैन्यस्य अध्यक्षः।
इस्लामाबाद्> काश्मीराय स्वयं शासनाधिकारप्राप्तये पाकिस्थान पक्षतः पुनरपि साह्यं भविष्यति इति पाकिस्थानीय सैनिकाध्यक्षः जनरल् खमर् जावेद् बाद् व अवदत्।
तत्रत्यानां जनानां अधिकारेषु तथा नियन्त्रणरेखायाः समीपवर्तिनः जनानां अधिकारोपरि च भारतः हस्तक्षेपं कुर्वति इति च जावेदेन उक्तम्I सैन्यस्य अध्यक्षपदवीं स्वीकृत्य नियन्त्रणरेखायाः समीपे सन्दर्शनं कृत्वा माध्यम -प्रवर्तकानां पुरतः भाषमाणः आसीत् सः।
भारतं भीकरवादान् पोषयतिI मनुष्यधिकारः लङ्घयति इत्यादि आरोपणानि निरस्यते । स्वयं निर्णयाधिकारः जीवनाधिकारः च सर्वोषाम् अस्ति इति तेन उक्तम्।


नवभारतम् अतीवप्रधानव्यक्तीनां न ; तत्र सर्वे प्रधाना:- प्रधानमन्त्री मोदी।
      नवदिल्ली> अतीवप्रधानव्यक्तिसंस्कारं  (वी ऐ पी)  परिसमापयितुं  सर्वकाराणां पक्षत:  सजीवसज्जतासु चाल्यमानासु ; वी ऐ पी इति पदस्य  स्थाने समानं नूतनं च पदमाविष्कृत्य प्रधानमन्त्री नरेन्द्रमोदी ।केवलं केचन जना: अतीवप्रधानव्यक्तित्वेन परिगण्यमाने सति ; 'वी ऐ पी ' इति आशयस्य स्थाने  '' ई पी ऐ ''{ every person is important } इति आशयं प्रधानमन्त्री नरेन्द्रमोदी पुरस्कृतवान् । ई पी ऐ  इति आशयानुसारं सर्वेपि व्यक्तय: प्रधाना: । प्रतिमासाकाशवाणीप्रभाषणकार्यक्रमस्य 'मन् की बात्'  इत्यस्य नूतनसम्पुटे  एव समभावनाया: नवसन्देशेन सह  प्रधानमन्त्रिण: रङ्गप्रवेश: । जायमानस्य नवभारतस्य चिह्नेषु सर्वत्र  '' ई पी ऐ '' भविष्यति इति च तेन सूचितम् ।     'अङ्कनभारतम् ' '( डिजिटल् इन्डिया )  इत्याशयेन समं  मोदिना एव प्रचार्यमाण: प्रयोग: भवति ' नवभारतम् '। प्रधानव्यक्तीनां वाहनेषु नील रक्त बीकण दीपानाम् उपयोगं निरुध्य वी ऐ पी संस्कारं प्रतिरोद्धुं  केन्द्रसर्वकारै: क्रियमाणकार्यक्रमाणां पश्चात्तले  एव  एतस्य समानपदत्वेन  ई पी ऐ  प्रयोगमुन्नीय मोदिन: परिष्कार: । राष्ट्रे  स्थित: वी ऐ पी संस्कार: भारतस्य शाप: एव । बीकणरक्तदीपा:  केवलं  वाहनेषु स्थापयन्ति चेदपि  जनानां शिरसि अपि चिह्नमेतत्  मुद्रितं तिष्ठति इति अनुभवात् बोध्यमित्यपि स: उक्तवान् ।वी ऐ पी संस्कारस्य आरम्भ: एव अनेन अभवत् । वाहनेभ्य: यथा रक्त- बीकणदीपा: निष्कासिता:  तथा जनानां शिरोभ्यश्च वी ऐ पी संस्कारस्य रक्तदीपा: निवारणीया: । वी ऐ पी स्थाने सर्वेषां तुल्यतादायकस्य ई पी ऐ इति पदस्यैव नवभारते स्थानम् । राष्ट्रस्य १२५ ( पञ्चविंशत्यधिकशतम् ) पौराश्च समप्रधाना: । सर्वे वयं समभावनया यदा वर्ताम: ; स्वप्नसफलताकाल:  नातिविदूरे  इत्यपि तेन सूचितम् । अन्तरिक्षव्यतियानम् आशङ्काजनकं ; प्रकृते: परिवर्तनानि ज्ञात्वा जीवितव्यम् इत्यपि प्रधानमन्त्री प्रभाषणेन व्यक्तीकृतवान् ।युवजनै: "भोजनदुर्व्यय: मास्तु " इति सन्देश: स्वीकृत: इत्यत्र सन्तोष: अस्ति । ग्रीष्मविरामकाले  बाला:गृहात् बहि: स्थानानि पश्येयु:  नूतनकार्याणि पठेयु: इत्यपि प्रधानमन्त्री  अभिप्रैतवान्
ऐ.एस्. संघघटनायां प्रविष्टाः संघटनां त्यक्वा प्रतिगच्छन्ति इति ऐ.एस् . संघटनाम्प्रति प्रतिप्रहारः । 
नव दिल्ली>आतङ्कसंघटनाप्रवेशानन्तरं संघटनां परित्यज्य मातृराज्यं प्रति निवर्तमानानां संख्या वर्धते। बहव: विदेशयोद्धार: तुर्किमार्गेण यूरोप-एष्यास्थे स्व मातृराज्ये प्राप्नुवन्ति। एतत्  ऐ. एस्. संघटनां प्रति महान् प्रतिप्रहारः एव। समीप काले ऐ. एस्. संघटनातः पलायितयो: तुर्किनगरे गृहीत योः लण्डन्स्वदेशिनो : भीकरी  वार्ता अतीव चर्चाविषयः आसीत् ।
कोत्सां बेगं (२२) , भर्ता स्टीफन् अरिस्टड् च ऐ. एस्. संघटनया आकृष्टौ भूत्वा लण्डनतः इराखदेशं प्राप्तौI बहुभि: पुरुषैः स्त्रीभिः च युक्तेन  संघेन एतौ इराखस्थम् भीकराणां शक्तिकेन्द्रभूतं मोसूल्नगरं प्राप्तौ। किन्तु तत्र प्राप्तौ तौ अतिक्लिष्टजीवितमेव  नीतवन्तौ । तयोः वासगृहे वैद्युती, पर्याप्तं जलं च नास्ताम् । अन्तर्जालद्वारा दृष्टम् जीवितं न ऐ. एस्. केन्द्रस्थं यथार्थजीवितमिति कोत्सां अवदत् ।
स्त्रीणां शारीरिकं मानसिकं च पीडनम् ऐ. एस्. करोति स्म । भीकराज्ञोल्लङ्घिनां तीक्ष्णदण्डनम् ऐ. एस्. इत्यस्य विनोद : आसीत् इति कोत्साम् अवदत् ।
भीतिदेषु दिनेषु एकदा कोत्सां दूरवाणीं कर्तुम् अवसरं प्राप्य मातापितरौ तत्रत्यक्रूरताः अधिकृत्य वक्तुं शक्तवती । ऐ. एस्. संघटनायाः दृष्टिपथात् कोत्सा, तस्याः पतिः , अन्ये योद्धारः च तुर्किदेशं प्रति पलायमानावसरे एव सैनिकैः बद्धाः आसन् । अनन्तरं सेना इमान् अन्वेषणविधेयत्वात् नियन्त्रितानकरोत् । सैन्याय दत्ते अभिमुखभाषणे एव एतत्कार्याणि व्यक्तीक्रियन्ते स्म ।