OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, April 22, 2017

मदिरानिरोधानन्तरं बीहाराय दशसहस्रकोटि लाभः, आराष्ट्रं निरोधः अपेक्षते - नितीष्कुमारः। 
पाला [केरळम] >बीहारराज्ये सम्पूर्णमदिरानिरोधेन प्रारम्भे पञ्चसहस्रकोटिरूप्यकाणां नष्टम्  अभूदपि दशसहस्रकोटिरूप्यकाणां लाभः प्राप्त इति मुख्यमन्त्रिणा नितीष्कुमारेण उक्तम्।
     सम्पूर्णमदिरानिरोधव्यवस्थापनेन सर्वकाराणां आर्थिकनष्टं भविष्यतीति वादः व्यर्थ इति आर्थिकावलोकनेन तेन समर्थीकृतम्। अतः भारते सर्वत्र सम्पूर्णमदिरानिरोधः प्रतिष्ठापनीयः इति तेन अपेक्षितम्।
   गतदिने केरले भरणङ्ङानं प्रदेशे केरला कातलिक् बिषप् कौण्सिल् संस्थायाः मदिराविद्धसमित्याः राज्यस्तरीयमेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् नितीष् वर्यः।
   मदिरानिरोधानन्तरं बीहारे महत् सामाजिकपरिवर्तनं सञ्जातम् अपराधकृत्यानां यानदुर्घटनानां संख्या न्यूनीभूता। हत्या तु प्रतिशतं एकविंशतेः न्यूनता जाता। अन्येषां न्यूनीकृतापराधानाम् अवलोकनमपि तेन कृतम्।
    बीहारे सम्पूर्णमदिरानिरोधनं संस्थाप्य एकसंवत्सरः अतीतः। एतावदाभ्यन्तरे राज्ये क्षीर-वस्त्र-गृहोपकरण-भोज्यादीनां विक्रयः वर्धितः। अतः केरले अपि सम्पूर्णमदिरानिरोधनं व्यवस्थापनीयमिति नितीष्कुमारेण आवेदितम्।

महाभारतसम्बन्धिन्याः कैरल्याख्यायिकायाः चलच्चित्ररूपान्तरं, सहस्रकोटिरूप्यकाणां व्ययः, मोहन्लालः भीमसेनः। 
कोच्ची> व्यासभारतमवलम्ब्य विख्यातकैरलीसाहित्यकारेण एम् टि वासुदेवन् नायर् महाभागेन विरचिता 'रण्टामूष़म्' नामिका प्रसिद्धा आख्यायिका महाभारतम् इतिनाम्ना चलच्चित्ररूपेण निर्मीयते। प्रमुखः प्रवासी वणिक् श्रीमान् बि आर् षेट्टि  अस्य चित्रस्य निर्माता। भारते इतःपर्यन्तं निर्मितेषु चलनचित्रेषु बृहत्तमं धनव्ययात्मकं चित्रं भविष्यति "महाभारतम्"! सहस्रकोटि रूप्यकाण्येव अस्य दृश्याद्भुतस्य व्ययः इति प्रतिक्षन्ते।
    रण्टामूष़े मुख्यकथापात्रत्वेन वर्तमानं भीमसेनं कैरल्याः महानटः मोहन्लालः अवतारयति। दृश्यकथारचनां आख्यायिकाकर्ता तथा च स्वयं दृश्यकथानिपुणः एम् टि वासुदेवन् नायरः एव करिष्यति विख्यातः घोषणानिदेशकः वि ए श्रीकुमार् मेनोन् अस्यापि दृश्यभाष्यस्य निर्देशकत्वं विधास्यति।
    इदंप्रथमतया एव महाभारतस्य कथा तस्याः एव व्याप्त्या चलच्चित्ररूपमापाद्यते। अत एव अस्य चित्रस्य भागद्वयं कल्प्यते।  प्रथमभागस्य चित्रीकरणं आगामिनि संवत्सरस्य सेप्टम्बर् मासे समारभ्य २०२०तमे संवत्सरे प्रकाशयिष्यते। तदनन्तरं नवति दिनाभ्यन्तरे एव द्वितीयो भागो पि प्रदर्शनाय सिद्धः भविष्यति। मलयालं , हिन्दी , आङ्गलेयः , तमिल् , तेलुगु भाषासु अपि चित्रीकरणं भविष्यति।

Friday, April 21, 2017

V I P संस्कृतेः अन्त्यः, अतिप्रमुखपुरूषाणां वाहनेषु रक्तवर्णदीपाय निरोधः।
नवदिल्ली>भारते अतिप्रमुखपुरुषाणां (VIPs) वाहनेषु अधिकारस्य चिह्नत्वेन प्रयुज्यमानान् रक्तवर्णदीपान् [Beacon Light] मेय् प्रथमदिनाङ्कादारभ्य अपाकर्तुं  केन्द्रमन्त्रिमण्डलेन निर्णीतम्।
     राष्ट्रपतिः प्रधानमन्त्री इत्यादीनाम् अतिप्रमुखव्यक्तीनां वाहनेष्वपि उपरिदीपाः न प्रयोक्ष्यन्ते। किन्तु रुग्णयानम् , आरक्षकयानम् अग्निशमनवाहनम् इत्यादिषु अवश्यसेवनयानेषु उपरिदीपान् उपयोक्तुं शक्यन्ते।
    "एकैकः भारतीयः सविशेषः, तथा एकैकः भारतीयः अतिप्रमुखपुरुषः च भवति" - प्रधानमन्त्रिणा नरेन्द्रमोदिना ट्विटर् मध्ये लिखितं च।

