OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, April 16, 2017

'भीम् आप्' जङ्गम-दूरवान्यां योजयते चेत् 10 रुप्यकाणि वित्तकोशे आगमिष्यन्ति।

नव दिल्ली>  आधार् अधिष्टित धनविनिमय संविधानमिति सुज्ञातः भीम् आप् सुविधायाः प्रचाराय सर्वकरेण नूतना योजना अवतारिता
भीम आप् सुविधायाः उपयोकताराः नूतनतया एकं 'भीम आप्' सुविधायाम् भागभाक् करोति चेत् तस्य प्रचोदकस्य वित्तलेखे पारितोषिकत्वेन दश(१०) रुप्यकाणि पूर्यते। एतादृशरूपेण अधिकान् योजयित्व बहुवारं दशरूप्यकाणि लब्धुम् सन्दर्भः अस्ति।
वणिजानामपि  अनुकूलता अस्ति। भीम् आप् उपयुज्य क्रियमाणाय प्रति विनिमयाय दशरुप्यकाणि प्रतिलप्स्यते।
समर्थकरदूरवाणी द्वारा 'बयाेमेट्रिक्' 'दत्तानि ' (DATA) उपयुज्य क्रियमाणः धनविनिमयः राष्ट्रस्य सम्पद् विधानस्य शक्तिप्रदायकः भविष्यति इति आनुकूल्यं प्रख्याप्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्।

Saturday, April 15, 2017

श्रीनगरे मतदानं केवलं द्वे प्रतिशतम्।
श्रीनगरं - जम्मुकाश्मीरस्य श्रीनगरं लोकसभामण्डले सम्पन्ने उपनिर्वाचनम् अनुबन्ध्य ३८मतदानकेन्द्रेषु प्रवृत्तायां पुनर्मतदानप्रक्रियायां केवलं द्वे प्रतिशतं मतदानमेव संवृत्तम्। प्रस्तुतदिने बद्गाम् जनपदे विघटनवादिभिः हट्टतालं प्रख्यापितमासीत् इत्यतः अतीव सुरक्षासन्नााहेनैव पुनर्मतदानम् आयोजितम्।
     रविवासरे संवृत्ते उपनिर्वाचने अक्रमासक्तं जननिवहं प्रति सुरक्षासेनया कृते भुषुण्डिप्रयोगे अष्टौ जनाः हताः। अत एव पुनर्मतदानम् आयोजितम्। तस्मिन् दिने ७.१४ प्रतिशतम् आसीत् मतदानम्।

जादवाय आवेदनं समर्पितुं भारतम्। अपराधपत्रस्य प्रतिलिपिः अन्विच्छत्।
नवदेहली>भारतस्य चारत्वेन पाक्किस्थानेन गृहीत्वा मृत्युदण्डनाय निर्णीताय कुलभूषण जादवाय दीयमान दण्डनं न्यूनीकर्तुं नूतनयुक्तिसमर्थनं पत्रं  समर्पितुं भारतं निर्णयं कुर्वदस्ति। पाक् विदेशकार्य निर्देशकेन डेह्मिना जान्जुवेन सह भारत स्थानपतिना गौतं बंबावालया कृतायां संगोष्ठ्याम् जातः अयं निर्णयः । तदर्थं जादवस्य अपराधपत्रस्य प्रतिलिपिः भारतेन वाञ्छिता। कुलभूषण जादवं मेलितुं भारतस्य नयतन्त्र कार्यकतॄणां कृते अनुमतिः दातव्या इति गौतं बंबावाला अवदत्। त्रयोदशवारं भारतेन एतदेव आवश्यं निवेदितमासीत्। किन्तु सर्वदा पाक्किस्थानेन निराकृतम्। चारप्रवर्तने गृहीतं जनं मिलितुं अनुमतिः न ददातीति पाक्किस्थानेन व्यक्तीकृतम्। किन्तु अन्ताराष्ट्रिय नियमानुसारं तदर्थं अवकाशः अस्तीति गौतं बंबावालया उक्तम्।

 पोड़्याड़तः षट् लक्षजनान् निष्कासयितुं किं जोड़् उन्। विश्वं चिन्तायाम्।
सोल्>उत्तरकोरियायाः आस्थानात् पोड़्याड़तः षट् लक्षजनान् संवाह्य अन्यत्र नेतुं  एकाधिपतिना किं जोड़् उन् आज्ञापितम्। लोकराष्ट्रानि चिन्ताकुलानि। जनान् किमर्थं निष्कासयति इत्येतस्मिन् व्यक्तता नास्ति। षष्टाय आणवायुधपरीक्षणाय सज्जं भवति  उत्तरकोरिया राज्यम्। तदेव जनानां निष्कासनस्य हेतुः अस्तीति ऊहकल्पनाः प्रचरन्ति। उत्तरकोरियां प्रति अमेरिका प्रतिषेधं न्यवेदयत्। अतः किं जोड़् उन् युद्धाय सुसज्जन्नस्तीति प्रतिवेदनानि सन्ति।

नयरेखा: अड्गीकृता:  साम्पत्तिकनयप्रख्यापनसम्मेलनं समाप्तम् ।।।          
 नवदिल्ली >१८ नयरेखा: अड्गीकृत्य  लोकसभायां साम्पत्तिक-नयप्रख्यापन-सम्मेलनस्य द्वितीय,घट्ट: परिसमाप्त: । करपरिष्कारे चरित्रे एव अतिबृहत्  इत्यड्गीकृता  भारवाहकसेवननिकुति: ( जी एस् टी)  तत्सम्बद्धा: ४ नयरेखाश्च एषु  अन्तर्भवन्ति । अहोरात्रं प्रवर्तनं कृत्वैव जी एस् टी नयरेखा: लोकसभया अड्गीकृता:।


