OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, March 20, 2017

पञ्चाबे सर्वकारवृत्तिषु महिलाभ्यः आरक्षणम्।
चण्डिगड्>  पञ्चाबराज्ये अमरीन्दर् सिंहस्य नूतनसर्वकारस्य प्रथममन्त्रिमण्डलोपवेशने परिवर्तनात्मकाः निर्णयाः कृताः। तदनुसृत्य राज्ये सर्वकारवृत्तिषु महिलानां कृते प्रतिशतं त्रयस्त्रिंशत् आरक्षणम् आयोज्यते। तद्देशस्थापनेषु अपि वनिताप्रातिनिध्यम् इदानींतमात् प्रतिशतं त्रयस्त्रिंशत् इत्यस्मात् प्रतिशतं पञ्चाशत् करिष्यति। स्वातन्त्र्यान्दोलनसेनानिनां कृते एकैकं गृहं तथा त्रिशतं यूणिट् परिमितं विद्युदपि दास्यति। उद्घाटनं, शिलास्थापनम् इत्यादिषु कार्यक्रमेषु मन्त्रिणां भागभागित्वं न भविष्यति। अपि च योजनासु स्थाप्यमानासु शिलासु मुख्यमन्त्रिणः इतरमन्त्रिणां वा नामानि न योक्ष्यन्ते , प्रत्युत शुल्कधनमुपयुज्य आयोजिता योजना इति अङ्कनीयमस्ति।

 मेधा यात्राम् आरभते !
मुम्बै> परिपूर्णरूपेण भारतेन निर्म्मितं मेधा नामिका रेल्  यानं प्रथमतया यात्रार्धां सिद्धं जातम् मेक् इन् इण्डिया पद्धथिद्वारा निर्म्मितं यानं मुम्बय्याम् सबर्बन् पथे चर्च रेल् निस्थानतः यात्रां आरभत।  रेल् मन्त्री सुरेश् प्रभुना उद्घाटनमकरोत्
 हैदराबाद्तः "मेधा सेर्वो डैव्'' इतिसंस्थया एव यानं निर्मितम्।

अस्मिन् बहवः विशेषणानि अपि विद्यते। यानस्य परिपूर्ण नियन्त्रणं रिमोट् मोणिट्टर् द्वारा भवति। यात्रावसरे एव अनेन समस्यायाः समाधानं कर्तुं शक्यते। पूर्ण समये निरीक्षणे एव वर्तते अयम्। मैक्रोफोण् उपयुज्य आशयविनिमयं चालकाय सरलतां प्रददाति। यानेsस्मिन् ११६८ आसन्तानि सज्जीकृतानि सन्ति। ६०३० जनेभ्यः यात्रां कर्तुं शक्यते। उच्चतर शीघ्रता ११० किलोमीट्टर् अस्ति। अस्मिन् १२ कक्षाः सन्ति। निर्माण व्ययं तु ४३.१३ कोटि रुप्यकाणि भवन्ति।

मासत्रयं यावत् सौदी अरेबियायां  सार्वजनीनक्षमापणम् ।
श्यामपट्टिकायां नामपतनं विना रक्षामार्ग:।
रियाद:> सौदी अरेबियायां मासत्रयं यावत् सार्वजनीनक्षमापणं प्रख्यापितम् । मार्च् २९ एतत्  प्राबल्ये आगच्छति । हज्ज् उंरा विदेशचिटिकासु सन्दर्शकचिटिकासु वा सौदीं प्राप्य चिटिकाकालावधेरनन्तरं अनधिकृततया तत्रैव वासं कुर्वतां विमानपत्तनेषु महानौकास्थानेषु  स्थलसीमाकवाटेषु वा जवासात्  (तरणपत्रं  पास्पोर्ट्)  केन्द्रेभ्य:अन्तिममुक्ति: लभेत् । किरीटावकाशिन: आभ्यन्तरमन्त्रिण:बिन साइफ राजकुमारस्य निर्देशानुसरणमेव एतत् प्रख्यापितम् । इक्कामा  उद्योगनियमलड्घका: उंरा  चिटिकावन्त: दायित्वमध्यस्था:हुरूबाकिन: एतेषामनेन नियमेन आनुकूल्यं लभते ।दण्डनं  शुल्कं  कारागारवासादिकं विहाय  एते स्वदेशं प्रतिगन्तुं शक्नुवन्ति ।प्रख्यापनात् ९० दिनाभ्यन्तरे  स्वमेधया राष्ट्रं त्यक्त्वा ये गच्छन्ति तानेव दण्डनेभ्य: मुक्तान् कुर्वन्ति ।

Sunday, March 19, 2017

रेल् यानेषु वनितायात्रिकाणां सुरक्षा दृढीकरिष्यति- केन्द्रसर्वकारः।
नवदिल्ली> रेल् यानेषु वनितायात्रिकाणां सुरक्षां दृढीकर्तुं क्रियासोपानानि स्वीकृतानीति केन्द्र रेल् यानसहमन्त्री राज्यसभायाम् उक्तवान्। यात्रिकक्लेशानां परिहाराय १८२ इति सुरक्षासाहाय्यसंख्या प्रवर्तनमारब्धा। रेल्याननिस्थानेषु सि सि टि वि व्यवस्था, महिलानां कृते वर्तमानेषु यानेषु रेल्वे सुरक्षाबलस्य [आर् पि एफ्] वनिताभटानां नियुक्तिः, मार्गसुरक्षायै श्वानसङ्घ इत्यादयः आयोजिताः।

सर्वशिक्षा अभियानस्य जनपदस्तरीय श्रेष्ठतामहोत्सवस्य परिसमाप्तिः।

अङ्कमाली> केरलेषु सर्वशिक्षा अभियानस्य जनपदस्तरीय श्रेष्ठता महोत्सवः सम्पूर्णः अभवत्। एरणाकुलं जनपदस्य महोत्सवः अङ्कमाली मण्डलस्य नियमसभा सामाजिकः रोजी एम्. जोण् उद्घाटितवान्। सर्व-शिक्षा अभियानस्य एरणाकुलं जनपदस्य अध्यक्षा श्रीमती श्रीकला आर् महोदया पद्धति-विशादीकरणम् अकरोत्। योजनायाः कार्यदर्शी जोस् पेट्ट् जेक्कब् , दीपा जी एस्  प्रभृतयः मञ्चम् अलङ्कृतवन्तः। राज्यस्तरीय-महोत्सवः मार्च मासस्य २६, २७, २८ दिनेषु अनन्तपुर्यां  बी एस् एन् एल् संस्थायाः कैमनम् परिशीलन केन्द्रे प्रचलिष्यते ।
लोके इदंप्रथमतया फ्लूरसेन्ट् मण्डूकः आमसोण् देशे दृष्टः। 
अन्धकारेsपि प्रकाशमानानि फ्लूरसेन्ट्  वर्ण- फलकानि वयम् अपश्याम खलु! फ्लूरसेन्द् दीपानामपि उपयोगं वयं कुर्मः। एवं प्रकाशमानाः मण्डूकाः इदंप्रथमतया गवेषकैः दृष्टाः। अर्जन्टीनायाम् आमसोण्  वर्षकानने  एव बर्णाडिनो रिवाडविय नाचुरल् सयन्स् संस्थायाः गवेषकैः एते मण्डूका: दृष्टाः। अस्मिन् प्रदेशे सामान्यभूतानां पृषन्मण्डूकानां विशेषवर्णघटकमधिकृत्य कृते गवेषणे यादृच्छिकतया एव अन्धकारे राजमानस्य विशेषतामपश्यन्। प्रकाशं वा अन्यवैद्युतकान्तिकतरंगान् वा आगीर्य अधिकतरंगदैर्घ्यप्रकाशस्य बहिर्निस्सरणप्रतिभासः एव फ्लूरसेन्स् इत्युच्यते। स्थल जीविषु एषा विशेषता विरलातया एव दृश्यते। सामान्यप्रकाशे अभास्वरकपिशवर्णेन  रक्तपृषदा च युक्तत्वचः एते मण्डूकाः अल्ट्रावयलट् प्रकाशे भास्वरहरितवर्णैः दृश्यन्ते। एतेषां मण्डूकानां बहिर्निस्सरितस्रवाः एव फ्लूरसेन्ट् प्रतिभासकारणमिति गवेषकै: दृष्टम्। Proceeding of Natural national academy of science इति मासिक्याः नूतनपुटे एव एतद्विषयपठनं  प्रसिद्धीकृतं दृश्यते।

