OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, May 2, 2017

जनप्रतिनिधयः जनैः सह अवतीर्णवन्तः। प्रतिषेधसमरे भागं स्वीकृतवन्तः।
कोच्ची> ओपरेषन् पालरुवी नाम संग्राम: आसीत् अयम् । केरलेषु नूतनतया धाव्यमानं पालरुवी नाम रेल्यानं रेल् निस्थानेषु स्थगयितुमेव इदम् आन्दोलनम्। नियमसभा सामाजिकाः प्रादेशिक सर्वकारस्य शासन समित्यध्यक्षाः - सभाङ्गाश्च आन्दोलने यात्रिकैः सह भागं स्वीकृतवन्तः। चालक्कुटि मण्डलस्य नियम-सभा सामाजिकः बी डि देवसि प्रतिषेध-समरस्य उद्घाटनम् अकरोत् कोटुङ्ङ्ल्लूर् मण्डलस्य सामाजिकः वि आर् सुनिल् कुमारः मुख्यभाषणम् अकरोत्।
पुनलूरुदेशतः पालक्काट् पर्यन्तं प्रतिदिनं गच्छति यानम्। किन्तु प्रधानेषु रेल् निस्थानेषु न स्थगति। इडप्पल्लि कोरट्टि इरिङ्ङालक्कुटा नेल्लायी पुतुक्काट् वटक्काञ्चेरि नामकेषु रयिल् निस्थानेषु यानस्य स्थगनाय एव इदं जनकीय आन्दोलनम्। समर भटाः श्यामवर्णयुक्तेन वस्त्रखण्डेन वदनं पिधाय प्रतिषेधं प्राकाशयन् । विविधेषु रेल् निस्थानेषु बहवः जनाः भागभाजः अभवन्।
 कोयम्पत्तूरु - पोल्लाच्ची मार्गे बस् यानानां धावनस्पर्धा ; चालकानाम् उद्योग: नष्ट: ।।
              कोयम्पत्तूरु >कोयम्पत्तूरु - पोल्लाच्ची राजमार्गेण धावनस्पर्धीं क्रियमाणयो: बस् यानयो:  चलनचित्रदृश्यम् सामाजिकमाध्यमेषु  स्फुलिङ्गम्  अभवत् । यानचालनस्य आधारतत्वानि अपि  बोधपूर्वं विस्मृत्य धावनस्पर्धां कुर्वतो: बस्  यानयो: दृश्यं कश्चन द्विचक्रिकाकार: स्वीकृतवान्। तत: दृश्यचित्रमेतत्  समाजनाध्यमेषु आगतेषु द्वयो: बस् चालकयो: सकाशं तीव्रविमर्शनानि एव आगच्छन्ति। घटना विवादपूर्णा जाता इत्यत: द्वयो: चालकयो: चालनसामर्थ्यपत्रं निश्चलीकृतम्। अपघातपरं चालनं केन्द्रीकृत्य द्वौ आरक्षकै:  न्यायालयव्यवहाराय पञ्चीकृतौ। पुनर्निर्माणप्रवृत्तिसूचकेन मार्गेण अतिसाहसिकतया  धावनस्पर्धां कृता यानचालकै: इति दृश्येभ्य: स्पष्टम्। पुरोवर्तिनं यानमुल्लङ्घितुं गतागतनियमान् सर्वानपि लङ्घयन्ति चालका: , परं यात्रिकाणां प्राणापायविषये ते लेशमात्रोपि न बोधवन्त: इत्यपि दृश्यानि स्पष्टीकुर्वन्ति । बस् यानानां  धावनस्पर्धां  दृष्ट्वा  प्रतिदिशि आगच्छन्ति वाहनानि अतिश्रमकरं चालनं कृत्वैव अपघातात् रक्षां प्राप्नुवन्ति। उभयदिशि यानेषु अतिवेगं गच्छत्सु  तन्मध्ये प्राणं गृहीत्वा एव अन्ये चालका: यानानि चालितवन्त: इत्यपि व्यक्तमेव । यानयात्रिकाणां कार्यमपि व्यत्यस्तं नास्ति ।
अद्भुतं संसृज्य गोत्रछात्राः।
भोप्पालः>जाम्बुवादेशस्थाः पञ्चपञ्चाशत् गोत्रवर्गछात्रैः  अद्भुतं कार्यं कृतम्। अस्य संवत्सरस्य ऐ ऐ टी- जे इ इ प्रधान परीक्षायाम् उ न्नbतविजयं प्राप्य ते अभियान्त्रिक बिरुदाय प्रवेशनं प्रापुः।
जाम्बुवादेशे अधारसौविध्यानाम् अभावः,निरक्षरता च वर्तेते। एतादृशानि असौविध्यानि अतिजीव्य एव ते एतत् विजयं स्वीचक्रुः। लघु ग्रामीणाः एते छात्रः बहु दूरं पद्भ्यां गत्वा एव पठन्ति स्म।
जाम्बुवा जिल्ला पञ्चायत् कार्यकर्ता अनुराग् चौधर्या  छात्राणाम् अध्ययनाय सौविध्यं निर्मितम्। सर्वकार विद्यालयानां प्रगल्भान् अध्यापकानुपयुज्य विशिष्ट परिशीलनं कृतम्।गतसंवत्सरे त्रिंशत् छात्राः योग्यतां प्रापुः । आगामिनि संवत्सरे पञ्चशतं छात्राणाम् अस्ति लक्ष्यमिति अनुराग् चौधरी अवदत्।