पार्श्ववत्कृतानां कृतेप्रवर्तमानस्य आयोगस्य संविधानपदवी 
नवदिल्ली >पार्श्ववत्कृतानां कृते प्रवर्तमानसमित्या: (कमीशन्) नयरेखाड्गीकाराय संविधानपदवी दत्ता इति सर्वकाराणामभिमानार्ह:। एतदर्थं हुकुमदेव: उमाभारती आदय: ओ बी सी  अड्गत्वेन राजमाना: नेतार: प्रधानमन्त्रिणं नरेन्द्रमोदिनं सन्दर्श्य कृतज्ञतां सूचितवन्त:। यन्त्रवाहननियमभेदगति:, यन्त्रागारनियमभेदगति: आदिनयरेखाश्च   याथार्थ्या: अभवन् ।सर्वकारसम्बद्धा: सम्पूर्णसाम्पत्तिकप्रवर्तनक्रमा:अपि आगामिसाम्पत्तिकवर्षारम्भात्पूर्वमेव मार्च् ३१ आभ्यन्तरे पूर्तीकर्तुं च शक्ता:। विकसनपद्धतीनां चालनाय विहितं धनं पूर्णंतया विनिमातुं  मन्त्रालयै: शक्यते । अस्मिन् वर्षे  साम्पत्तिकनयरेखापि पूर्वमेव अवतारिता । रेल् बजट् सामान्यबजट् च योजयित्वा अवतारिता । कार्यक्रमाणाम् पूर्तीकरणाय उभेपि सभे अधिकसमयं प्रवर्तिते। प्रधानमन्त्रिण: धनमन्त्रिण: च नेतृत्वमेव अभिमानस्यैतस्य पृष्ठत: इति सभाकार्यमन्त्री अनन्तकुमार: उक्तवान् । सभे राष्ट्रपति: सम्बोधितवान्। २४ नयरेखा: लोकसभायाम् अवतारिता: तासु २३ अड्गीकृताश्च । राज्यसभायां तथा १४ च । एयर् इन्डिया कर्मकरं शिवसेना एम् पी मर्दितवानिति घटना सभायां कोलाहलाय अभवत् । विमानशाला: एम् पीं रोधं कल्पितवत्य: इति च चर्चा अभवत्  ।व्योमयानमन्त्रालयाय क्षमापणं विलिख्य प्रश्न: परिहृत: । इलक्ट्रोणिक् निर्वाचनयन्त्रं प्रति आरोपणं च प्रतिपक्षेण सभयो: आवर्तितम् ।केरलस्य सी पी एम् अक्रमश्च चर्चाविषय: अभवत् ।

Friday, April 14, 2017

पञ्चवत्सरपद्धतेः अन्त्यकालः। नूतनायोजना त्रिवत्सरपद्धतिः।
नव दिल्ली > भारतस्य प्रप्रथमेन प्रधानमन्तिणा जवहर्लाल् महोदयेन आयोजिता आसीत्  पञ्चवत्सरपद्धतिः। आसूत्रणायोगस्य स्थाने नीति आयोगः योजनायाः संयोजनं करिष्यते। द्वादशतमस्य पञ्चवत्सरपद्धतेः अन्तिमं दिनं मार्च् मासे अवसितम्। एप्रिल्मासस्य त्रयोविंशति दिनाङ्के प्रधानमन्त्रिणः नरेन्द्रमोदिनः आध्यक्ष्ये नीति-आयोगास्य शासनोपवेशनं भविष्यति।

 परमाणुरहित-विस्फोटकः पातितः
अमेरीकीय सैन्यबलेन प्रोक्तं यत् अफगानिस्ताने इस्लामिक्-स्टेट् इत्यातंकिगुल्मस्य गह्वरस्थात्रेषु प्रथमवारं परमाणुरहित-विस्फोटकः पातितः, विस्फोटोsयं बृहत्तमम् अवर्तत। विस्फोटकस्य नाम
जीबीयू-43 इति विद्यते, विस्फोटस्यास्य प्रसिद्धिः  ''मदर ऑफ़ ऑल बॉम्ब्स'' इति नाम्ना वर्तते।
      एकेन अमरीकीयेन पेन्टागनस्थेन रक्षा मंत्रालयेन प्रतिपाद्यते यत् व्योमयानेन अफ़ग़ानिस्तानस्य नंगरहारप्रांते विस्फोटक: प्रपातित:। प्रकरणे अस्मिन् पेंटागनेन प्रोक्तं यत् विस्फोटकस्य लक्ष्यम् इस्लामिक्-स्टेट्-गुल्मस्य गोप्य स्थलान्यासन् ।

अष्ट भारतीयाः समुद्रतस्करेभ्यः मोचिताः।
सोमालिया> सोमालियादेशस्थसमुद्रलुण्डाकैः सप्ताहात्पूर्वम् अपहृताः भारतीयाः अष्ट महानौकाकर्मचारिणः मोचिताः। सोमालियायां होबियो नामकनगरसमीपस्थात् ग्रामादेव भारतसैन्यैः एते मोचिताः। एते सर्वे क्षुत्पिपासादिभिः परिक्षीणिताः आसन्। चत्वारः लुण्ठकाः सैन्यैःबन्धिताः।