Saturday, March 18, 2017

मधुमेहरोगिभ्यः छात्रेभ्यः परीक्षामण्डपे भोज्यानुमतिः।
नवदिल्ली> वार्षिकमूल्यनिर्णयार्थं प्रविष्टमानेभ्यः प्रथमप्रकारमधुमेहरोगिभ्यः छात्रेभ्यः [टैप् १] दशमी तथा द्वादशीकक्ष्या छात्रेभ्यः परीक्षामण्डपं लघुभोज्यवस्तूनि जलं च आनेतुम् अनुज्ञा दीयते। राज्यसभायां गतदिने मानवविभवसहमन्त्रिणा उपेन्द्रकुश् वाहेन विज्ञापितमेतत्।
    मधुमेहौषधम् चाकलेहउत्पन्नानि फलानि अर्धलिटर् परिमितं जलञ्च प्रवेशयितुं शक्यते। मधुमेहचिकित्साविदग्दस्य भिषग्वरस्य प्रमाणपत्रं रोगमधिकृत्य विशदीकरणं च प्रथमाध्यापकाय समर्पयितव्यम्।

उत्तराखण्डे त्रिवेन्द्र सिंहः।
नवदिल्ली> उत्तराखण्डराज्यस्य भाजपा सर्वकारस्य नेता त्रिवेन्द्रसिंहरावत्तः भविष्यति। शनिवासरे तस्य नेतृत्वे मन्त्रिमण्डलं शपथग्रहणं करिष्यति। राजनगर्यां दरादूण् मध्ये आयोज्यमाने शपथग्रहणसमारोहे प्रधानमन्त्रिणः नरेन्द्रमोदिनः सान्निध्यं भविष्यति।

सुख-भोगवस्तूनां मूल्यवर्धनम्।
नवदिल्ली>सुख-भोगवस्तूनां शीतलपानीयानां च १५/सेस् योजनाय जी एस् टी समितियोगे निर्णयः। करस्योपरि भवति सेस् । अनेन सुख-भोगवस्तूनि उन्मादकवस्तूनि, सोडा, कोला आदीनां मूल्यवर्धनस्य निर्णयः अभवत्। धूमपान 'बीडी' विषये केरलस्य अवगणनाम्  अधिकृत्य धारणा न कृता। सेस्वाह्यमानेषु वस्तुषु बीडी त्याज्या यत: अनेकेषां कर्मकराणां जीवनोपाधि: सा इति धनमन्त्रिणा तोमस् ऐसकेन केन्द्रधनमन्त्रिण: अरुणजयट्ले: कृते पत्रं प्रेषितवान्। गुरुवारे प्रवृत्तसम्मेलने कर-विभाग-कार्यदर्शिना पी मारापाण्ड्येन केरलस्य अभिप्राया: विशदीकृता:। सुख-भोगवस्तूनां सेस् अधिकतया निश्चिता  चेदपि एकैकस्य कियदिति न निश्चितम्। जी एस् टी प्रावर्त्यमाने राष्ट्राणाम् आयनष्टं परिहर्तुं सेस् द्वारा धनार्जनमेव निर्णय: ।

कोच्चि विमाननिलयस्य सुरक्षाबलं वर्धयते।
कोच्ची>कोच्चि अन्ताराष्ट्रविमाननिलयस्य टि-३ इति कार्यनिर्वहणालयस्य प्रवर्तनक्षमतां पुरस्कृत्य केन्द्र उद्योग संरक्षणसेनायाः [सिऐएस्एफ्] अङ्गबलं वर्धयितुमुद्दिश्यते। विमाननिलयस्य सुरक्षायै सि .ऐ .एस् .एफ् .संस्था एव नियुक्ता अस्ति।
     एतदनुसृत्य ३६० सैनिकानपि नियोक्तुं केन्द्रगृहमन्त्रालयेन आदेशः कृतः। अनेन कोच्ची विमाननिलयस्य सि ऐ एस् एफ् सैनिकसंख्या आहत्य ८५४ भविष्यति।

Friday, March 17, 2017

परीक्करः अङ्गीकारः प्राप्तः। 
पनजी> मनोहरपरीक्कर् सर्वकारः गोवा विधानसभायां मतदानाङ्गीकारः प्राप्तः। चत्वारिंशदङ्गयुक्तायां सभायां  द्वाविंशति सामाजिकाः परीक्कर् सर्वकाराय सहयोगं कृतवन्तः। विपक्षदलाय कोण्ग्रस् दलाय केवलं षोडश सामाजिकानां सहयोगः प्राप्तः। केन्द्रसर्वकारस्य राष्ट्रक्षामन्त्रिस्थानं त्यक्त्वा परीक्करः मुख्यमन्त्रिरूपेण सत्यशपथं कृतवान्।

ताज्महल् लक्ष्यीकृत्य ऐ एस् अनुकूल संघटना।
नवदेहली>भीकरसंघटना इस्लामिक स्टेट् भारतस्य ऐतिहासिकस्थानान् लक्ष्यीकरोतीति रहस्यान्वेषणविभागस्य सूचना। ऐ एस् अनुकूल संघटना अहवाल् उम्मत्त मीडिया सेण्टर ताज्महलं लक्ष्यीकरोतीति वार्ता। वार्तावलम्बीनिः चित्राणि तथा अन्यानि अभिज्ञानानि च प्राप्तानि। प्राप्ते चित्रे कृष्णवस्त्रं धृत्वा सायुधः एकः ताज्महलं प्रति तिष्ठति , एवं तस्य अधः नवीनं लक्ष्यमिति लिखितं वर्तते।
 सप्तत्यधिक भारतीयाः ऐ एस् मध्ये भागं स्वीचक्रुः इति सुरक्षा कर्मकराणां मतम्। केरलम् कर्णाटका महाराष्ट्रा इत्येभ्यः राज्येभ्यः अधिकाः ऐ एस् भागं स्वीकृतवन्तः। अन्तर्जालद्वारा टेलिग्राम द्वारा च जनैः सह ते संपर्कं कुर्वन्ति।
एप्रिल् 1दिनाङ्गत: वाहनानां बी एस् ४
नवदिल्ली>मलिनीकरणमानदण्डस्य निर्बन्धतया वाहनानां बी एस् ४ पद्धति: इति आशयस्य प्रबलीकरणवेलायां आशड्का: अव्यक्तताश्च  शिष्टा:। भारतस्टेज् बी एस् पाल्यमानानि वाहनानि एव आगामिमासादारभ्य निर्मातुं शक्यानि। निर्मातृणाम् एतेन सहमतिश्च वर्तते। किन्तु निर्मितपूर्वाणि  बी एस् ३ यानानां का गति: इत्यत्रैव आशड्का: शिष्टा:।