Monday, May 1, 2017

श्रीशङ्करजन्मदिनाघोषोत्सवे कालटी ग्रामः।
कालटी >अद्वैतवेदान्तप्रतिष्ठापकस्य श्रीशङ्कराचार्यस्य जन्मग्रामः कालटी जन्मदिनाघोषलहर्यां निमग्ना वर्तते। आदिशङ्करजन्मभूमिक्षेत्रं वर्तमाने श्रृङ्गेरी शारदादेवीमन्दिरे , कुलदेवतास्थाने श्रीकृष्णस्वामिमन्दिरे ,  श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये,श्रीरामकृष्णाश्रमे , श्रीशङ्करकलालये च विविधाः सांस्कृतिक - आध्यात्मिक - कलाकार्यक्रमाः प्रचलन्तः वर्तन्ते।
   श्रीशङ्करस्य कुलदेवतास्थाने श्रीकृष्णमन्दिरे ३२ वैदिकश्रेष्ठानां नेतृत्वे १०,००८वारं दिनद्वयेन कृतः  कनकधारास्तोत्रजपः सम्पूर्णः। जन्मदिने रविवासरे सुकृतहोमः मातृवन्दनं च प्रचलितम्। आदिशङ्करजन्मभूमिस्थाने दिनत्रयात्मकं वाक्यार्थसदः प्रचलदस्ति। आदिशङ्करजन्मदेशविकसनसमित्याः नेतृत्वे सञ्चाल्यमानः महापरिक्रमः राष्ट्ररक्षासहमन्त्रिणा सुभाष् रावु भांरेवर्येण उद्घाटनं कृतम्। काञ्चि शङ्कराचार्यः जयेन्द्रसरस्वतिस्वामिनः अनुग्रहभाषणं कृतवन्तः।

काश्मीरस्य भारतविरुद्ध-समराय पुनरपि साह्यः भविष्यति इति पाक् सैन्यस्य अध्यक्षः।
इस्लामाबाद्> काश्मीराय स्वयं शासनाधिकारप्राप्तये पाकिस्थान पक्षतः पुनरपि साह्यं भविष्यति इति पाकिस्थानीय सैनिकाध्यक्षः जनरल् खमर् जावेद् बाद् व अवदत्।
तत्रत्यानां जनानां अधिकारेषु तथा नियन्त्रणरेखायाः समीपवर्तिनः जनानां अधिकारोपरि च भारतः हस्तक्षेपं कुर्वति इति च जावेदेन उक्तम्I सैन्यस्य अध्यक्षपदवीं स्वीकृत्य नियन्त्रणरेखायाः समीपे सन्दर्शनं कृत्वा माध्यम -प्रवर्तकानां पुरतः भाषमाणः आसीत् सः।
भारतं भीकरवादान् पोषयतिI मनुष्यधिकारः लङ्घयति इत्यादि आरोपणानि निरस्यते । स्वयं निर्णयाधिकारः जीवनाधिकारः च सर्वोषाम् अस्ति इति तेन उक्तम्।


