OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, April 4, 2017

सार्वजनिकशिक्षा - संरक्षणयज्ञस्य शुभारम्भः
तिरुवनन्तपुरम्> केरळसर्वकारस्य सार्वजनिक शिक्षा संरक्षणयज्ञः अध्यापक परिशीलनसत्रेण समारब्धः। विविधेषु विषयेषु राज्यस्तरीय प्रशिक्षणं प्रचलन्ति। सार्वजनिकशिक्षामण्डलेषु विद्यमानाः विद्यालयाः राष्ट्रान्तरोन्नतस्थानं प्रापणीयः । तदर्थमेव एतादृश प्रशिक्षणकार्यक्रमः इति केरलस्य शिक्षामन्त्रिणा सि रवीन्द्रनाथ महोदयेन उक्तम्। एप्रिल्मासस्य अन्तिमे सप्ताहे अध्यापकानां प्रशिक्षणं सम्पूर्णं भविष्यति।
छात्राणं कृते अपि पञ्चदिनस्य विरामकालविशेषसत्रमपि प्रति विद्यालयम् आयोक्ष्यते । सर्वजनिकविद्यालयान् प्रति छात्राणाम् आकर्षणमुद्दिश्य भवति अस्यवर्षस्य प्रयत्नमिति च मन्त्रिणा उक्तम्।
सोमालियायाः सागरतस्करैः भारतस्य भारनौका बलात्कारेण ग्रहीता
दुबाय् > येमन् देशतः दुबाय् नगरं प्रति गता भारनौका सोमालियायाः सागरतस्करैः बलेन ग्राहीता। कौषर् नाम नौका एव तस्करैः ग्रहीतायां नौकायाम् एकादशः कर्मकराः सन्ति।
एप्रिल् मासस्य प्रथमे दिने एवेयं घटना। येमन् देशास्य अल् मुक्काल सागरमुखात् दुबाय् नगरं प्रति गच्‍छती आसीत् नौका। कर्मकराः मुम्बैवासिनः भवन्ति।

कोलम्बिया राष्ट्रे प्रलयेन मृत्पातेन च २५४ जीवहानिः।
मोकोवा> ( कोलम्बिया) दक्षिण कोलम्बियायां अतिवृष्ट्या जातेन बृहता मृत्पातेन न्यूनातिन्यूनं २५४ जनाः मृताः। २२० जनाः अप्रत्यक्षाः,२०२ क्षतबाधिताः च अभवन्।
कोलम्बियन् नगरे मोकोवायां मृत्पातेन गृहाः सेतवः यानानि च अप्रत्यक्षाः अभवन्। कानिचन क्षेत्राणि अपि नष्टानि। रक्षाप्रवर्तनानि त्वरितगत्या प्रचलन्ति। शुक्रवासरे रात्रौ अतिशक्ता वृष्टिः अभवत्। अत एव मृत्पातः अभवदिति अधिकारिणः अवदन्।


Monday, April 3, 2017

हिमालयगिरिं वेध्य भारतस्य अभिमान गह्वरमार्गः। दूरं एकोनविंशति कि.मी.
नवदेहली> ९.२ कि.मी दीर्घः गह्वरमार्गः जम्मुकाश्मीरराज्ये अद्य प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितः। उधंपूर जिल्लायां चेनायाम् आरभ्य रंबान् जिल्लायां नश्रियायां समाप्तः एषः गह्वरमार्गः हिमालयपर्वतं वेध्य गच्छति। भारतस्य बृहत्तरः गह्वरमार्गः एषः।
 जम्मुतः श्रीनगरम् प्रति वर्तमानः एषः गह्वरमार्गः समुद्रतलात् १२०० मीट्टर उपरि वर्तते। कुद्,पट्निटोप् इत्यादि क्षेत्रेषु जीयमानः हिमपातः गिरिपातः च एतेन दूरीक्रियते। मार्गेण एतेन गमनेन त्रिशत् कि.मी.लाभः तथा यात्रा समये खण्डाद्वयस्य न्यूनत्वमपि अस्ति।
३७२० कोटिरूप्यकाणि अस्ति अस्य निर्माणव्ययः। सार्धपञ्चसंवत्सराणां प्रयत्नं तदर्थं अभवत्। निर्माणाय आधुविक अभियान्त्रिकविद्यानाम् उपयोगः अकुर्वन्। गह्वरमार्गे समान्तररूपेण मार्गान्तरमस्ति । १३ मीट्टर व्यासे प्रधानमार्गः तथा ६ मीट्टर व्यासे अन्यः सुरक्षा मार्गः अस्ति। तयोः मिथः बन्धनार्थं २९ लघुमार्गाः सन्ति। मिलित्वा १९ मीट्टर दैर्घ्यम् अस्ति।