 जियोः जेतुं बि एस् एन् एल् - प्रतिदिनं जीबीद्वयस्य निश्शुल्कवाग्दत्तम्।
कोच्चि> प्रतिदिनं जीबीद्वयस्य निश्शुल्कवाग्दत्तेन सह बी एस् एन् एल्।३३९ रुप्यकाणां पुनः पूरणेन अष्टविंशति दिनानां कृते सेवनमिदं लभ्यते। एवं एप्रिल् मासे आगतस्य रिलयन्स् संस्थायाः जियोः ३०१ रुप्यकाणां  एकं जीबी इति वाग्दत्तं प्रति शक्तं पेरतिरोधं करोति बी एस् एन् एल्।एतदतिरिच्य आभारते बी एस् एन् एल् जालक्षेत्रेषु निश्शुल्कतया भाषणं कर्तुं शक्यते। अनेषु जालक्षेत्रेषु पञ्चविंशति निमेषाः निश्शुल्कतया वक्तुं शक्यते।अष्टादशदिनाड्कादारभ्य नवमिदं वाग्दत्तं प्रवृत्तिपथे आगच्छति।

Thursday, March 16, 2017

 विश्वे उत्तमानां नगराणां सूच्यां वियन्ना प्रथमा।
वियन्न >विश्वे उत्तमानां नगरमिति अष्टमे अपि संवत्सरे ओष्ट्रिया राष्ट्रस्य आस्थाननगरं वियन्नां चिनुते। विश्वे २३१ नगरेषु मेरसर् इति संस्थया कृतेन पर्यवेक्षणेन वियन्नायाः अयं स्थानलब्धिः।
 स्विट्सर्लण्ड् राष्ट्रस्य सूरिच्, न्यूसिलाण्ड् राष्ट्रस्य ओक्लण्ड्,जरमनी राष्ट्रस्य म्यूणिक्,कानडा राष्ट्रस्य वानकूर  इत्यादि नगराः यथाक्रमं द्वितीयादारभ्य पञ्चमपर्यन्तं स्थानानि स्वीचक्रुः। राजनैतिक स्थिरता, स्वास्थ्यपरिपालनं,शिक्षा,क्रमसमाधानं,विनोदं,गतागतं इत्यादि विभिन्नानां क्षेत्राणां सामर्थ्यं संशोध्य नगराणां सूची निर्माति।सूच्यां तस्यां पञ्चविंशत्यां स्थाने आगतः सिंगपूर नगरः ऐषिया भूखण्डस्थः उत्तमनगरः।तदैव विश्वस्य बृहत्तराः नगराः लण्डन्,पारीस्,डोकियो,न्यूयोरक् सिट्टि इत्यादयः प्रथम त्रिंशत्यामपि न आगताः।अमेरिकायाः प्रथमः सान्फ्रान्सिस्को नगरस्य एकोनत्रिंशत् स्थानं प्राप्तम्। युद्धेन विध्वंसितः बाग्दाद नगरः अधमनगरत्वेन अपरिगणयत्।


ब्रेक्सिट् देयकाय ब्रिटन् प्रतिनिधिसभायाः अङ्गीकारः।
लण्टन् - यूरोप्यन् संहतिं त्यक्तुमुद्दिष्टं ब्रिटन् राष्ट्रस्य निर्णयं प्रवृत्तिपथमानेतुम् समर्पिताय ब्रक्सिट् विधेयकाय प्रतिनिधिसभायाः अङ्गीकारः लब्धः। १३५ - विरुध्य २७४ मतदानानि प्राप्य एव विधेयकं ब्रिट्टनस्य प्रभुसभया उत्तीर्णमभवत्।
     अनेनाङ्गीकारेण यूरोप्यन् समवायात् बहिर्गन्तुं प्रधानमन्त्रिण्याः तेरेसा मे वर्यायाः मार्गः सुगमः जातः। राज्ञ्याः अङ्गीकार एव अवशिष्यते।

सन्तोष् ट्रॉफी - केरलस्य विजयः।
मड्गाव्>एकसप्ततितमायां सन्तोष् ट्रोफी पादकन्दुकस्पर्धायां रेल्वेस् दलं विरुध्य चत्वारि-द्वे [४-२] लक्ष्यकन्दुकक्रमेण केरलसंघस्य उज्वलविजयः। केरलस्य जोबि अगस्टिन् नामकेन त्रयः लक्ष्यकन्दुकाः , नायकेन उस्मानेन एकः लक्ष्यकन्दुकश्च प्राप्ताः। तत्र जोबि अगस्टिनस्य लक्ष्यकन्दुकाः अनुस्यूतत्रयम् [hattrick] आसीत्।
    रेल्वेस् दलाय च केरलीयेन एस् राजेषेन लक्ष्यकन्दुकद्वयं प्राप्तम्। प्रथमविजयेन केरलाय त्रयः अङ्काः लब्धाः। स्पर्धिते द्वये अपि पराजिताय रेल्वेस् दलं शून्याङ्कं संस्थितमस्ति।
   ह्यः सञ्चालिते स्पर्धान्तरे पञ्चाब- मिसोरामयोः लक्ष्यकन्दुकरहिता समस्थितिः अभवत्। अद्य गोवा×  वंगः तथा सर्वीसस् × चण्डीगढ् स्पर्धाद्वयं भविष्यति।

सैनिकाभ्यासः - यू एस् प्रति जाग्रतानिर्देशेन सह उत्तरकोरिया।
सोल् > दक्षिणकोरियया सह सैनिकाभ्यासाय सन्नद्धस्य यू एस् प्रति उत्तरकोरियायाः जाग्रतानिर्देशः । सैनिकाभ्यासे भागभागिन्याः यू एस् विमानवाहिनीनौकायाः कस्यापि प्रकोपनपरप्रवर्तनानि राष्ट्राखण्डतायाःप्रौढतायाः वा उपरि दृष्टिपथमागतानि चेत् निर्दाक्षिण्यम् आक्रमणं भवेदिति उत्तरकोरियायाः भीषणिः।                      
उत्तरकोरियायाः प्रकोपनपराणवायुधपरीक्षणानां पश्चात्तले निश्चालकविमानानाम्  आधुनिकव्यूहमेव सुसज्जं वर्तते कोरियायाम् इति पेन्टगण् वृत्तानि। दक्षिणकोरियाव्योमसेनायाः सहकारेण यू एस् व्योमसेनया कोरियायां कुनसानव्योमपत्तने ड्रोण्व्यूहः सज्जीक्रियते इति पेन्टगण् वक्ता जेफ् डेविडः सूचितवान् ।