नवभारतम् अतीवप्रधानव्यक्तीनां न ; तत्र सर्वे प्रधाना:- प्रधानमन्त्री मोदी।
      नवदिल्ली> अतीवप्रधानव्यक्तिसंस्कारं  (वी ऐ पी)  परिसमापयितुं  सर्वकाराणां पक्षत:  सजीवसज्जतासु चाल्यमानासु ; वी ऐ पी इति पदस्य  स्थाने समानं नूतनं च पदमाविष्कृत्य प्रधानमन्त्री नरेन्द्रमोदी ।केवलं केचन जना: अतीवप्रधानव्यक्तित्वेन परिगण्यमाने सति ; 'वी ऐ पी ' इति आशयस्य स्थाने  '' ई पी ऐ ''{ every person is important } इति आशयं प्रधानमन्त्री नरेन्द्रमोदी पुरस्कृतवान् । ई पी ऐ  इति आशयानुसारं सर्वेपि व्यक्तय: प्रधाना: । प्रतिमासाकाशवाणीप्रभाषणकार्यक्रमस्य 'मन् की बात्'  इत्यस्य नूतनसम्पुटे  एव समभावनाया: नवसन्देशेन सह  प्रधानमन्त्रिण: रङ्गप्रवेश: । जायमानस्य नवभारतस्य चिह्नेषु सर्वत्र  '' ई पी ऐ '' भविष्यति इति च तेन सूचितम् ।     'अङ्कनभारतम् ' '( डिजिटल् इन्डिया )  इत्याशयेन समं  मोदिना एव प्रचार्यमाण: प्रयोग: भवति ' नवभारतम् '। प्रधानव्यक्तीनां वाहनेषु नील रक्त बीकण दीपानाम् उपयोगं निरुध्य वी ऐ पी संस्कारं प्रतिरोद्धुं  केन्द्रसर्वकारै: क्रियमाणकार्यक्रमाणां पश्चात्तले  एव  एतस्य समानपदत्वेन  ई पी ऐ  प्रयोगमुन्नीय मोदिन: परिष्कार: । राष्ट्रे  स्थित: वी ऐ पी संस्कार: भारतस्य शाप: एव । बीकणरक्तदीपा:  केवलं  वाहनेषु स्थापयन्ति चेदपि  जनानां शिरसि अपि चिह्नमेतत्  मुद्रितं तिष्ठति इति अनुभवात् बोध्यमित्यपि स: उक्तवान् ।वी ऐ पी संस्कारस्य आरम्भ: एव अनेन अभवत् । वाहनेभ्य: यथा रक्त- बीकणदीपा: निष्कासिता:  तथा जनानां शिरोभ्यश्च वी ऐ पी संस्कारस्य रक्तदीपा: निवारणीया: । वी ऐ पी स्थाने सर्वेषां तुल्यतादायकस्य ई पी ऐ इति पदस्यैव नवभारते स्थानम् । राष्ट्रस्य १२५ ( पञ्चविंशत्यधिकशतम् ) पौराश्च समप्रधाना: । सर्वे वयं समभावनया यदा वर्ताम: ; स्वप्नसफलताकाल:  नातिविदूरे  इत्यपि तेन सूचितम् । अन्तरिक्षव्यतियानम् आशङ्काजनकं ; प्रकृते: परिवर्तनानि ज्ञात्वा जीवितव्यम् इत्यपि प्रधानमन्त्री प्रभाषणेन व्यक्तीकृतवान् ।युवजनै: "भोजनदुर्व्यय: मास्तु " इति सन्देश: स्वीकृत: इत्यत्र सन्तोष: अस्ति । ग्रीष्मविरामकाले  बाला:गृहात् बहि: स्थानानि पश्येयु:  नूतनकार्याणि पठेयु: इत्यपि प्रधानमन्त्री  अभिप्रैतवान्
ऐ.एस्. संघघटनायां प्रविष्टाः संघटनां त्यक्वा प्रतिगच्छन्ति इति ऐ.एस् . संघटनाम्प्रति प्रतिप्रहारः । 
नव दिल्ली>आतङ्कसंघटनाप्रवेशानन्तरं संघटनां परित्यज्य मातृराज्यं प्रति निवर्तमानानां संख्या वर्धते। बहव: विदेशयोद्धार: तुर्किमार्गेण यूरोप-एष्यास्थे स्व मातृराज्ये प्राप्नुवन्ति। एतत्  ऐ. एस्. संघटनां प्रति महान् प्रतिप्रहारः एव। समीप काले ऐ. एस्. संघटनातः पलायितयो: तुर्किनगरे गृहीत योः लण्डन्स्वदेशिनो : भीकरी  वार्ता अतीव चर्चाविषयः आसीत् ।
कोत्सां बेगं (२२) , भर्ता स्टीफन् अरिस्टड् च ऐ. एस्. संघटनया आकृष्टौ भूत्वा लण्डनतः इराखदेशं प्राप्तौI बहुभि: पुरुषैः स्त्रीभिः च युक्तेन  संघेन एतौ इराखस्थम् भीकराणां शक्तिकेन्द्रभूतं मोसूल्नगरं प्राप्तौ। किन्तु तत्र प्राप्तौ तौ अतिक्लिष्टजीवितमेव  नीतवन्तौ । तयोः वासगृहे वैद्युती, पर्याप्तं जलं च नास्ताम् । अन्तर्जालद्वारा दृष्टम् जीवितं न ऐ. एस्. केन्द्रस्थं यथार्थजीवितमिति कोत्सां अवदत् ।
स्त्रीणां शारीरिकं मानसिकं च पीडनम् ऐ. एस्. करोति स्म । भीकराज्ञोल्लङ्घिनां तीक्ष्णदण्डनम् ऐ. एस्. इत्यस्य विनोद : आसीत् इति कोत्साम् अवदत् ।
भीतिदेषु दिनेषु एकदा कोत्सां दूरवाणीं कर्तुम् अवसरं प्राप्य मातापितरौ तत्रत्यक्रूरताः अधिकृत्य वक्तुं शक्तवती । ऐ. एस्. संघटनायाः दृष्टिपथात् कोत्सा, तस्याः पतिः , अन्ये योद्धारः च तुर्किदेशं प्रति पलायमानावसरे एव सैनिकैः बद्धाः आसन् । अनन्तरं सेना इमान् अन्वेषणविधेयत्वात् नियन्त्रितानकरोत् । सैन्याय दत्ते अभिमुखभाषणे एव एतत्कार्याणि व्यक्तीक्रियन्ते स्म ।