अलीकरूप्यकाणि- रूप्यकाणां सुरक्षाक्रमीकरणेषु परिवर्तनम् आनेष्यति । 
नवदिल्ली> त्रि- चतुरात्मक वर्षावधौ एकदा 2000,500 रूप्यकाणां सुरक्षाक्रमीकरणेषु परिवर्तनमानेतुं सर्वकारै: आलोचना क्रियते। रूप्यकाणामसाधूकरणात्परं चतुर्मासाभ्यन्तरे एव अलीकरूप्यकाणां संचय: गृहीत:इति साहचर्यम् लक्षीकृत्य एवं श्रम:। धनमन्त्रालयस्य आभ्यन्तरमन्त्रालयस्य च उन्नतोद्योगस्थैस्सह आभ्यन्तरकार्यदर्शिना श्री राजीव महर्षिणा कृतचर्चायां विषयोयं उपस्थापितम्। उपस्थापित:। प्राय: सर्वेषु विकसितराष्ट्रेषु त्रिचतुर्वर्षाभ्यन्तरे एकवारमेतादृशं सुरक्षाक्रमीकरणपरिवर्तनं क्रियमाणं दृश्यते। भारतेनापि नयोयमनुवर्तनीय: इति आभ्यन्तरमन्त्रालयोद्योगस्थै: सूचित:।

Sunday, April 2, 2017

धूम्रपानोत्पन्नानाम् उपरिचित्रं नवीकृतम्
नवदिल्ली> धूम्रपानोत्पन्नानां सञ्चिकायाः उपरि विद्यमानं सूचनाचित्रं नवीकृत्वा केन्द्र सर्वकारेण विज्ञप्ति पत्रं प्रकाशितम्। एप्रिल्मासस्य प्रथमदिनात् आरम्भ नूतन चित्रस्य प्रबलता अस्ति। आरोग्य मन्त्रालयेन एव एतादृशः निर्देशः विज्ञापितः । सिगरट्ट् , बीडी,  इत्यस्योपरि गलस्थस्य अर्बुदरोगस्य  चित्रं   धूमरहित धूम्रपानोत्पन्नानानां पान्मसालादीनाम् उपरि वदनान्तर्भागास्य अर्बुदरोग चित्रं च प्रदर्शनीयम् । उत्पन्नानां सञ्चिकायाः प्रतिशतं पञ्च अशीति (८५%) भागेषु इदं चित्रं दातव्यम् । नो चेत् निर्मातृणे दण्डशुल्कं कारागार वासं च  लब्धुं दोषः भविष्यति। www.mohfw.nic.in इति अन्तर्जालपुटे चित्रस्य विशदांशाः प्रकाशिताः सन्ति।
 मदिराशालाः पिहिताः। 
केरले -१९५६ , महाराष्ट्रायां - १५,५००। 
नवदिल्ली> राष्ट्रिय-राज्यमार्गवर्तिन्यः मदिराशालाः एप्रिल् प्रथमदिनाङ्कादारभ्य पिहितव्याः इति सर्वोच्चन्यायालयस्य आदेशमनुसृत्य आराष्ट्रं मदिराशालाः पिधातुमारब्धाः। महाराष्ट्रायां तादृश्यः पञ्चशताधिक पञ्चदशसहस्रं मदिरविक्रयणशालाः बन्धिताः। तासु बार् , बियर् पार्लर् , मद्यपरिवेषणीयभोजनालयाः इत्यादयश्च अन्तर्भवन्ति।
     केरले राष्ट्रिय-राज्यमार्गपार्श्ववर्तिन्यः तालीशालासहिताः १९५६ मदिराशालाः पिहिताः। पिहितानां मद्यशालानां पट्टिका एवमस्ति।
बेव्को , कण्स्यूमर् फेड्  - २०७
पञ्चनक्षत्रबार्  शालाः     - ११
बियर् वैन् पार्लर् शालाः  - ५८६
तालीशालाः              - ११३२
क्लब्                     - १८
अन्ये                     - २

    
शाकानां मूल्यवर्धनम् नियन्त्रणाधीनम्।
 कोच्ची>वातावरणव्यतियानात् शाकानां मूल्यवर्धनं नियन्त्रणाधीनं जातमिति  एरणाकुलं विपणिस्वसमित्या: सहाध्यक्षेन के के अषरफेण उक्तम्। उष्णवर्धनम् अनुगम्य भारवाहकानां समरं च मूल्यवर्धने कारणं जातम्।20 त: 50%पर्यन्तं मूल्येषु वर्धनम् आगतम् । ईस्टर् विषु विपणिषु इतोपि वर्धनं प्रतीक्ष्यते इति व्यापारिणः समित्या सूच्यते ।
           
