OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 27, 2017

राष्ट्रविरुद्धसन्देशाः जन्मू काश्मीरे सामूहिक माध्यमानां निरोधः।
नव दिल्ली> संघर्षावस्थायाः अनुबन्धतया जन्मूकाश्मीरे सामूहिक माध्यमानां निरोधः ।  फेस बुक् , वाट्स् आप्, ट्विट्र्, स्कैप् प्रभृतीनां अन्तर्जाल सुविधाम् उपयुज्य राष्ट्रविरुद्धतया सन्देशानि प्रसारयन्ति इति निरीक्ष्य एव निरोधः। एप्रिल्मासस्य नवदश ( १९) दिनाङ्कात् आरभ्य निरोधः प्रबलः अभवत् । अन्तर्जाल-सेवनदादृणां कृते एनमधिकृत्य निर्देशः दत्तः I विद्यार्थिनः त्रिशताधिकं  वाट्स् आप् सङ्घाः राष्ट्रविरुद्ध सन्देशस्य प्रचरणस्य कारणेन निरुद्धाः। समूहमाध्यमेषु प्रचलिताः चलनमुद्रखण्डानि सङ्घर्षकारणानि भविष्यन्ति इति निरीक्ष्यते ।

सौदिराजस्य पुत्रः खालिद् बिन् सल्मान् राजकुमारः अमेरिकायां स्थानपतित्वेन नियुक्तः।
रियाद्>सौदिभरणाधिकारिणः सल्मान्-राजस्य पुत्रः खालिद्  बिन् सल्मान् राजकुमारः अमेरिकायां स्थानपतित्वेन नियुक्तः। मन्त्रिसभायां विविधप्रविश्यासु च समग्रतया शासनस्तरे पुन: क्रमीकरणमपि अनेन सह अकरोत्। अब्दुल्ल बिन् फैसल् बिन् तुर्किराजकुमारस्य स्थाने एव एषः नियुक्तः। सौदिव्योमसेनायां वैमानिक: खालिद् राजकुमार: ऐ एस् विरुद्धसख्यसेनायाः दौत्येषु भागं गृहीतवानासीत्। डाणाल्ड् ट्रंपस्य अधिकार प्राप्त्यनन्तरम् अमेरिका-सौदि राष्ट्रयोः संबन्धः शक्तः अभवत् इति अनया नियुक्त्या निर्णीयते। सिरियायाः, इरान्स्य विषयेषु ट्रंपस्य सौदिराष्ट्रं प्रति आनुकूल्यमेव राष्ट्रद्वयोः संबन्धस्य दृढीकरणकारणम्।
विविधमन्त्रिणः राज्यपालान् उपराज्यपालांश्च आपकृत्य तत्स्थाने अन्ये नियुक्ताः। खालिद् अल् अराज्, आदिल् अल् तुरैफ् मुहम्मद् सुवैलि इत्येषां मन्त्रिणां पदवीः क्रमशः नगराचारविभागस्य सांस्कारिकवार्तावितरणविभागस्य टेलिकों विभागस्य च भ्रष्टाचारारोपैः नष्टाः। आरोपा न्वेषणार्थं मन्त्रालयसमितिरपि रूपीकृता।
तैलमूल्यह्रासत्वात् नयनिश्चयप्रधानभूते ऊर्जविभागे अब्दुल् असीस् बिन् सल्मान् राजकुमारः नूतनमन्त्रित्वेन नियुक्तः। हायिल्-अल्बाहा- उत्तरसीमा प्रविश्यानां राज्यपालानामेव एतत् स्थानान्तरीकरणम्। राष्ट्रे नूतनदेशीयसुरक्षाकेन्द्रस्य   प्रारम्भाय अपि आज्ञा अस्ति। देशीयसुरक्षा- उपदेष्टारम् अविहाय बहवः अन्ये कर्मकराः अपि स्थानान्तरीकृताः। व्ययनियन्त्रणपद्धत्या गतवर्षे  न्यूनीकृतानाम् नगराचारसेवकानां सैनिककर्मचारिणां च विविधानुमतवेतनानि च पुनरङ्गीकृतानि॥