Sunday, April 30, 2017

तर्जनमनादृत्य उत्तरकोरियायाः आग्नेयशस्त्रपरीक्षणम्। 
सोल् >अमेरिक्कायाः तर्जनं पूर्वसूचनां च अनादृत्य उत्तरकोरियाराष्ट्रेण पुनरपि अग्निशस्त्रपरीक्षणं [मिसैल्] कृतम्। ह्यः प्रभाते विक्षिप्ता के एन् - १७ नामकं मध्यदूराग्नेयशस्त्रं अविलम्बेनैव  भग्नमभवदिति दक्षिणकोरियया निगदितम्। विक्षेपणं भूत्वा होराणामाभ्यन्तरे अमेरिक्कायाः यू एस् एस् काळ् विन्सण् नामिका विमानवाहिनिमहानौका दक्षिणकोरियया सह संयुक्तसैनिकाभ्यासः आरब्धवती।

विरामकालीनकक्ष्याः निरुध्य सामान्यशैक्षिकविभागस्य आदेशः। 
कोच्ची >केरळे विद्यालयेषु  ग्रीष्मविरामकालकक्ष्याः निरुध्य सामान्य शैक्षिकविभागेन आदेशः कृतः। राष्ट्रियबालाधिकारशासनस्य निर्देशमनुसृत्यैव अयं पदक्षेपः।
    सि बि एस् ई , ऐ सि एस् ई विद्यालयाभिव्यापकानां सर्वेषां सर्वकार- धनसाहाय्योपकृत [aided]- स्वाश्रय [unaided ] विद्यालयानां कृते अपि अयमादेशः बाधते।
भारत - सैप्रसाभ्यां मिथ: चतुर्षु सम्मतपत्रेषु  हस्ताक्षरं दत्तम् ।।
         नवदिल्ली >उभयकक्षिबन्धवर्धनस्य भागत्वेन भारत - सैप्रसाभ्यां मिथ:चतुर्षु सम्मतपत्रेषु  हस्ताक्षरं दत्तम् । उन्नततले विद्यमानानां उद्योगस्थानां चर्चानन्तरमेव उभयो: राष्ट्रयो: सम्मतपत्रेषु हस्ताक्षरं दत्तम् । पञ्चदिनात्मकस्य सन्दर्शनस्य कृते सैप्रस्  राष्ट्रपति: भारतं प्राप्तवान् । शास्त्रं , विद्याभ्यास: , सांस्कारिकम् -- इत्येतासु मेखलासु सहकरणसंवर्धनायापि चर्चायां धारणा कृता।

