OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 19, 2017

विश्वासमतं प्राप्य पलानीस्वामी शपथ: ग्रहीतवान् ।
चेन्नै >दशदिनानि यावत् तमिलनाडु राज्ये राजनैतिक नाटकं प्राचलत् । दीर्घ नाटकानन्तरं ई पलानीस्वामी अद्य शनिवासरे विधानसभा परिसरे विश्वासमतं प्राप्य मुख्यमन्त्री  पदस्य शपथ: ग्रहीतवान् । पूर्व  मुख्यमंत्री ओ पन्नीरसेल्वमस्य समर्थक दलै: विधानसभा त: वॉक आउट कृतं । पलानीस्वामी पक्षे १२२ विधायका: मतदानं कृतवन्त: ।
बहुमत प्राप्त्यर्थं तमिलनाडु विधानसभायां ११७ विधायकानां मत प्राप्ति अपेक्षितं भवति परञ्च पलानीस्वामी पक्षे १२२ विधायका: मतदानं कृतवन्त: । तस्मिन समये विधानसभा परिसरे विपक्षजनै: बहु उत्पात: कृत: ।

Saturday, February 18, 2017

एस् बि ऐ - एस् बि टि विलयनम् एप्रिल् मासे सम्पूर्णं भविष्यति।
अनन्तपुरी> केरळे वर्तमानाः स्टेट् बैंक् आफ् ट्रावन्कूर् [एस् बि टि] नामकाः वित्तकोशाः चत्वारः अन्ये वित्तकोशाश्च भारतीय स्टेट् बैङ्के लाययितुं पदक्षेपाःएप्रिल् मासे पूर्ण भविष्यन्ति। लयनानन्तरं कालक्रमेण केरले पञ्चानाम् अनुबन्धबैङ्कानां चतुश्शतं शाखाःपिहितव्याः भवेयुः।
    केरळे एस् बि टि संस्थायाः ८५१ शाखासु २०४परिमितानां संख्यकानां पिधानं भविष्यतीति सूच्यते। तमिल् नाट् राज्ये ५९ संख्यकानां च। वित्तकोशसेवाकराणां राज्यसर्वकारस्य च विमतं विगणय्य गतदिने एव केन्द्रसर्वकारेण निमज्जनाङ्गीकारः कृतः। मैसूर् राज्यकीयवित्तकोशः तथा हैदराबाद्, पाट्याला, बिक्कानीर् आन्ड् जय्पूर्  वित्तकॊशाः लयनविधेयाः भविष्यन्ति।

 विश्वस्य बृहत्तरं पृथ्वी-जलविमानं चैना राष्ट्रे।
बीजिंग्>पृथिव्यां जले च अवरोढुम् आरोढुं सक्षमं बृहत्तरं विमानं चैना राष्ट्रे निर्मितम्।एतत् विमानं अस्मिन् वर्षे एव प्राथमिक डयनं करिष्यति।
 एजी ६०० नाम्ना प्रथितं एतत् विमानं गत जूलाई मासे चैनायाः दक्षिणनगरे सुहायां निर्माणम् आरभत।विमानस्य३७ मीट्टर दीर्घमस्ति ।
 उभयविमानानि अतिशीघ्ररक्षा प्रवर्तनेषु उपयुज्यते।५३.५ डण् भारं वोढुं शक्यते।२० सेकण्ट् समयेन १२ डण् जलं स्वीकर्तुं शक्यते।७० जनाः सप्तवर्षेण अस्य निर्माणं कृतम्।

डोनल्डट्रम्पस्य आव्रजनादेशोद्घोषणा
अमेरिकीयेन राष्ट्राध्यक्षेण डोनल्डट्रंपेण आगामिसप्ताहे नवीन-आव्रजनादेशोद्घोषणायाः निश्चयो विहितः।  तदीयेन प्रशासनेन न्यायालये प्रदत्तप्रपत्रेषु प्रतिपादितं यदसौ सप्तमुस्लिमराष्ट्राणां  प्रतिबन्धप्रकरणे परिवर्तनं करिष्यति।