चेरुवटूर मड़्गलूर् रयिल मार्गेण यानपरीक्षणम्।
 चेरुवटूर मड़्गलूर् रयिल मार्गेण विद्युत् रयिल् यानस्य परीक्षणधावनं विजयप्रदम् अभवत् । एतेन  षोरणूर् मड़्गलूर् रयिलमार्गेण विद्युत् यानानां धावनाय सज्जः अभवत् । कासरगोट् मण्डले निर्माणसमापनघट्टे  प्राप्तम् उप्पला वैद्युति उपकेन्द्रस्य अनुमति प्राप्ति विद्युन्मार्गेण मासद्वयाभ्यन्तरे सर्वाणि रयिल् यानानि धाविष्यन्ति।       
              
 " लोकः मानविकता प्रतिसन्धौ "
यु एन् - 1945 अनन्तरं लोकः अधुना  महती मानविकताप्रतिसन्धौ इति ऐक्यराष्ट्रसभा। अस्मिन्  14 लक्षं शिशवः दुर्भिक्षेण मृतेयुः, तस्य साध्यता अधिका इति ऐक्यराष्ट्रसभा। चरित्रे एव अतीव आपत्करः कालघट्टः एषः इति  प्रस्रौति सभा। लोकराष्ट्राणा ऐक्यभावः दुर्भिक्षः निवारणाय भवतु इति आह्वानपि सभया कृतम्।

Wednesday, March 15, 2017

पठान् कोट् व्योमसेनाक्षेत्रे जाग्रता निर्देशः- सूक्ष्मनिरीक्षणं प्रचलति।
पठान्कोट्ट् > गतसंवत्सरे भीकराक्रमणजाते पञ्जाबराज्यस्य पठान्कोट् व्योमसेनाक्षेत्रे अतीव जाग्रता निर्देशः। अज्ञातस्य एकस्य सान्निध्यमस्तीति रहस्यान्वेषणविभागस्य निर्देशानुगुणमेव निरीक्षणम्। पञ्जाब आरक्षकाः, सेना,व्योमसेना,हिमाचल प्रदेश आरक्षकाः च मिलित्वैव नीरीक्षणं कुर्वन्ति। पञ्चशताधिकाः कर्मकारिणः निरीक्षणेस्मिन् भागभाजः भवन्तीति पठान् कोट् आरक्षिमेधाविना उक्तम्। लघुविमानेन सहित आधुनिक उपाधीनुपयुज्यैव निरीक्षणम् प्रचलति। पठान्कोट् व्योमसेनाक्षेत्रं ,परितः ग्रामाः,कर्मकारिणां आवासस्थानानि इत्यादि स्थानेषु विशेषनिरीक्षणं चलति।
गतसंवत्सरे जनवरि १ ,२ दिनयोः आसीत् पठान्कोट् व्योमसेनाक्षेत्रे भीकराणां आक्रमणम् अभवत्। आक्रमणे तस्मिन् सप्त सुरक्षा कर्मकराः हताः । चत्वारि भीकराः मारिताः च।

 बीजे पी विजयः गङ्गाशुचीकरणपद्धत्याः वेगतावर्धकः भवेत् ।
 नवदिल्ली  -  उत्तरप्रदेशे उत्तराखण्डे च बी जे पिना प्राप्तविजयः गङ्गाशुचीकरणपद्धत्याः  नवजीवनप्रदायकः भवेत् । गङ्गा प्रधानतया पञ्चराज्येषु प्रवहति।तत्र उत्तरप्रदेशः , उत्तराखण्डः, झारखण्डः एतेषु राज्येषु बी जे पी एव शास्ति ।मोदिनः स्वप्नपद्धत्याः नमामि गङ्गायाः पूर्तीकरणाय अनुकूलवातावरणं प्राप्तमस्ति । 2015 मई मासे मोदिसर्वकारैः पद्धत्याः प्रारम्भः कृतः ।पञ्चवत्सरपद्धत्याः कृते 20000 कोटि रूप्यकाणि सम्भावितानि । गङ्गायाः उद्भवस्थानस्य उत्तराखण्डस्य प्रत्येकप्राधान्यमस्ति । एकस्य दलस्य प्रवाहभूमिषु शासनकालः पद्धतिनिर्वहणवेगतां वर्धयेत्।
मणिपुरे मन्त्रिमण्डलस्य शपथग्रहणमद्य 
इम्फ़ल् >मणिपुरस्य राज्‍यपालः नजमाहेपतुल्‍ला राज्‍ये प्रशासनविरचाय भाजपादलस्य विधायकदलनेतृत्वेन प्रचितं एन.बिरेन.सिंहम् आमन्त्रितवती।
शपथग्रहणसमारोहः अद्य अपराह्णे एकवादने आयोजयिष्यते। सोमवासरे श्रीबिरेनसिंहः एकविंशतिः सदस्‍यीयविधानसभायाः सर्वसम्‍मत्याः विजेतृदलनेता प्रचितः। गतदिने इम्‍फालनगरे राजभवने वार्ताहरै: सह सम्भाषमाणया नजमाहेपतुल्‍लया प्रोक्तं यत् राज्‍यविधानमण्डले बहुमतसामर्थ्ययुताय भाजपादलं प्रशासनविरचनाय आमन्त्रितः। अपि च अस्य मासस्य 22, 23 दिनांकयोः भाजपादलेन बहुमतं प्रकटितव्यम्। 

 कोच्ची मेट्रो - उद्घाटनम् एप्रिल् मासान्त्ये।
अनन्तपुरी> केरले कोच्ची मेट्रो रेल्यानपद्धतेः प्रथमसोपानस्य उद्घाटनम् एप्रिल् मासान्त्ये भविष्यति। रेल्वे सुरक्षासमित्याः निरीक्षणानन्तरं दिनाङ्कनिर्णयः भविष्यति। आलुवातः आरभ्य पालारिवट्टपर्यन्तं प्रथमसोपानगतागताय सर्वकारस्य अनुज्ञा लब्धेति के एम् आर् एल् मुख्योपदेष्टा ई श्रीधरः निगदितवान्।
     अनन्तपुर्यां मुख्यमन्त्रिणः सान्निध्ये एतद्विषयमधिकृत्य अवलोकनोपवेशनं कृतम्। आलुवातः पालारिवट्टं यावत् १३.२६ कि मी परिमितं मेट्रोनिर्माणं मार्च्मासान्त्ये सम्पूर्णतां प्राप्स्यति। ततः सि एम् आर् ऐ समित्याः स्फुटतापत्रं  लब्ध्वा गतागतम् आरब्धुं शक्यते।
Episode 37- Sanskrit News
Saraswati N, Std.9, Nirmmala Public School, Moovattupuzha, Ernakulam, Kerala.