उत्तरकोरियां प्रति सैनिकक्रमाय साध्यतेति ट्रम्प:।
                    वाषिङ्टण् --  उत्तरकोरियां प्रति प्रश्न: उत्तरोत्तरं सङ्घर्षभरित: भवितुं   साध्यता, तच्च सैनिकक्रमपर्यवसायी भवेदिति च यु एस् राष्ट्रपति : डोणाल्ड् ट्रम्प:। राष्ट्रपतिर्भूत्वा शतदिनेषु पूर्तीकृतेषु वार्ताशृङ्खलाभ्य: प्रदत्ते अभिमुखे  एतत्कार्यं व्यक्तीकृतवान्। नयतन्त्रविधानेन प्रश्नपरिहारायैव इच्छा , तथापि युद्धसाध्यतं च नापरिगणयाम: इत्यपि तेनोक्तम् ।
चैनाराष्ट्रपते:षी चिन् पिङस्य  व्यवहारा: एतस्मिन् विषये गु,णकरा: भवेयु: । दक्षिणकोरियां प्रति उदारसमीपने भेदान् कल्पयिष्यति इति सूचना च ट्रम्पेण दीयते। उत्तरकोरियाया: भीषणिम् प्रतिरोद्धुं दक्षिणकोरियायां स्थापितस्य ताड् मिसैल् प्रतिरोधसंविधानस्य व्यय: दक्षिणकोरियया एव वहनीय: भवेत्। शतम् कोटि: डोलर् ( ६५०० कोटि: रूप्यकाणि ) व्यय: भवेत् ताड् संविधानस्य।
अभिमुखे इतरपरामर्शा:
     राष्ट्रपतिपदव्याम् अनुभूयमान: गौरवपूर्ण: प्रश्न: उत्तरकोरिया एव। किम: विवेचनबुद्ध्या व्यवहरेत् इतिप्रतीक्षा अस्तीत्यपि ट्रम्पेण सूचितम्। उत्तरकोरियाविषये चैनाया: व्यवहारान् प्रशंसितवान् ट्रम्प:।
श्री शङ्कराचार्य जयन्ति महोत्सवः समारब्धः। 
https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEiTbtQJcmxuWIJMlunelEWK7JE3vGmjIqC97bmSPmZRueqbAX5CND3NI2T4y8dCVHP_Baa3L5bEQ7u1d7itnzJcgUCJGgHThVONAj2_UOq47dXsG77S9Iu17fma3ogKhB5oaxKvbwBfRHzK/s1600/Shankaracharya-Jayanti-1.jpegकालटी > आदि शङ्करस्य जन्मस्थानम् इति प्रथितां कालट्यां शङ्करजयन्ति महोत्सवः समारब्धः। विभिन्न क्षेत्रेषु विभिन्न कार्यक्रमैः दिनमिदं संपन्नं भविष्यति। आचार्यस्य जन्मक्षेत्रे विद्यमाने शृङ्गेरिमठे विशेष पूजाविधयः सन्ति। समीपस्थे श्रीकृष्ण देवालये कनकधारा महोत्सवः प्रचलति। कनकामलकानि विधिवत् मन्त्रोच्चारणेन पावितानि भक्तेषु लब्धुं सन्दर्भः अत्र अस्ति। श्रीरामकृष्ण अद्वैताश्रमे आचार्यस्य स्मृतिः वर्तते। रविवासरः तथापि श्रीशङ्कराचार्य विश्वविद्यालयस्य अद्य प्रवृत्तिदिनमेव इति सह-कुलपतिना धर्मम राज अटाटेन उक्तम्। विश्व विद्यालये अपि विविधकार्यक्रमैः आचार्यस्य जन्मदिनोत्सवः आघुष्यते। 
ऐ.एस्. संघघटनायां प्रविष्टाः संघटनां त्यक्वा प्रतिगच्छन्ति इति ऐ.एस्. संघटनाम्प्रति प्रतिप्रहारः।
आतङ्कसंघटनाप्रवेशानन्तरं संघटनां परित्यज्य मातृराज्यं प्रति निवर्तमानानां संख्या वर्धते। बहव: विदेशयोद्धार: तुर्किमार्गेण यूरोप-एष्यास्थे स्व मातृराज्ये प्राप्नुवन्ति। एतत्  ऐ. एस्. संघटनां प्रति महान् प्रतिप्रहारः एव। समीप काले ऐ. एस्. संघटनातः पलायितयो: तुर्किनगरे गृहीत योः लण्डन्स्वदेशिनो : भीकरी  वार्ता अतीव चर्चाविषयः आसीत् ।
कोत्सां बेगं (२२) , भर्ता स्टीफन् अरिस्टड् च ऐ. एस्. संघटनया आकृष्टौ भूत्वा लण्डनतः इराखदेशं प्राप्तौI बहुभि: पुरुषैः स्त्रीभिः च युक्तेन  संघेन एतौ इराखस्थम् भीकराणां शक्तिकेन्द्रभूतं मोसूल्नगरं प्राप्तौ। किन्तु तत्र प्राप्तौ तौ अतिक्लिष्टजीवितमेव  नीतवन्तौ । तयोः वासगृहे वैद्युती, पर्याप्तं जलं च नास्ताम् । अन्तर्जालद्वारा दृष्टम् जीवितं न ऐ. एस्. केन्द्रस्थं यथार्थजीवितमिति कोत्सां अवदत् ।
स्त्रीणां शारीरिकं मानसिकं च पीडनम् ऐ. एस्. करोति स्म । भीकराज्ञोल्लङ्घिनां तीक्ष्णदण्डनम् ऐ. एस्. इत्यस्य विनोद : आसीत् इति कोत्साम् अवदत् ।
भीतिदेषु दिनेषु एकदा कोत्सां दूरवाणीं कर्तुम् अवसरं प्राप्य मातापितरौ तत्रत्यक्रूरताः अधिकृत्य वक्तुं शक्तवती । ऐ. एस्. संघटनायाः दृष्टिपथात् कोत्सा, तस्याः पतिः, अन्ये योद्धारः च तुर्किदेशं प्रति पलायमानावसरे एव सैनिकैः बद्धाः आसन् । अनन्तरं सेना इमान् अन्वेषणविधेयत्वात् नियन्त्रितानकरोत् । सैन्याय दत्ते अभिमुखभाषणे एव एतत्कार्याणि व्यक्तीक्रियन्ते स्म ।