कलाभवनं मणेः मरणम् - सि बि ऐ संस्थया अन्वेष्टव्यम्।
कोच्ची>निर्यातस्य सुप्रसिद्धकैरलीचलनचित्रनटस्य कलाभवन् मणिनामकस्य अस्वाभाविकमरणमधिकृत्य सि बि ऐ संस्थया अन्वेष्टव्यमिति उच्चन्यायालयेन आदिष्टम्। मासैकाभ्यन्तरे अन्वेषणस्य उत्तरदायित्वं स्वीकर्तव्यम्।
    मणेः पत्न्या निम्म्या तथा तस्य सोदरेण आर् एल् वि रामकृष्णेन च समर्पितां याचिकामाधारीकृत्य एव नीतिपीठस्य आदेशः। कैरल्याः अनुगृहीतकलाकारस्य मरणेन तस्य बान्धवानां सामान्यजनानाम् आराधकानां च मनसि  सञ्जाता दुरूहता दूरीकर्तव्या इति न्यायालयेन निरीक्षितम्।

Thursday, April 13, 2017

जि एस् टि- ७०% उत्पन्नानां मूल्यम् न्यूनीभवति|
नवदेहली > वस्तूनां सार्वजनिकरूपेण सेवनकरः भविष्यति इत्यनेन प्रतिशतं सप्तति (७०%) वस्तूनां सेवनकरेषु न्यूनता भविष्यति। फेनकं, दन्तफेनकं इत्यादीनां नित्योपयोगवस्तूनां मूल्ये प्रतिशतं अष्टादशतः अष्टाविंशतिपर्यन्तं न्यूनता भविष्यति -(१८% -२८%)। प्रतिशतं पञ्च, द्वादश, अष्टादश, अष्टाविंशतिः इति चत्वारः श्रेणिषु एव करः निर्णीतम् अस्ति। जुलाय् मासादारभ्य नूतनं मूल्यप्रकारं  प्रबलं भविष्यति।

कुलभूषणस्य वधदण्डनम्।
द्वादश  पाकिस्थान पौराणां मोचनं भारतेन तिरस्कृतम्।
नवदेहली> भारतस्य चारः इत्यारोप्य २०१६ मार्च् मासे पाक्किस्थानेन गृहीताय कुलभूषण जादवाय मृत्युदण्डनं पाक्किस्थानेन प्रख्यापितं वर्तते।तस्मिन् विषये  भारतं स्वप्रतिषेधं पाक्किस्थानं प्रति न्यवेदयत्।   सामान्यवीतेः लंघनमेव भवति वधदण्डः इति भारतेन उक्तम्। वधदण्डं नीत्यनुसारं नास्तीति चेत् तस्य दण्डनं  हननमेवेति गणनीयं स्यात् इति भारतं तान् अतर्जयत्। बुधवासरे मोक्तुं निर्णीतानां द्वादश  पाकिस्थानपौराणां मोचनं भारतेन निरुद्धम्। किन्तु कुलभूषण जादवस्य वधदण्डनं शीघ्रं न भविष्यतीति  पाकिस्थान प्रतिरेधसचिवेन ख्वाजा मुहम्मद् आसीफेन व्यक्तीकृतम्। भारतस्य भीषण्यः न गणनीयाः इति प्रधानसचिवेन तथा सेनाधिपेन जनरल् खमर् जावेद् बज्वेन च समं जातायां संगोष्ठ्यां निरूपितमस्ति।

Wednesday, April 12, 2017

अन्तश्चक्षुषा विजयं प्राप।
पालक्काट् (केरळम्)> चतुस्त्रिंशत् वयस्कः प्रशान्तः इदानीम् अध्यापकपदे नियुक्तः । आलत्तूल् बालिका उच्चविद्यालये पोलिट्टिक्कल् सयन्स् विषयस्य अध्यापकः एवायम्। स्वस्य दृढनिश्चचयेन एव एतादृशरूपेण विजयपदप्राप्तिः। अष्णा काणः इत्यनेन अन्धानां विद्यालये अध्ययनं कृतवान् । अनन्तरं कलाशालायां पोलिट्टिकल् सयन्स् विषये स्नातक स्नातकोत्तर बिरुदं सम्पादितवान् । ध्वनि मुद्रिकायां अध्यापकानां कक्षा शब्दलेखनं कृत्वा पुनः वारं वारं श्रुत्वा आसीत् तस्य पठनम्। अनन्तरं शिक्षाशास्त्रे अपि बिरुदं सम्पादितवान् । सङ्गणकयन्त्रम् आन्ट्रोय्ड् दूरवाणी च उपयोक्तुमपि एषः समर्थः। उच्चविद्यालयस्य कृते आयोजिते अध्यापकपरीक्षायां प्रथमस्थानं प्राप्रवान् तथा HSS सीनियर् विभागे अपि एषः प्रथम स्थानं प्राप्तवान्। दृढनिश्चयेन शक्यते विजयः इत्यस्य निदशनमेव भवति अस्य प्रयत्नः ।



Episode 41- Sanskrit News
Nayantara T Anilkumar, Std.9, St: Ignatius V&HSS, Kanjiramattom, Ernakulam, Kerala.