विश्वमानांकने पी. वी. सिन्धु: पञ्चमस्थानं प्राप्तवती
रियो-ओलम्पिकस्पर्धायां रजतपदकविजेतृ-भारतीय-बैडमिंटनक्रीडिका पी.वी. सिन्धु: विश्वमानांकने पञ्चमस्थानमधिगतवती। एतद् हि सिन्धोः क्रीडाप्रदर्शनस्य  सर्वश्रेष्ठं मानाकनं  विद्यते ।।

Friday, February 17, 2017

उसैन् बोल्ट् श्रेष्ठतमं पुंस्कायिकतारम्,
स्त्री तु सिमोणा।
मोणाक्को> विश्वस्य श्रेष्ठतमाय पुरुषकायिकताराय दीयमाना लोरस् पुरस्काराय जमैक्कादेशस्य कायिकेतिहासः उसैन् बोल्ट् वर्यः अर्हति। महिलाताराय पुरस्कारस्तु अमेरिक्कायाः जिंनास्टिक् निपुणा सिमोणा बैल्स् महाभागायै प्राप्नोति।
    गतदिने फ्रान्स् देशस्य मोणाक्को नगरे एव पुरस्कारः विज्ञापितः। लोरस् स्पोर्ट्स फौण्टेषन् संस्थया एव पुरस्कारः दीयते।






स्वामि निर्मालानन्दगिरि महाराजः शिवपदमगात्।
पालक्काट्>  निर्मलः संन्यासि श्रेष्ठः मिर्मलानन्दगिरिः महाराजः समाधिस्थः अभवत्। ९१ वयस्क: एषः वार्धक्यसहजेन रोगोण श्रान्तः आसीत्। शिवानन्दमार्गस्य प्रयोक्ता आसीत्। आयुर्वेद वैद्यः च आरसीदयं महात्मा । संस्कृतं वैद्यं, मर्म चिकित्सा आदिषु निष्णादः अस्य गीता-ज्ञानयज्ञादयः दक्षिण भारते सुप्रसिद्धा एव।
गीताचार्यः, चिकित्सकः , प्रभाषकः, पणडितः इत्यादि रूपेण तेन समाजः सेवितः। रोगिभ्यः औषधं उपदेशं च युगपद् दत्वा कृतः चिकित्सारीतिः सर्वान् आकर्षयत्। दक्षिणभारते विशेषतया केरले सर्वत्र जनपदेषु यात्रां कृत्वा चिकित्सां अकरोत् इति भवति तस्य संन्यासकौशलम् ।

ड्यन्तं कार्-यानं विक्रयणाय सुसज्जम्।
आम्स्टर् डाम् > वाणिज्याय निर्मितं विश्वस्य प्रप्रथमं कार् यानं विक्रयणाय सज्जम् अभवत् । पि ए एल् वि नाम डच् कम्पनि द्वारा निर्मितस्य कार् यानस्य नाम लिबर्टी इत्यस्ति। लिबर्टी स्पोर्ट, लिबर्टी पयनियर् इति द्वे निर्मितिः (Model) स्तः।

        लिबर्टी स्पोर्ट् कार्-यानस्य ३,९९,००० डोलर् (२.६६ कोटि रुण्यकाणि) पयनियर् निर्मितेः ५.९९ लक्षं डोलर् च मूल्यम्। भूमौ आकाशे च उपयुज्यमानं कार् यानं ३५०० मीट्टर् उपरि डयितुं प्रभवति। आकाशवेगः प्रतिघण्टं११२ किलोमीट्टर् एव। भूमौ१०० च ।

        त्रिचक्रयुत-यानस्य यूरोप्यन् एवियेषन् सेफ्टी संघस्य तथा यू एस् फेडरल् एवियेषन् शासनविभागस्य च मानदण्डानुसारमेव निर्माणमिति निर्मातारः वदन्ति। कार् चालनाय चालनानुमतिपत्रं तथा डयनानुमतिपत्रं च आवश्यके। एकवारं इन्धनपूरितं चेत् १३१४ किलोमीट्टर् दूरं यावत् डयितुं शक्यते।

