OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, March 25, 2017

सर्वकारकार्यकर्तॄणां समाजमाध्यमेषु हस्ताक्षेपे तीव्रं नियन्त्रणम्।
तिरुवनन्तपुरम्>समाजमाध्यमेषु हस्ताक्षेपे सर्वकारकार्यकरतॄणां नियन्त्रणम्। सर्वकार नीतिषु अनुमतिं विना अभिप्रायप्रकटनं न कुर्यात्। निर्देशस्सास्य लंघने वर्य कार्यकर्तारः दण्डनादिकं स्वीकुर्युः। नो चेत् तत् गुरुतरः प्रमादः भवेदिति शासनपरिष्करणविभागेन विज्ञापितम्।
 यु डी एफ् सर्वकारस्य शासनकाले अपि समाजमाध्यमेषु मतिप्रकटनाय रोधनं कृतमासीत्। साहित्यकृतयः अपि न कुर्यादिति निर्देशे बहु विमर्शाः आगताः आसन्।


लघुजीवन-व्ययेन भारते चत्वारि नगराणि।
नवदिल्यां सुप्रभातम्।
नव दिल्ली > विश्वस्य नगरेषु लघु जीविका व्ययेन चिनुतेषु नगर दशमेषु भारतरत् चत्वारि नगराणि। बंगलूरु (तृतीय स्थाने) चेन्नै (षष्ट) मुंबै(सप्तम) नव दिल्ली (दशम) इति पट्टिकायां प्रकाशितम्। 'इक्कणोमिक् इन्ट लिजन्स् यूणिट्ट् (ElU) नाम समित्या एव पट्टिका प्रकाशिता । कसख्-स्थानराष्ट्रस्य अल्माट्टी एव प्रथम स्थाने विराजते। नैजीरियाः लोगोस् द्वितीय स्थानमावहति सिंगपूर् एव अधिक -जीवनव्यय-युक्तं नगरम् । होङ्कोङ् सुरिकि च द्वितीयतृतीय स्थानयोः तिष्ठतः ।

Friday, March 24, 2017

ब्रिट्टीष पारलमेण्ड् मन्दिरं प्रति भीकराक्रमणम्। चत्वारः मृताः। भीकरः अग्निगोलेन हतः।
लण्डन्> ह्यः सायं ब्रिट्टन् राष्ट्रं प्रकम्बयन् पारलमेण्ड् मन्दिरं प्रति शक्तं भीकराक्रमणम् अभवत्। आक्रमणे तस्मिन् भीकरेण सह चत्वारः हताः। त्रय आरक्षजनैः सह विंशतिजनाः व्रणबाधिताः अभवन्।
 ह्यः सायं चत्वारिशत् निमेषाधिक द्विवादने आसीत् भीकराक्रमणस्य प्रारंभम्। अतिशीघ्रम् आगतं एकं कारयानं पारलमेण्ड् मन्दिरस्य पार्श्वे वर्तमाने वेस्ट् मिनिस्टर सेतौ चलतः जनान् ताडयित्वा पारलमेण्ड् मन्दिरस्य कवाटम् अताडयत्।पुनः यानमवरुह्य मन्दरं धावितं भीकरं आरक्षकाः अरोधयन्। सः आरक्षकं कुठारेण अपातयत्।तदा अन्यः आरक्षकः तं अग्निगोलेन अपातयत्। पारलमेण्ड् मन्दिरे तदानीं सभाद्वययोः सम्मेलनं चलद् आसीत् ।

प्रपञ्चरहस्यमधिकृत्य केरलीयशास्त्रज्ञस्य नूतनं भारतीयदर्शनम्। 
कोच्ची > प्रपञ्चस्य आधारनिगूढताः अधिकृत्य भारतीयं दार्शनिकपारम्पर्यम् उपपाद्य केनचन केरलीयशास्त्रज्ञेन उपस्थापितं नूतनं दर्शनं शास्त्रलोके चर्च्यते। प्रसिद्धः कैरलीसाहित्यकारः तथा विख्यातशास्त्रज्ञः सि. राधाकृष्णः भवति अस्य नूतनदर्शनस्य उपज्ञाता।
    एतदधिकृत्य प्री स्पेस् टैम् जेर्णल् (pre- space time journal) नामकमासिकीद्वारा राधाकृष्णेन तस्य पुत्रेण के आर् गोपालेन च प्रसिद्धीकृतं अव्यक्तः दि फाब्रिक् ओफ् स्पेस् (Avyaktah the fabrics of space) नामकं लेखनं पठनार्हमिति केरला शास्त्र-साङ्केतिक सङ्घस्य(Kerala Science And Technology society) धुरन्धरैः उक्तम्।
     द्रव्यम् आधारीकृत्य प्रपञ्चं व्याख्यायमानं साधारणं भौतिकशास्त्रदर्शनात् व्यतिरिच्य स्पेस् अथवा स्थानम् इति सङ्कल्पनम् आश्रित्य एव सि राधाकृष्णः स्वदर्शनमवतारयति। स्थल-काल-द्रव्य-ऊर्जादीन् आश्रियमानानि इदानीन्तनतत्वशास्त्राणि एतद्दर्शनं परिवर्तयति।
  अव्यक्तादीनि भूतानि
   व्यक्तमध्यानि भारत।
   अव्यक्तनिधनान्येव
   तत्र का परिदेवना।। इति भगवद्गीताश्लोक एव आत्मानम् एतादृशीं चिन्ताधारामनयदिति तेनोक्तम्।

क्रूरकृत्येषु दण्ड्यमानानाम् आजीवनान्तरोध: भवेत् ।
नवदिल्ली > क्रूरकृत्येषु  अत्याचारेषु वा दण्डितानां नेतृणां निर्वाचनेभ्य:आजीवनान्तनिरोध: कल्पनीय: इति निर्वाचनसमित्या  परमोन्नतनीतिपीठस्य पुरत:केस्  समर्पितम् । एतस्मिन् विषये भी जे पी नेत्रा अश्विनी उपाध्यायेन दत्तायां सामान्यतात्पर्यहरजी मध्ये एव समित्यापि स्वीयाभिमतं व्यक्तीकृत्य सत्यवाड्मूलं दत्तम् । 