 व्याजधनम्-  पाक्किस्थान प्रधानमन्त्रिणं नवास षेरीफं प्रति अन्वेषणाय विज्ञापनम्।
इस्लामाबाद्>पनामा गेट्ट् विवादे पाक्किस्थान प्रधानमन्त्रिणं नवासषेकीफं तथा परिवारं प्रति अन्वेषणाय पाक्किस्थान उन्नतन्यायालयस्य विज्ञापनम्। षष्ठि दिनेष्वन्तरे प्रतिवेदनं समर्पणीयमित्यपि न्यायालयेन विज्ञापितम्। षेरीफ् पुत्रौ हसन्, हुसैन् च साक्षात् आगन्तव्याः सन्ति।
१९९० संवत्सरे प्रधानमन्त्रितया शासनकाले व्याजरुप्यकमुपयुज्य लण्डन् देशे गृहाणि तथा भूक्रयणम् अकरोत् इत्यस्ति आरोपणम्। षेरीफ् कुटुम्बस्य ब्रिट्टन् राष्ट्रे वर्तमानानाम् आर्थिकस्थितीनां विवरणं पनामा दुर्व्यय रेखासु वर्तते।
रषिया राष्ट्रपतिः व्लाटिमिर् पुटिन्,चैना राष्ट्रपतिः षी चिन्पिङ्,पाक्किस्थान प्रधानमन्त्री नवास षेरीफ् ,अन्ये द्वादश राष्ट्राधिकारिणः,सप्तत्यधिक राष्ट्राणां १२८ उन्नत राजनैतिक नेतारः,विश्वस्य शतशः कोटिपत्यः च पनामा आस्थानवत्या संस्थया अनधिकृतं धनव्ययम् अकुर्वन् इति सूचनाः बहिरागच्छन्ति।
मातृराष्ट्रस्य करनियमान् उल्लंघ्य अनधिकृत धननिक्षेपकेषु पञ्चशताधिकाः भारतीयाः अपि सन्ति। तेषु चलनचित्र अभिनेता अमिताभ बच्चः,अभिनेत्री ऐष्वर्या रायः,डी एल् एफ् संस्थायाः अधिपः के पी सिङः,विनोद अडानी,दिवंगतः इक्बाल् मिर्ची इत्यादयाः सन्ति। रेखासु पादकन्दुक क्रीडाकारः लयणल् मेस्सी,पूर्व क्रीडाकारः मिषेल् प्लाट्टिनि, नटः जाक्कि तान् इत्यादयः अपि व्याजधननिक्षेपकाणां सूच्यां सन्ति।


श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे संस्कृतपत्रकारिताविषयिणी कार्यशाला
नवदिल्ली >गतदिने नवदिल्लीस्थे श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे संस्कृतपत्रकारितासम्बद्धा कार्याशाला समायोजिता |विद्यापीठस्य कुलपतेः प्रो.रमेशचन्द्रपाण्डेयवर्यस्य आध्यक्षे भारतीयजनसंचारसंस्थानस्य निदेशकः  के.जी.सुरेशः मुख्यातिथिरूपेण आकाशवाण्याः सहायकनिदेशिकां डॉ ललिताचतुर्वेदिवर्या विशिष्टातिथिरूपेण आकाशवाण्याः संस्कृतएकांशस्य पूर्वप्रभारी डॉ. बलदेवानन्दसागरः Times Of India इति वार्ताः पत्रस्य प्राक्तन क्षेत्रीयसम्पादकः राजेन्द्रभारद्वाजश्च समुपातिष्ठन्त।
 
   संस्कृतपत्रकारितायाः कृते IIMC इति भारतीयजनसंचारसंस्थानेन विद्यापीठेन साकं सम्मिल्य संयुक्तपाठ्यक्रमसंचालनविषयेSपि मन्त्रणा सञ्जाता | कार्यशालायाः औद्घाटनिकसत्रे मुख्यातिथिना संस्कृतपत्रकारितायां न्यूजलैटर-कम्यूनिटिरेडियो चेति विषयद्वये व्याख्यानं प्रदत्तम् | आकाशवाण्याः सहायकनिदेशिकावर्यया रेडियोफीचरलेखनम् इति विषये स्वीयानुभवः विज्ञापितः | द्वितीयसत्रे डॉ. बलदेवानन्दसागरेण पत्रकारितायां प्रतिवेदनस्वरूपं विशदं वर्णितम् |
अधिकद्वितीयकक्ष्याच्छात्रेण(+2) चालितं कारयानम् अटनमार्गम् अतिक्रम्य;  द्वयोर्मरणम्।।
नवदिल्ली >  द्वादशकक्ष्यावार्षिकपरीक्षायां समाप्तायाम् तस्य आघोषाय प्रस्थितै: छात्रै: सञ्चालितं कारयानम् अटनमार्गे सुप्तानामुपरि प्रविश्य द्वौ मृतवन्तौ । त्रयाणाम् अवस्था अतीव गुरुतरा वर्तते । उत्तरदिल्ल्यां कश्मीरकवाटसमीपे प्रात: ५.४५ वादने इयं घटना । अमितवेगेन आगतं कार् यानं नियन्त्रणमतिक्रम्य  अटनमार्गं प्रति अपक्रान्तम् । दिल्ल्या: प्रमुखविद्यालयस्थछात्रा: चत्वारः(४) एव कारयाने आसन् तै: एव यानं चालितं च। घटनासम्बद्धौ द्वौ छात्रौ आरक्षका: गृहीतवन्त:। द्वावपि यानचालनाय अप्राप्तवयस्कौ। द्वौ तत: पलायितवन्तौ च। छात्रा: मद्यपिता: वेति निरीक्षणाय वैद्यसाहाय्यं स्वीकरिष्यन्ति।

Thursday, April 20, 2017

ग्रीन्लाण्ड् द्वीपे बृहत् छिद्रम्। वैज्ञानिकानां पूर्वसूचना।
नासा>विश्वस्य बृहत्तमस्य द्वीपस्य ग्रीन्लाण्डस्य हिमावरणेषु दीर्घं छिद्रम् दृष्टम्। द्वीपस्य प्रधाने भागे पीट्टरमेन् हिमान्यां सञ्जातस्य छिद्रस्य चित्राणि नासा बहिः प्रैषयत्। सामान्यतया हिमान्याः पार्श्वेषु छिद्राणि दृश्यन्ते।किन्तु पीट्टरमेन् हिमान्याः मध्यभागे एव छिद्रम् अभवत्। अस्य छिद्रस्य कारणमन्विष्य वैज्ञानिकाः आकुलाः भवन्ति।
 हिमान्याः पूर्वे पार्श्वे पूर्वागतम् एकं छिद्रं शन्नैः मध्यभागं चलदस्ति। एतौ द्वौ छिद्रौ मिलति चेत् तत्कारणेन जायमानः पारिस्थितिकपरिणामः भीकरमेव भविष्यति।
 इदानीं भीत्याः आवश्यकता नास्तीति वैज्ञानिकाः वदन्ति। द्वयोः छिद्रयोः मेलनस्य अवकाशः  अपि इदानीं नास्ति।
१०१० तमे २०१२ तमे च पीट्टरमेन् हिमानीतः बृहत् हिमखण्डानि विच्छिद्य पतितानि आसन्। २०१० आगस्तमासे पतितस्य हिमखण्डस्य मानहट्टन् नगरस्य द्विगुणाकारम् आसीत्। तत् यु एस् कोण्ग्रस् सभायामपि चर्चाविषयं जातम्।
अरुणाचलप्रदेशस्य षट्स्थानानां नामानि चैनया परिवर्तितानि; तर्क:  कलुषित:।।
नवदिल्ली>अरुणाचलप्रदेशस्य षट्स्थानानां नामानि चैनया एकपक्षीयमत्या परिवर्तितानि । टिबटीयस्य आत्मीयाचार्यस्य दलैलामस्य अरुणाचलसन्दर्शनं प्रतिषिद्ध्यैव चैना एवं करोतीति स्पष्टं कारणम् । चीनाभाषानामानि एतेषां स्थानानां दत्तानि ।अरुणाचलप्रदेशोपरि चैनया  अधिकारमतं कालाकालै: उन्नीयते । नवदिनात्मकसन्दर्शनं समाप्य दलैलामस्य प्रतिगमनात्परमेव नामान्तरीकरणम् ।एप्रिल् ४ त: नवदिनात्मकमासीत् तस्य अरुणाचलसन्दर्शनम्   अस्मिन् विषये चैनाया: प्रतिषेधस्वर: अनेन स्फुरति । टिबटेनसहितप्रदेश: भारतेन अनधिकृतरीत्या स्ववशं स्थापित: इति तेषां न्यायवादश्च। प्रदेशोपरि परमाधिकार: अस्माकमिति भारतं बोधयितुमेव नामान्तरीकरणंमिति चैनाया: औद्योगिकमाध्यमेन विज्ञापितम् ।तर्कभूमौ दलैलामस्य प्रवेशनं निषिद्धमिति चैऩया बहुवारं ज्ञापितं च । दक्षिणटिबट् इति अरुणाचलम् आह्वयति चैना । चैनाया: औद्योगिकभूमानचित्रे इमे प्रदेशा:  दक्षिणटिबटस्य भागरूपेण कल्पिताश्च ।