Tuesday, April 11, 2017

वोट्टिग् यन्त्रे कृत्रिमत्वं कर्तुं न शक्यते- निर्वाचनायोगः।
नवदेहली> तन्त्राधिगम वोट्टिग् यन्त्रे कृत्रिमत्वं कर्तुम् अवसरः नास्तीति निर्वाचनायोगः। यन्त्र निर्मातृभिरपि तेषु कृत्रिमत्वं कर्तुम् न शक्यते इति आयोगेन उद्घोषितम्। २००६ संवत्सरे निर्मितेषु यन्त्रेषु तथा तदनन्तरं निर्मितेषु यन्त्रेषु च कृत्रिमत्वं कर्तुम् न शक्यते। यतः तेषु नूतन अभियान्त्रिकविद्यानाम् उपयोगः अकुर्वन् । निर्वाचकायोगस्य यन्त्राणि स्वतन्तन्त्रतया प्रवर्तते।एतेषां प्रवर्तनाय अन्तर्जालस्य आवश्यकता नास्ति। अतः हाक्किग् कर्तुम् अवसरः नास्ति।२००६ आरभ्य विभिन्नेषु राज्येषु वोट्टिग् यन्त्राणां निर्माणं भवन्ति। इलक्टेरोणिक् कोर्परेषन् आफ् इण्डिया तथा भारत इलक्टेरोणिक् लिमिटट् च यन्त्राणां निर्माणं कुरुतः। प्रत्येके क्षेत्रे के के निर्वाचने मत्सरं कुर्वन्तीति निर्मातारः न जानन्ति। अतः तत्रापि कृत्रिमत्वं कर्तुम् न शक्यते।

चयनवेलायां प्रदत्तानि वाग्दत्तानि निरर्थकानि जातानि-मुख्यन्यायाधिपः।
नवदेहली> दलनेतारः चयनवेलायां प्रदत्तानि वा ग्दत्तानि निरर्थकानि तथा प्रकटनपत्राणि सामान्यानि जातानि इति मुख्यन्यायाधिपः जे एस् खेहारः। चयनसमस्यानामधिकृत्य आयोजितायां संगोष्ठ्यां भाषयन्नासीत् सः। संगोष्ठ्यां राष्ट्रपतः प्रणाब मुखर्जी महोदयः अपि सन्निहितः आसीत्। २०१४ तमस्य चयने दलनेतॄणां वाग्दत्तेषु पार्श्ववत्कृतानाम् आवश्यकताः न कार्यान्विताः इति सः अयोजयत्।


केरळराज्ये मतृभाषा शासनभाषा भविष्यति। 
अनन्तपुरी > मेय् मासस्य प्रथमदिनादारभ्य मलयाळभाषा केरळराज्यस्य शासनभाषा भविष्यति। इयमधिकृत्य मुख्यमन्त्री पिणरायि विजयः विज्ञापितवान्। सचिवालयेन सह सर्वकारस्य अर्धसर्वकार - सार्वजनीन- स्वयंशासन-सहकारी संस्थासु च मलयाळम् औद्योगिकीभाषा भविष्यति । अस्मासु संस्थासु क्रियमाणे विज्ञप्तिपत्राणि, लेखाः च मातृभाषायां भवतु इति मुख्यमन्त्रिणा प्रोक्तम्।

आधारसंख्‍याप्रणालीतन्त्रं सुरक्षितं च वर्तते - प्रशासनम्
 नवदिल्ली> प्रशासनेन प्रतिपादितं यत् आधारसंख्‍याप्रणालीतन्त्रं  सर्वथापुष्‍टं सुरक्षितं च वर्तते, अनेन सम्बद्धविवरणान्यपि पूर्णतया संरक्षितानि सन्ति। राज्‍यसभायाम् आधारसंख्‍याविषये संक्षिप्‍तचर्चायाः प्रत्युत्तरे सूचनाप्रौद्योगिकी अथ च विधिमंत्रिणा रविशंकरप्रसादेनोक्तं यत् आधारपत्रसम्बद्धविधौ बायोमीट्रिक इति शरीरस्य रचनाधारित-विवरणस्य निजतां संरक्षितुं सुदृढप्रावधानानि विद्यन्ते, सममेव उक्तं यत्  आधारपत्रस्य विवरणानां यदि दुरूपयोगः  भविष्यति तदा विध्यनुसारि दोषिभ्यः वर्षत्रयात्मकं कारदण्डं भवितुमहर्ति

कण्णूरु विमानपत्तनम् - धावनरथ्या (रण् वे) सिद्धा - इत:परम् अलड्कारा:।।
कण्णूरु> विशालताया: आधुनिकसौकर्याणाञ्च कार्ये आराष्ट्रे एव प्रथमस्थानीयस्य कण्णूरु विमानपत्तनस्य निर्माणप्रवृत्ति: अन्तिमघट्टे । नवमविभागस्थं ( काटगरी ९) विमानपत्तनमेव कण्णूरे सिद्धं जायमानमस्ति।
३०५० मीटर् मिताया: धावनरथ्याया: तथा विमानपत्तनस्य सक्रियभागस्य निर्माणप्रवृत्ति: च  ९१%पूर्तीकृता। टेर्मिनल् भवनस्य तथा  बाह्यभागस्यापि निर्माणं ८२% पूर्तीकृतम् शिष्टा: निर्माणप्रवृत्ती: मई ३१आभ्यन्तरे एव पूर्तीकरिष्यन्ति ।सेप्टम्बर्मासे  श्रावणोत्सववेलायम् एव  विमानयात्रा आरम्भणीया इति लक्ष्येन  निर्माणप्रक्रिया: त्वरितगत्या अग्रे गम्यमाना: सन्ति।