Thursday, March 23, 2017

सि बि एस् सि परीक्षासंविधानेषु  एकीकृता व्यवस्था भविष्यति।
नवदिल्ली > नूतन संवत्सरादारभ्य (२०१७-१८) केन्द्रीय माध्यमिक शिक्षा आयोगास्य (CBSE) परीक्षा संविधानेषु परिष्कारः भविष्यति। षष्टकक्ष्यातः आरभ्य नवम कक्ष्या पर्यन्तं एकीकृत-मूल्यनिर्णयरीतिः आयोक्ष्यते। अध्ययन संवत्सरं द्विधा विभज्य अर्धवार्षिक वार्षिक परीक्षा इति रूपेण प्रचाल्यते । दशम कक्ष्यायाः परीक्षायाम् आत्मविश्वासेन अभिमुखीकर्तुमुद्दिश्य भवति अयं परिवर्तनम्  इति आयोगस्य अध्यक्षेण आर् के चतुर्वेदिना उक्तम्। इतःपर्यन्तं सी बी एस् ई प्रणाली उपयुज्यते चेदपि विद्यालयाधिकारिणः स्वेच्छाया परीक्षां कुर्वन्तः आसन् । दशाङ्कानां समयबन्धितया परीक्षा (Terminal Evaluation)  अपि स्यात्। A1स्थानात् (91-100) E (35तः अधः) ग्रेड् पर्यन्तं भवति मूल्याङ्कन-सूची। २०१८ तमस्य परीक्षायां नूतन संविधानस्य प्रकाशात्मक फलानि द्रष्टुं शक्यते इति च चतुर्वेदीमहोदयेन उक्तम्।

Wednesday, March 22, 2017

शास्त्रगणित-स्पर्धायां भारतवंशजा सम्मानिता ।
वाषिङ्टण्> अमेरिक्कायां सम्पन्नायां शास्त्रगणित स्पर्धायां भारतवंशजा बालिका सार्द्ध द्विलक्षं डोलर्धनेन [पञ्चषष्टिलक्षाधिकैककोटि रूप्यकैः ] पुरस्कृता। मस्तिष्काघातेन रोगबाधया वा न्यूरोण् इत्यस्य संभूतं मरणं निवारयितुं कृताय गवेषणाय एव न्यूजेष़्सीस्था  इन्द्राणी दास्[१७ ] उन्नतपुरस्कारं प्राप्तवती ।  शास्त्रप्रतिभाणां चयनाय आयोजितेषु वार्षिकशास्त्रकौशलान्वेषणपरस्कारेषु आदिमेषु दशपुरस्कारेषु चतुरः पुरस्कारान् भारतीयवंशजा : छात्रा: एव स्वायत्तीकृतवन्त: I सङ्गणकयन्त्रप्रक्रमसम्बन्धिनः गणितग्राफ्सिद्धान्तस्य विकासाय एव इन्त्यानादेशस्थ: अर्जुन् रमणिः [१८] तृतीयस्थानेन सार्धलक्षडोलरमितेन पुरस्कारधनेन पुरस्कृतः । न्यूयोर्क् देशस्था अर्चना वर्मा [१७ ] सौरोर्जगवेषणविषये पञ्चमस्थानेन नवतिसहस्रं डोलर्मितेन धनेन पुरस्कृता। प्रतीक् नायिडुः [१७ ] अर्बुदं पारम्पर्यगुणघटकं च अधिकृत्य पठनसहायिने तंत्राम्शाय सप्तमस्थानेन सप्ततिसहस्रं डोलर्मितेन धनेन पुरस्कृतः । मलेरिया चिकित्सामधिकृत्य कृतपठना वृन्दा मदन् [१७ ] नवमस्थानेन पञ्चाशत् सहस्रं  डोलर्मितेन धनेन पुरस्कृता। अमेरिक्कायां सप्तशताधिकसहस्रं वरिष्ठविद्यालयीयछात्रा: एव अस्यां स्पर्धायां भागभाञ्जः आसन् ।

निर्माणे स्थितः सेतुः पतितश्च। हन्त! कर्मकराः रक्षां प्राप्तवन्तः I
रणाकुलं जिल्लायां मुलवुकाट् प्रदेशे निर्माणे स्थितः सेतुः भग्न : अधः पतितश्च। पिष़ल - मूलंपिल्लिसम्बन्धिसेतुरयं । सायं पञ्चवादने एव निर्माणे स्थितस्य सेतोः एकः स्तंभ : अधः पतितः । सेतुनिर्मातृषु  कर्मकरेषु चायपानार्थं गतेषु एव इयं दुर्घटना सम्पन्ना इत्यतः महती विपत्तिः न जाता। अस्मिन् समये सेतुस्थः वैद्युतिक: नद्यां कूर्दित्वा  स्वयं रक्षति स्म। एतस्याः दुर्घटनायाः कारणं अव्यक्तमेव। निर्माणसभायाः आश्रयत्वेन षडशीतिकोटि रूप्यकाणां निर्णयेन च समाप्तप्रायः सेतु: एव पतितः आसीत् । कटमक्कटि द्वीपवासिनां चिरकालस्वप्नः आसीत् एषः सेतुः।

रुप्यकपत्राणां विनिमयम्- सर्वकाराय रिसर्ववित्तकोशाय च उच्चतरन्यायालयस्यस्य पत्रिका।
नवदेहली- असाधूनां रुप्यकपत्राणां विनिमयाय डिसंबर त्रिंशत् दिनाड्कात् परं अनुमतिनिषेधाय केन्द्रसर्वकारः तथा रिसर्ववित्तकोशश्च विशदीकरणं दातव्यमिति उच्चतरन्यायालयः।
असाधूनां सहस्र पञ्चशत रुप्यकपत्राणां विनिमयाय डिसंबर त्रिंशत् दिनाड्कात् परं केन्द्रसर्वकारः अनुमतिः न अदात्। रुप्यकपत्राणां विनिमयाय  मार्च् ३१ दिनाड्कपर्यन्तम् अवकाशः अस्तीति प्रधानसचिवेन पूर्वम् उक्तमासीत्।प्रधानसचिवेन उद्घोषिते प्रस्तावे ईदृशं व्यतिचलनं न समीचीनमिति न्यायालयः अवदत्।
 मुख्यन्यायाधिपः जे एस् खेहार निवेदनोपरि निर्देशः अयच्छत्।

मेघालये अध्ययनविघ्निताः एकलक्षं बालकाः
 षिल्लोङ् - मेघालयराज्ये अध्ययनविघ्निताः विद्यालयाप्रविष्टाश्च एकलक्षं बालकाः सन्तीति राज्य शिक्षामन्त्री डबोरा सि मनाक् उक्तवान्। गते संवत्सरचतुष्टये राज्यस्य एकादशेषु जनपदेषु बालकाः बालिकाश्च सहिताः ९७,०८९ छात्राः स्तम्भिताध्येताः वर्तन्ते। गार्हिकसम्पद्समस्याः सर्वकारविद्यालयेषु भौतिकसुविधाभावश्च अस्य कारणमिति सूच्यते।