Wednesday, April 26, 2017

मोहनभागवतवर्यं ॠत्वा अन्य: कोsपि राष्ट्रपतिपदं न अर्हति - शिवसेना
मुम्बै>भारतस्य राष्ट्रपतिपदं प्राप्तुम् रास्वसंघप्रमुख: मोहनभागवतवर्यं ॠत्वा अन्य: कोsपि योग्य: नास्ति, इति शिवसेनापक्षत: पुनरुच्चारं कृतम्। मुंबईनगरे पत्रकारानाम् सह शिवसेनादलस्य कार्याध्यक्ष: उद्धवठाकरेवर्य: वार्तालापं कृतवान्। प्रसंगेsस्मिन् स: अकथयत् यत् यदि रास्वसंघप्रमुख: वाञ्छति चेत् किमपि भवितुम् शक्यते।
"अधुना रास्वसंघप्रमुखं ॠत्वा अन्यम् कमपि वयं न पश्याम: य: राष्ट्रपतिपदं अधिगन्तुमर्हति," इति स: अकथयत्।
नैका: नेतार: रास्वसंघेन राज्यपालरूपेण नियुक्ता:। तत: भागवतवर्यस्य राष्ट्रपतिपदग्रहणार्थं का बाधा वर्तते, इति प्रश्नमपि स: अपृच्छत्।
शरदपवार: अपि राष्ट्रपतिपदस्य अभ्यर्थी अस्ति इति पृष्ट्वा स: उत्तरं अददात् यत् क: किं इच्छति एतद्विषये अहं किमपि वक्तुम् न इच्छामि। अस्मिन् विषये अस्माकं का अपि चर्चा न अभवत्।
युद्धं कदापि -अमरीकाया: अन्तर्वाहिनी अपि कोरियातीरं प्राप्ता ।
वाषिङ्टण् > उत्तरकोरिया युद्धभीत्याम्  अमरीकीया अन्तर्वाहिनी  अपि कोरियातीरं प्राप्ता । आणवमिसैल्शस्त्रपरीक्षणात् कदापि पृष्ठत: इति उत्तरकोरियाया: भीषण्यां स्थितायां एव युद्धसन्नाहेन अमरीका स्वान्तर्वाहिनीं यु एस् एस् मिषिगं दक्षिणकोरियां प्रैषयत् । अमरीकाया: विमानवाहिनी महानौका यु एस् एस्  काल् विन्सण् एतदभ्यन्तरे एव कोरियातीरं प्राप्ता । कोरियाग्रे युद्धाय सन्नद्धे  अत्र प्राप्नुवन्तीं अमरीकाया: विमानवाहिनी यु एस एस् काल्विन्सणम् निमज्जयेत् इति उत्तरकोरियाया, भीषणि:स्थिता  । तत्पश्चात् एतेन सहवर्त्य यु एस् अस् मिषिगण् अपि दक्षिणकोरियां प्राप्ता ।।
संस्कृतं आर्षभारतस्य आत्मा भवति - पि. पि. श्रीधरनुणिः
कोष़िक्कोट्> आत्मा नास्ति चेत् जडः भवति । अतः भारतस्य आत्मनः संकृतस्य संरक्षणं अद्य अस्माकं कर्तव्यमेव । इयंभाषा  भाषाणांमाता , श्रेष्ठा च भवति । अतः अस्माकं संस्कारस्य पुनरानयनायनं संस्कृतेन कर्तुं शक्यते । तदर्थं विश्वसंस्कृतप्रतिष्ठानेन कृतानि कार्याणि अभिनन्दार्हाणि । " इति कविना पि. पि. श्रीधरनुणि महाशयेन उक्तम्। विश्वसंस्कृतप्रतिष्ठानस्य कोष़िक्कोट् जनपदसम्मेलनस्य प्रतिनिधिसभायाः उद्‌घाटनं कृत्वा महोदयः भाषमाणः आसीत् सः।

Episode 43- Sanskrit News
Niranjana J, Std.7, Saraswati
 वनवीथ्यां कलभस्यकृते दोषमकरोत् - २०,००० दन्डनशुल्कं ।
कोयम्बत्तुर् >वनवीथीसमीपे स्थितस्य कलभस्य कृते द्रोहम कुर्वन्तः विनोदयात्रिकेभ्यः १०,००० दण्डन शुल्कं वनपालकाः दत्तवन्तः ।
तमिल्नाट् राज्यस्य मुतलमला व्याघ्रोद्यानस्थिते अभयारण्ये एव कार्यमिदं जातं ।
वन्यमृगाणां कृते द्रोहः कृतः इति कारणेन दण्डनः प्राप्तः ।
महाराष्ट्रीयाः सावन्तः , अभिजित्त: , रोहित् च दण्डनं प्राप्तवन्तः I
वीथीसमीपस्थितस्य कलभस्य समीपं यानं संस्थाप्य हसतेन कलभं लालनं युवकाः कृतवन्तः । एतत् पृष्टतः आगतवन्तः यात्रिकाः चित्रीकृत्य वनपालकेभ्य: दत्तवन्तः I एवमेव दण्डनं लब्धम् ।