  गंगासंरक्षणाय नूतन पद्धत्या यु. पि. -मुख्यमन्त्री योगी आदित्यनाथ:
लख्नो >आङ्गलशासनकालादारभ्य गंगानद्यां राशिरूपेण एकत्रीभूतानि विषमालिन्यानि अपसारणीया नि इति समस्याम् एव सः स्वीकरोति। गंगा तीरे प्रवर्तमानानि चर्मयन्त्रागाराणि  विषमालिन्यानि अपसारणीयानि इति आह्वानम् एव सः स्वीकरोति। गंगातीरे प्रवर्तमानानि चर्मयन्त्रागाराणि विना विलंबम् अन्यत्र स्थापनाय प्रर्वतनानां प्रारम्भः अभवत्। यन्त्रागारेभ्यः उचितस्थलानि द्रष्टुम् हरितट्रिब्यूणल् संस्थां विनियोजयति स्म च। किन्तु अखिलेष्सर्वकारः अस्याः पद्धतेः विरोधम् अकरोत्।
वयनाडे इ -३ विषयसङ्केतस्य उद्घाटनम् एप्रिल् ३० दिनाङ्के ।।  
दक्षिणभारतस्य अतिबृहत्परिस्थितिसौहृदविषयसङ्केत: वयनाडे प्रवर्तनक्षमं जायमानमस्ति । मानन्तवाटीत: २० कि मी दूरे तोण्डर्नाड् ग्रामे नीलोम् स्थानके एव एप्रिल् ३० तमे इ _३ तीम् पार्क् नाम्नि परिस्थितिसौहृदविषयसङ्केत: प्रवर्तनक्षम: जायमान: वर्तते । परिस्थिति:, विज्ञानं, विनोद:-विषयत्रयमुपजीव्य पश्चिमघट्टहरितनेतृत्वसंस्थया  एव सङ्केत: आविष्कृत: । वर्षचतुष्टयेन प्राथमिकघट्टनिर्माणं पूर्तीकृतमिति प्रधानप्रबन्धकेन डो के टी अषरफ् महोदयेनोक्तम्। सामान्या: ३०० प्रवासिन:  सम्पदंशं विन्यस्य वयनाड्कार्षिकप्रतिसन्धे: पश्चात्तले संरम्भोयमारब्ध: । प्रथमघट्टे ७५ कोटि रूप्यकाणां पद्धति: ५५ कोटि रूप्यकै; पूर्तीकृतमिति तन्त्रज्ञाने प्रबन्धकक्षेत्रे वाणिज्यरङ्गे च नूतना मातृका एषा पद्धतिरिति सी ई ओ  तथा हैदराबाद रामोजी फिल्म सिटी पूर्वसह निर्देशकेन के वेङ्कटरत्नेन स्पष्टीकृतम् ।। 
एच् वन् एन् वन् ज्वरस्य प्रतिरोधौषधम्। मण्डूकस्य चर्मोपरितलात् औषधः निर्मितः।
कोच्चि>एच् वन् एन् वन् ज्वरस्य मण्डूकस्य चर्मोपरिनतलात् औषधः निर्मितः। पश्चिमघट्ट गिरिक्षेत्राणां समतलभूमौ दृष्टेभ्यः हैट्रोफिलाक्स् बाहुविस्तारा इति विज्ञाननाम्ना विख्यातेभ्यः मण्डूकेभ्यः औषधनिर्माणं क्रियते। एच् वन् एन् वन् ज्वरस्स रोगाणून् संहर्तुं शक्ताः कोशाः बाहुविस्तारायाः चर्मोपरि उत्पादितेषु स्रवेषु सन्ति। तिरुवनन्तपुरम् राजीवगान्धी सेण्टर फोर बयोटटेक्नोलजी विज्ञानगणैः सह अमेरिकायाः एमरि वाक्सिन् केन्द्रेस्य वरिष्ठव्याख्या जोषी जेक्कब् च मिलित्वा गवेषणं कृत्वा तस्य फलम् अद्य प्रकाश्यमानायां प्रसिद्ध विज्ञानमासिक्याम् इम्यूणिट्याम प्रकाशयिष्यति।