वार्तामुक्तकानि
राञ्ची - भारत-आस्त्रेलिययोः तृतीया निकषस्पर्धा समस्थितिं प्राप्ता। भारताय युगतशतकप्राप्तः चेतेश्वरपूजारा वरिष्ठक्रीडकः अभवत्।

 गोवा - सन्तोष् ट्रोफी पादकन्दुकस्पर्धायाः गुरुवासरे प्रवर्तमाने  द्वितीये उपान्त्यचक्रे  केरलं गोवया सह स्पर्धिष्यते।

 चेन्नै - तमिल्नाट् राज्ये कटलूर् प्रदेशे  पुरुषरन्ध्रशुचीकरणाय.  उद्युक्ताः  त्रयः मलिनकुल्याशुचीकरणकर्मकराः मृताः। पञ्चदशपादपरिमिते गर्ते अवतीर्णाः एते त्रयः विषवायुश्वसनेन एव यमपुरिं प्राप्ताः ।


Episode 38- Sanskrit News
V Vyshnav, Std.7, St. Francis U P School, Amballooor, Ernakulam, Kerala.
>

Tuesday, March 21, 2017

कणिका परीक्षणशालायै अनुज्ञा निरस्ता। 
चेनै >केरलसीमासमीपे तमिल् नाट् राज्ये तेनिप्रदेशे सिद्धतां प्राप्यमाणायाः कणिकापरीक्षणशालायाः कृते केन्द्रपरिस्थितिमन्त्रालयेन दत्ता प्रवर्तनानुमतिः राष्ट्रिय हरितन्यायासनस्य  चेन्नैपीठेन निरस्ता।
      परीक्षणाय पारिस्थितिकान्वीक्षणं कृतवतः नियोजितसंस्थायाः आवेदनानि न्यायासनेन नाङ्गीकृतानि। अङ्गीकारयुक्तया नूतनसंस्थया  अन्वीक्षणं कारयितव्यमिति न्याया.  पि ज्योतिमणि वर्यस्य अध्यक्षत्वेन नीतिपीठेन निर्दिष्टम्।


भारतीयमहिलाबैङ्कस्य विलयः
    महिलाभ्यः सरलसुलभबैंक सौविध्यमुद्दिश्य प्रशासनेन भारतीयमहिलाबैंकस्य स्टेटबैंकआफइंडिया इत्यस्मिन् समावेशः अनुमतः । अनुमीयते यदनेन महिलाभ्यः बैंकसौविध्य प्रदानाय साहाय्यं भविष्यति।

मणिपुरे भाजपादलेन बहुमतं प्रामाणीकृतम्
   मणिपुरविधानसभायां मुख्यमंत्रिणा बिरेनसिंहेन बहुमतं प्रामाणीकृतम् । भाजपासंयुत्या कांग्रेसदलस्येकं विधायकं समेत्य द्वात्रिंशत् विधायकानां समर्थनमधिगतम् । प्रधानमन्त्रिणः आर्थिकगतिरोधस्य समापनोद्देश्यं पूर्णतां गतम् । अपि च राज्यस्य  विकासपथि नूतन पदक्षेपः समुत्थापितः |


उत्तरप्रदेशे सम्पत्तेः विवरणप्रकरणे योगिनः वक्तव्यम् 
   उत्तरप्रदेशस्य नूतनमुख्यमंत्रिणः योगी-आदित्यनाथस्य निर्देशानुसारेण मंत्रिभिः सह अधिकारिभिः अपि संपत्तेः विवरणं प्रदातव्यमस्ति । अधिकारिभिः सह संजातोपवेशने मुख्यमन्त्रिणा विधिव्यवस्थायाः सुदृढीकरणं प्राशासनिकनियुक्तिषु पारदर्शिता आरक्षि-प्रशासने राजनीतिकव्यवधानस्य समापनं शीर्ष-प्राथमिकतारूपेण प्रतिपादितम् |


उत्तराखण्डस्य मुख्यमन्त्रिणः प्राथमिकताः 
   उत्तराखण्डस्य मुख्यमन्त्रिणा त्रिवेन्द्ररावतेन भणितं यत् पर्वतेभ्यः पलायनमवरोधयितुं  पिहितोद्योगानाम् प्रारम्भः विधातव्यः| कुमाऊँगढ़वालयोर्मिथः सुदृढसम्पर्कस्यावश्यकता विद्यते तदर्थं च  पूर्वस्थापितायां  विधिव्यवस्थायाम् परिवर्तनमपि करणीयम्  ।


महाराष्‍ट्रे चिकित्सकानां सामूहिकावकाशः
  मुंबईं समेत्य महाराष्ट्रस्य विविधक्षेत्रेषु  सोमवारे प्राशासनिकचिकित्सालयानां चिकित्सकैः स्वीय सहकर्मिणामुपरि दुराचारं विरुद्ध्य सामूहिकावकाशः कृतः, येन राज्‍ये रोगिणां समस्‍यायाः संवर्धिताः |
आभारतं अप्राप्तकार्यरताः अभियान्त्रिकज्ञाः षष्ठि प्रतिशतम्।
 नवदेहली> राष्ट्रे प्रतिसंवत्सरं अभियान्त्रिक स्नातकोत्तीर्णेषु षष्टि प्रतिशतं अप्राप्तकर्यरताः सन्ति इति प्राविधिकशिक्षाविभागस्य सूचना। प्रति संवत्सरं अष्ट लक्षं छात्राः विविधेभ्यः प्राविधिकमहाविद्यालयेभ्यः बहिरागच्छन्ति। तेषु पञ्च लक्षं छात्राणां कार्यमेव न लभ्यते। एवं प्रति संवत्सरं विंशति लक्षं कर्यदिनानि राष्ट्रस्य नष्टं भवति।
प्राविधिकमहाविद्यालयानां मूल्यच्युतिः परिहर्तुं केन्द्रसर्वकारः प्रयत्नम् आरभत।तानि-
*२००८ जनवरि आरभ्य आराष्ट्रम् एक एव प्रवेशनपरीक्षा।
* शिक्षकाणां कृते वार्षिकप्रशिक्षणम्। न करोति चेत् संस्थायाः अड्गीकारः नष्टः भविष्यति।
*प्रतिसंवत्सरं पाठ्यक्रमस्य नवीकरणम्।
*छात्राणाम् अनिवार्यप्रशिक्षणम्।
*राष्ट्रीय परीक्षा सेवा द्वारा प्रवेशनपरीक्षा स्यात्। परीक्षायाः नाम स्यात् एन इ इ टी ऐ। नीट् परीक्षा अपि एषा संस्था एव करोति।
* प्रथमा परीक्षा २०१७ डिसंबर मासे अथवा २०१८ जनवरि मासे वा।
२०२२ तमेन प्राविधिकमहाविद्यालयेषु अर्धानां कृते राष्ट्रीय अड्गीकारपरिषदा अड्गीकारः दास्यति।
* छात्राणाम् स्तरोन्नतिः न भविष्यति चेत् संस्थायाः अड्गीकारः नष्टः भविष्यति।