 एस् बि ऐ वित्तकोशेन ए टि एम् सेवनमूल्यं संवर्धितम्
नवदिल्ली > धननिक्षेपाय प्रतिस्वीकरणाय तथा ए टि एम् सेवनाय च सेवनशुल्कं एस् बि ऐ वित्तकोशेन संवर्धितम् । वित्तलेखायां अवश्यशिष्टं नास्ति चेत् विंशति रुप्यकात् शतरुप्यकाणि पर्यन्तं दण्डशुल्कं भविष्यति। सर्वेषां शुल्केषु दण्डशुल्केषु च प्रतिशतं सार्ध चतुर्दश रूप्यकाणि सेवनकरः च पूरणीयः । प्रतिमासं पञ्चवाराधिकं धनाहरणयन्त्रात् धनस्वीकारस्य पञ्च रुप्यकाणां स्थाने दशरुप्यकाणि दातव्यानि । धनाहरणम् अन्येषां धनाहरणयन्त्रात् चेत् विंशतिः(२०) रुप्यकाणिएव। अवश्यशिष्टाभावे विंशतेः आरभ्य पञ्चाशत् रुप्यकाणि दण्डशुल्कं । नगरेषु पञ्चविंशतीतः पञ्चाशत् पर्यन्तमेव। अन्येषां धनरहितविनिमयाय पञ्चभ्यः रूप्यकेभ्यः अष्ट रुप्यकपर्यन्तमेव सेवनशुल्कं भविष्यति।


मार्गपार्श्ववर्तिनः मद्यालयाः बन्धनीयाः इति उन्नतन्यायालयः।
नवदेहली> राष्ट्रिय-राज्यमार्गपार्श्वस्थाः मद्यशालाः सर्वे बन्धनीयाः इति सर्वोच्चन्यायालयः। ताराभोजनालये वर्तमानानां मद्यशालानामपि विधिः बाधकमिति सर्वोच्चन्यायालयेन व्यक्तीकृतम्। जनसंख्यान्यूनेषु राज्येषु मद्यालयानां दूरपरिधिरपि न्यूनीकृतः। मार्गपार्श्वात् चतु शतं (५००) मीट्टर् इति एतत् विंशत्यधिक द्विसहस्रं (२२०) मीट्टर् रूपेण न्यूनीकृतम्। जनानां स्वास्थ्यं परिगणय्य एव एषः निर्णयः इति उन्नतन्यायाधिपः जे एस् खेहार् न्यायाधिपौ चन्द्रचूड्,एन् नागेश्वररावु महोदयौ च व्यक्तीकृतवन्तः। उच्चन्यायालयस्य अस्य निर्णयस्य कार्यान्वयनं करिष्यतीति केरलस्य सचिवः जी सुधाकरः अवदत्।
Devidas Desh Pandey.

Saturday, April 1, 2017

महाराष्ट्रराज्ये तापमानं पञ्चचत्वारिंशतादुपरि आगतम्। घोरातपेन राज्यं तपति।
कोचि >राष्ट्रे बहुत्र घोरातपेन जनाः विध्यन्ते। एवम् उष्णवायुना अपि जनाः आतपेन भृष्टीक्रियते। महाराष्ट्र-गुजरात-राजस्थान-उत्तरप्रदेश-उत्तराखण्डं-दिल्ली-पञ्जाब-आन्ध्राप्रदेशादि राजेषु उष्णता असह्या सञ्जाता। महाराष्ट्र-राज्ये उष्णवायुना पञ्चजनाः मृताः। केरले विविध क्षेत्रेषु अत्युष्णता प्रतीयते। पालक्काड् देशे उष्णः अष्टचत्वारिंशदागतम्। राज्यस्थान् राज्यस्य बाडमेर: हरियाणायाः नरनौल: पञ्जाबस्य लुधियाना उत्तरप्रदेशस्य च  वाराणसी, अलहबाद, आगरा चेत्यादिक्षेत्रेषु अत्युष्णता प्रतीयते। आस्थाननगर्यां दिल्याम् अस्य संवत्सरस्य अत्युष्णः अभवत्। तमिलनाडु-राज्ये अत्युष्णेन त्रिशतं (३००) कृषकाः मृताः।

दक्षतानिदेशकः स्थानभ्रष्टः।
अनन्तपुरी > केरले  आरक्षकसेनायाः दक्षतासंस्थायाः निदेशकः डो. जेक्कब् तोमसः स्थानभ्रष्टः अभवत्। समीपकाले अनुवर्तमानाः उच्चन्यायालयस्य प्रतिकूलपरामर्शाः तं त्यागपत्रसमर्पणाय अनयन्। डि जि पि लोकनाथ बह्रा तत्थानं वक्ष्यति।
    कतिपयमासेभ्यः पूर्वमेव उपरिष्ठानां शासनाधिकारिणां मध्ये जेक्कब् तोमसः अप्रियः आसीत्। ऐ ए एस्-ऐ पि एस्  राजपुरूषाः तं विरुध्य सर्वकारं प्रति तथा मुख्यमन्त्रिणं पिणरायि विजयं प्रति च निवेदनानि समर्पितवन्तः। दक्षतानिदेशकस्थानम् उपयुज्य तान् विरुध्य व्याजव्यवहाराः क्रियन्ते इति आरोपितवन्तश्च। किन्तु मुख्यमन्त्रिणः अनुग्रहेण  सः स्वस्थानं संरक्षितवान्। किन्तु वारं वारम् अनुवर्तिताः न्यायालयस्य प्रतिकूलपरामर्शैः जेक्कब् तोमसः स्थानत्यागाय प्रेरितः।