Tuesday, April 25, 2017

IIT मध्ये वास्तुशास्त्रमपि पाठयति।
खरग् पुरम् > भारतराष्ट्रस्य प्रप्रथम विज्ञान विनिमय विद्यालये भारतेषु प्रप्रथमतया भारतीय वास्तुशास्त्रमपि पाठ्यप्रणाल्याम् अन्तर्भवति। हर्म्यनिर्माणकला-विभागे एव शास्त्रमिदम् अध्येतुं सर्दर्भः इति संस्थायाः अध्यक्षेण उक्तम्।
प्रथम द्वितीयवर्षयोः बिरुदाध्ययनस्य आमुखत्वेन अध्यापयितुं निश्चितम् इति अध्यापककुलाङ्गेन जोय् सेन् वर्येण च उक्तम्। आगामिनी आगस्ट्मासे पाठनम् आरभ्यते । बिरुदानन्तर कक्ष्यायां सविस्तरं पाठयिष्यति इति च तेन उक्तम्। पाश्चात्यानां वास्तुशास्त्रेण सह भारतीयानां रीतिः अपि पाठयति इत्येनन शिक्षाप्रणाल्याः श्रेष्ठत्वं वर्धते इति वास्तुशास्त्र विदग्धाः अभिप्रयन्तिI
आर्थिकसंवत्सरं दिनदर्शिका संवत्सरं च संयोजनीयौ- प्रधानमन्त्री।
नवदेहली>आर्थिकसंवत्सरं दिनदर्शिका संवत्सरं च संयोजनीयेषु प्रवृत्तिषु राज्याणां सहवर्त्तित्वं प्रधानमन्त्रिणा निवेदितम्। आगोल विकसनेन साकं भारतं सज्जं कारयितुं स्वेन सह स्थातुं नीति आयोगस्य तृतीये शासनसमितियोगे सः मुख्यसचिवान् आह्वानं कृतवान्।
 २०१४ अनन्तरं राज्याणां विहितं  चत्वारिशत् प्रतिशतं अवर्धत। विकासाय केन्द्र सर्वकारः तथा राज्यसर्वकाराः च मिलित्वा रूपीकृतः गणः  भवति नीतिआयोगः।
 आर्थिकसंवत्सरस्य परिष्कारस्य भागत्वेन अस्मिन् संवत्सरे केन्द्र बट्जट्ट् एकमासात्पूर्वं प्रस्तुतमासीत्। आगामि संवत्सरादारभ्य आर्थिकसंवत्सरस्य तथा दिनदर्शिका संवत्सरस्य च संयोजनस्य सूचना अस्ति एतत्।
२५ वर्षेभ्य: एष: मनुष्य: केवलं शाखाखण्डान् पर्णानि च भक्षयति; रोगरहितोयम् ।।
                       लाहोर् >  मितभोजनमलब्ध्वा दुर्भिक्षेण जना: क्लिश्यन्ति इति वार्ता: वयं प्रतिदिनं शृणुम: । किन्तु पाकिस्थाने वर्षेभ्य:  प्रतिदिनं शाखाखण्डान् पर्णानि च खादित्वा जीवन्  कश्चन वर्तते । पाक् पञ्चाब् प्रविश्यायां गुज्रण्वाला मण्डलवासी महमूद: एव गत२५ वर्षेभ्य: एवं  असाधारणभोजनेन जीवति । एतावता कालेन एतस्य रोगा: नागता: इति माध्यमानि ज्ञापयन्ति । २५ त्यां वयसि स: एतादृशभोजनरीतिम् आरब्धवान् । स्वगृहे अतिदारिद्र्येण  भोजनप्राप्तिरपि कष्टकराभवत् इति महमूद: वदति । मार्गपार्श्वे उपविश्य याचनात्परम् उत्तमं कार्यं शाखाखण्डानां पर्णानाम् अशनमिति  स्वयं चिन्तितवान् इति च स: वदति। इदानीम् एतेषां खादनं महमूदस्य  शील: अभवत्। गर्दभयानम् तस्य एकमात्रोपजीवनमार्ग:।प्रतिदिनं ६० पाकिस्थानि रूप्यकाणि  तस्य आय:। वट: तालि  सक् चेयिन्  आदिवृक्षाणां पल्लवशाखा: तस्य इष्टविभव:। विचित्रेण भक्षणशीलेन  जना: महमूदम् अद्भुतेन पश्यन्ति। गमनमार्गे कुत्रापि इष्टवृक्षा: सस्यानि वा दृष्टानि चेत् विलम्बं विना तत: भोजनमन्वेष्टुम् एष: आलस्यं न प्रकटयति।