Saturday, April 29, 2017

 पुदुच्चेर्यं द्वि-दिवसीय-संस्कृत-कार्यशाला सुसम्पन्ना।
पुदुच्चेरी>पुदुच्चेरीस्थस्य श्री-अरविन्द-भारतीयसंस्कृति-संस्थानस्य पक्षतः द्वि-दिवसीय-संस्कृत-कार्यशाला सुसम्पन्ना। कार्यशालायां हैदराबाद्-सिकन्दराबाद्-नगराद्वयात् षोडश-प्रतिभागिनः (पुरुषाः महिलाश्च) भागं गृहीतवन्तः। एतस्याः कार्यशालायाः दिनद्वयस्य पाठ्यक्रमे ‘देवनागरी लिपिः’ इति विषयसम्बन्धी उच्चारणसहितः सिद्धान्तः अभ्यासः च इत्यादीनि वैज्ञानिकदृष्टिकोण-द्वारा पाठितानि। केषाञ्चन चितानां श्लोकानां मन्त्राणां भक्तिपद्यानां शिशुगीतानां सामान्यगीतानां च गायनं सम्भाषणसंस्कृतम् अपि संस्कृतेन विशेषरूपेण पाठितम्। “शिक्षक-कौमारौ कुमारी वी. आश्रिता, कुमारः वी. श्रीकरः च सम्भाषणसंस्कृतस्य वर्गानां सञ्चालनं कृतवन्तौ” इति एतस्याः कार्यशालायाः विशेषता।
 शालायाः समारोप-समारोहः एप्रिल्-मासस्य षोडश-दिनाङ्के सायङ्काले पञ्चवादनतः सम्पन्नः। एतस्यावसरे हैदराबाद्-नगरस्थः प्रसिद्धसंस्कृतपण्डितः श्रीमान् ओगेटि कृपालुः समारोहस्य अध्यक्षासनं गृहीतवान्। हैदराबाद्-नगरस्थः हैदराबाद्-विश्वविद्यालयस्य संस्कृत-अध्ययन-विभागस्य प्रोफेसर् डॉ. जे.एस्.आर्. आञ्जनेय प्रसाद् मुख्य-अतिथिः अभवत्। द्वौ महानुभावौ संस्कृतभाषाध्ययनस्यावश्यकतां उक्तवन्तौ। तत्परं तौ प्रमाण-पत्र-वितरणम् अकरुताम्। तत्पूर्वं प्रतिभागिनः कार्यशालावसरे प्राप्तान् तेषां स्वानुभवान् प्रकटितवन्तः, सन्तृप्तिं सन्तोषञ्च सूचितवन्तः।
अस्य संवत्सरस्य अशोकन् पुरनाट्टुकरा- भारतमुद्रा पुरस्काराय के अरविन्दाक्षःचितः।
तृश्शूर् >प्रसिद्ध संस्कृतभाषा साहित्यपण्डितः, विवर्तकः,पत्रिकाकार्यकर्ता,शिक्षकः च आसीत् अशोकन् पुरनाट्टुकरा। तस्य स्मरणार्थं दीयमानाय भारतमुद्रा पुरस्काराय विख्यात परिस्थतिप्रवर्तकः के  अरविन्दाक्षः  निर्वाचितः। डा. जयपोलः, डा.वि के विजयः,एन् राजगोपालः इत्यादि विधिकतॄणां श्रेण्या चयनमिदं कृतम्।१०००० रूप्यकाणि प्रशस्तिपत्रं फलकं च  सन्ति अस्मिन् पुरस्कारे।
 मेय् मासस्य नवमदिनाङ्के पञ्चवादने तृश्शूरसाहित्याक्कादम्यां अशोकन् पुरनाट्टुकरा अनुस्मरण सम्मेलने प्रशस्तसाहित्यकारः सी आर परमेश्वरः पुरस्कारदानं करिष्यति।
संयुक्तप्रवेशपरीक्षायां १००% अङ्केन कल्पितवीर्वल:  प्रथमस्थाने ।
             नवदिल्ली > संयुक्तप्रवेशपरीक्षाया: प्रधानपरीक्षायां राजस्थानस्य उदयपुरादागत: कल्पितवीर्वल:  सम्पूर्णाङ्कान् प्राप्तवान्। षष्ट्युत्तरत्रिशते  षष्ट्युत्तरत्रिशतम् अङ्कान् स: प्राप्तवान् (३६०/३६०)। राष्ट्रस्य एकसहस्रं सप्तशतम् एकाशीति:( १७८१) केन्द्रेषु दश दशांशम् द्वे ( १०.२ ) लक्षं छात्रा: जे ई ईम्  लिखितवन्त:। ऐ ऐ टी षु  ,एन् ऐ टी षु , बी टेक् , बी आर्क् , बी ई प्रवेशनानां कृते चाल्यमाना परीक्षा एव संयुक्तप्रवेशपरीक्षा । पूर्वमेव भारत-बाल-वैज्ञान ओलिम्ब्याड् (इन्डियन् जूनियर् सयन्स् ओलिम्ब्याड् ) देशीय सामर्थ्यान्वेषणपरीक्षा ( नाषणल् टालन्ट् सेर्च् )इत्येतासु परीक्षासु कल्पित: प्रथमस्थानं प्राप्तवान् आसीत् । क्रिकट् , बाड्मिन्टण आदिषु तत्पर: अयम् मुम्बै ऐ ऐ ट्याम्  प्रवेशनम् इच्छति । प्रतिदिनं पञ्चत: षट् पर्यन्तं घण्टा:  कल्पितस्य पठनवेला । कदापि स: कक्ष्यानष्टं न सहते स्म । तस्य पिता उदयपुरस्थ महाराणा भूपल सर्वकारीयातुरालये  औषधदाता (Compounder)भवति । माता पुष्पा वीर्वल: अध्यापिका। ज्येष्ठसहोदर: एयिंस् मध्ये  वैद्यकीयछात्र:।