मृत्तैलानां मूल्येषु न्यूनता।
नवदिल्ली >मृत्तैलानां वर्धितानि मूल्यानि न्यूनीकर्तुं तैलशुद्धीकरणशालाभिः निश्चितम्। पट्रोल् तैलस्य त्रीणि रुप्यकाणि सप्तसप्तति पैसाः (३.७७) डीजल् तैलस्य द्वे रुप्यके एकनवति पैसाः (२.९१) रूप्यकाणि न्यूनीकृतानि। बहुकालानन्तरमेव एतादृशं न्यूनीकरणम्। राष्ट्रान्तर विपण्याम् असंस्कृत-मृत्तैलस्य मूल्ये जाता न्यूनता डोलर् पत्रं विरुध्य रुप्यकपत्रस्य मूल्यवर्धनं च अत्रत्यस्य मूल्यन्यूनीकरणस्य कारणम्। वारद्वयारनन्तरं मूल्यालोकनं भवतु इति पूर्व निश्चयानुसारमेव इयं प्रक्रिया। तथापि गाते जनवरिमासानन्तरं मृतैलानां मूल्येषु विशेषाः नासन्।

Friday, March 31, 2017

वाट्सप् गणैः द्वारा भारतविरुद्ध कार्यक्रमेण पाकिस्थानः।
श्रीनगरम्>जम्मु काश्मीरस्थान् युवकान् आक्रमणाय प्रेरयितुं तथा सेनां विरुध्य प्रवर्तितुं पाकिस्थानः वाट्सप् सहित सामाजमाध्यमाध्यमानाम् उपयोगं  करोति। काश्मीरस्य बुल्गां जिल्लायां सैन्येन कृतं आक्रमणं प्रतिषिद्ध्यसुरक्षाकर्यकर्तॄन् प्रति युवकाः पाषाण क्षेपणं अकुर्वन्। यत्र आक्रमणादिकं भवति कदा इत्यादि सर्वमपि वृत्तान्तं सामाजिकमाध्यम द्वारा युवकान् विज्ञापयति। एवं विविध क्षेत्रवासिनः युवकान् परस्परं ज्ञातुमपि भीकराः सामाजमाध्यमान् उपयुनक्ति।

Thursday, March 30, 2017

सुवर्णविक्रयकाणामुपरि दृढनियन्त्रणम् आयाति।
नवदिल्ली>सुवर्णविक्रयणे नियन्त्रणम्। एप्रिल् एकदिनाड्कादारभ्य सुवर्ण विक्रयणे दशसहस्र रुप्यकाणि एव  रुप्यकपत्ररूपेण यच्छति। पूर्वं तत् विंशति सहस्रमासीत् । तत्सम्बन्धी नीतिः आगामिनि मासे प्रबली भवति। दशसहस्रधिकं धनं व्यक्तेः आर्थालये एव प्राप्स्यते। एवं न करोति चेत् तदनधिकृतमिति निकुति विभागः परामृशति। केन्द्रसर्वकारस्य एतत् निर्णयं मुख्यतया ग्रामीणक्षेत्रमेव बाधते। प्रायशः बहुत्र ग्रामेषु तादृशसौविध्यानि न सन्तीति तस्य हेतुः।

 सीमासुरक्षायै स्त्रीशक्तिः च। सीमासुरक्षासेनायां प्रथमवनिताकार्यकर्त्री तनुश्री।
ग्वालियार् > सीमासुरक्षासेनायां एकपञ्चाशत् वर्षाणाम् इतिहासे प्रथमवनिताकार्यकर्त्री रूपेण पञ्चविंशति आयुयुक्ता तनुश्री परीख् नियुक्ता।
 तनुश्री परीख् राजस्थान राज्यस्य बिक्कानीर स्वदेशी अस्ति।२०१३ आरभ्य सेनायां स्त्रीणः सन्ति चेदपि उन्नतपदव्यां प्रथमतया एव स्रीणां प्रवेशः।
असिस्टण्ट् कमाण्डर पदे नियुक्ता तनुश्री परीख् पञ्जाबराज्ये पाक् सीमायां सेनागणम् नेष्यति।