Monday, April 24, 2017

यु एस् आक्रमणात् बहुवारं रक्षित:  अल् खायिदानेता सवाहिरि: कराच्याम् ।।        
वाषिङ्टण् >  ईजिप्ट् वंशज: अल् खायिदानेता अयमान् अल् सवाहिरि:(६६) पाकिस्थानरहस्सङ्घटनाया: ऐ एस् ऐ इत्यस्या: संरक्षणे कराच्यां तिरोभूय वसति इति यु एस् आवेदनम्। २००१ तमे अफ्घानिस्थानात् यु एस् सेनया अलखायिदे पलायिते सति तत: प्रभृति सवाहिरि: पाकिस्थानसंरक्षणे वसन् अस्तीति 'न्यूस्वीक्' अभिप्रैति। रहस्यकेन्द्रं कराची एव भवितुम् अधिकसाध्यता, किन्तु कार्येस्मिन् व्यक्तसूचना: अनुपलब्धा: इत्यपि यु एस् विदग्धा: अभिप्रयन्ति। पाकिस्थानस्य अबट्टाबादे रहस्यवाससमये एव अलखायिदा मेधावी उसाम बिनलादन: २०११ मई  २ दिनाङ्के यु एस्  कमान्डो सैन्यस्य हठादाक्रमणे मृतवान्। बिनलादात्परम् अलखायिदाया: नेता सवाहिरि: एव। तं लक्षीकृत्य  नैकानि ड्रोणाक्रमणानि यु एस् सेना पाक् -अफ्घानसीमायां अकरोत्। अन्तिमाक्रमणं प्रवृत्तं २०१६ जनवरिमासे। तदा सवाहिरे: समीपस्थप्रकोष्ठ:  मिसैलशस्त्रै: छिन्नभिन्न: जात:। परं नेता तु रक्षां प्राप्तवान्। अफ्घानसर्वकारै: सह समाधानचर्चायां भूयमानायां तालिबानशक्तिकेन्द्रेषु अलखायिदाया: सवाहिरेर्वा स्थानं नास्ति अधुना। पाकिस्थानात्  विश्वस्तस्रोतभ्य: वार्ता नि:सृता इत्यपि सूचना अस्ति। बिनलादन: ६ वर्षाणि यावत् पाकिस्थाने रहस्यकेन्द्रे वासं कृतवान्। किन्तु कति वर्षाणि यावत् तत्र उषितवान् इत्यस्य व्यक्तसूचना नोपलभ्यते। पाक् रहस्यसङ्घटना ऐ एस् ऐ  बिन् लादं ६ वर्षाणि यावत् रहस्यकेन्द्रे संरक्षितवती  इति बी बी सी  अन्वेषणे आवेदितम्।  अबट्टाबादे पाक्सैनिक अकादमीसमीपे आसीत् बिनलादस्य वास:।।
अधिकमूल्ययुक्तपुस्तकानि क्रेतु छात्रान् निर्बद्धमानान् विद्यालयान् विरुध्य सि बि एस् इ।
नवदिल्ली> ये विद्यालयाः स्वायत्तसंस्थया प्रकाशितानामधिक-मूल्ययुक्त-पाठपुस्तकानां तथा गणवेषं, टिप्पणिपुस्तकानि, पठनोपकरणानि च क्रेतुं छात्रान् निर्बन्धयन्ति तेषामवरोधः नियमानुसारं करिष्यति इति सि बि एस् इ स्पष्टीकरोति। छात्रेभ्यः केन्द्र-सर्वकारनियुक्ताभ्यां एन् सि आर् टि, सि बि एस् इ संस्थाभ्यां सज्जीकृतपाठ्यसरणियुक्तानि पुस्तकान्येव विद्यालयाधिकृतैः दातव्यानि इति सि बि एस् इ संस्थया २०१६ तमे वर्षे निर्देशः दत्तः आसीत्। यानिकान्यपि वाणिज्यप्रवर्तनानि विद्यालयेषु नियमदृष्ट्या नाङ्गीक्रियन्ते। समीपकाले देहल्यां द्वादशकक्षायै स्वायत्तसंस्थाप्रकाशितपुस्तकेषु स्त्रीणाम् सावमानचित्राणां मुद्रितविषये विवादः सञ्जातः आसीत्। देशे १८००० विद्यालयाः सि बि एस् इ संस्थया बद्धाः सन्ति। १०१६ तमे वर्षे निर्देशपालनमकुर्वतां विद्यालयानाम् अङ्गीकारस्य निरासम् करोति इति सि बि एस् इ असूचयत् ।