Wednesday, April 19, 2017

भारतीया: बहु इच्छन्तः प्रवेशानुमतिपत्रम् ओस्ट्रेलिय देशेन अवरुद्धम्
मेल्बण्> ओस्ट्रेलियां गन्तुं भारतीयानां कृते बहुसाहायकं प्रवेशानुमतिपत्रं ओस्ट्रेलिया देशेन अवरुद्धम् । अल्पकालीनकर्माणां कृते विदेशिजनेभ्यः दीयमानः 457 प्रवेशानुमतिपत्राणि ओस्ट्रेलिया देश: अवरुद्धाणि | राष्ट्रस्य जनानां मतं स्वीकृत्य  एव एतत् कृतं इति ओस्ट्रेलियादेशस्य प्रथानमन्त्रिणा माल्कं टाण्बुल् महोदयेन उक्तम्। 95,000 विदेशिजना : अवरुद्धान् प्रवेशानुमतिपत्रान् उपयुज्य इदानीं कर्मं कुर्वन्ति । तेषु अधिकाः भारतीया: एवI
Episode 42 -Saraswati Vidyaniketan HS, Chengamanad, Ernakulam Kerala.
तुर्क्यां  हितनिरीक्षणं राष्ट्रपतेरनुकूलम्      
अङ्कारा> तुर्क्या:  भाविनिर्णीयमानं हितनिरीक्षणं  राष्ट्रपते:  तय्यिब् एरदोगस्य अनुकूलम् ।राष्ट्रपते: अधिकारपरिधिवर्धयति  हितनिरीक्षणे ९८.२% निर्वाचनगणनायां पूर्तीकृतायां ५१.३% अनुकूलनिर्वाचनं लक्षितम् । राष्ट्रस्य १६८१४० निर्वाचनस्थानेषु ५.५ कोटि: जना: हितनिरीक्षणाय स्वाभिप्रायं निर्वाचनद्वारा  सूचितवन्त: ।नूतनशासनघटनाया: आगमने अनुकूलप्रतिकूलहितनिरीक्षणात्मकप्रश्ना:  केवलम् आसन् निर्वाचनपत्रेषु। औद्योगिकफलम् अप्रख्यापितं चेदपि शासकवृन्दै: विजय: प्रख्यापित:। राष्ट्रं चरित्रपरं निर्णयं स्वीकृतवदिति एर्दोगने अवकाशवादे उन्नीते ,  अयं विजय: शासनमुल्लङ्घितुंये प्रयतितवन्त: तथा शत्रूणां च कृते प्रत्युत्तरमेवेति प्रधानमन्त्री बिनाली यिल्द्रिम् उक्तवान् । निर्वाचने  कृत्रिमत्वमारोप्य प्रधानप्रतिपक्षेण पुनरपि गणना आवश्यकीति  सूचितम् । सुस्थिरं विकसितं च राष्ट्रकरणंवाग्दानम् एरदोगेन जनानां कृते दत्तम् ।हितनिरीक्षणे अनुकूले २०२९ पर्यन्तम् एतेन राष्ट्रपतिपदे  अनुवर्तितुं शक्यते । प्रधानमन्त्री तथा परमोन्नतनीतिपीठस्थ न्यायाधिपा:  एतेषां नियमनं   सभामतिं विना साम्पत्तिकनयरेखावतारणं राष्ट्रे जाग्रतावस्थाप्रख्यापनं प्रतिस्वीकरणं  मन्त्रिमण्डलनिर्णयानाम् उल्लङ्घनं एतेषु राष्ट्रपते:  अधिकार: वर्धते  नूतनशासनघटनाभेदगत्या इति एरदोगस्य मतम् । संयुक्तकक्षिशासनं सुरक्षाप्रतिसन्धय: सैनिकलङ्घनानि च वारयितुं शासनघटना परिवर्त्य लेखनीया इति  एरदोगानुकूलिन:। अधिकाधिकारदानम् एकं केन्द्रीकृत्य इति भीत्या प्रतिकूलिन: च।

राष्ट्रपते: केन्द्रमन्त्रिणां च भाषणानि इत:परं हिन्दी भाषायाम्।
नवदिल्ली> राष्ट्रपते: केन्द्रमन्त्रिणाञ्च भाषणानि इत: परं केवलं हिन्दीभाषायां करणीयानि इति लोकसभाया: समित्या: निर्देश: राष्ट्रपतिना अङ्गीकृत: ।हिन्दीभाषमाणानां पठितुं शक्तानाञ्च एषा निबन्धना ।हिन्दीभाषाया: प्रयोगप्राचुर्याय एव समित्या: निर्देशोयम् । समित्या: इतरनिर्देशानां कृतेपि राष्ट्रपतेरङ्गीकार:  प्राप्त: । हिन्दीभाषितुं लेखितुं च समर्था: सर्वेपि मन्त्रिण: तेषां प्रस्तावना:  भाषणानि च हिन्द्यामेव  इत: परं दातव्या: । एयर् इन्डिया विमानचिटिकायामपि हिन्द्यां कार्याणि सूचनीयानि ।तेषु विमानेषु हिन्दी पत्रिका: मासिकी: च योजनीया: । आङ्गलेयघोषणा: अनुवर्त्य हिन्द्यामपि घोषणा:  इत्यादि कार्याण्येव राष्ट्रपतिना अङ्गीकृतानि । किन्तु पञ्चमी कक्ष्यात: हिन्दीपठनम् अनिवार्यम्, उद्योगस्थानां  निर्बन्धहिन्दीपरिज्ञानम्, हिन्दीप्रचाराय प्रत्येकतस्तिकानिर्माणम्, हिन्दीपरस्यानां कृते अधिकधनविनियोग:  इत्यादिनिर्देशान् नाङ्गीकृतवान् राष्ट्रपति: ।

सर्वाण्यपि भीकरकर्माणि प्रतिरोद्धुं पाक्किस्थानाय अमेरिका।
इस्लामाबादः - भीकरवादस्य सर्वाण्यपि रूपाणि प्रतिरोद्धुं पाक्किस्थानाय अमेरिका अवोचत्। पूर्वनिर्णयं विना ह्यः पाक्किस्थानं सन्दर्शितेन यु एस् देशीय सुरक्षा उपदेशकेन एच् आर् मक्मास्टरेण पाक्किस्थान सेना नेतृत्वेन सह चर्चां क्रियते स्म। पाक्किस्थानसन्दर्शितः ड्रंप् सर्वकारस्य प्रथमः समुन्नत कर्मकरः भवति मक्मास्टरः । काबूल सन्दर्शनानन्तरं सः इस्लामाबादम् आगतवान्।
ड्रंप् सर्वकारेण सह पाक्किस्थान स्य प्रथम उन्नततल आशयविनिमयमिदम्। काश्मीरेण सह सर्वाः समस्याः परिहर्तुं उभयकक्षिचर्चासु दृढविश्वासमस्तीति पाक्किस्थान प्रधानमन्त्रिणा नवास षेरीफेण व्यक्तीकृतम्। तदर्थं राष्ट्रपतेः ट्रंपस्य सन्नद्धतां प्रधानमन्त्रिः स्वागतम् अकरोत्।
 अमेरिका सुरक्षा उपदेशकेन सह पाक्-अफ्गान् विदग्धानां नयतन्त्रज्ञानां संघमपि आसीत्। अफ्घानिस्थानस्य ऐ एस् केन्द्रेषु यु एस् सेनायाः बृहत्तरं  अग्निगोलकाक्रमणानन्तरमस्ति मक्मास्टरस्य अफ्कान् पाक्क् सन्दर्शनम्।