मार्गमध्ये सहसा अगाधगर्तं प्रादुर्भवम्।
चेन्नै>अण्णाशालै मार्गे अप्रतीक्षितगर्तं प्रादुर्भवम् । धावत् एकं सर्वकारीयलोकयानं कार् यानञ्च अकस्मात् गर्ते पतितम् । मार्गमध्ये एव अकस्मात् गर्तप्रादुर्भाव: ।समानदिशि  गम्यमानवाहनानि एव गर्ते पतितानि ।लोकयानयात्रिका:  ३५ जना:नि:सारक्षतै: अद्भुतरीत्या रक्षां प्राप्ता:।
Cartoon- Devidas Desh Pandey

Monday, April 10, 2017

प्रोफ. एम् अच्युतः दिवंगतः।
कोच्ची> केरळे नवीननिरूपणसाहित्यस्य शक्तः प्रमुखश्च वक्ता प्रोफ. एम् अच्युतः [८७] दिवंगतः। ज्वरबाधया सः आतुरालयं प्रविष्टः आसीत्। रविवासरे अपराह्ने त्रिवादने अन्त्यमभवत्।
      कैरल्याः निरूपण - विमर्शसाहित्य मण्डले नवपथं प्रकाशयन् तत्र अनिषेध्यं स्थानं प्राप्तः अध्यापकश्रेष्ठ आसीत् प्रोफ. एम् अच्युतः। पाश्चात्य साहित्यविमर्शे अगाघपण्डितः सः ग्रीक् साहित्यादारभ्य आधुनिकमार्क्सियन् साहित्यपर्यन्तं निरूपणशैल्या प्रपठ्य अगाधं ज्ञानमार्जितवान्। प्रथमज्ञानपीठपुरस्कारजेतुः जि शङ्करक्कुरुप्प् वर्यस्य जामाता सः  आख्यायिकासाहित्ये [नोवल्] अतीवतत्परः आसीत्।
     पाश्चात्यसाहित्यदर्शनं ,नोवल् प्रश्नङ्ङलुं पठनङ्ङलुं, कवितयुं कालवुं , समन्वयं , चेरुकथा इन्नले इन्न् इत्यादयः साहित्यविमर्श पठनमण्डलेषु प्रचुरप्रचारमाप्ताः ग्रन्थतल्लजाः सन्ति।

मलाला ऐक्यराष्ट्रसभायाः शान्तिदूती।
इस्लामबाद् > चतुर्दशाधिक द्विसहस्रतमसंवत्सरे विश्वशान्त्यर्थं नोबेल् पुरस्कारेेण समादृता मलाला यूसफ् सायी नामिका पाकिस्थानीयबालिका ऐक्यराष्ट्रसभायाः शान्तिदूतिकारूपेण नियुक्ता। सभायाः सचिवाध्यक्षेण अन्टोणियो गुट्टरस् वर्येण प्रख्यापितो यं वृत्तान्तः। ऐक्यराष्ट्रसभायाः चरिते न्यूनतमवयस्का शान्तिदूती भवति मलाला।
    आविश्वं बालिकानां शैक्षिकप्रोत्साहनाय प्रयत्नं कुर्वन्ती मलाला तालिबानस्य वधोद्यमात् रक्षां प्राप्य इदानीं  ब्रिट्टन् राष्ट्रम्  अधिवसति।

 अमेरिकायाः उन्नतस्थानयोः द्वौ भारतवंशजौ।
वाषिङ्टण् > अमेरिका राष्ट्रस्य अत्युच्च स्थानयोः द्वौ भारतीयौ चितौ। राष्ट्रपतिना डोणाल्ड् ट्रम्पेन एतदर्थं निदेशः दत्तः। इन्फर्मेशन् आन्ट् रगुलेट्टरी अफयेर्स् कार्यश्य निदेशकत्वेन  नियमिरावुः तथा इन्टलक्ट्वल् एन्फोर्स्मेन्टस्य संयोजक-रूपेण विशाल् अमीन् च ट्रम्पेन चितौ। एतयो: नियुक्ति:  सेनट् संविधानेन अङ्गीकरणीया।

जोर्ज्  डब्लियू बुषस्य शासनकाले वैट्हौस्मध्ये उन्नत स्थानयोः विराजमानौ आस्ताम् एतौ। अमीनः इदानीं जनप्रतिनिधिसभायां नियमआयोगस्य अध्यक्षः भवति। नियोमि रावु: जोर्ज् मेसण् विश्वविद्यालये वरिष्ठाध्यापकः च भवति।

Sunday, April 9, 2017

सिरिया राष्ट्रं प्रति मिसैल् आक्रमणम् यु एस्- रष्या बन्धः शिथिलः। विश्वम् आशड्कायाम्।
वाषिड्टण्> युएस् रषिया बन्धः पुनः शिथिलः जातः। षट् संवत्सरेषु प्रथमवारं युएस् सिरियायां मिसैल् आक्रमणम् अकरोत्। युएस् राष्ट्पतेः डोणाल्ट् ट्रंपस्य निदेशानुसारं सिरियायां षयारत् व्योमसेनाक्षेत्रे आसीत् आक्रमणम्। विश्वं सम्पूर्णं स्वेन सहैव स्थातव्यमित्यपि ट्रंपेन निवेदितम्। आक्रमणं एनं अरेब्यन् राष्ट्रः स्वागतमकरोत्।
 सिरियायां गत षटसंवत्सरेषु प्रचलिते आभ्यन्तर कलापे चतुर्लक्षोपरि जनाः हताः इति गण्यते। यु एस् नेतृत्वेन सख्यसेना २०१४ आरभ्य सिरियायां ऐ एस् केन्द्रेषु अग्निगोलकाक्रमणं करोति।