भारते विद्यमाना: २३ विश्वविद्यालयाः व्याजा:, अधिकाश्च प्रवर्तते देहल्याम् ।।
नवदेहली> भारते प्रवर्तमानासु तन्त्रयन्त्रसाड्केतिककलाशालासु अधिका: अपि व्याजा: । देहल्यामेव ६६ कलालयानाम् अनुमति: नास्ति । साड्केतिककलालयेषु २७९अपि व्याजा:। बिरुददानाय एतेषाम् अधिकार: न भवति । इत: स्वीक्रियमाणबिरुदस्यापि मूल्यं केवलं पत्रमात्रं स्यात् । इतोपि २३ व्याज-विश्वविद्यालयेषु  ७ देहल्यामेव प्रवर्तते। गतमासे यु जी सी तथा ए ऐ सी टी च तासां व्याजानां  तेषाम् नामानि अन्तर्जालशृड्खलासु  प्रसिद्धीकृतवन्त:। तेषां विशदांशानि  तत्तद्राज्याणि च सूचितानि इति अधिकारिभि: व्यक्तीकृतम् । तेलड्काना पश्चियबड्गाल: उत्तरप्रदेश: महाराष्ट्रा एतेष्वपि व्याजविश्वविद्यालयाः न विरला:। आगामिनी संवत्सरे एतेषु प्रवेशनं न दीयादिति एतेभ्य: ए ऐ सी टी ना निर्देशोपि दत्त:। प्रवेशनं एतेषु  निषिद्धमिति संसूच्य पत्रमाध्यमेषु  च वार्ता: दत्ता:। व्याजविश्वविद्यालयानां प्रवर्तनानि आधारीकृत्य अन्वेषणं कृत्वा विधिनिर्णयाय  राज्याणां कृते निर्देश: दत्त: इति मानवशेषिविकसनमन्त्रालयेन राज्यसभायां व्यक्तीकृतम् ।

Monday, March 20, 2017

 उत्तरप्रदेशमन्त्रिमण्डलस्य शपथग्रहणसमारोहः
भाजपादलस्य योगी आदित्‍यनाथ: लखनऊ नगरे  कांशीरामस्‍मृत्युवने समायोजिते शपथग्रहणसमारोहे  उत्‍तरप्रदेशस्य मुख्‍यमंत्री पदस्य गोपनीयतायै प्रतिज्ञापितः । राज्‍यपालेन रामनाईकेन तस्मै पदगोपनीयतायाः शपथं प्रतिज्ञापितम् । दलस्य प्रदेशाध्‍यक्षः केशवप्रसादमौर्यः राष्‍ट्रीयोपाध्‍यक्षः दिनेशशर्मा च उपमुख्‍यमन्त्रित्वेन शपथवचनं स्वीकृतवन्तौ । स्रोतोभिः विज्ञापितं यत् अनेन सहैव द्वाविंशतिः मन्त्रिमण्डलस्तरीय नवस्वतन्त्र त्रयोदशराज्यमन्त्रिभिश्च शपथवचनमभिस्वीकृतम् ।
पञ्चाबे सर्वकारवृत्तिषु महिलाभ्यः आरक्षणम्।
चण्डिगड्>  पञ्चाबराज्ये अमरीन्दर् सिंहस्य नूतनसर्वकारस्य प्रथममन्त्रिमण्डलोपवेशने परिवर्तनात्मकाः निर्णयाः कृताः। तदनुसृत्य राज्ये सर्वकारवृत्तिषु महिलानां कृते प्रतिशतं त्रयस्त्रिंशत् आरक्षणम् आयोज्यते। तद्देशस्थापनेषु अपि वनिताप्रातिनिध्यम् इदानींतमात् प्रतिशतं त्रयस्त्रिंशत् इत्यस्मात् प्रतिशतं पञ्चाशत् करिष्यति। स्वातन्त्र्यान्दोलनसेनानिनां कृते एकैकं गृहं तथा त्रिशतं यूणिट् परिमितं विद्युदपि दास्यति। उद्घाटनं, शिलास्थापनम् इत्यादिषु कार्यक्रमेषु मन्त्रिणां भागभागित्वं न भविष्यति। अपि च योजनासु स्थाप्यमानासु शिलासु मुख्यमन्त्रिणः इतरमन्त्रिणां वा नामानि न योक्ष्यन्ते , प्रत्युत शुल्कधनमुपयुज्य आयोजिता योजना इति अङ्कनीयमस्ति।

 मेधा यात्राम् आरभते !
मुम्बै> परिपूर्णरूपेण भारतेन निर्म्मितं मेधा नामिका रेल्  यानं प्रथमतया यात्रार्धां सिद्धं जातम् मेक् इन् इण्डिया पद्धथिद्वारा निर्म्मितं यानं मुम्बय्याम् सबर्बन् पथे चर्च रेल् निस्थानतः यात्रां आरभत।  रेल् मन्त्री सुरेश् प्रभुना उद्घाटनमकरोत्
 हैदराबाद्तः "मेधा सेर्वो डैव्'' इतिसंस्थया एव यानं निर्मितम्।

अस्मिन् बहवः विशेषणानि अपि विद्यते। यानस्य परिपूर्ण नियन्त्रणं रिमोट् मोणिट्टर् द्वारा भवति। यात्रावसरे एव अनेन समस्यायाः समाधानं कर्तुं शक्यते। पूर्ण समये निरीक्षणे एव वर्तते अयम्। मैक्रोफोण् उपयुज्य आशयविनिमयं चालकाय सरलतां प्रददाति। यानेsस्मिन् ११६८ आसन्तानि सज्जीकृतानि सन्ति। ६०३० जनेभ्यः यात्रां कर्तुं शक्यते। उच्चतर शीघ्रता ११० किलोमीट्टर् अस्ति। अस्मिन् १२ कक्षाः सन्ति। निर्माण व्ययं तु ४३.१३ कोटि रुप्यकाणि भवन्ति।