पाकिस्थानस्य सिन्ध् प्रविश्यायां माहम्मदीये देवालये विस्फोटः।
८० जनाः  मृताः।
कराच्ची > पाकिस्थानस्य सिन्ध् प्रविश्याया: सूफि देवालये बोंब् उपयुज्य कृतेन विस्फोटनेन ८० जनाः कालकवलीभूताः। शताधिकाः व्रणिताः। सेह् वान् नगरस्य लल्षाबास् खलन्दर् सूफि देवालये एव विस्फोट: जातः। विस्फोटस्य उत्तरदायित्वम् इस्लामिक्‌स्टेट् नाम भीकर सङ्खटनया स्वीकृतः। अस्मिन् सप्ताहे क्रियमाणः पञ्चमः विस्फोटः भवति अयम्।

Thursday, February 16, 2017

ISRO -राष्ट्रपतिना प्रधानमन्त्रिणा च अभिनन्दितः।
नवदिल्ली > बाह्याकाशा-नुसन्धान-मण्डलेषु ऐतिहासिक पदन्यासेन श्रद्धा बिन्दुः अभवत् एकस्मिन् विक्षेपणे १०४ उपग्रहाः भ्रमणपथं सन्निवेश्य भारतस्य  स्वाभिमानः विश्वखिलं पूरिताः वैज्ञानिकाः इति राष्ट्रपतिना प्रणाब् मुखर्जीना उक्तम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना च वैज्ञानिकाः अभिनन्दिताः। बाह्यकाशानुसन्धान -मण्डले सुव्यक्तः सुवर्ण दिनत्वेन अद्यतनंदिनं प्रमाणीक्रियते इति च राष्ट्रपतिना उक्तम्। प्रधानमन्त्रिणा ट्विटर् द्वारा वैज्ञानिकाः प्रकीर्तिताः ।

एस् बी ऐ वित्तकोशलयनाय केन्द्र मन्त्रिसभायाः अङ्‌गीकारः।
नवदिल्ली > त्रावण्कोर् राज्य स्तरीयवित्तकोशेन सह(SBT) अन्ये चत्वारान् अनुबन्धवित्तको शान् च भारतीय वित्तकोशे (SBI) लयनाय केन्द्रमन्त्रिसभया अनुमतिः दत्तः। बिक्कानीर् राज्यस्थरीय वित्तकोशः, मैसूर् राज्यवित्तकोश: (SBM), पाड्याला राज्यवित्तकोशः(SBP) हैदराबाद् राज्यवित्तकोशः (एस् बीएच्) एते लयनाय सन्नद्धाः वित्तकोशाः सन्ति। केरळेन लयनाय असहिष्णुता प्रकटिता आसीत्)
अधुना १६५०० शाखाः एस् बी ऐ वित्तकोशाय सन्ति। ३६ राज्येषु १९१ कार्यालयाश्च। लयनेन तस्य स्थावरसम्पदः ३७ लक्षं कोटिरुप्यकाणि भवेत्। २२५०० शाखाः ५८००० ATM केन्द्राणि च भवेयुः। उपभोक्तृृऋणां संख्या ५० कोटिःच। एवं एष्यायाः बृहत्तमः वित्तकोशः इति ख्यातिः भारतीय स्टेट्बैंकाय भविष्यति।


चलनचित्ररङ्गं कल्पयित्वा विद्यालये शूलक्षेपः। विद्यार्थिनी अक्ष्णा काणा जाता।
आलप्पुष़ा > 'पुलिमुरुकन्'‘ नाम प्रथितः चलनचित्रस्य भागं अनुकृत्य अयोर्मितेन शूलेन क्षिप्त्वा बालिकायाः नेत्रं विनष्टम्I दशमकक्ष्यायाः छात्रेण एव शूलं विक्षिप्तम्I कोट्टयं जनपदस्य वैद्यकलाशालायां प्रविष्टाबालिकायाः नेत्रे २२ सीवनानि सन्ति। कोर्णिय, रेट्टिन आदि भागेषु रन्ध्रः जातः। 