चतुर्दशलक्ष जनानां तान्त्रिक विशदांशाः सर्वकारस्य अन्तर्जालपत्रे प्रकाशिताः।
राञ्चि>तन्त्राधिगमस्य अनधिकृतोपयोगेन झारखण्ड् राज्ये चतुर्दशलक्ष जनानां तन्त्रिकविशदांशाः सर्वकार अन्तर्जालपत्रे प्रकाशिताः।
राष्ट्रे वार्धक्य आर्थिकसाहाय्यं स्वीकृतवतां चतुर्दशलक्ष वृद्धजनानां नामानि,सङ्केतः,अधार अङ्कः, बांक् क्रमाङ्कः इत्यादि विशदांशाः सन्ति सर्वकार अन्तर्जालपत्रे।
राष्ट्रे आहत्य षोडशलक्ष जनाः सर्वकारस्य आर्थिकसाहाय्यं स्वीकुर्वन्तः सन्ति। तेषु चतुर्दशलक्षाः आर्थिकसाहाय्यं आर्थिकालयात् स्वीकर्तुं स्व आधार अङ्केन सह आर्थिकालय क्रमसंख्या बन्धितवन्तः। सर्वकार सेवायै आधारः अनिवार्यः न करणीयः इति न्यायशाला तथा प्रतिपक्षदलानि निर्णयस्वीकरणालोचनायामस्ति एषा घटना।
संस्कृतभाषापठने वर्तमानकालीना सुविधा न निषिद्धव्या - संस्कृताध्यापक फेडरेषन्।
तृश्शिवपेरूर्>केरळे वर्तमानकालीनायां शैक्षिकप्रणाल्यां मलयालभाषाशिक्षणं ओर्डिनन्स् द्वारा अवश्यंकारिते सन्दर्भे प्रथमभाषारूपेण संस्कृतम् अरबी उर्दु भाषाशिक्षणं कर्तुं छात्राणां वर्तमानकालीना  सुविधा अनुवर्तनीया इति केरळस्य संस्कृताध्यापकानां संघटनया संस्कृताध्यापक फेडरेषन् संस्थया अभियाचितम्।
   कैरळीशिक्षणं समूलं तिरस्कुर्वन्तः आङ्गलमाध्यमविद्यालयान् उद्दिश्य सर्वकारेण विज्ञापितम् आदेशम् उपयुज्य कैश्चन न्यूनपक्षभाषाः विरुध्य प्रकाशिताः प्रस्तावाः न आशास्याः अपि तु भाषाप्रेमिषु छात्रेषु अस्वस्थजनकाश्च  इति संस्थायाः राज्यस्तरीयसमित्या निर्णीता।
       कैरळीमाध्यमेनैव चरित्र शास्र गणित विषयान् अध्यापनं कुर्वत्सु ओरियन्टल् विद्यालयेषु नूतनादेशमनुसृत्य संस्कृतभाषापठनं तिरस्क्रियमाणं प्रवर्तनम् उपेक्षणीयमिति च समित्या निर्दिष्टम्।
    राज्याध्यक्षस्य वेणु चोव्वल्लूर् वर्यस्य आध्यक्ष्ये आयोजितं सम्मेलनं संस्थायाः सचिवप्रमुखेन पि जि अजित्प्रसादेन समुद्घाटितम्। सङ्घटना धुरन्धराः पद्मनाभः गुरुवायूर्, सुरेशः, रविकुमारः, मधुसूदनः, जयदेवः इत्येते भाषणं कृतवन्तः। राज्यसचिवः सि पि सनल् चन्द्रः स्वागतं अजयकुमारः कृतज्ञतां च प्रकाशितवन्तौ।