मासत्रयं यावत् सौदी अरेबियायां  सार्वजनीनक्षमापणम् ।
श्यामपट्टिकायां नामपतनं विना रक्षामार्ग:।
रियाद:> सौदी अरेबियायां मासत्रयं यावत् सार्वजनीनक्षमापणं प्रख्यापितम् । मार्च् २९ एतत्  प्राबल्ये आगच्छति । हज्ज् उंरा विदेशचिटिकासु सन्दर्शकचिटिकासु वा सौदीं प्राप्य चिटिकाकालावधेरनन्तरं अनधिकृततया तत्रैव वासं कुर्वतां विमानपत्तनेषु महानौकास्थानेषु  स्थलसीमाकवाटेषु वा जवासात्  (तरणपत्रं  पास्पोर्ट्)  केन्द्रेभ्य:अन्तिममुक्ति: लभेत् । किरीटावकाशिन: आभ्यन्तरमन्त्रिण:बिन साइफ राजकुमारस्य निर्देशानुसरणमेव एतत् प्रख्यापितम् । इक्कामा  उद्योगनियमलड्घका: उंरा  चिटिकावन्त: दायित्वमध्यस्था:हुरूबाकिन: एतेषामनेन नियमेन आनुकूल्यं लभते ।दण्डनं  शुल्कं  कारागारवासादिकं विहाय  एते स्वदेशं प्रतिगन्तुं शक्नुवन्ति ।प्रख्यापनात् ९० दिनाभ्यन्तरे  स्वमेधया राष्ट्रं त्यक्त्वा ये गच्छन्ति तानेव दण्डनेभ्य: मुक्तान् कुर्वन्ति ।

Sunday, March 19, 2017

रेल् यानेषु वनितायात्रिकाणां सुरक्षा दृढीकरिष्यति- केन्द्रसर्वकारः।
नवदिल्ली> रेल् यानेषु वनितायात्रिकाणां सुरक्षां दृढीकर्तुं क्रियासोपानानि स्वीकृतानीति केन्द्र रेल् यानसहमन्त्री राज्यसभायाम् उक्तवान्। यात्रिकक्लेशानां परिहाराय १८२ इति सुरक्षासाहाय्यसंख्या प्रवर्तनमारब्धा। रेल्याननिस्थानेषु सि सि टि वि व्यवस्था, महिलानां कृते वर्तमानेषु यानेषु रेल्वे सुरक्षाबलस्य [आर् पि एफ्] वनिताभटानां नियुक्तिः, मार्गसुरक्षायै श्वानसङ्घ इत्यादयः आयोजिताः।

सर्वशिक्षा अभियानस्य जनपदस्तरीय श्रेष्ठतामहोत्सवस्य परिसमाप्तिः।

अङ्कमाली> केरलेषु सर्वशिक्षा अभियानस्य जनपदस्तरीय श्रेष्ठता महोत्सवः सम्पूर्णः अभवत्। एरणाकुलं जनपदस्य महोत्सवः अङ्कमाली मण्डलस्य नियमसभा सामाजिकः रोजी एम्. जोण् उद्घाटितवान्। सर्व-शिक्षा अभियानस्य एरणाकुलं जनपदस्य अध्यक्षा श्रीमती श्रीकला आर् महोदया पद्धति-विशादीकरणम् अकरोत्। योजनायाः कार्यदर्शी जोस् पेट्ट् जेक्कब् , दीपा जी एस्  प्रभृतयः मञ्चम् अलङ्कृतवन्तः। राज्यस्तरीय-महोत्सवः मार्च मासस्य २६, २७, २८ दिनेषु अनन्तपुर्यां  बी एस् एन् एल् संस्थायाः कैमनम् परिशीलन केन्द्रे प्रचलिष्यते ।
लोके इदंप्रथमतया फ्लूरसेन्ट् मण्डूकः आमसोण् देशे दृष्टः। 
अन्धकारेsपि प्रकाशमानानि फ्लूरसेन्ट्  वर्ण- फलकानि वयम् अपश्याम खलु! फ्लूरसेन्द् दीपानामपि उपयोगं वयं कुर्मः। एवं प्रकाशमानाः मण्डूकाः इदंप्रथमतया गवेषकैः दृष्टाः। अर्जन्टीनायाम् आमसोण्  वर्षकानने  एव बर्णाडिनो रिवाडविय नाचुरल् सयन्स् संस्थायाः गवेषकैः एते मण्डूका: दृष्टाः। अस्मिन् प्रदेशे सामान्यभूतानां पृषन्मण्डूकानां विशेषवर्णघटकमधिकृत्य कृते गवेषणे यादृच्छिकतया एव अन्धकारे राजमानस्य विशेषतामपश्यन्। प्रकाशं वा अन्यवैद्युतकान्तिकतरंगान् वा आगीर्य अधिकतरंगदैर्घ्यप्रकाशस्य बहिर्निस्सरणप्रतिभासः एव फ्लूरसेन्स् इत्युच्यते। स्थल जीविषु एषा विशेषता विरलातया एव दृश्यते। सामान्यप्रकाशे अभास्वरकपिशवर्णेन  रक्तपृषदा च युक्तत्वचः एते मण्डूकाः अल्ट्रावयलट् प्रकाशे भास्वरहरितवर्णैः दृश्यन्ते। एतेषां मण्डूकानां बहिर्निस्सरितस्रवाः एव फ्लूरसेन्ट् प्रतिभासकारणमिति गवेषकै: दृष्टम्। Proceeding of Natural national academy of science इति मासिक्याः नूतनपुटे एव एतद्विषयपठनं  प्रसिद्धीकृतं दृश्यते।

Saturday, March 18, 2017

मधुमेहरोगिभ्यः छात्रेभ्यः परीक्षामण्डपे भोज्यानुमतिः।
नवदिल्ली> वार्षिकमूल्यनिर्णयार्थं प्रविष्टमानेभ्यः प्रथमप्रकारमधुमेहरोगिभ्यः छात्रेभ्यः [टैप् १] दशमी तथा द्वादशीकक्ष्या छात्रेभ्यः परीक्षामण्डपं लघुभोज्यवस्तूनि जलं च आनेतुम् अनुज्ञा दीयते। राज्यसभायां गतदिने मानवविभवसहमन्त्रिणा उपेन्द्रकुश् वाहेन विज्ञापितमेतत्।
    मधुमेहौषधम् चाकलेहउत्पन्नानि फलानि अर्धलिटर् परिमितं जलञ्च प्रवेशयितुं शक्यते। मधुमेहचिकित्साविदग्दस्य भिषग्वरस्य प्रमाणपत्रं रोगमधिकृत्य विशदीकरणं च प्रथमाध्यापकाय समर्पयितव्यम्।