Wednesday, March 29, 2017

स्त्रीणां रात्रौ उद्योगे निवेश: मास्तु इति ऐ टी स्थापनानि प्रति कर्णाटकसर्वकारा:।।
 बङ्गलूरु >रात्रिकालान्तरेषु स्त्रिय:उद्योगस्था: उद्योगकार्येषु न योजयेयुरिति  ऐ टी बयोटेक्  स्थापनानि प्रति  कर्णाटकनियमसभासमित्या:निर्देश:। स्त्रीणां सुरक्षां स्वकार्यतां च संरक्षितुमेव अयं  निर्देश: इति नियमसभासमित्या सूचितम् । ऐ टी  बी टी स्थापनानि स्त्रिय:रात्रौ उद्योगेषु योजयन्ति इत्यत्र  सहमति:नास्ति तथा च ता:यावच्छीघ्रं दैनिक मध्यन्दिनकालान्तरेषु योजयेयुरिति च सभासमित्या: निर्देश: । नियमसभायां वनिताशिशुक्षेमसमित्या समर्पिते आवेदनपत्रे एव  निर्देशोयं वर्तते । एन् ए हारिसस्य नेतृत्वे वर्तमानसमित्या निर्देशोयं पुरस्कृत: सभायाम् । एतादृशसंस्थासु रात्रिकालान्तरे पुरुषोद्योगस्था: नियोजनीया:इत्यपि समित्या निर्दिश्यते । इनफोसिस्   बयोकोण्   संस्थासु सेवनरतैस्सह २०१६ सेप्टम्बर्मासे समित्या चर्चा कृता । तदाधारीकृत्यैव आवेदनपत्रं सज्जीकृतमपि । किन्तु गतवर्षे सर्वकारै:स्वीकृतचरित्रपरं  निर्णयम् उल्लङ्घ्यते अयमावेदनम् । रात्रिकालोद्योगस्थानां स्त्रीणामुपरि  विद्यमाननियन्त्रणं व्याक्षिप्तमासीत् गतवर्षे सर्वकारै: उद्योगमण्डलेषु स्त्रीपुरुषसमत्वं प्रदीयादिति उद्देश्येन एव तथा एकं पदं सर्वकारै: विन्यस्तमपि ।

मातुः सम्पत् असाधुरुप्यकपत्राणां विनिमयाय प्रधानमन्त्रिणे पुत्राणाम् आवेदनम्।
जयपुरम्>बन्धितात् गृहात् प्राप्तानि ९६,५०० रुप्यकस्य असाधुरुप्यकपत्राणां विनिमयाय साहाय्यम् अभ्यर्थ्य अनाथबालकानाम् आवेदनं प्रधानमन्त्रिणे प्रदत्तम्। कोट्टा जिल्लायां सरावाडा ग्रामे मृतायाः मातुः उपधानात् रुप्यकाणि प्राप्तानि।
 मातापित्रोः मरणानन्तरं बान्धवैः तिरस्कृतान् बालान् कोट्टायां सर्वकारस्य अनाथकेन्द्रे ग्रामीणाः अनयन्। अस्मिन् मासस्य सप्तमे दिने जेष्ठे बालके गृहस्य उद्घाटनं कृते सति रुप्यकाणि प्राप्तानि। पूर्णतया सहस्र पञ्चशतानां पत्राणि आसन्।
विनिमयाय रिसर्ववित्तकोशाय आवेदनं दत्तं चेदपि किमपि फलं नासीत्   अत एव प्रधानमन्त्रिणः साहाय्याय पत्रं प्रेषितम्।
Episode 39 - Sanskrit News
 Bhadra P Varma Class VII Kendiya Vidyalaya, AFS Akkulam, Thiruvanandapuram, Kerala.

Tuesday, March 28, 2017

 मलप्पुरम् उपनिर्वाचनव्यग्रतायाम् , स्थानाशिनः नव।
मलप्पुरम् > केरले मलप्पुरं लोकसभानियोजकक्षेत्रे उपनिर्वाचनव्यग्रता आरब्धा। ई. अहम्मदवर्यस्य निर्याणेन प्रख्यापिते उपनिर्वाचने नामनिर्देशपत्रिकाणां सूक्ष्मपरिशोधनायां समाप्तायां नवानां स्थानाशिनां पत्रिकाः  अङ्गीकृताः।
      तत्र त्रयः प्रमुखाः वर्तन्ते। यू डि एफ् दलीयः मुस्लींलीग् दलप्रतिनिधिः पी के कुञ्ञालिक्कुट्टिः , एल् डि एफ्  सख्यस्य सि पि एम् प्रतिनिधिः एम् बि फैसलः , एन् डि ए सख्यप्रतिनिधिः भाजपादलीयः एन् श्रीप्रकाशश्च परस्परं स्पर्धिष्यमाणाः प्रमुखाः।

     एप्रिल् मासस्य द्वादशे दिनाङ्के एव निर्वाचनं भविष्यति।
सन्तोष् ट्रोफी वंगेन प्राप्तम्।
पनजी> एकसप्ततितमः सन्तोष् ट्रोफी नामकः पादकन्दुकक्रीडाविजयस्तम्भः वंगराज्येन प्राप्तः। प्रतियोगिनं गोवादलं प्रत्युत्तररहितेन एकेनैव कन्दुकलक्ष्येन पराजित्य विजयस्तम्भे वंगदलस्य  द्वात्रिंशत्तमं चुम्बनार्पणम्! निश्चिते समये दलद्वयेनापि विना लक्ष्यकन्दुकं समस्थितौ जाते स्पर्धा अधिकसमयं समुपगता। मत्सरसमापनाय एकनिमिषे अवशिष्टे मन्वीरसिंहस्य लक्ष्यकन्दुकेन वंगराज्यं विजयतीरं संप्राप।