 वयनाट् गिरौ केरळ सर्वकारस्य बस् यानम् आपति पतितम्। यात्रिका: भाग्यात् रक्षिताः
कल्पट्टा(केरळम् )> वयनाट् पर्वतमार्गे  अनियन्तृकात्  बस् यानात्  यात्रिका:  भाग्यात् रक्षिताः। तोटुपुषत: सुल्तान्बतेरिं प्रतिगतवत् बस् यानं नवमे पर्वतमार्गे भित्तौ संघट्टनं कृत्वा इयं घटना जाता। शनिवासरे प्रातः एक वादने विपत्तिरियं संजाता। बस् यानस्य कश्चन पार्श्र्व: पूर्णरूपेण सुरक्षाभित्तेः बहिरभवत्। अर्ध भागादाधिक: पार्श्र्वः गर्तस्य भागे आसीत्। तथापि यानं न पातितं इत्यतः अनेकेषां प्राणाः एव रक्षिता:। चालक स्य पार्श्र्वे विद्यमानेन द्वारेण एव यात्रिकाः बहिरानीता: चालक: निद्रायां पतितः इत्येतत् आपत्कारणमिति चिन्त्यते।

Saturday, April 8, 2017

विश्वे धूमपानमरणं वर्घितम्।
पारीस्> धूमपत्रोत्पन्नोपयोगिनां संख्या बहुषु राष्ट्रेषु १९९० आरभ्य न्यूनीभूयते तथापि धूमपानेन मृत्युवशमुपगतानां संख्या वर्घितेति गवेषकाः। धूमपत्रोत्पन्न निर्माणसंस्थाः नूतनविपणीः अन्विष्यमाणाः सन्ति। तादृशे सन्दर्भे इयं दुरवस्था वर्धिष्यतेति दलान्सेट् नामकेन समाचारपत्रेण प्रसिद्धीकृते शोधप्रबन्धे स्पष्टीक्रियते।
       विश्वे संभूयमानेषु दशसु मरणेषु एकं धूमपानेनैव सम्भवति। अस्य प्रतिशतं पञ्चाशत् परिमितं चीना भारत यू एस् रष्या राष्ट्रेषु वर्तते। कानिचन राष्ट्राणि अधिककरैः अवबोधवत्करणादिप्रवर्तनैश्च धूमपानोपयोगे गण्या न्यूनता कारिता । ब्रसील् राष्ट्रेण अस्मिन् विषये अधिकलाभः प्राप्तः। तत्र धूमपानिनां पुरुषाणां संख्या पञ्चविंशतिसंवत्सरेभ्यः प्रतिशतं २९ परिमितात् प्रतिशतं १२परिमितमित् न्यूनीकृतम्।
भारवाहनान्दोलनं निराकृतम्। 
कोष़िक्कोट् >दक्षिणभारते भारवाहनस्वामिभिः दशदिनानि यावत् कृतं कर्मविरामान्दोलनं निराकृतम्। योगक्षेम नियन्त्रण-विकसन संस्थायाः [Insurance Regulatory & Development Authority] अधिकृतैः सह भारवाहनस्वामिसंघटनानां प्रतिनिधिभिः कृतां चर्चामनुसृत्यैव अयं निर्णयः।  निगमस्य अधिकमूल्यवर्धनं प्रतिशतं ५० इत्यस्मात् प्रतिशतं २७ इति न्यूनीकरिष्यतीति सम्मतिः लब्धा।
६४ तम राष्ट्रिय चलनचित्र पुरस्काराः प्रख्यापिताः
नवदेहली>मिन्नामिनुड् इति मलयालचलनचित्रस्य अभिनयाय सुरभी उत्तम अभिनेत्र्याः पुरस्कारम् प्राप। रुस्तम् इति चलनचित्रस्य अभिनयाय अक्षय् कुमारः उत्तम नटस्य पुरस्कारं प्राप। मुन्तिरिवल्लिकल् तलिर्कुम्बोल्,जनता गारेज्,पुलिमुरुकन् इत्यादि चलनचित्राणाम् अभिनयाय मोहन्लालः विधिकर्तॄणां विशिष्टं परामृष्टं प्राप। महेषिण्टे प्रतिकारं उत्तम चलनचित्रत्वेन चयितम्।
उत्तम शब्दालंकारः - जयदेवन् चक्काडत्त्(काड् पूक्कुन्न नेरम्)
उत्तम पटकथा- श्यां पुष्करः(महेषिण्टे प्रतिकारं)
उत्तम ताडननिर्देशः- पीट्टर गेयिन्(पुलिमुरुकन्)
उत्तम बालकेगृहस्य नटःआदिष् प्रवीणः (कुञ्चुदैवम्)
अन्याः राष्ट्रीय पुरस्काराः।
उत्तम चलनचित्रम्- कासव्(मराठी)
उत्तम निर्देशकः-राजेष् मपुस्तर्(चित्रं वेण्डिलेट्टर्)
जनप्रीति चलनचित्रम्- शतमानं भवति(तेलुग्)
उत्तम सह अभिनेत्री-सैरा वासिम् (दंगल्- हिन्दी)
उत्तम सह नटः- मनोज् जोषि।
विधिकतॄणां विशिष्ट पुरस्कारं - आदिल् हुसैन्(मुक्ति भवन्)