Sunday, April 23, 2017


भाजपस्य विजयाभियानम् अप्रतिहतम्
मुम्बै >महाराष्ट्रराज्ये भारतीयजनतापक्षस्य विजयाभियानम् अप्रतिहतरीत्या प्रचलति। राज्ये महानगरपालिकायाः निर्वाचनं गते गुरुवासरे अभवत्। तन्मध्ये द्वे महानगरपालिकायायां भाजपदलेन जयम् प्राप्तमस्ति।
दिवंगतस्य केंद्रियमंत्री विलासरावदेशमुखस्य स्वग्रामे लातूरनगरे अपि भाजपदलः जेतारूपेण उद्भूतः अस्ति। तत्र ७० स्थानात् ४१ स्थानानि विजित्य भाजपेन नवेतिहासः लिखितः अस्ति। स्वातंत्र्यप्राप्त्यानंतरम् काँग्रेसदलं पराजित्य यः कः अपि दलः अत्र सत्ताम् प्राप्तुम् एतत् अस्ति प्रथमः प्रसंगः। चंद्रपूरनगरे अपि भाजपेन सत्तां हस्तगता। तत्र भाजपेन ६६ स्थानात् ३६ स्थानानि विजितानि।
परभणीनगरे काँग्रेसदलम् अनपेक्षिततया विजयं प्राप्तवान्। तत्र राष्ट्रवादीकाँग्रेसदलः पराजितः आसीत्।

Saturday, April 22, 2017

गूढसङ्ख्या नावश्यकी ;  अङ्गुलीमुद्राङ्कितसमपत्राणि आगच्छन्ति ।।।
          वाषिङ्टण् >  ए टी एम् गूढसङ्ख्या विस्मृतेति इत:परं खेद: मास्तु ---  गूढसङ्ख्यानां सुरक्षासङ्केतानां च स्थाने अङ्गुलीमुद्रया निक्षेपस्वीकारादि-कार्यकरणसमर्थानि समपत्राणि आगतानि। अमरीकीयया मास्टर् कार्ड् कार्यशालया एतादृशजैवचालकीयसमपत्राणां परीक्षणोपयोग: दक्षिणाफ्रिकायां कृत:। इतोपि कृतपरीक्षणे  समाप्ते वर्षान्ते एतत् विज्ञानं समपत्रे बहिरानेतुमेव कार्यशालाया: उद्देश:। अधिकसुरक्षया साकं सरलसक्रियोपयोग: साध्य:  इति एतेषां समपत्राणां  सौकर्यमिति मास्टर् कार्ड् सुरक्षाकार्यदर्शिना भारतवंशजेन अजयभल्लेनोक्तम्। वित्तकोशात् समपत्रस्वीकारावसरे उपयोक्तु: अङ्गुलीमुद्रापि रेखाङ्किता भवेत्। एतत् समपत्रे सूक्ष्मसङ्ख्याफलकरूपेण संरक्ष्यते। साधारणसमपत्रवत्  ए टी एम् , पी ओ एस् यन्त्रेषु उपयोक्तुं च शक्यते। सूचीसङ्ख्यास्थाने अङ्गुलीमुद्रां रेखाङ्कितुं तत्स्थाने अङ्गुली स्थापनीया। यूरोपे एष्यायां च आगामिमासे  समपत्रस्य परीक्षणोपयोगं करिष्यन्ति ।

मदिरानिरोधानन्तरं बीहाराय दशसहस्रकोटि लाभः, आराष्ट्रं निरोधः अपेक्षते - नितीष्कुमारः। 
पाला [केरळम] >बीहारराज्ये सम्पूर्णमदिरानिरोधेन प्रारम्भे पञ्चसहस्रकोटिरूप्यकाणां नष्टम्  अभूदपि दशसहस्रकोटिरूप्यकाणां लाभः प्राप्त इति मुख्यमन्त्रिणा नितीष्कुमारेण उक्तम्।
     सम्पूर्णमदिरानिरोधव्यवस्थापनेन सर्वकाराणां आर्थिकनष्टं भविष्यतीति वादः व्यर्थ इति आर्थिकावलोकनेन तेन समर्थीकृतम्। अतः भारते सर्वत्र सम्पूर्णमदिरानिरोधः प्रतिष्ठापनीयः इति तेन अपेक्षितम्।
   गतदिने केरले भरणङ्ङानं प्रदेशे केरला कातलिक् बिषप् कौण्सिल् संस्थायाः मदिराविद्धसमित्याः राज्यस्तरीयमेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् नितीष् वर्यः।
   मदिरानिरोधानन्तरं बीहारे महत् सामाजिकपरिवर्तनं सञ्जातम् अपराधकृत्यानां यानदुर्घटनानां संख्या न्यूनीभूता। हत्या तु प्रतिशतं एकविंशतेः न्यूनता जाता। अन्येषां न्यूनीकृतापराधानाम् अवलोकनमपि तेन कृतम्।
    बीहारे सम्पूर्णमदिरानिरोधनं संस्थाप्य एकसंवत्सरः अतीतः। एतावदाभ्यन्तरे राज्ये क्षीर-वस्त्र-गृहोपकरण-भोज्यादीनां विक्रयः वर्धितः। अतः केरले अपि सम्पूर्णमदिरानिरोधनं व्यवस्थापनीयमिति नितीष्कुमारेण आवेदितम्।