Kanakadharayajnam


Kanaka Dhara Sthothram is re-recited for all of us at the temple of Lakshmy Pathy, with the current successor of the blessed fortunes from family of Swarnath Mana, decorating 'Agrasthanam'.  Successors of Pazhoor Mana, the family of Sree Sankara's maternal uncles, Thalayattumpilly and Kapilly Manas the only 2 out of 10 Namboothiri families now existing at Kalady, also are participating.
A chosen group of 32 Archakas representing 32 years of life of Sankara will be reciting the Kanaka Dhara Sthothram with due 'vruthasudhi' and 'thantric nistha'.  Devotees could get the Kanaka Dhara Sthothram recited in their name and nakshatra before merciful Thrikaladyappan - Kula Deva of Adi Sankara.  The Thanthri for the Yajnam would be Brahmasree Avanaparambu Pradeep Namboothiripad.  

A talisman of Kanaka Dhara Yanthra or Elass will be delivered as prasadam marking your fortunate participation.  Those who already participated in the Yajnam of 2005 were offered a Punarpooja of their Yanthra after two years and can get it done during this time.  The Yanthra is made as per the Yanthra Vidhi instructions of Kanipayyoor Namboothiripad and as per Kerala thantric rituals.  Keeping of the Yanthra in the pooja room / place of business with dhooma (agarbathi) and neyvilakku (ghee lamp) on Fridays are considered best for the enhancing of powers of the Yanthra.        

This year Kanaka Dhara Yajnam is being concluded on the Akshaya Tridiya Day, the best time of the year to get blessed Gold.  The Crystal charged with Kanaka Dhara Sthothram chants covered with Gold is called the Golden Amalka and is available for those blessed devotees.  One could wear this as a locket in their chain or can keep in the pooja room.
Your presence and darshan of the unique holy event, hearing of the hymns and darshan of merciful Thrikaladyappan, Sri Krishna is the greatest of fortune and punyam. All are invited to have blessings of fortune of this Kanakadhara.

Monday, March 27, 2017

संस्कृताध्ययनेन वार्धाक्यं विस्मृत्य अनन्तपुरी।
अनन्तपुरी > केरळेषु अनन्तपुर्यां प्रचालिते संस्कृतभारत्याः जनपदस्तरीयवार्षिकमेलने प्रमाणपत्र वितरण सन्दर्भः आसीत् अयं मोदस्य निमेषः। संस्कृतभारत्याः पत्रालयशिक्षणे वृद्धजनाः बहवः सामोदं परीक्षां लिखितवन्तः। उत्तीर्णनां कृते केरलभाषा इन्स्टिट्यूट् संस्थायाः उप-निदेशकेन डॉ के एन् जयकृणन् महोदयेन प्रमाणपत्राणि वितीर्णानि। गृहिण्यः, कर्मकराः उद्योगिनः निवृत्ताः यून वृद्धभेदंविना बहवः जनाः इदानीं पत्रालयशिक्षणद्वारा संस्कृत-भाषाध्ययनं सम्पादयन्ति। कामपि भेदभावनां विना सर्वेषां संस्कृतपठनं  सुसाध्यं इति एतत् प्रमाणीक्रियन्ते इति आमुखभाषाणे डॉ ई एन्‌ ईश्वरन् अवदत्। संस्कृतभारत्याः शिक्षण प्रमुखः तथा सम्प्रतिवार्ता पत्रिकायाः सम्पादक-समित्यङ्गं च भवति एषः।

Sunday, March 26, 2017

सुरक्षा भीषां  प्रतिरोद्धुं भारत-अमेरिका सौहृदं दृढं जायते।
वाषिड्टण् > सुरक्षा क्षेत्रे भारत-अमेरिका सौहृदं दृढं जायते।भीकरकार्याणि तथा समुद्रेण आगताः भीषाः च प्रतिरोद्धुं द्वयोः राष्ट्रयोः मध्ये धारणा सञ्जाता। भारतस्य राष्ट्रीयसुरक्षा उपदेष्टा अजित् डोवेल् अमेरिकायाः उन्नतप्रतिरोध कार्यकर्तृभिः जातायां चर्चायाम् अस्ति निर्णयम्। चर्चां इयम् अतीव फलप्रदमासीदिति भारतस्य प्रतिनिधः अवदत्। राष्ट्रपतेः डोणाल्ट् ट्रंपस्य शासनकाले द्वतीयवारमस्ति डोवलस्य अमेरिका सन्दर्शनम्।भारतस्य आर्थिकपरिष्काराः तथा पद्धत्यः चर्चायाम् आगताः इति सूचना अस्ति। भारतस्य विकासशीलौ आर्थिकस्थितौ अमेरिकायाः रुचिः चर्चायाम् अस्यां व्यक्तीकृतम्।