Friday, April 7, 2017

पादकन्दुकश्रेणीकरणे भारतस्य उत्कृष्टता
नवदिल्ली > फिफायाः श्रेणीकरणे भारतीयं पादकन्दुकदलं १०१तमम् इति  उत्कृष्टस्थानं प्राप्तम्। गतमासस्य श्रेणीकरणे १३२तमं स्थानमासीत् भारतस्य।
    मार्च् २२तमे दिनाङ्के कम्बोडिया देशं २-३ इति लक्ष्यकन्दुकस्थितौ २८ तमे दिनाङ्के म्यान्मर् राष्ट्रं एकपक्षीयेन लक्ष्यकन्दुकेन च पराजित्य एव इदं स्थानं लब्धम्। अनेन एष्याभूखण्डे ११तमं स्थानं च भारतेन प्राप्तम्।
उत्तरप्रदेशात् वृकसंवर्धिता मौग्ली इव,वानरैस्सहोषितां बालिकाम् अमोचयत् ।।
बराय्च् > उत्तरप्रदेशे वृकसंवर्धिता मौग्ली इति बालिका इव, वानरैस्सहोषितां अष्टवर्षीयां बालिकाममोचयन् आरक्षका:। सः कल्पितकथापात्रं किंतु उत्तरप्रदेशे यथार्थरूपा एषा बालिका उपलब्धाधुना। कट्टार्नियगट्टवन्यजीविसड्केतादेव एतां बालिकाम् अपश्यन्। वन्यजीविसड्केते प्रवृत्ते आरक्षकाणां साधारणजाग्रदन्वेषणे एव वानरैस्सह बालिका दृष्टा। नवभारत टैंस्ना एव वार्ता  आवेदिता। आरक्षकसड्घेन आयोजितात् रक्षाप्रवर्तनात् तेषां पुरत: एव बालिका पलायनमकरोत्। तत: अनुवर्तिते अन्वेषणे  बालिका प्रतिप्राप्ता। समीपस्थे सर्वकारीयातुरालये प्रवेशिता च।


भरते अष्टराज्याणि अनावृष्ट्या क्लिष्टानि - २४००० कोट्या: धनसाहाय्यम्।।
अनन्तपुरी >वृष्टिमानके  गण्यन्यूनतयाअष्टराज्यानि अनावृष्ट्या क्लिष्टाः प्रदेशाः इत्यादेशः केन्द्रसर्वकारैः प्रख्यापितः। अष्टानां राज्यानां कृते २४००० कोटि रूप्यकाणि धनसाहाय्यं मासद्वयाभ्यन्तरे  एव दीयते। विहितधनात् ६५% पानजलपद्धत्यै  विनियोक्तव्यमिति च सर्वकारै: निर्देशित: । गतवर्षे केरलसर्वकारै: १४ मण्डलान्यपि अनावृष्ट्या शुष्कानि इति  प्रख्यापितानि । गत १० वर्षाभ्यन्तरे परं न्यूनमानक: वर्षाकालः एव अस्मिन् वर्षे अतीत:। वर्षमानकन्यूनतायां कृत्रिमवर्षं पातयितुं पद्धती: स्वीकरणीया: भवन्तीति गतनियमसभासम्मेलने सर्वकारै: निर्दिष्टमासीत्। किन्तु कालावस्थाविभागः एतद्विरुध्य स्थित:। वर्षन्यूनतायाम् उष्णस्य क्रमातीतवर्धनं लक्षितम्। राज्ये बहुत्र रूक्षं शुद्धजलदौर्लभ्यं च अनुभूयते।
भारतम् ऐक्यराष्ट्रसभायां स्थिराड्गत्वं प्राप्स्यति इति सुषमा।
नवदेहली > ऐक्यराष्ट्रसभाया सुरक्षा विभागे भारतं स्थिराड्गत्वं प्राप्स्यति इति विदेशकार्य सचिवा सुषमा स्वराज महोदया अवदत्। स्थिराड्गानां सर्वाः अपि सुविधाः भारतस्य अपि लप्स्यते इति ताः आत्मविश्वासं प्राकटयत्। यु एन् स्थिराड्गत्वं लब्धुं भारतं सक्षममिति प्रश्नोत्तरवेलायां सुषमया व्यक्तीकृतम्। वर्तमानेषु पञ्च स्थिराड्गेषु यु एस्,इड्गलाण्ड्,फ्रान्स्,रषिया च भारतस्य अनुकूलाः सन्ति। चैनया परस्यरूपेण प्रतिकूलत्वं न प्रकटितम्। सुषमा अवदत्।


वस्तुसेवनकरपत्रं अङ्गीकृतम्
नवदिल्लि>वस्तुसेवनकरपत्रं राज्य सभया अपि अंड्गीकृतम् ।
पूर्वं लोकसभया अङ्गीकृतम् इदं पत्रं परिवर्तनं विना राज्यसभया अपि अङ्गीकृतम् ।
गतमासे लोकसभया अङ्गीकृता: वस्तु सेवनसंबन्धाः सुप्रधाननियमा: गुरुवासरे राज्यसभया अङ्गीकृताः।
सर्वस्मिन् राज्ये एक: एव करः इति केन्द्रनियम: एतेन भविष्यति इत्यतः एषः श्रमः सुप्रधान : एव ।