महाभारतसम्बन्धिन्याः कैरल्याख्यायिकायाः चलच्चित्ररूपान्तरं, सहस्रकोटिरूप्यकाणां व्ययः, मोहन्लालः भीमसेनः। 
कोच्ची> व्यासभारतमवलम्ब्य विख्यातकैरलीसाहित्यकारेण एम् टि वासुदेवन् नायर् महाभागेन विरचिता 'रण्टामूष़म्' नामिका प्रसिद्धा आख्यायिका महाभारतम् इतिनाम्ना चलच्चित्ररूपेण निर्मीयते। प्रमुखः प्रवासी वणिक् श्रीमान् बि आर् षेट्टि  अस्य चित्रस्य निर्माता। भारते इतःपर्यन्तं निर्मितेषु चलनचित्रेषु बृहत्तमं धनव्ययात्मकं चित्रं भविष्यति "महाभारतम्"! सहस्रकोटि रूप्यकाण्येव अस्य दृश्याद्भुतस्य व्ययः इति प्रतिक्षन्ते।
    रण्टामूष़े मुख्यकथापात्रत्वेन वर्तमानं भीमसेनं कैरल्याः महानटः मोहन्लालः अवतारयति। दृश्यकथारचनां आख्यायिकाकर्ता तथा च स्वयं दृश्यकथानिपुणः एम् टि वासुदेवन् नायरः एव करिष्यति विख्यातः घोषणानिदेशकः वि ए श्रीकुमार् मेनोन् अस्यापि दृश्यभाष्यस्य निर्देशकत्वं विधास्यति।
    इदंप्रथमतया एव महाभारतस्य कथा तस्याः एव व्याप्त्या चलच्चित्ररूपमापाद्यते। अत एव अस्य चित्रस्य भागद्वयं कल्प्यते।  प्रथमभागस्य चित्रीकरणं आगामिनि संवत्सरस्य सेप्टम्बर् मासे समारभ्य २०२०तमे संवत्सरे प्रकाशयिष्यते। तदनन्तरं नवति दिनाभ्यन्तरे एव द्वितीयो भागो पि प्रदर्शनाय सिद्धः भविष्यति। मलयालं , हिन्दी , आङ्गलेयः , तमिल् , तेलुगु भाषासु अपि चित्रीकरणं भविष्यति।

Friday, April 21, 2017

V I P संस्कृतेः अन्त्यः, अतिप्रमुखपुरूषाणां वाहनेषु रक्तवर्णदीपाय निरोधः।
नवदिल्ली>भारते अतिप्रमुखपुरुषाणां (VIPs) वाहनेषु अधिकारस्य चिह्नत्वेन प्रयुज्यमानान् रक्तवर्णदीपान् [Beacon Light] मेय् प्रथमदिनाङ्कादारभ्य अपाकर्तुं  केन्द्रमन्त्रिमण्डलेन निर्णीतम्।
     राष्ट्रपतिः प्रधानमन्त्री इत्यादीनाम् अतिप्रमुखव्यक्तीनां वाहनेष्वपि उपरिदीपाः न प्रयोक्ष्यन्ते। किन्तु रुग्णयानम् , आरक्षकयानम् अग्निशमनवाहनम् इत्यादिषु अवश्यसेवनयानेषु उपरिदीपान् उपयोक्तुं शक्यन्ते।
    "एकैकः भारतीयः सविशेषः, तथा एकैकः भारतीयः अतिप्रमुखपुरुषः च भवति" - प्रधानमन्त्रिणा नरेन्द्रमोदिना ट्विटर् मध्ये लिखितं च।