छात्र आरक्षकयोजना अधिकं विद्यालयेषु आयोजयिष्यते - केरलस्य मुख्यमन्त्री ।
अनन्तपुरी> केरलेषु विद्यालयेषु आयोजिता छात्रारक्षकयोजना [Students Police Cadet project]आगामिनि संवत्सरे अधिकं विद्यालयेषु व्यापयिष्यते इति मुख्यमनत्रिणा पिणरायि विजयेन प्रोक्तम्। छात्रारक्षकाणां राज्यस्तरीयशिबिरस्य समापनसम्मेलनम् उद्घाटनं कुर्वन् भाषमाणः आसीत् मुख्यमन्त्री।
     अस्याः योजनायाः गुणफलानि यावच्छक्यं छात्रेषु प्रापयितुमेव लक्ष्यः। इदानीं ५७४ विद्यालयैः ५०,००० आरक्षकावरजाः अनया योजनया परिशीलनं प्राप्तवन्तः सन्ति। देशाय स्वास्थ्यसम्पूर्णा प्रवर्तनक्षमा च परम्परा आवश्यकी, तदेव एतादृशी योजना लक्ष्यीकरोति।
 एस् एस् एल् सि -गणित परीक्षा निरस्ता , पुनः  ३०तमे दिनाङ्के। 
अनन्तपुरी > गते विंशद्दिनाङ्के संवृत्ता केरलस्य दशमकक्ष्यायाः गणितमूल्यनिर्णयः सर्वकारेण निरस्ता। न केवलं प्रश्नपत्रिकायाः प्रामाण्यराहित्यं किन्तु प्रश्नपत्रिकानिर्माणे संवृत्तः व्यतिक्रमश्च परीक्षानिरासस्य हेतुः भवति।
    प्रश्नपत्रिकानिर्माणाय उत्तरदायित्वं विहितः अध्यापकः स्वसुहृदः अध्यापकात् प्रश्नान् स्वीकृतवान्। स सुहृदपि मलबार् एज्यूक्केषन् एजन्सि इति संस्थया प्रसिद्धीकृतस्य मार्गदर्शकग्रन्थस्य कृते अपि एतान् प्रश्नान् दत्तवानासीत्। किञ्च एते प्रश्नाः कस्यांचित् वार्तापत्रिकायामपि दृष्टाः। अतः प्रश्नपरिस्रवणमभवदिति कारणेन कारिता परीक्षा निरस्ता।


सन्तोष् ट्रोफी - वंग-गोवा अन्तिमस्पर्धा अद्य। 
पनजी >एकसप्ततितमायाः सन्तोष् ट्रोफि पादकन्दुकक्रीडायाः अन्तिमचरणस्पर्धायाम् अद्य वंगराज्यं गोवाराज्येन सह स्पर्धिष्यते। पनजिसमीपे जि एम् जि बोम्बालिन् क्रीडाङ्कणे सायं षड्वादने स्पर्धा भविष्यति।
      वंगः इतःपर्यन्तम् एकत्रिंशद्वारं विजेता अभवत्। द्वादशसु अन्तिमस्पर्धासु पराजितश्च। पञ्चवारं प्राप्तकिरीटं गोवादलं सप्तवारं द्वितीयस्थानम् अलङ्कृतवत्।

Saturday, March 25, 2017

सर्वकारकार्यकर्तॄणां समाजमाध्यमेषु हस्ताक्षेपे तीव्रं नियन्त्रणम्।
तिरुवनन्तपुरम्>समाजमाध्यमेषु हस्ताक्षेपे सर्वकारकार्यकरतॄणां नियन्त्रणम्। सर्वकार नीतिषु अनुमतिं विना अभिप्रायप्रकटनं न कुर्यात्। निर्देशस्सास्य लंघने वर्य कार्यकर्तारः दण्डनादिकं स्वीकुर्युः। नो चेत् तत् गुरुतरः प्रमादः भवेदिति शासनपरिष्करणविभागेन विज्ञापितम्।
 यु डी एफ् सर्वकारस्य शासनकाले अपि समाजमाध्यमेषु मतिप्रकटनाय रोधनं कृतमासीत्। साहित्यकृतयः अपि न कुर्यादिति निर्देशे बहु विमर्शाः आगताः आसन्।