Thursday, April 6, 2017

 एकलक्षं यावत् कार्षिकऋणानि मुक्तं करिष्ये -योगी आदित्यनाथ:।
लकनौ >  एकलक्षं यावत् कार्षिक ऋणानि मुक्तं कर्तुं योगिन: आदित्यनाथस्य नेतृत्वे उत्तरप्रदेशमन्त्रिसभाया: प्रथमयोगे निर्णय: स्वीकृत:। राज्ये 2.15 कोटि कृषकाः तथा अन्ये 7 लक्षं जनाश्च एतस्य फलं लभेयु:। एतावता प्रत्यप्राप्यानीति उद्घोषितानि 36359 कोटि रूप्यकाणां ऋणानि एव  एवं ऋणमुक्तः भविष्यति। ऋणसड्ख्यामेतां  प्रत्यभिज्ञातुं कार्षिकऋणपत्रं  प्रकाशयितुमपि व्यवस्था क्रियते। कार्यमिदं भा ज पा निर्वाचन-वाक्दान-पत्रिकायां वाग्दानेषु अन्तर्भवति। आलुकस्य मूल्यशोषणे परिहारमन्वेष्टुम् उपमुख्यमन्त्रिण: केशवप्रसादमौर्यस्य नेतृत्वे त्र्यड्गोपसमितिश्च  रूपीकृता । गोधूमस्य आलम्बमूल्यं प्रति क्विन्टल् 10 ₹ इति  वर्धयेयु: । व्यवसायनयरूपीकरणं  लक्षीकृत्य उपमुख्यमन्त्रिण: दिनेशशर्मण: नेतृत्वे मन्त्रिसभाया: उपसमिति: विभिन्नराज्येषु सन्दर्शनमपि कुर्यात्।


व्याजरुप्यकपत्राणां भीषाः-द्विसहस्रस्य रुप्यकपत्रं स्थास्यतीति केन्द्रसर्वकारः।
नवदेहली > द्विसहस्ररुप्यकपत्रेषु व्याजपत्राणाम् आगमनेन अपि तानि स्थास्यतीति केन्द्रगृहसहसचिवेन किरण् रिज्जु महोदयेन उक्तम्। एवं व्याजपत्राणाम् ग्रहणे बहु प्रयत्नं कुर्मः इत्यपि सः अवोचत्। चोद्योत्तरवेलायां कोण्ग्रस् दलस्य अड्गेन मधुसूदन मिस्रि महोदयेन पृष्टस्य प्रश्नस्य समाधानं ददाति आसीत् सचिवः।
व्याजरुप्यकपत्राणि मुख्यतया गुजरातराज्यात् तथा पश्चिमबंगाल राज्यात् च ग्रहीतानि। व्याजपत्राणाम् अभिज्ञानं दुष्करमिति वादं न सत्यमिति तेन उक्तम्। पञ्चशत सहस्र रुप्यकपत्राणां निरोधनानन्तरं सीमासुरक्षासेनाया द्विसहस्रस्य ३७८ व्याजरुप्यकपत्राणि तथा एन् ऐ ए द्वारा ४.५३ कोटि रुप्यकाणां व्याजपत्राणि च ग्रहीतानि।
भारतस्यअन्यः लाभः;यू एन् मध्ये इतो आरभ्य गणनाकार्यक्रमाय (ओडिटिङ्) भारतस्य सि ए जि।
दिल्लि>केवलं विकसितराष्ट्राः एव विहरितमाने कस्मिन्नपि मण्डले भारतं स्वस्य सान्निध्यं ज्ञापयति। न्यूयोर्क् मध्ये ऐक्यराष्ट्रसंस्थायाः कार्यालये इदानीं भारतेन गणाकार्यक्रमाः क्रियन्ते। भारतस्य गणना कार्यक्रमस्य इदं महदङ्गीकारम् इति CAG शशिकान्तशर्मणा उक्तम्। यू एन् बोर्ड्आफ्‌ संस्थायां अध्यक्षः भवति इदानीं शशिकान्तशर्मा। बोर्ड् मध्ये जर्मनीराष्ट्रः तथा तान्सानिया राष्ट्रः च अङ्गौ भवतः। विंशत्यधिक द्वि सहस्रपर्यन्तं (२०२०) अस्मिन् स्थाने CAG पदस्य कालपरिपरिधि।


सि सि टि वि स्थापयितूम् निर्देशः उच्चन्यायालयेन दत्तम्।
नव दिल्ली >न्यायालयेषू परीक्षणार्थं सि सि टि वि स्थापयितुं निर्देशः उच्चन्यायालयेन दत्तम्। शब्दरेखॉं विना एव सि सि टि वि उपकरणस्य उपयोगः करणीयः इति विशेषः निर्देशः। प्रथमतया प्रति जनपदं द्वौ द्वौ न्यायालयेभ्यः स्थापयितुं निर्देशः। ज्ञानाधिकार नियमानुसारं  बहिः सि सि टि वि दृश्यान् न दादव्यम् इति निर्देशः अपि तेन दत्तम्। कार्यस्य निरीक्षणं न्यायालयाघ्यक्षे निक्षिप्तमस्ति। निरीक्षणानूसारं सर्वत्रापि सि सि टि वि स्थापयितुं निर्देशः। जस्टिस्-आदर्श गॊयल् , यूयू, ललित् च विधिप्रवचनं कृतवन्ताः