Tuesday, March 14, 2017

आंगलशासनावसरे सार्धत्रिकोटि भारतीयाः मारिताः- शशितरूरः।
नवदेहली-आंगलशासनं भारतराष्ट्रं समूलं अविध्वंसन्निति शशि तरूरः ।तेषां किरातशासनावसरे सार्धत्रिकोटि जनाः मारिताः इति सः अवदत्।कोल्कत्ता नगरे स्थापितः विक्टेरिया स्मारकं आंगलशासनस्य भीकरं मुखं प्रकटीकुर्वन् प्रदर्शकरूपेण परिवर्तनीयम्।
  द्वि शताब्धात् पूर्वं विश्वस्य सम्पन्नतमं राष्ट्रमासीत् भारतम्।किन्तु सर्वं नशीकृत्य ते भारतात् अगच्छन्।सः अयोजयत्।

गोवायां मुख्यमन्त्रिपदस्य गोपनीयतायाः शपथग्रहणम् अद्य भविष्यति 
पनाजी > भा ज पा दलस्य वरिष्ठो नेता मनोहरपर्रीकरः अद्य गोवायाः  मुख्यमंत्री पदस्य गोपनीयतायाः शपथवचनं स्वीकरिष्यति । अस्माकं वार्ताहरेण विज्ञापितं यतसौ अद्य सायं गोवायाः राजधान्यां पणजीनगर्यां पदगोपनीयतायाः शपथवचनम् अंगीकरिष्यति ।
आईआईटी इत्यस्मिन्  स्‍नातकः  मनोहरपर्रीकरः मुख्‍यमंत्रित्वेन पुनरेकवारं गोवायाः  प्रगतेः प्रशासनस्य च दायित्वं निर्वक्ष्यति ( निभालयिष्यति )। भाजपादलस्य विधायकैः समर्थनप्रदातृभिश्च पर्रीकरस्य  प्रशासनानुभवं कौशलतं च निध्याय राज्यस्य मुख्यमन्त्रिपदाय  तस्य नेतृत्‍वम् अभियाचितम् , अनेनैव कारणेन भाजपादले विषयेस्मिन् साहमत्यं सञ्जातम् । गोवामनत्रिमण्डले द्वादशमन्त्रिणः भवितुं शक्यन्ते। परं नूतनमन्त्रिमण्डलस्य संरचनायाः स्थितिः स्पष्‍टा नैव विद्यते ।
जनाः राष्ट्रविकासार्थं अचिन्वन्। ते जनाधिपत्यम् आघुष्यन्ते-मोदी
नवदेहली>जनाः न तु वैकारिकवि षयाणां कृते राष्ट्रविकासार्थं अचिन्वनिति प्रधानमन्त्री नरेन्द्रमोदी। उत्तरप्रदेशस्य उत्तराखण्डस्य च उज्वलविजयात्परं दिल्यां दलास्थाने भाषमाणः आसीत् सः।
प्रधानमन्त्रिणः भाषणस्य प्रसक्तः अंशाः।
* जनाधिपत्यं तथा तस्य जनैः सह दृढं बन्धं निर्मातुं मार्गं भवति चयनम्।
* पूर्वं राष्ट्रविकासः अस्माकं लक्ष्यमिति वक्तुं दलाः विमुखाः आसन्।किन्तु वयं तमेव प्रधानतया स्वीचकार।
*अद्य अहं एकं नूतनं राष्ट्रं पश्यामि।युवजनानां प्रियतरं राष्ट्रम्।नवीनस्य भारतस्य निर्माणम् पश्यामि।
* विजयस्य पृष्टतः बहूनि कारणानि स्युः।किन्तु एतादृशः उज्वलविजयः जनाधिपत्यस्य चिह्नमेव।
* नवभारते स्वपद्भ्यां स्थातुं दरिद्राः अपि इच्छन्ति। तदर्थं वयमपि बद्धश्रद्धाः भवेम।
*एतादृशविजयदानेन भा जा पा विनयान्वितः सञ्जातः। एतत् जनसेवायै अवसरः भवति।
* दरिद्राणामपि अध्येतुं आजीविकां कर्तुं अवसरः स्यात्।तदा एव भारतस्य विकासः।मध्यवर्गाणां आर्थिकभारः लघूकरणीयः।
*भारते सर्वदा चयनेषु भा जा पायाः विजयप्रतिशतं वर्धमानं अस्ति। तस्य विजयस्थपतयः भवन्ति दलाध्यक्षः अमित्षा राष्ट्रीयदलनेतारः,तथा राज्यस्तरीयनेतारः।
*बृहत्तरं जनाधिपत्यदलं भवति भा जा पा।विजयं बृहत्तरं न तस्य मान्यरूपेण संरक्षणं बृहत्कार्यम्।
*चयनस्स गणितेषु न विश्वसिमि।मम लक्ष्यं न तु २०१९ परन्तु २०२२ एव।भारत स्वातन्त्रस्य पञ्चसप्तति तमः भवति २०२२.
* भारतस्य परिवर्तनाय अस्माकं सकाशे पञ्च संवत्सराणि सन्ति।
*दरिद्राणां शक्तिः तथा मध्यवर्गाणां इच्छा च भारतं ऊर्ध्वं  नयति।
*भा जा पायां समर्पितं विश्वासं वृथा न भवति इति पञ्चराज्यान् वदामः।
*सामान्यजनान् दत्ताः वाण्यः चयिताः सर्वे कार्यान्वयिष्यन्ति।
*किमर्थं एवं कष्टतां सोढ्वा कार्यं करोमि इति जनाः पृच्छन्ति।इतः परं अभिनन्दनं किमस्ति।
* त्रीणि कार्याणि मया उक्तम्।वयं नवीनाः,परिचयरहिताः,स्खलितानि स्युः।परन्तु दरुद्देश्येन कदापि न प्रवर्तयामः।कष्टताम् अनुभूयैव प्रवर्तयामः।
*अस्माभिः निर्मितेषु सर्वकारेषु सर्वेषां कृते, अनुकूलानां प्रतिकूलानां च कृते शासनं कुर्मः।विवेचनं प्रदर्शयितुं अस्माकं अधिकारः नास्ति।
* सर्वकारः सर्वेषाम् अस्ति।दरिद्राणां कृते वयं प्रयत्नं कुर्मः।नवभारतनिर्माणाय प्रयत्नं कुर्मः। मोदी व्यक्तीचकार।
 योगानन्तरं द्वयोः अपि राज्ययोः मुख्यसचिवान् निर्णेतुं अनुबन्धयोगः प्रारभत।

Monday, March 13, 2017

गोवायां परीक्करः मुख्यमन्त्री, मणिप्पूरे अपि भाजपा भविष्यति। 
नवदिल्ली > त्रिशङ्कुस्वर्गे वर्तिते गोवाराज्ये केन्द्रक्षामन्त्री भाजपा नेता च मनोहरपरीक्करः मुख्यमन्त्री भविष्यति। गोवा राजनैतिकमण्डले स्वस्य स्वीकार्यतायाः प्रभावस्य आधारे स्वतन्त्रसामाजिकानां लघुदलानां च सहयोगं प्राप्तवान् परीक्करः सर्वकाररूपवत्करणस्य अधिकारवादेन राज्यपालं मृदुल सिंहम् अमिलत्। ४० अङ्गयुक्तविधानसभायां भाजपादलाय २२ सामाजिकानां सहयोगः प्रतीक्ष्यते। मुख्यमन्त्री भवितुं पराक्करः देशस्य रक्षामन्त्रिपदं त्यक्ष्यति।
    मणिप्पूरे अपि भाजपादलेन मन्त्रिसभां रूपवत्कर्तुं प्रयत्नः आरब्धः। ६०अङ्गविधानसभायां  दलाय २१ स्थानानि सन्ति। नागा पीप्पिल् पार्टी , लोक जनशक्ति पार्टी च भाजपायै सहयोगं प्रख्यापितवन्तौ।  किन्तु मणिप्पुरविधानसभायां अङ्गसंख्यायां बृहत्तमेन कोण्ग्रस्दलेनापि मन्त्रिसभारूपवत्करणयत्नः आरब्धः अस्ति। तत्र कोण्ग्रस् दलाय २८ सामाजिकाः सन्ति। केवलभूरिपक्षाय अङ्गत्रयस्य न्यूनता। राज्यस्य कोण्ग्रस्दलस्य शोधनासमित्यध्यक्षस्य रमेश् चेन्नित्तलावर्यस्य नेतृत्वे प्रादेशिकदलानां सहयोगाय चर्चा आरब्धाः।