Tuesday, April 18, 2017

केरळे विद्युत्प्रमाणं संवर्धितम्। 
अनन्तपुरी> केरळराज्ये विद्युदुपभोगस्य मूल्यप्रमाणं रगुलेटरि कम्मीषन् संस्थया संवर्धितम्। गार्हिकोपभोगाय वैद्युतेः मूल्यं दश पैसाभ्यः आरभ्य पञ्चाशत् पैसापर्यन्तं एकाङ्कं प्रति  [यूणिट् ] वर्धनं जातम्। उद्योगोपभोगाय त्रिंशत् पैसानां वर्धनमभवत्। किन्तु वाणिज्य-कार्षिकावश्यानां वर्धनं नास्ति। नूतनप्रमाणानि अद्य प्रवृत्तिपथमापद्यते।

संस्कृतविश्वविद्यालये सौरवैद्युतनिलयः उद्घाटितः। 
कालटी>  कालटी श्रीशङ्कराचार्य संस्कृतविश्वविद्यालये सौरवैद्युतनिलयस्य समुद्घाटनं नवदिल्ल्याम् आयोजिते समारोहे केन्द्रमन्त्रिणा प्रकाश् जावेद्कर् वर्येण निर्व्यूढम्। अन्येषां कृते पि आदर्शभूता पद्धतिरिति तेन प्रोक्तम्। केरलस्य शिक्षामन्त्रिणः सि रवीन्द्रनाथस्य सान्निध्ये आसीदुद्घाटनम्। समारोहस्य तत्समयवीडियो सम्प्रेषणं सर्वकलाशालायाः कनकधारा सभागृहे प्रवृत्तम्।
       विश्वविद्यालयस्य शैक्षिकभवनसमुच्चयस्य (Academic Block) उपरि १२३० चतुरश्रमीटर् विस्तृतौ स्थापितात् अस्मात् निलयात् प्रतिदिनं ४००-५०० एककपरिमितं विद्युच्छक्तिम् उत्पादयितुमर्हति। विद्युत्कोशसंभरणप्रणालिं विना (Battery Storage) के एस् ई बि संस्थायाः संभरण वितरणश्रृङ्खलां प्रति (Grid) एव निलयः संयोजितः अस्ति। अनया पद्धत्या प्रतिमासम् एकलक्षरूप्यकाणां लाभः भविष्यति।
शुक्रग्रहस्यापि अपरः।


पृथिवीतः २१९ प्रकाशवर्षस्य दूरे शुक्रसमानमेकं ग्रहं गवेषकैः पर्यवेषितम्। वर्णन्यूनमेकं नक्षत्रं भ्रमणं कुर्वन्नस्ति एषलः अपरः। सूर्यस्य पञ्चसु एकं व्यासवन्तं केप्लर्-१६४९ नामधेयं नक्षत्रं एतत् भ्रमणं करोति। नवैः दिनैः एतत् ग्रहं एकवारं मातृनक्षत्रं भ्रमति इति गवेषकैः निरीक्षितम्।

सूर्यापेक्षया न्यूनप्रकाशवत् भवति केप्लर्-१६४९। नवीनं ग्रहं केप्लर-१६४९बी इति नामधेयं दत्तम्। पृथिवीसमानानां ग्रहाणां पर्यवेषणे अस्ति महदी श्रद्धा।किन्तु शुक्रसमानानां ग्रहाणां पर्यवेषणमपि प्राधान्यमर्हतीति गवेषकया इलीसा क्विन्टानया अवोचत्।


 मलप्पुरे यू डि एफ् दलस्य उज्वलविजयः।
मलप्पुरम् > केरले मलप्पुरं लोकसभामण्डले प्रवृत्ते उपनिर्वाचने इन्ड्यन् नेषणल् कोण्ग्रस् दलस्य नेतृत्वे विद्यमानस्य यू डि एफ् दलस्य मुस्लीं लीग् स्थानाशी पि के कुञ्ञालिक्कुट्टी उज्वलविजयं प्राप्तवान्। मुख्यप्रतियोगिनः वामपक्षसंघस्य [एल् डि एफ्] एम् पि  फैसल् इत्यस्मात् त्रयोविंशत्यधिक एकसप्ततिसहस्रोत्तर एकलक्षं मतदानानि अधिकतया प्राप्तवान्। मलप्पुरं लोकसभामण्डले विद्यमानेषु सप्तसु नियमसभामण्डलेषु अपि यूडिएफ् दलस्य अग्रगामित्वं विद्यते।

आत्मघात्याक्रमणं - सिरियायां मरणानि १२६ अभवन्।
डमास्कस् > सिरियादेशे अलप्पोनगरे शनिवासरे दुरापन्ने आत्मघातिबोम्बाक्रमणे मरणसंख्या १२६ अभवत्। शताधिकाः जनाः व्रणिताः। मृतेषु ६८संख्याकाः बालकाः भवन्ति।
    विमतनियन्त्रितनगरस्थामलप्पुरे यू डि एफ् दलस्य उज्वलविजयः। न् जनान् सर्वकारनियन्त्रितप्रदेशं नीयमानः वाहनव्यूहः आक्रमणविधेयः अभवत्। स्फोटकवस्तुसम्बद्धं ट्रक् यानं स्थगितं वाहनव्यूहं प्रति घट्टनं कारितमासीत्। प्रदेशस्थं पेट्रोल् तैलकेन्द्रमपि अग्निबाधितम् इत्यतः एव मृत्युसंख्या वर्धिता।
    इरान् तुर्की खत्तर् इत्येतेषां माध्यस्थे  सरियासर्वकारः विमतैः सह कृतं समयमनुसृत्य आभ्यन्तरयुद्धकलुषितप्रदेशेभ्यः जनान् निष्कासयितुमारब्धम्।


 पाक्किस्थान् नागरिकाणां दृढनियन्त्रणम्। चिकित्सा वीसा अपि न दास्यतीति भारतम्।
नवदेहली>पाक्किस्थानेन मृत्युदण्डनाय निर्णीताय पूर्व भारत नाविक कमाण्डर कुलभूषण जादवस्य मोचनस्य भागत्वेन पाक्किस्थान नागरिकाणां कृते भारतेन वीसा नियन्त्रणम् अकारयत्। चिकित्सा वीसा अपि न दास्यतीति निर्णयम्।
भारतस्य पूर्व नाविकसेना कार्यकर्त्रा कुलभूषण जादवः चारप्रवृत्तिः अकरोत् तस्य अभिज्ञानानि सन्ति इति पाक्किस्थानेन उक्तम्। कार्यमिदं रेखाभिः सह ऐक्यराष्ट्रसभायां समर्पयितुम् पाक्किस्थानः श्रमम् आरभत।
तदानीं कुलभूषण जादवाय नियमसहायम् अवुवदनीयमिति भारतस्य आवश्यकतां पाक्किस्थानेन चतुर्दशवारमपि न स्वीचकार।