Friday, April 28, 2017

विजयस्य अहंकार: त्यजनीय:, जनसेवाया: संकल्पं कुर्याम: - नितीनगडकरी
नवदिल्ली>भारतीयजनतापक्षस्य कार्येण राष्ट्रे राज्ये च परिवर्तनम् भावयन् अस्ति। भाजपदलं मतं दातुम् चेत् अस्माकं विकास: भविष्यति, एवं मत्वा जना: जाति-पंथ –धर्म इत्यादय: भेदा: विस्मृत्य भाजपदलं विजयी कारयन् सन्ति। महाराष्ट्रराज्येषु महापालिका-नगरसंस्था निर्वाचने भाजपादलस्य विजयात् अहंकार: मा भवेत् अपितु जनसेवाया: संकल्पं कुर्याम:, इति केंद्रीय मार्गयातायात अपि च महामार्गमंत्री नितीनगडकरी पुणेनिकटस्थे चिंचवडनगरे अकथयत्।
भारतीयजनतापक्ष महाराष्ट्र प्रदेश कार्यसमिति समावेशस्य उद्घाटन अवसरे गडकरीमहोदय: कार्यकर्तारम् संबोधितवान्। महाराष्ट्रस्य मुख्यमंत्री देवेंद्रफडणवीस:, भाजपदलस्य राष्ट्रीय सहसंघटनमंत्री वी. सतीशजी, केंद्रीयमंत्री प्रकाशजावडेकर:, हंसराज अहीर:, डॉ. सुभाषभामरे इत्यादय: अन्य नेतारश्च अवसरेsस्मिन् उपस्थिता: आसन्त:।
 गडकरीमहोदयः अकथयत्, यत् महाराष्ट्रराज्ये भाजपदलेन अधिगतेन विजयात् देशे भाजपकार्यकर्तार: प्रसन्ना: अभवन्त:। यदा विजयस्य आनंदम् अस्माभि: प्रकटितम् कार्यते तदा येषां परिश्रमेन त्यागेन च दलं अधुना शुभदिना: पश्यन् अस्ति तेषां पुरातनानाम् कार्यकर्तारम् न विस्मर्तव्यम्।
"अद्य यावत् काँग्रेस – राष्ट्रवादी काँग्रेसदलेन यत् शोषणम् कृतम् तत्कारणात् एव कृषका: आत्मघाता: कुर्वन्ति। भाजपसर्वकार: तत्र दोषभागी नास्ति," एतदपि आरोपं स: कृतवान्।
कृष्णाङ्गारः अनधिकृतविक्रयणम्। सी बी ऐ संस्थया पूर्व निदेशकं प्रति  आरोपितापराधित्वेन प्रक्रिया आरब्धा।
नवदेहली>कृष्णाङ्गार खनीनां अनियमरीत्या विक्रयणं जातमित्यागतस्य भ्रष्टाचारस्य  अन्वेषणे रञ्जित् सिहः स्वकीयस्य कर्तव्यस्य दुरुपयोगं कृतवान्। तस्मिन् विषये पूर्वतनस्य सी बी ऐ निदेशकस्योपरि अपराधारोपणं पञ्चीकृत्य अधिकान्वेषणम् आरब्धम्।
प्रशान्त भूषणस्य नेतृत्वे प्रवर्तमानया कोमण् कोस् इति संस्थया रञ्जित् सिहं प्रति अन्वेषणाय निर्देशम् अकरोत्। आरोपणविधेयैः जनैः सह मेलनमकरोदित्यासीत् प्रथमम् आरोपणम्। प्रथमदृष्ट्या रञ्जित् सिहः अधिकारस्य दुर्विनियोगम् अकरोदिति विशिष्ट न्यायालयेन निरीक्षितम्।
एडप्पाडी  पलनिचामि मुख्यमन्त्रि रूपेण पुनःआपि शासनं करिष्यति , ओ पनीर् सेल्वं अध्यक्ष:।।
चेन्नै नगरम् > अण्णा डी एम्  के मध्ये सन्धिसंभाषणे समवायो अभवत्। एडप्पाडी  पलनिचामि मुख्यमन्त्रि रूपेण पुनःआपि भवतु ,ओ पनीर् सेल्वं अध्यक्ष: भविष्यति
शशिकला टि दिनकरः एतयोः विरामपत्रं स्वीकर्तुं निर्देशः अभवत् । उभौ संघटना मध्ये पुनः अपि भविष्यति इति दिनकरस्य अभिप्रायः इत्यस्मात्  निर्देश: । ओ पनीर् सेल्वंस्य सर्वानापि निर्देशान्  उपाधिं विना एव स्वीकृतवन्त: ।।