उत्तराखण्डे त्रिवेन्द्र सिंहः।
नवदिल्ली> उत्तराखण्डराज्यस्य भाजपा सर्वकारस्य नेता त्रिवेन्द्रसिंहरावत्तः भविष्यति। शनिवासरे तस्य नेतृत्वे मन्त्रिमण्डलं शपथग्रहणं करिष्यति। राजनगर्यां दरादूण् मध्ये आयोज्यमाने शपथग्रहणसमारोहे प्रधानमन्त्रिणः नरेन्द्रमोदिनः सान्निध्यं भविष्यति।

सुख-भोगवस्तूनां मूल्यवर्धनम्।
नवदिल्ली>सुख-भोगवस्तूनां शीतलपानीयानां च १५/सेस् योजनाय जी एस् टी समितियोगे निर्णयः। करस्योपरि भवति सेस् । अनेन सुख-भोगवस्तूनि उन्मादकवस्तूनि, सोडा, कोला आदीनां मूल्यवर्धनस्य निर्णयः अभवत्। धूमपान 'बीडी' विषये केरलस्य अवगणनाम्  अधिकृत्य धारणा न कृता। सेस्वाह्यमानेषु वस्तुषु बीडी त्याज्या यत: अनेकेषां कर्मकराणां जीवनोपाधि: सा इति धनमन्त्रिणा तोमस् ऐसकेन केन्द्रधनमन्त्रिण: अरुणजयट्ले: कृते पत्रं प्रेषितवान्। गुरुवारे प्रवृत्तसम्मेलने कर-विभाग-कार्यदर्शिना पी मारापाण्ड्येन केरलस्य अभिप्राया: विशदीकृता:। सुख-भोगवस्तूनां सेस् अधिकतया निश्चिता  चेदपि एकैकस्य कियदिति न निश्चितम्। जी एस् टी प्रावर्त्यमाने राष्ट्राणाम् आयनष्टं परिहर्तुं सेस् द्वारा धनार्जनमेव निर्णय: ।

कोच्चि विमाननिलयस्य सुरक्षाबलं वर्धयते।
कोच्ची>कोच्चि अन्ताराष्ट्रविमाननिलयस्य टि-३ इति कार्यनिर्वहणालयस्य प्रवर्तनक्षमतां पुरस्कृत्य केन्द्र उद्योग संरक्षणसेनायाः [सिऐएस्एफ्] अङ्गबलं वर्धयितुमुद्दिश्यते। विमाननिलयस्य सुरक्षायै सि .ऐ .एस् .एफ् .संस्था एव नियुक्ता अस्ति।
     एतदनुसृत्य ३६० सैनिकानपि नियोक्तुं केन्द्रगृहमन्त्रालयेन आदेशः कृतः। अनेन कोच्ची विमाननिलयस्य सि ऐ एस् एफ् सैनिकसंख्या आहत्य ८५४ भविष्यति।

Friday, March 17, 2017

परीक्करः अङ्गीकारः प्राप्तः। 
पनजी> मनोहरपरीक्कर् सर्वकारः गोवा विधानसभायां मतदानाङ्गीकारः प्राप्तः। चत्वारिंशदङ्गयुक्तायां सभायां  द्वाविंशति सामाजिकाः परीक्कर् सर्वकाराय सहयोगं कृतवन्तः। विपक्षदलाय कोण्ग्रस् दलाय केवलं षोडश सामाजिकानां सहयोगः प्राप्तः। केन्द्रसर्वकारस्य राष्ट्रक्षामन्त्रिस्थानं त्यक्त्वा परीक्करः मुख्यमन्त्रिरूपेण सत्यशपथं कृतवान्।

ताज्महल् लक्ष्यीकृत्य ऐ एस् अनुकूल संघटना।
नवदेहली>भीकरसंघटना इस्लामिक स्टेट् भारतस्य ऐतिहासिकस्थानान् लक्ष्यीकरोतीति रहस्यान्वेषणविभागस्य सूचना। ऐ एस् अनुकूल संघटना अहवाल् उम्मत्त मीडिया सेण्टर ताज्महलं लक्ष्यीकरोतीति वार्ता। वार्तावलम्बीनिः चित्राणि तथा अन्यानि अभिज्ञानानि च प्राप्तानि। प्राप्ते चित्रे कृष्णवस्त्रं धृत्वा सायुधः एकः ताज्महलं प्रति तिष्ठति , एवं तस्य अधः नवीनं लक्ष्यमिति लिखितं वर्तते।
 सप्तत्यधिक भारतीयाः ऐ एस् मध्ये भागं स्वीचक्रुः इति सुरक्षा कर्मकराणां मतम्। केरलम् कर्णाटका महाराष्ट्रा इत्येभ्यः राज्येभ्यः अधिकाः ऐ एस् भागं स्वीकृतवन्तः। अन्तर्जालद्वारा टेलिग्राम द्वारा च जनैः सह ते संपर्कं कुर्वन्ति।
एप्रिल् 1दिनाङ्गत: वाहनानां बी एस् ४
नवदिल्ली>मलिनीकरणमानदण्डस्य निर्बन्धतया वाहनानां बी एस् ४ पद्धति: इति आशयस्य प्रबलीकरणवेलायां आशड्का: अव्यक्तताश्च  शिष्टा:। भारतस्टेज् बी एस् पाल्यमानानि वाहनानि एव आगामिमासादारभ्य निर्मातुं शक्यानि। निर्मातृणाम् एतेन सहमतिश्च वर्तते। किन्तु निर्मितपूर्वाणि  बी एस् ३ यानानां का गति: इत्यत्रैव आशड्का: शिष्टा:।