साम्पत्तिकभारः न्यूनीक्रियते  इति  नरेन्द्रमोदिः
उत्तरप्रदेशजनविधिः भारताय नूतनदिशाबोधं प्रददाति इति प्रधानमन्त्रिणा सूचितम् । तमे वर्षे नवीनभारतं भविष्यति । तस्य आधारशिला जनविधिना स्थापिता इति च तेन योजितम् ।सामान्यजनानां  साम्पत्तिकभारसम्मर्दानां लघूकरणमेव सर्वकाराणाम् अनन्तरयोजना इति अनेन उद्घोषितम् ।
संस्कृताध्यापकानां कर्मसुरक्षा कार्या - संस्कृताध्यापकफेडरेषन्।
कोच्ची> केरळेषु विद्यालयीयैः संस्कृताध्यापकैः तेषाम् अध्यापनमण्डले अनुभूयमानानां सेवनसंबन्धिनां समस्यानां शाश्वतपरिहारः कार्य इति अध्यापक संघटनस्य राज्यनिर्वाहकसमित्या निवेदितम्। संस्कृतपठनाय केषाञ्चनछात्राणां न्यूनतया बहवः अध्यापकाः सेवनमण्डलात् बहिर्गच्छन्तः सन्ति। तेषां कर्मसुक्षायै सर्वकारस्य जाग्रता भवितव्या।
    तथा च भागिककालिक [part-time]   अध्यापकानां भविष्यनिधिः , नीचस्तरीय कक्ष्यासु अध्यापकनियुक्तिः इत्यादिविषयेष्वपि अनुकूलनिर्णयः भवितव्यः इति समित्या निवेदितम्।
     एरणाकुलम् अध्यापकभवने आयोजिते समित्याः उपवेशने राज्याध्यक्षः पद्मनाभः आध्यक्ष्यम् अवहत्। कार्यदर्शिप्रमुखः पि जि अजित्प्रसादः, सनल् चन्द्रः, टि के सन्तोष् कुमारः, अय्यम्पुष़ा हरिकुमारः इत्यादयः चर्चां नीतवन्तः।

Sunday, March 12, 2017

उत्तराखण्डे अपि भाजपा; मणिप्पूरपञ्चाबौ कोण्ग्रस् दलाय आश्वासः; 
गोवायां त्रिशङ्कुः।
 नवदिल्ली> उत्तरप्रदेशम् अधिकतया उत्तराखण्डराज्ये अपि भाजपादलस्य उज्वलविजयः। स्पर्धितेषु सप्ततिस्थानेषु सप्तपञ्चाशत् स्थानानि सम्प्रप्य भाजपादलं विजयपीठमारूढवत्। किन्तु राज्याध्यक्षः अजयभट्टः पराजितः। तथा इदानांतनमुख्यमन्त्री कोण्ग्रस्नेता च हरीष् रावत्तः स्पर्धिते स्थानद्वये अपि अभिभूतः अभवत्। पञ्चाबराज्ये तु दशवर्षीयाणां शिरोमणि अकालिदल्- भाजपा सख्यशासनास्य

रुप्यकपत्राणां निरोधनं जनप्रीतिः न्यूनीकृतम् तथापि मोदीप्रभावेन उत्तरप्रदेशं भा जा पा अग्रहीत्।
वाराणसी>उत्तरप्रदेशेन साकं पञ्चराज्याणां नियमसभा चयनात् मासेभ्यः प्राक् आसीत् नरेन्द्रमोद्याः सहस्र पञ्चशत रुप्यकपत्राणां निरोधनोद्घोषणम्।भारतराष्ट्रस्य प्रायः सर्वे पत्रिकाः तथा नवमाद्ध्यमाः च मोद्याः एनं निर्णयं असमीचीनतया अविमर्शन्।किन्तु इदानीं तेषां वाणीषु किञ्चित् परिवर्तनं दृश्यते। रुप्यकपत्राणां निरोधनानन्तरं कतिपयसप्ताहाभ्यन्तरे एकस्य राष्ट्रीयमाध्यमस्य नेतृत्वेन युपी राज्ये एकसप्तति जिल्लासु सर्वेक्षणं आयोजितम्।तस्मिन् भा जा पायाः जनप्रीतिः विशिष्य ग्रामेषु न्यूनं जातमिति तैः प्रस्तुतीकृतम्।परन्तु इदानीं ३८४ मध्ये ३१२ मण्डलेषु विजयं प्राप्य इदानीमपि युपी राज्यं मोद्या सहैव इति व्यक्तीकृतम्।मोदी युप्याः हितायैव तिष्ठतीति जनविकारः एव एतस्य विजयस्य निदानम्। तथा देवभूमौ उत्तराखण्ड् राज्ये अपि ७० स्थानेषु ५७ मण्डले भा जा पा विजयं प्राप्तः।शासन दलस्य कोण्ग्रस् कृते केवलं एकादशैव आसनमेव लब्धम्।द्वौ स्वतन्तन्त्रतया विजयं प्राप्तौ।राज्ये भा जा पा ४६.५ प्रतिशतं सम्मतिदानं प्राप्तम्।उत्तराखण्डस्य राजनीतौ प्रथमवारमेव एकस्य देशीयदलस्य एतादृश विजयं अभवत्। सर्वेषां दलाड्गानां कृते नरेन्द्रमोदी तथा दलाध्यक्षः अमित् षा च अभिनन्दनानि व्याचक्रतुः।

 न्यायाधिपाय कर्णाय सर्वोच्चन्यायालयस्य ग्रहणपत्रम्।
नवदेहली>न्यायालयालक्ष्य उपक्षेपे न्यायालये अनुपस्थितौ कोल्कत्ता उच्चन्यायालयस्यस्य न्यायाधिपाय कर्णाय परमोन्नतनीतिपीठस्य ग्रहणपत्रम्।भारतस्य इतिहासे प्रथमा एतादृशी न्यायाधिपं  प्रति प्रवृत्तिः।उन्नतन्याधिपः जे एस् कोहर अद्ध्यरूपेण वर्तमाना सप्ताड्गसमितिः निर्णयमिदं स्वीकुर्वन्।
   अस्मिन् मासस्य एकत्रिंशत् दिने प्रभाते उपक्षेपस्य अस्य प्रस्तुतीकरणवेलायां कर्णस्य उपस्थितिः स्थिरीकर्तुं ईदृशं निर्णयं अस्वीकरोदिति न्यायालय स्पष्टीचकार।बंगाल डी जी पि स्वयमेव ग्रहणपत्रं कर्णाय दातव्यमिति न्यायालयः अवदत्। मद्रास्  उच्चन्यायालयस्यस्य उन्नतन्यायाधिपं तथा सेववृतानां न्यायाधिपान् च उद्दिश्य खलवृत्तिः आरोप्य परमोन्नतनीतिपीठस्य न्यायाधिपाय प्रधानमन्त्रिणे तथा प्रतिपक्षनेत्रे पत्रप्रेषणमस्ति कर्णस्य न्यायालयालक्ष्य उपक्षेपः।