छोटा राजं अनुचरान् च सप्तवर्षं यावत् कारागारवासः।
नवदेहली> व्याजपास्पोर्ट् विवादे अधोलोक नेतारं छोटाराजं तथा तस्य त्रीन् अनुचरान् सर्वकारीय कर्मकरान् च सप्तवर्षाणां कारागारवासः दिल्ली विशिष्ट न्यायालयेन विहितः।
इदानीं तीहार कारागारे  अस्ति छोटा राजः। सः २०१५ अक्तूबर मासे इन्तोनेषिया राष्ट्रस्य बालीतः गृहीतः।

Thursday, April 27, 2017

दिल्ली-साहित्य-अक्कादम् संस्कृतकाव्यकाराणां रचनापाठस्य कार्यक्रम:।

नव दिल्ली> एप्रिल् मासस्य चतुर्विंशे दिवसे सोमवासरे नवदिल्लीस्थे साहित्य अकादम्या: सभागारे साहित्यमञ्च इति कार्यक्रमस्यान्तर्गतं संस्कृतकाव्यकाराणां रचनापाठस्य कार्यक्रम: समनुष्ठित:। कार्यक्रमोSयं सायं सार्धपञ्चवादनतः अष्टवादनपर्यन्तं प्राचलत्। अस्मिन् अतिविशिष्टे संस्कृतरचनापाठकार्यक्रमे श्रीयुवराजभट्टराई, श्रीऋषिराजपाठक:, सुश्रीकौशलपंवारश्चेति संस्कृतस्य कवि-त्रयी काव्यपाठाय समाहूता आसीत्। कार्यक्रमस्य संचालनं साहित्यमञ्चस्य संयोजकेन श्रीकुमार-अनुपममहोदयेन कृतम्। काव्यकारेण श्रीयुवराजभट्टराई वर्येण आरम्भिक प्रस्तुतौ 'धृतविग्रह एव शिवोSसि सखे!' इति शीर्षकीया कविता तोटक छन्दसा स्वर-लय-ताल-पूर्वकं रसिकश्रोतृवृन्दस्य पुरत: प्रस्तूय श्रोतारो मन्त्रमुग्धीकृता:। तत्रैव भट्टराईमहोदयेन आपरैका तोटकछन्दसि एव ग्रथिता काव्यचिन्तनपरा सुमधुरा कविता'न भविष्यति वा किमियं कविता' इति संश्राव्य सदनं विमुग्धीकृतम्, ततश्च ऋषिराजपाठकेन 'वसुधा सुप्रभातम्' 'सुन्दरी सा' चेति कविताद्वयी सदनं पुरास्तात् परिवेष्य जनानां चेतांसि रञ्जितानि। पुनश्च कौशलपंवार महाभागया *भंगी महिला* इति शीर्षकीया पश्चवर्तिजनानामभ्युत्थानचिन्तनयुता समाजिकबोधप्रदा कविता प्रस्तूय जनमनांसि आह्लादितानि। तदनु पद्मश्रीसम्मानभाजनीभूतेन डॉ. रामाकांतशुक्लवर्येण सर्वेषां कवीनां प्रस्तुतकाव्येषु नैजी सूक्ष्मदृष्टियुता समीक्षाSपि सम्प्रस्तुता। अन्ते च कार्यक्रम संयोजकस्य कुमारअनुपमस्य धन्यवादसमर्पणेन साकं कार्यक्रमोSयमवसित:।