Monday, April 17, 2017

नेप्पाल् - चीना संयुक्तसैनिकाभ्यास: आरब्धःI
काठ्मण्डुः नेप्पाल् >भीकरवादस्य दूरीकरणार्थमेव चीनया सह अभ्यास: चेदपि मण्डलेषु चीनाया: सानिध्यं भारतस्य कृते क्वेशाय भवति । 'सागर्माता फ्रण्ड्षिप्प् 2017' इति नाम्ना अभ्यास: दशदिनात्मक: भवति । एवरस्ट् पर्वतस्य नेप्पाल् भाषायां नाम भवति सागर्माता इति । रविवासरादारभ्य एप्रील् पञ्चविंशति पर्यन्तं अभ्यासः प्रचलति । लोके इदानीं भीकरवादस्य प्रासारः इत्यतः तस्य निवारणार्थं राष्ट्रद्वयस्य संयुक्त परिश्रमस्य अङ्कत्वेन एव एष: अभ्यास: इति नेप्पाल्  देश: परामृशत्।
अभ्यासाय चीनासैनिका: एकवारात् पूर्वं नेप्पाल् आगत्य परिशीलनम् आरब्धवन्त: l भीकरवादस्य निवारणार्थं तथा दुर्खटना निवारणार्थं च सहयोगता भवति ।
सैन्यस्य विपूलीकरणमपि नेप्पाल् एतेन सह चिन्तयति । पूर्वं भारतेन तथा अमेरिक्कया सह च नेप्पाल् अभ्यासमकरोत् ।
 कुलभूषणस्य मृत्युदण्डनम्।  
द्वादशपाक्किस्थानपौराणां मोचनं भारतेन तिरस्कृतम्।
नवदेहली> भारतस्य चारः इत्यारोप्य २०१६ मार्च् मासे पाक्किस्थानेन गृहीताय कुलभूषण जादवाय मृत्युदण्डनं पाक्किस्थानेन प्रख्यापितं वर्तते।तस्मिन् विषये  भारतं स्वप्रतिषेधं पाक्किस्थानं प्रति न्यवेदयत्।   सामान्यनीतेः लंघनमेव भवति वधदण्डः इति भारतेन उक्तम्। वधदण्डं नीत्यनुसारं नास्तीति चेत् तस्य दण्डनं  हननमेवेति गणनीयं स्यात् इति भारतं तान् अतर्जयत्। बुधवासरे मोक्तुं निर्णीतानां द्वादश  पाकिस्थानपौराणां मोचनं भारतेन निरुद्धम्। किन्तु कुलभूषण जादवस्य वधदण्डनं शीघ्रं न भविष्यतीति  पाकिस्थान प्रतिरोधसचिवेन ख्वाजा मुहम्मद् आसीफेन व्यक्तीकृतम्। भारतस्य भीषण्यः न गणनीयाः इति प्रधानसचिवेन तथा सेनाधिपेन जनरल् खमर् जावेद् बज्वेन च समं जातायां संगोष्ठ्यां निरूपितमस्ति।                       


भारतीयज्ञानसम्पन्नया संस्कृतभाषया एव संस्कारः प्रवृद्धः- स्वमी आदित्यानन्दमहाराजः
भारतीयज्ञानसम्पन्नया संस्कृतभाषया एव संस्कारः प्रवृद्धः भवति इति स्वमी आदित्यानन्दमहाराजः उक्तवान् । तृश्माश्शिवपुरे चेम्मण्टायाम् प्रवृत्ते नाचिकेतसम्  इति बालानां शास्त्रशिबिरस्य उद्घाटने एव एवम् अवदत् ।  मातृभाषा इव परिपावना एव एषा इति मत्वा अग्रे गन्तव्यम् इति च उद्घुष्टवान्। विश्वसंस्कृतप्रतिष्ठानस्य शिक्षणप्रमुखः डा. ई एन्  ईश्वरः आमुखभाषणम् कृतवान् । डा. शङ्करनारायणः अध्यक्षः आसीत्। पि जयकुमार् स्वागतम् वन्दना जे कृतज्ञतां च उक्तवन्तौ। चिताः40 बालाः शिबिरे शास्त्राध्ययनं कुर्वन्ति। एप्रिल् 28 अस्य समापनम्।

एकादशे वयसि द्वादशकक्ष्यां विजित्य
  हैद्राबाद्> द्वादशकक्ष्यातः विजयं प्राप्य एकादशवयस्क: अगस्त्य जैस्वालः। हैदराबादस्य सेन्ट् मेरीस् जूणियर् कलाशालातः एव अस्य विजयः । प्रतिशतं त्रिषष्ठि अङ्काः तेन प्राप्ताः। तेलङ्काना राज्ये लघुवयसि +2 परीक्षायाम् उत्तीर्णतां प्राप्तवत्सु एषः एव लघुवयस्क:। भिषग्वरः भावितव्यः इति अस्य बालकस्य अभिलाषः।

अनावश्यवस्तूनां शृड़्गपतनेन षोडशजनाः हताः।
कोलम्बो> श्रीलड़्कायाः आस्थाननगर्यां कोलम्बेयां त्रिशतोन्नतं अनावश्यवस्तूनां शृड़्गपतनेन षोडशजनानां मरणम् अभवत्। अनेकाः क्षतबाधिताः च अभवन्। पार्श्ववर्तिनः १४५ गृहाः शिथिलाः अभवन्। कठोरं शब्दं श्रुत्वा धाविताः रक्षां प्रापुः। मरणसंख्या पुनरपि वर्धिष्यति इति अस्ति निगमनम्।
श्रीलड़्काराष्ट्रस्य परम्परागत नववत्सराघोषवेलायामस्ति दुरव्तमिदम्। वर्षेभ्यः मालिन्य क्षेपणेन पर्वतीभूयक्षेत्रे अग्निबाधया दुरन्तमिदं जातम्।आरक्षकाः, सेना , सामान्यजनाः च सेवातर्मसु प्रवर्तन्ते।