लघुजीवन-व्ययेन भारते चत्वारि नगराणि।
नवदिल्यां सुप्रभातम्।
नव दिल्ली > विश्वस्य नगरेषु लघु जीविका व्ययेन चिनुतेषु नगर दशमेषु भारतरत् चत्वारि नगराणि। बंगलूरु (तृतीय स्थाने) चेन्नै (षष्ट) मुंबै(सप्तम) नव दिल्ली (दशम) इति पट्टिकायां प्रकाशितम्। 'इक्कणोमिक् इन्ट लिजन्स् यूणिट्ट् (ElU) नाम समित्या एव पट्टिका प्रकाशिता । कसख्-स्थानराष्ट्रस्य अल्माट्टी एव प्रथम स्थाने विराजते। नैजीरियाः लोगोस् द्वितीय स्थानमावहति सिंगपूर् एव अधिक -जीवनव्यय-युक्तं नगरम् । होङ्कोङ् सुरिकि च द्वितीयतृतीय स्थानयोः तिष्ठतः ।

Friday, March 24, 2017

ब्रिट्टीष पारलमेण्ड् मन्दिरं प्रति भीकराक्रमणम्। चत्वारः मृताः। भीकरः अग्निगोलेन हतः।
लण्डन्> ह्यः सायं ब्रिट्टन् राष्ट्रं प्रकम्बयन् पारलमेण्ड् मन्दिरं प्रति शक्तं भीकराक्रमणम् अभवत्। आक्रमणे तस्मिन् भीकरेण सह चत्वारः हताः। त्रय आरक्षजनैः सह विंशतिजनाः व्रणबाधिताः अभवन्।
 ह्यः सायं चत्वारिशत् निमेषाधिक द्विवादने आसीत् भीकराक्रमणस्य प्रारंभम्। अतिशीघ्रम् आगतं एकं कारयानं पारलमेण्ड् मन्दिरस्य पार्श्वे वर्तमाने वेस्ट् मिनिस्टर सेतौ चलतः जनान् ताडयित्वा पारलमेण्ड् मन्दिरस्य कवाटम् अताडयत्।पुनः यानमवरुह्य मन्दरं धावितं भीकरं आरक्षकाः अरोधयन्। सः आरक्षकं कुठारेण अपातयत्।तदा अन्यः आरक्षकः तं अग्निगोलेन अपातयत्। पारलमेण्ड् मन्दिरे तदानीं सभाद्वययोः सम्मेलनं चलद् आसीत् ।

प्रपञ्चरहस्यमधिकृत्य केरलीयशास्त्रज्ञस्य नूतनं भारतीयदर्शनम्। 
कोच्ची > प्रपञ्चस्य आधारनिगूढताः अधिकृत्य भारतीयं दार्शनिकपारम्पर्यम् उपपाद्य केनचन केरलीयशास्त्रज्ञेन उपस्थापितं नूतनं दर्शनं शास्त्रलोके चर्च्यते। प्रसिद्धः कैरलीसाहित्यकारः तथा विख्यातशास्त्रज्ञः सि. राधाकृष्णः भवति अस्य नूतनदर्शनस्य उपज्ञाता।
    एतदधिकृत्य प्री स्पेस् टैम् जेर्णल् (pre- space time journal) नामकमासिकीद्वारा राधाकृष्णेन तस्य पुत्रेण के आर् गोपालेन च प्रसिद्धीकृतं अव्यक्तः दि फाब्रिक् ओफ् स्पेस् (Avyaktah the fabrics of space) नामकं लेखनं पठनार्हमिति केरला शास्त्र-साङ्केतिक सङ्घस्य(Kerala Science And Technology society) धुरन्धरैः उक्तम्।
     द्रव्यम् आधारीकृत्य प्रपञ्चं व्याख्यायमानं साधारणं भौतिकशास्त्रदर्शनात् व्यतिरिच्य स्पेस् अथवा स्थानम् इति सङ्कल्पनम् आश्रित्य एव सि राधाकृष्णः स्वदर्शनमवतारयति। स्थल-काल-द्रव्य-ऊर्जादीन् आश्रियमानानि इदानीन्तनतत्वशास्त्राणि एतद्दर्शनं परिवर्तयति।
  अव्यक्तादीनि भूतानि
   व्यक्तमध्यानि भारत।
   अव्यक्तनिधनान्येव
   तत्र का परिदेवना।। इति भगवद्गीताश्लोक एव आत्मानम् एतादृशीं चिन्ताधारामनयदिति तेनोक्तम्।

क्रूरकृत्येषु दण्ड्यमानानाम् आजीवनान्तरोध: भवेत् ।
नवदिल्ली > क्रूरकृत्येषु  अत्याचारेषु वा दण्डितानां नेतृणां निर्वाचनेभ्य:आजीवनान्तनिरोध: कल्पनीय: इति निर्वाचनसमित्या  परमोन्नतनीतिपीठस्य पुरत:केस्  समर्पितम् । एतस्मिन् विषये भी जे पी नेत्रा अश्विनी उपाध्यायेन दत्तायां सामान्यतात्पर्यहरजी मध्ये एव समित्यापि स्वीयाभिमतं व्यक्तीकृत्य सत्यवाड्मूलं दत्तम् ।