 संस्कृतं सङ्गीतं च आक्रमणोत्सुकतां नाशयतः-
श्री शङ्कराचार्य विश्वविद्यालयस्य उपकुलपतिः।
कोची >इदानीं लोके सर्वत्र अशान्तिरेवभवति। वार्ता माध्यमेषु आक्रमणवार्ताः दृश्यन्ते। अस्याः परिहाराय संस्कृतं सङ्गीतं च पाठनीयम् इति कालटी श्री शङ्कराचार्य विश्वविद्यालयस्य उपकुलपतिना डॉ. एम् सि दिलीप् कुमारवर्येण उक्तम्।
एरणाकुलजनपदस्य मूवाट्टुपुषप्रदेशे तिरवुंप्लाविल् -सनातनस्कूल् ओफ् लैफ् इति संस्थया निर्मिता संस्कृतगानगुच्छस्य लोकार्पणं कृत्वा भाषमाणः आसीत् सः। विश्वसंस्कृतप्रतिष्ठानस्य राज्याध्यक्षस्य डा. पी के शङ्करनारायणस्य आध्यक्ष्ये प्रवृत्ते कार्यक्रमे संस्कृतभारत्याः विश्वविभागकार्यदर्शी डा. के एन् पद्मकुमारः मुख्यभाषणं कृतवान्। सनातनस्कूल् ओफ् लैफ् संस्थायाः निदेशकः नारायणशर्मा गानरचयिता धनेष् नम्पूतिरी गायकः प्रवीण् काम्प्रम् इत्यादयः कार्यक्रमे उपस्थिताः आसन्।

Saturday, March 11, 2017

मोसूलतः बाग्दादी पलायितः। 
मोसूल्> इराख् देशे सैन्यस्य अग्रानीके अनुस्यूते ऐ एस् इत्याख्यायाः भीकरसंस्थायाः स्वयंप्रख्यापितनेता अबूबक्कर् अल् बाग्दादी पलायनेन प्राणान् रक्षितवान् इति सूचना। मोसूलस्थान् प्रादेशिकनेतॄन् प्रति युद्धं नेतुम् आह्वानं कृत्वा एव बाग्दादी नगरं त्यक्तवानिति अमेरिक्कन् सुरक्षाविभागेन निगदितम्। ऐएस् भीकरान् पृथक्कर्तुं मोसूल् नगरं प्रति प्रधानवीथेः अभिभवनात् पूर्वमेव बाग्दादी नगरं त्यक्तवानिति अमेरिक्कायाः प्रतिरोधवक्त्रा उक्तम्। अस्मिन् मासाद्ये आसीत् सैन्येन मोसूल् राजवीथेः नियन्त्रणं प्रगृहीतम्।

कूपीजलस्य भिन्नमूल्यानि -केन्द्रसर्वकारः अन्विष्यति।
नवदिल्ली >प्रायशः सर्वाः कूपीजलस्वायत्तसंस्थाः भिन्नस्लेषु भिन्नमूल्यानि स्वीकुर्वन्ति इत्यसिन् विषये केन्द्रसर्वकारः विशदीकरणम् अन्विष्यति  स्म । विमानस्थानकेषु भोजनालयेषु वाणिज्यकेन्द्रेषु मूल्यानां भेदः एव कारणम्। एतत्परित्यज्य समानमूल्यमेव  सर्वत्र भवेत् इति सर्वकारनिर्देशः। अस्मिन् विषये भक्ष्य - उपभोक्तृ-कार्यमन्त्रालयेन दोषारोपणम् अस्तीति सूचितम्। कूपिषु भिन्नमूल्यमेव मुद्रितम् इत्ययं विषयः अपि मन्त्रिणा राम् विलास् पास्वान् महाशयेन सूचितम्। इतः परं समानमूल्ययुक्ताः कूप्यः एव सर्वत्र उपलभ्येरन् इति सः असूचयत्। एतत् विरुद्धः यः कोऽपि लधुपानीयादीनाम् अधिकमूल्येन विक्रयं करोति सः दण्डार्हः इति अक्तूबर मासे मन्त्री उक्तवानासीत्।  दशप्रतिशतात् आरभ्य विंशतिप्रतिशतपर्यन्तम् अधिकं मूल्यं स्वीकृत्यैव जलादीनि पानीयानि विक्रियन्ते स्म। कदाचित् कोक्ककोला पानीयादिकस्य विक्रयं कूप्यां मूल्यम् असूचयित्वापि कुर्वन्ति स्म इत्यपि निरीक्षितम् अस्ति।

Friday, March 10, 2017

सप्ततिसहस्रंकोटिरूप्यकाणाम्  अन्यायधनम् अलभत इति एस् ए टि               
नवदेहली> इतः पर्यन्तं सप्ततिसहस्रंकोटिरूप्यकाणा म् अन्यायधनम् अलभत इति परमोच्चन्यायालयद्वारा नियुक्तः विशिष्टान्वेषणसंघः। एस् ए टि उपाध्यक्षः जस्टिस्  अरिजित् पसायत् एव कार्य मिदं न्यवेदयत्၊ एसएटि इत्यस्य षष्ठ म्आवेदनं एप्रिल मासे परमोच्चन्यायालयाय समर्पयेत् इति न्यायाधिपः न्य वेदयत्।၊
 विविधकेन्र्दसर्वकारविभाग वरिष्ठाध्यक्षाणां मेलनानन्तरमेव एतावत्पर्यन्तं प्राप्तस्य अन्यायधनसम्न्धि वार्तां न्यायाधीशः पसायत् महोदयः प्राकाशयत्। आगामिमासे प्रथमवारे मध्यकालावेदनं समर्पयिष्यति।  अन्यायधननिवारणाय  एस् ए टि अनेकनिर्देशान् असूचयत् इति पसायत् महाशयः अवदत्।

बहून् निर्देशान्  केन्र्दसर्वकारः आविष्कृतवान् आसीत्। शेषाः सर्वकारस्य सजीवपरिगणनायां सन्त्येव। अन्यायधनावरोधाय ऊर्जितकार्यक्रमाः आयोजिताः इति श्रूयते । पञ्चदशलक्षरुप्यकेभ्यः अधिकं धनं यः स्ववशे स्थापयति चेत् अनधिकृत सम्पाद्यरूपेण तत् परिगण्य्य न्यायक्रमः स्वीकरीणीयः इति प्रधाननिर्देशादिकंकेन्द्रसर्वकारः आलोच इति पसायत् महोदयः असूचयत्।
त्रिलक्षाधिकरुप्यकाणां विनिमयः धनपत्ररूपेण येनकेनापि क्रियते चेत् तत् दण्डार्हमिति  निर्देशं च केन्द्रसर्वकारः परिगणयति इति च सः असूचयत्।