महाराष्ट्रायां सप्त विद्यार्थिन: अध्यापकश्च निमज्जने मृता: ।।       
मुम्बै> कर्णाटकस्वदेशिन: सप्त विद्यार्थिन: एक: अध्यापकश्च महाराष्ट्रायां निमज्जनेन मृता: । बलगामत: आगता: यन्त्रज्ञा: विद्यार्थिन: एव सिन्धुदुर्गमण्डले वैरि समुद्रतीरे निमज्य  मृतवन्त: ।मृतेषु तिस्र: विद्यार्थिन्यश्च अन्तर्भवन्ति । अपघातात् त्रीन् विद्यार्थीन् रक्षितवन्त: ।बलगामस्थात् मरात्ता यन्त्रकलाशालाया: ५० विद्यार्थिनां गण: अत्र विनोदयात्रार्थमागता: ।समुद्रमवतीर्य स्नानसमये एते शक्तासु वीचीषु बद्धा: अभवन् । विद्यार्थीन् प्रति अपघातसूचना: दत्ता: किन्तु ते तत् समुल्लड्घ्य  समुद्रमवातरन्निति आरक्षका: सूचितवन्त: । समुद्रे मीनग्राहका: धीवरा: त्रीन् रक्षितवन्त: । इतरेषां मृतदेहान् तीरं प्रापितवन्तश्च धीवरा: । रक्षां प्राप्ता: छात्रा: तु गुरुतरावस्थायां वर्तन्ते इति च आरक्षका: उक्तवन्त: ।

लोकपितामही दिवड्गता ।।
 रोम> लोके एव अधिकवयस्का स्त्री तथा लोकपितामहीति ख्याता एम्मा मोरानो ( ११७ )  दिवड्गता ।१० शतके जीवनं कृता एका व्यक्ति:  एम्मा शनिवासरे मृत्युवशं गता ।द्वयोरपि लोकमहायुद्धयो: साक्षिभूता सा अतिदैर्घ्यतरां  जीवनयात्रामेव पूर्तीकृतवती। त्रिषु राज्येषु जीवनकालं  यापितवती एम्मा इट्टलीदेशे अन्तिमकालमुषितवती।

Sunday, April 16, 2017

अमेरिक्कायाः बोम्बाक्रमणेन हताः ९४ भीकराः। 
काबूल्>अफ्गान्स्थाने अमेरिक्कया कृतेन बृहत्तमेन आणवेतरबोम्बाक्रमणेन चतुर्नवतिः ऐ एस् भीकराः हताः। हतेषु कतिपयाः केरलीयाः अपि अन्तर्भवन्तीति सूच्यते। 
     गुरुवासरे सायंतने आसीत् बोम्बानां माता इत्याख्यमाणेन जि बि यू ४३- बि उपयुज्य पाकिस्थानसीमायां नांगहार् जनपदस्थम् ऐ एस् शिबिरम् अमेरिक्कया आक्रमितम् । शक्तिमत्ते स्फोटने भीकराणां रहस्यकेन्द्राणि नाशितानि। किन्तु सैनिकानां सामान्यजनानां वा कामपि दुर्घटनां विना अफ्गानिस्थान् सर्वकारस्य सहयोगेन सम्पूर्णतया आसूत्रितम् आक्रमणमासीदिति नांगहार् प्रविश्यायाः राज्यपालेन इस्मयिल् षिन्वारिणा उक्तम्।

 साहसिकस्वीयचित्रग्रहणाभ्यन्तरे  अपघात: । युवानं रक्षितुमुद्युक्ता: चत्वार: मृतवन्त:
 कोलकत्ता> साहसिकस्वीयचित्रस्वीकाराय यून: श्रम: चतुर्णां दारुणमरणकारणमभवत्। पश्चिमवड्गस्य हौरायां गुरुवारे सायमेव एषा दारुणदुर्घटना प्रवृत्ता। रेल्यानेन यात्रामध्ये  अपघातितं तरकनाथमकलं युवानं रक्षितुं चत्वार: प्रयतितवन्त:  पश्चात्  दिवड्गताश्च। रेलयानस्य बहिर्द्वारि स्थित्वा स्वीयचित्रग्रहणं कुर्वन् तरकनाथ: स्खलितपाद: अध:  पतितवान् । तं ग्रहीतुम् उद्युक्ता: चत्वारोपि सुहृद: यानात् उत्प्लुता: किन्तु  समान्तररेलमार्गे पतिता:। तस्मिन्नेव क्षणे  विपरीतदिशया आगतं रेलयानं चतुर्णामपि शरीरोपरि आरुह्य गतम् । तरकनाथ: अतीवगुरुतरावस्थायाम्  आतुरालये  प्रवेशित:। सुमितकुमार:, सञ्जीवपोली, काजलसाह, चन्दनपोली  एते मृता: सुहृद:। सर्वेपि २५ -३० मध्ये प्राप्तवयस्का:। लिलौह--- बेलूरु रेलस्थानकाभ्यन्तरे एव अपघात: समभवत् । हौराप्रान्तस्थे तरकेश्वरमन्दिरे प्रार्थनां समाप्य प्रतिप्रस्थिता: एते पञ्च सुहृद: । एतै: यात्रितयानपेटिकायां  महान् सम्मर्द : आसीत् । तन्मध्ये एव द्वारे दोलनं कृत्वा स्वीयचित्रग्रहणाय तरकनाथस्य श्रम: इति  आरक्षका: उक्तवन्त:। त्रिचक्रिकाचालका: तथा एकस्यां  व्यवसायसंस्थायाम् कर्मकराश्च एते युवीन: । तसकनाथात् विशदांशान्  स्वीक्रियमाणा: सन्तीति  आरक्षका: कथितवन्त: ।।
देविदास देशपांडे
'भीम् आप्' जङ्गम-दूरवान्यां योजयते चेत् 10 रुप्यकाणि वित्तकोशे आगमिष्यन्ति।

नव दिल्ली>  आधार् अधिष्टित धनविनिमय संविधानमिति सुज्ञातः भीम् आप् सुविधायाः प्रचाराय सर्वकरेण नूतना योजना अवतारिता
भीम आप् सुविधायाः उपयोकताराः नूतनतया एकं 'भीम आप्' सुविधायाम् भागभाक् करोति चेत् तस्य प्रचोदकस्य वित्तलेखे पारितोषिकत्वेन दश(१०) रुप्यकाणि पूर्यते। एतादृशरूपेण अधिकान् योजयित्व बहुवारं दशरूप्यकाणि लब्धुम् सन्दर्भः अस्ति।
वणिजानामपि  अनुकूलता अस्ति। भीम् आप् उपयुज्य क्रियमाणाय प्रति विनिमयाय दशरुप्यकाणि प्रतिलप्स्यते।
समर्थकरदूरवाणी द्वारा 'बयाेमेट्रिक्' 'दत्तानि ' (DATA) उपयुज्य क्रियमाणः धनविनिमयः राष्ट्रस्य सम्पद् विधानस्य शक्तिप्रदायकः भविष्यति इति आनुकूल्यं प्रख्याप्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।