 व्याजधनम्-  पाक्किस्थान प्रधानमन्त्रिणं नवास षेरीफं प्रति अन्वेषणाय विज्ञापनम्।
इस्लामाबाद्>पनामा गेट्ट् विवादे पाक्किस्थान प्रधानमन्त्रिणं नवासषेकीफं तथा परिवारं प्रति अन्वेषणाय पाक्किस्थान उन्नतन्यायालयस्य विज्ञापनम्। षष्ठि दिनेष्वन्तरे प्रतिवेदनं समर्पणीयमित्यपि न्यायालयेन विज्ञापितम्। षेरीफ् पुत्रौ हसन्, हुसैन् च साक्षात् आगन्तव्याः सन्ति।
१९९० संवत्सरे प्रधानमन्त्रितया शासनकाले व्याजरुप्यकमुपयुज्य लण्डन् देशे गृहाणि तथा भूक्रयणम् अकरोत् इत्यस्ति आरोपणम्। षेरीफ् कुटुम्बस्य ब्रिट्टन् राष्ट्रे वर्तमानानाम् आर्थिकस्थितीनां विवरणं पनामा दुर्व्यय रेखासु वर्तते।
रषिया राष्ट्रपतिः व्लाटिमिर् पुटिन्,चैना राष्ट्रपतिः षी चिन्पिङ्,पाक्किस्थान प्रधानमन्त्री नवास षेरीफ् ,अन्ये द्वादश राष्ट्राधिकारिणः,सप्तत्यधिक राष्ट्राणां १२८ उन्नत राजनैतिक नेतारः,विश्वस्य शतशः कोटिपत्यः च पनामा आस्थानवत्या संस्थया अनधिकृतं धनव्ययम् अकुर्वन् इति सूचनाः बहिरागच्छन्ति।
मातृराष्ट्रस्य करनियमान् उल्लंघ्य अनधिकृत धननिक्षेपकेषु पञ्चशताधिकाः भारतीयाः अपि सन्ति। तेषु चलनचित्र अभिनेता अमिताभ बच्चः,अभिनेत्री ऐष्वर्या रायः,डी एल् एफ् संस्थायाः अधिपः के पी सिङः,विनोद अडानी,दिवंगतः इक्बाल् मिर्ची इत्यादयाः सन्ति। रेखासु पादकन्दुक क्रीडाकारः लयणल् मेस्सी,पूर्व क्रीडाकारः मिषेल् प्लाट्टिनि, नटः जाक्कि तान् इत्यादयः अपि व्याजधननिक्षेपकाणां सूच्यां सन्ति।


श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे संस्कृतपत्रकारिताविषयिणी कार्यशाला
नवदिल्ली >गतदिने नवदिल्लीस्थे श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे संस्कृतपत्रकारितासम्बद्धा कार्याशाला समायोजिता |विद्यापीठस्य कुलपतेः प्रो.रमेशचन्द्रपाण्डेयवर्यस्य आध्यक्षे भारतीयजनसंचारसंस्थानस्य निदेशकः  के.जी.सुरेशः मुख्यातिथिरूपेण आकाशवाण्याः सहायकनिदेशिकां डॉ ललिताचतुर्वेदिवर्या विशिष्टातिथिरूपेण आकाशवाण्याः संस्कृतएकांशस्य पूर्वप्रभारी डॉ. बलदेवानन्दसागरः Times Of India इति वार्ताः पत्रस्य प्राक्तन क्षेत्रीयसम्पादकः राजेन्द्रभारद्वाजश्च समुपातिष्ठन्त।
 
   संस्कृतपत्रकारितायाः कृते IIMC इति भारतीयजनसंचारसंस्थानेन विद्यापीठेन साकं सम्मिल्य संयुक्तपाठ्यक्रमसंचालनविषयेSपि मन्त्रणा सञ्जाता | कार्यशालायाः औद्घाटनिकसत्रे मुख्यातिथिना संस्कृतपत्रकारितायां न्यूजलैटर-कम्यूनिटिरेडियो चेति विषयद्वये व्याख्यानं प्रदत्तम् | आकाशवाण्याः सहायकनिदेशिकावर्यया रेडियोफीचरलेखनम् इति विषये स्वीयानुभवः विज्ञापितः | द्वितीयसत्रे डॉ. बलदेवानन्दसागरेण पत्रकारितायां प्रतिवेदनस्वरूपं विशदं वर्णितम् |