गार्हिकभोजनं रोगान् निष्कासयति- डी जी पि लोकनाथ बेहरा
तिरुवनन्तपुरम्>क्रित्रिम भोज्यानि  तथा पेयानि त्यक्त्वा गार्हिकभोज्यं पेयं च स्वीकुर्युश्चेत् मारकरोगेभ्यः मोक्तुं शक्यते इति डीजीपि लोकनाथ बेहरा।विश्व यकृत् दिनसंबन्धिनं समारोहं उद्घाटयन्नासीत् सः।
  प्रतिदिनं समीचीनतया जलपानं कुरुते चेत् मूत्राशयसंबन्धिभ्यः व्याधिभ्यः मुक्तिः प्राप्यते।तेन सह व्यायामोपि आवश्यकः इति सः अयोजयत्।
   चिकित्सा महाविद्यालयस्य नेफ्रोलजी विभागः, मृतसञ्जीवनी,तिरुवन्तपुरस्य नेफ्रोलजी संघः ,समग्रं हेल्त् फौण्डेषन् इत्यादयः संयुक्ततया समारोहः समायोजयन्।अड्गदान प्रोत्साहन अन्तर्जालजालकस्य उद्घाटनं सी आर पी एफ् डीऐजी डा.अशोक् कुमारेण निर्व्यूढम्।
  डा.मोहनदास् महोदयेन रचिताः अवयवदानसंबन्धीनि कविताः तथा केरलराज्ये यकृत् रोगाः इत्यादि ग्रन्थाणां प्रकाशनञ्च अभवत्।

ग्वाटिमाला शिशुभवने अग्निबाधा- २० संख्याः मृताः
ग्वाटिमाला सिट्टी > अग्नि बाधया ग्वाटिमाला शिशुभवने विंशति छात्राः मृताः पञ्चविंशति व्रणिताः च । सान्होसायाः वेर्जिन् डि ला असुन् सियोन् शिशुभवनस्य सप्तदश वयःपर्यन्ताः शिशवः एव इयं घटनायां पतिताः । व्रणिताः ग्वाटिमाला सिट्टीस्थां आतुरालये प्रविष्टाः
गार्हिक पीडनेन दुखितानां अलक्ष्येन पथि परिभ्रमन्तां शिशूनां पालनकेन्द्रः भवति अयम् । ४०० शिशूनां वासस्थाने अष्टचत्वारिंशदधिक सप्तशत (७४८ ) संख्यामिताः शिशवः उषिताः आसन् । अन्न पेयादयः उचित रुपेण न आसन् इत्यनेन शिशवः प्रतिषेधं प्रकाश्य तिष्टन्नासीनः सन्दर्भः आसीदयम्। अस्याः दुर्घटनायाः सन्दर्भस्य आनुकूल्यमुपयुज्य षष्टिसंख्यामितः शिशवः पलायिताः च।

Thursday, March 9, 2017

मृतदेहः न आवश्यकम् - तीव्रवादेः पिता
लख्नौ> आरक्षकानां नालिका-शस्त्रप्रहरणेन मृतस्य सयिफुल्लनामकस्य पिता सर् ताज़ः एवं वदति। सः वञ्चकः अस्माकं पुत्रः न। वयं भारतीयाः, अत्र जन्मलब्धाः, अस्माकं पूर्वजाः अपि भारतीयाः । देशद्रोह प्रवर्तनरताः अस्माकं पुत्रः न अतः तस्य मृत शरीरः न आवश्यकम् इति पित्रा उक्तम्।
पुत्रस्य देशद्रोह प्रवर्तनान्‌ अधिकृत्य पूर्वज्ञानं नासीत् इति च तेन निगदितम्।
ताक्कूर् गञ्च् परिसरे १२ घण्टा पर्यन्तं वर्तमाने मिथयुद्धे एव सेय्फुल्ला मारितः। ऐ एस् पताका रयिल् यानस्य समय सारिणी, कर्तरी, धनम्, नालिकाशस्त्राणि गोलिका च एतस्य पार्श्वतः लब्धानि वस्तूनि आसन्

निश्शुल्कतया पाकवातकं लब्धुम्  आधारपत्रम् अनिवार्यम्।
नवदेहली>दरिद्ररेखायाः अधस्तानां वनितानां निश्शुल्कपाकवातकं लब्धुम् आधारपत्रम् अनिवार्यम्। गतसंवत्सरे दरिद्ररेखायाः अधस्तानां पञ्च कोटि स्त्रीणां पाकवातकं दीयमाना प्रधानमन्त्री उज्वल योजना राष्ट्रसर्वकारः स्थापिता।
  इतः आधारपत्ररहितानां कृते पाकवातकं न लभ्यते। तादृशाः मेई मासस्य  एकत्रिंशत् दिनाभ्यन्तरे निवेदनं दातव्यम्। निवेदनं दत्वा तस्य प्रत्यभिज्ञानपत्रेण निश्शुल्कपाकवातकार्थं निवेदनं कर्तुं शक्यते। तेन सह सर्वकाराड्गीकृत प्रत्यभिज्ञानपत्रेषु एकमपि समर्पणीयम्।

केरळेपि पेप्सि - कोला विक्रयनिरोधाय वणिक्समूहः। 
कोष़िक्कोट् >पेप्सि-कोला उत्पन्नानां विक्रयणं समापयितुं केरलेषु व्यापारिसंधैः निर्णीतम्। आगामिनि सप्ताहे मुख्यमन्त्रिणा सह चर्चां कृत्वा एतदधिकृत्य प्रख्यापनं भविष्यतीति व्यापारि-व्यवसायि एकोपनसमितीत्यस्य वणिक्सङ्घस्य अध्यक्षः टि नसिरुद्दीनः प्रोक्तवान्।
    शीतलपानीयव्वसायशालानां जलचूषणे प्रतिषिध्य एव एतादृशनिर्णयः व्यापारिभिः स्वीकृतः। केरले सप्तलक्षं व्यापारिणः पेप्सी-कोला उत्पन्नानां विक्रेताररूपेण सन्ति।  अस्मात् मासाद्यादारभ्य तमिल् नाट् राज्ये अपि समानकारणेन एतेषां विक्रयणं समापितमासीत्।

 स्वल्पधनमात्रावशिष्टदण्डनं तथा ए टि एम् व्यवहारशुल्कं च निराकर्तुं सर्वकारस्य निर्देशः।
नवदिल्ली> वित्तकोशाधारपुस्तकेषु स्वल्पधनमात्रम् अनवशिष्टं चेत्  तथा  धनादानयन्त्राणि [एटिएम्] निश्चितवारैः अधिकम् उपयोक्तुं च धनशुल्कदण्डनाय वित्तकोशानां निर्णयं निराकर्तुं केन्द्रसर्वकारेण आदिष्टम्। वित्तकोशाधिकृतानां निर्णयं विरुध्य जनरोषः उद्भूतः। सञ्चयसंख्यानेषु (savings account) यैः अल्पिष्ठावशेषः न प्रतिपाल्यन्ते तेभ्यः २० - १०० रूप्यकाणां धनदण्डं स्वीकर्तुं निर्णयः कृतः आसीत्।
       तथा च भारतीय स्टेट् बैंकस्य धनादानयन्त्रेभ्यः प्रतिमासं पञ्चवारेष्वधिकानां व्यवहाराणां दशरूप्यकाणि स्वीकृतानि । एषः निश्चय अपि जनरोषाय कारणमभवत्। अत एव निर्णयस्य पुनःशोधनाय आदेशः कृतः।