 जियोः जेतुं बि एस् एन् एल् - प्रतिदिनं जीबीद्वयस्य निश्शुल्कवाग्दत्तम्।
कोच्चि> प्रतिदिनं जीबीद्वयस्य निश्शुल्कवाग्दत्तेन सह बी एस् एन् एल्।३३९ रुप्यकाणां पुनः पूरणेन अष्टविंशति दिनानां कृते सेवनमिदं लभ्यते। एवं एप्रिल् मासे आगतस्य रिलयन्स् संस्थायाः जियोः ३०१ रुप्यकाणां  एकं जीबी इति वाग्दत्तं प्रति शक्तं पेरतिरोधं करोति बी एस् एन् एल्।एतदतिरिच्य आभारते बी एस् एन् एल् जालक्षेत्रेषु निश्शुल्कतया भाषणं कर्तुं शक्यते। अनेषु जालक्षेत्रेषु पञ्चविंशति निमेषाः निश्शुल्कतया वक्तुं शक्यते।अष्टादशदिनाड्कादारभ्य नवमिदं वाग्दत्तं प्रवृत्तिपथे आगच्छति।

Thursday, March 16, 2017

 विश्वे उत्तमानां नगराणां सूच्यां वियन्ना प्रथमा।
वियन्न >विश्वे उत्तमानां नगरमिति अष्टमे अपि संवत्सरे ओष्ट्रिया राष्ट्रस्य आस्थाननगरं वियन्नां चिनुते। विश्वे २३१ नगरेषु मेरसर् इति संस्थया कृतेन पर्यवेक्षणेन वियन्नायाः अयं स्थानलब्धिः।
 स्विट्सर्लण्ड् राष्ट्रस्य सूरिच्, न्यूसिलाण्ड् राष्ट्रस्य ओक्लण्ड्,जरमनी राष्ट्रस्य म्यूणिक्,कानडा राष्ट्रस्य वानकूर  इत्यादि नगराः यथाक्रमं द्वितीयादारभ्य पञ्चमपर्यन्तं स्थानानि स्वीचक्रुः। राजनैतिक स्थिरता, स्वास्थ्यपरिपालनं,शिक्षा,क्रमसमाधानं,विनोदं,गतागतं इत्यादि विभिन्नानां क्षेत्राणां सामर्थ्यं संशोध्य नगराणां सूची निर्माति।सूच्यां तस्यां पञ्चविंशत्यां स्थाने आगतः सिंगपूर नगरः ऐषिया भूखण्डस्थः उत्तमनगरः।तदैव विश्वस्य बृहत्तराः नगराः लण्डन्,पारीस्,डोकियो,न्यूयोरक् सिट्टि इत्यादयः प्रथम त्रिंशत्यामपि न आगताः।अमेरिकायाः प्रथमः सान्फ्रान्सिस्को नगरस्य एकोनत्रिंशत् स्थानं प्राप्तम्। युद्धेन विध्वंसितः बाग्दाद नगरः अधमनगरत्वेन अपरिगणयत्।


ब्रेक्सिट् देयकाय ब्रिटन् प्रतिनिधिसभायाः अङ्गीकारः।
लण्टन् - यूरोप्यन् संहतिं त्यक्तुमुद्दिष्टं ब्रिटन् राष्ट्रस्य निर्णयं प्रवृत्तिपथमानेतुम् समर्पिताय ब्रक्सिट् विधेयकाय प्रतिनिधिसभायाः अङ्गीकारः लब्धः। १३५ - विरुध्य २७४ मतदानानि प्राप्य एव विधेयकं ब्रिट्टनस्य प्रभुसभया उत्तीर्णमभवत्।
     अनेनाङ्गीकारेण यूरोप्यन् समवायात् बहिर्गन्तुं प्रधानमन्त्रिण्याः तेरेसा मे वर्यायाः मार्गः सुगमः जातः। राज्ञ्याः अङ्गीकार एव अवशिष्यते।

सन्तोष् ट्रॉफी - केरलस्य विजयः।
मड्गाव्>एकसप्ततितमायां सन्तोष् ट्रोफी पादकन्दुकस्पर्धायां रेल्वेस् दलं विरुध्य चत्वारि-द्वे [४-२] लक्ष्यकन्दुकक्रमेण केरलसंघस्य उज्वलविजयः। केरलस्य जोबि अगस्टिन् नामकेन त्रयः लक्ष्यकन्दुकाः , नायकेन उस्मानेन एकः लक्ष्यकन्दुकश्च प्राप्ताः। तत्र जोबि अगस्टिनस्य लक्ष्यकन्दुकाः अनुस्यूतत्रयम् [hattrick] आसीत्।
    रेल्वेस् दलाय च केरलीयेन एस् राजेषेन लक्ष्यकन्दुकद्वयं प्राप्तम्। प्रथमविजयेन केरलाय त्रयः अङ्काः लब्धाः। स्पर्धिते द्वये अपि पराजिताय रेल्वेस् दलं शून्याङ्कं संस्थितमस्ति।
   ह्यः सञ्चालिते स्पर्धान्तरे पञ्चाब- मिसोरामयोः लक्ष्यकन्दुकरहिता समस्थितिः अभवत्। अद्य गोवा×  वंगः तथा सर्वीसस् × चण्डीगढ् स्पर्धाद्वयं भविष्यति।

सैनिकाभ्यासः - यू एस् प्रति जाग्रतानिर्देशेन सह उत्तरकोरिया।
सोल् > दक्षिणकोरियया सह सैनिकाभ्यासाय सन्नद्धस्य यू एस् प्रति उत्तरकोरियायाः जाग्रतानिर्देशः । सैनिकाभ्यासे भागभागिन्याः यू एस् विमानवाहिनीनौकायाः कस्यापि प्रकोपनपरप्रवर्तनानि राष्ट्राखण्डतायाःप्रौढतायाः वा उपरि दृष्टिपथमागतानि चेत् निर्दाक्षिण्यम् आक्रमणं भवेदिति उत्तरकोरियायाः भीषणिः।                      
उत्तरकोरियायाः प्रकोपनपराणवायुधपरीक्षणानां पश्चात्तले निश्चालकविमानानाम्  आधुनिकव्यूहमेव सुसज्जं वर्तते कोरियायाम् इति पेन्टगण् वृत्तानि। दक्षिणकोरियाव्योमसेनायाः सहकारेण यू एस् व्योमसेनया कोरियायां कुनसानव्योमपत्तने ड्रोण्व्यूहः सज्जीक्रियते इति पेन्टगण् वक्ता जेफ् डेविडः सूचितवान् ।