Saturday, April 15, 2017

श्रीनगरे मतदानं केवलं द्वे प्रतिशतम्।
श्रीनगरं - जम्मुकाश्मीरस्य श्रीनगरं लोकसभामण्डले सम्पन्ने उपनिर्वाचनम् अनुबन्ध्य ३८मतदानकेन्द्रेषु प्रवृत्तायां पुनर्मतदानप्रक्रियायां केवलं द्वे प्रतिशतं मतदानमेव संवृत्तम्। प्रस्तुतदिने बद्गाम् जनपदे विघटनवादिभिः हट्टतालं प्रख्यापितमासीत् इत्यतः अतीव सुरक्षासन्नााहेनैव पुनर्मतदानम् आयोजितम्।
     रविवासरे संवृत्ते उपनिर्वाचने अक्रमासक्तं जननिवहं प्रति सुरक्षासेनया कृते भुषुण्डिप्रयोगे अष्टौ जनाः हताः। अत एव पुनर्मतदानम् आयोजितम्। तस्मिन् दिने ७.१४ प्रतिशतम् आसीत् मतदानम्।

जादवाय आवेदनं समर्पितुं भारतम्। अपराधपत्रस्य प्रतिलिपिः अन्विच्छत्।
नवदेहली>भारतस्य चारत्वेन पाक्किस्थानेन गृहीत्वा मृत्युदण्डनाय निर्णीताय कुलभूषण जादवाय दीयमान दण्डनं न्यूनीकर्तुं नूतनयुक्तिसमर्थनं पत्रं  समर्पितुं भारतं निर्णयं कुर्वदस्ति। पाक् विदेशकार्य निर्देशकेन डेह्मिना जान्जुवेन सह भारत स्थानपतिना गौतं बंबावालया कृतायां संगोष्ठ्याम् जातः अयं निर्णयः । तदर्थं जादवस्य अपराधपत्रस्य प्रतिलिपिः भारतेन वाञ्छिता। कुलभूषण जादवं मेलितुं भारतस्य नयतन्त्र कार्यकतॄणां कृते अनुमतिः दातव्या इति गौतं बंबावाला अवदत्। त्रयोदशवारं भारतेन एतदेव आवश्यं निवेदितमासीत्। किन्तु सर्वदा पाक्किस्थानेन निराकृतम्। चारप्रवर्तने गृहीतं जनं मिलितुं अनुमतिः न ददातीति पाक्किस्थानेन व्यक्तीकृतम्। किन्तु अन्ताराष्ट्रिय नियमानुसारं तदर्थं अवकाशः अस्तीति गौतं बंबावालया उक्तम्।

 पोड़्याड़तः षट् लक्षजनान् निष्कासयितुं किं जोड़् उन्। विश्वं चिन्तायाम्।
सोल्>उत्तरकोरियायाः आस्थानात् पोड़्याड़तः षट् लक्षजनान् संवाह्य अन्यत्र नेतुं  एकाधिपतिना किं जोड़् उन् आज्ञापितम्। लोकराष्ट्रानि चिन्ताकुलानि। जनान् किमर्थं निष्कासयति इत्येतस्मिन् व्यक्तता नास्ति। षष्टाय आणवायुधपरीक्षणाय सज्जं भवति  उत्तरकोरिया राज्यम्। तदेव जनानां निष्कासनस्य हेतुः अस्तीति ऊहकल्पनाः प्रचरन्ति। उत्तरकोरियां प्रति अमेरिका प्रतिषेधं न्यवेदयत्। अतः किं जोड़् उन् युद्धाय सुसज्जन्नस्तीति प्रतिवेदनानि सन्ति।

नयरेखा: अड्गीकृता:  साम्पत्तिकनयप्रख्यापनसम्मेलनं समाप्तम् ।।।          
 नवदिल्ली >१८ नयरेखा: अड्गीकृत्य  लोकसभायां साम्पत्तिक-नयप्रख्यापन-सम्मेलनस्य द्वितीय,घट्ट: परिसमाप्त: । करपरिष्कारे चरित्रे एव अतिबृहत्  इत्यड्गीकृता  भारवाहकसेवननिकुति: ( जी एस् टी)  तत्सम्बद्धा: ४ नयरेखाश्च एषु  अन्तर्भवन्ति । अहोरात्रं प्रवर्तनं कृत्वैव जी एस् टी नयरेखा: लोकसभया अड्गीकृता:।


पार्श्ववत्कृतानां कृतेप्रवर्तमानस्य आयोगस्य संविधानपदवी 
नवदिल्ली >पार्श्ववत्कृतानां कृते प्रवर्तमानसमित्या: (कमीशन्) नयरेखाड्गीकाराय संविधानपदवी दत्ता इति सर्वकाराणामभिमानार्ह:। एतदर्थं हुकुमदेव: उमाभारती आदय: ओ बी सी  अड्गत्वेन राजमाना: नेतार: प्रधानमन्त्रिणं नरेन्द्रमोदिनं सन्दर्श्य कृतज्ञतां सूचितवन्त:। यन्त्रवाहननियमभेदगति:, यन्त्रागारनियमभेदगति: आदिनयरेखाश्च   याथार्थ्या: अभवन् ।सर्वकारसम्बद्धा: सम्पूर्णसाम्पत्तिकप्रवर्तनक्रमा:अपि आगामिसाम्पत्तिकवर्षारम्भात्पूर्वमेव मार्च् ३१ आभ्यन्तरे पूर्तीकर्तुं च शक्ता:। विकसनपद्धतीनां चालनाय विहितं धनं पूर्णंतया विनिमातुं  मन्त्रालयै: शक्यते । अस्मिन् वर्षे  साम्पत्तिकनयरेखापि पूर्वमेव अवतारिता । रेल् बजट् सामान्यबजट् च योजयित्वा अवतारिता । कार्यक्रमाणाम् पूर्तीकरणाय उभेपि सभे अधिकसमयं प्रवर्तिते। प्रधानमन्त्रिण: धनमन्त्रिण: च नेतृत्वमेव अभिमानस्यैतस्य पृष्ठत: इति सभाकार्यमन्त्री अनन्तकुमार: उक्तवान् । सभे राष्ट्रपति: सम्बोधितवान्। २४ नयरेखा: लोकसभायाम् अवतारिता: तासु २३ अड्गीकृताश्च । राज्यसभायां तथा १४ च । एयर् इन्डिया कर्मकरं शिवसेना एम् पी मर्दितवानिति घटना सभायां कोलाहलाय अभवत् । विमानशाला: एम् पीं रोधं कल्पितवत्य: इति च चर्चा अभवत्  ।व्योमयानमन्त्रालयाय क्षमापणं विलिख्य प्रश्न: परिहृत: । इलक्ट्रोणिक् निर्वाचनयन्त्रं प्रति आरोपणं च प्रतिपक्षेण सभयो: आवर्तितम् ।केरलस्य सी पी एम् अक्रमश्च चर्चाविषय: अभवत् ।