चेरुवटूर मड़्गलूर् रयिल मार्गेण यानपरीक्षणम्।
 चेरुवटूर मड़्गलूर् रयिल मार्गेण विद्युत् रयिल् यानस्य परीक्षणधावनं विजयप्रदम् अभवत् । एतेन  षोरणूर् मड़्गलूर् रयिलमार्गेण विद्युत् यानानां धावनाय सज्जः अभवत् । कासरगोट् मण्डले निर्माणसमापनघट्टे  प्राप्तम् उप्पला वैद्युति उपकेन्द्रस्य अनुमति प्राप्ति विद्युन्मार्गेण मासद्वयाभ्यन्तरे सर्वाणि रयिल् यानानि धाविष्यन्ति।       
              
 " लोकः मानविकता प्रतिसन्धौ "
यु एन् - 1945 अनन्तरं लोकः अधुना  महती मानविकताप्रतिसन्धौ इति ऐक्यराष्ट्रसभा। अस्मिन्  14 लक्षं शिशवः दुर्भिक्षेण मृतेयुः, तस्य साध्यता अधिका इति ऐक्यराष्ट्रसभा। चरित्रे एव अतीव आपत्करः कालघट्टः एषः इति  प्रस्रौति सभा। लोकराष्ट्राणा ऐक्यभावः दुर्भिक्षः निवारणाय भवतु इति आह्वानपि सभया कृतम्।

Wednesday, March 15, 2017

पठान् कोट् व्योमसेनाक्षेत्रे जाग्रता निर्देशः- सूक्ष्मनिरीक्षणं प्रचलति।
पठान्कोट्ट् > गतसंवत्सरे भीकराक्रमणजाते पञ्जाबराज्यस्य पठान्कोट् व्योमसेनाक्षेत्रे अतीव जाग्रता निर्देशः। अज्ञातस्य एकस्य सान्निध्यमस्तीति रहस्यान्वेषणविभागस्य निर्देशानुगुणमेव निरीक्षणम्। पञ्जाब आरक्षकाः, सेना,व्योमसेना,हिमाचल प्रदेश आरक्षकाः च मिलित्वैव नीरीक्षणं कुर्वन्ति। पञ्चशताधिकाः कर्मकारिणः निरीक्षणेस्मिन् भागभाजः भवन्तीति पठान् कोट् आरक्षिमेधाविना उक्तम्। लघुविमानेन सहित आधुनिक उपाधीनुपयुज्यैव निरीक्षणम् प्रचलति। पठान्कोट् व्योमसेनाक्षेत्रं ,परितः ग्रामाः,कर्मकारिणां आवासस्थानानि इत्यादि स्थानेषु विशेषनिरीक्षणं चलति।
गतसंवत्सरे जनवरि १ ,२ दिनयोः आसीत् पठान्कोट् व्योमसेनाक्षेत्रे भीकराणां आक्रमणम् अभवत्। आक्रमणे तस्मिन् सप्त सुरक्षा कर्मकराः हताः । चत्वारि भीकराः मारिताः च।

 बीजे पी विजयः गङ्गाशुचीकरणपद्धत्याः वेगतावर्धकः भवेत् ।
 नवदिल्ली  -  उत्तरप्रदेशे उत्तराखण्डे च बी जे पिना प्राप्तविजयः गङ्गाशुचीकरणपद्धत्याः  नवजीवनप्रदायकः भवेत् । गङ्गा प्रधानतया पञ्चराज्येषु प्रवहति।तत्र उत्तरप्रदेशः , उत्तराखण्डः, झारखण्डः एतेषु राज्येषु बी जे पी एव शास्ति ।मोदिनः स्वप्नपद्धत्याः नमामि गङ्गायाः पूर्तीकरणाय अनुकूलवातावरणं प्राप्तमस्ति । 2015 मई मासे मोदिसर्वकारैः पद्धत्याः प्रारम्भः कृतः ।पञ्चवत्सरपद्धत्याः कृते 20000 कोटि रूप्यकाणि सम्भावितानि । गङ्गायाः उद्भवस्थानस्य उत्तराखण्डस्य प्रत्येकप्राधान्यमस्ति । एकस्य दलस्य प्रवाहभूमिषु शासनकालः पद्धतिनिर्वहणवेगतां वर्धयेत्।
मणिपुरे मन्त्रिमण्डलस्य शपथग्रहणमद्य 
इम्फ़ल् >मणिपुरस्य राज्‍यपालः नजमाहेपतुल्‍ला राज्‍ये प्रशासनविरचाय भाजपादलस्य विधायकदलनेतृत्वेन प्रचितं एन.बिरेन.सिंहम् आमन्त्रितवती।
शपथग्रहणसमारोहः अद्य अपराह्णे एकवादने आयोजयिष्यते। सोमवासरे श्रीबिरेनसिंहः एकविंशतिः सदस्‍यीयविधानसभायाः सर्वसम्‍मत्याः विजेतृदलनेता प्रचितः। गतदिने इम्‍फालनगरे राजभवने वार्ताहरै: सह सम्भाषमाणया नजमाहेपतुल्‍लया प्रोक्तं यत् राज्‍यविधानमण्डले बहुमतसामर्थ्ययुताय भाजपादलं प्रशासनविरचनाय आमन्त्रितः। अपि च अस्य मासस्य 22, 23 दिनांकयोः भाजपादलेन बहुमतं प्रकटितव्यम्। 

 कोच्ची मेट्रो - उद्घाटनम् एप्रिल् मासान्त्ये।
अनन्तपुरी> केरले कोच्ची मेट्रो रेल्यानपद्धतेः प्रथमसोपानस्य उद्घाटनम् एप्रिल् मासान्त्ये भविष्यति। रेल्वे सुरक्षासमित्याः निरीक्षणानन्तरं दिनाङ्कनिर्णयः भविष्यति। आलुवातः आरभ्य पालारिवट्टपर्यन्तं प्रथमसोपानगतागताय सर्वकारस्य अनुज्ञा लब्धेति के एम् आर् एल् मुख्योपदेष्टा ई श्रीधरः निगदितवान्।
     अनन्तपुर्यां मुख्यमन्त्रिणः सान्निध्ये एतद्विषयमधिकृत्य अवलोकनोपवेशनं कृतम्। आलुवातः पालारिवट्टं यावत् १३.२६ कि मी परिमितं मेट्रोनिर्माणं मार्च्मासान्त्ये सम्पूर्णतां प्राप्स्यति। ततः सि एम् आर् ऐ समित्याः स्फुटतापत्रं  लब्ध्वा गतागतम् आरब्धुं शक्यते।
Episode 37- Sanskrit News
Saraswati N, Std.9, Nirmmala Public School, Moovattupuzha, Ernakulam, Kerala.