Wednesday, February 15, 2017

इतिहासं विरचय्य ISRO.१०४ उपग्रहाः भ्रमणपथे।

चेन्नै> एकेन विक्षेपणेन१०४ उपग्रहाः भ्रमणपथं प्रापिताः। भारत-बाह्याकाशसंघेन कृतस्य परिश्रमस्य फलप्राप्तिः अभवत्। पि एस् एल् वि सि-३७ नाम उपग्रहविक्षेपण्या अद्य प्रातः ९: २८ वादने हरिकोट्टानाम भारतस्य स्वाभिमानभूमीतः विक्षिप्ताः। उपग्रहाः आहत्य१३७८ किलो मिताः भवन्ति । अस्मिन्विशेषत्वं ७१४ किलोमितानां कार्टोसाट् द्वे इत्यस्य भवति। अन्ये ९६ उपग्रहाः यू एस् साम्राज्यस्थानां विविध-संस्थायाः भवन्ति। इस्रायेल्, कसख्स्थान्, नेतर् लान्ट्, स्विस्वर लान्ट्,यूए ई राष्ट्राणामेव।
    पूर्वस्मिन् काले रष्यायाः बाह्याकाश-संस्थया अनेन प्रकारेण ३७ अन्ये उपग्रहाः विक्षिप्ताः आसन् इति प्रमाणिताः। अद्य भारतेन नूतनं प्रमाणं विरचितम्। भारतस्य राष्ट्रपतिः तथा प्रधानमन्त्री च सर्वान् वैज्ञानिकान् अभिनन्दितवन्तौ।
भारतपाकिस्थानयोः सीमायां सैनिकैः सुरङ्गः दृष्टः।
काश्मीरम् > भारत-पाकिस्थानयोः सीमायां निलीय गमनाय निर्मितः सुरङ्गः दृष्टः। सांबा जनपदे रांघर् सेक्टरतः सीमायां भटैः सुरङ्गः दृष्टः। भारतं प्रति निलीय प्रवेशनम् अनेन मार्गेण सुकरं भवति।  अपूर्णः निर्मितिः भवति अयम्। रविवासरे 'परितः सञ्चाराय' गताः सङ्घाः एव सुरङ्गः दृष्टवन्तः। २० मीट्टर् दैर्घ्यमितायाः अस्याः व्यासः सार्धद्विपादपरिमितः। पाकिस्थानस्य भूप्रदेशतः आरब्धः सुरङ्गः भारतसीमां अतिक्रम्य तिष्ठति।
जम्मूप्रदेशस्य राष्ट्रान्तरसीमायाः सुरक्षाविषयं परिगण्य वदति चेत्‌ उत्तमकार्यक्रमाणि बी एस् एफ् द्वारा कृतानि सन्ति। चतुस्संवत्सराभ्यन्तरेण दृष्टः चतुर्थः सुरङ्गः भवति अयम् ।

शशिकला अपराधिनी इति परमोन्नतनीतिपीठम्।
दिल्ली>अनधिकृतसम्पदार्जनेन अण्णा डी एम् के अध्यक्षा वी के शशिकला अपराधिनी इति  सर्वोच्चन्यायालयेन स्थिरीकृतम्। कर्णाटका उच्चन्यायालयस्य विधिः परमोन्नत नीतिपीठेन निरोधितः। पी सी घोष्,अमिताव रोई च विधिः प्रास्तौताम्।


नाटकान्तं कारागारे। शशिकला अपराधिनी इति  सर्वोच्चन्यायालयेन स्थिरीकृतम्।

नवदिल्ली > कथञ्चिदपि तमिल्नाट् राज्यस्य मुख्यमन्त्रिपदम् अभिलषितवत्याः शशिकलायाः मोहः अस्तंगतः।  अविहितद्रव्यसम्पादनविषये बेङ्गलुरु अधोमण्डलनीतिपीठस्य विधिं  साधूकृत्य कर्णाटक उच्चन्यायालयस्य विधिं निरुध्य च सर्वोच्चन्यायालयस्य  अन्तिमनिर्णयः विहितः  इत्यनेन चतुस्संवत्सरपर्यन्तं कारागृहवासः दशकोटिरूप्यकाणां शुल्कदण्डनं च शशिकलया अनुभवितव्या। दशसंवत्सराणि यावत् निर्वाचनेभ्यः निवारिता च।
   न केवलं  शशिकला किन्तु बान्धवौ वि एन् सुधाकरः , इळवरशी इत्येतौ तथा दिवंगता भूतपूर्वमुख्यमन्त्रिणी जयललिता अपि दण्डनीयाः भवन्ति।  किन्तु देहवियोगत्वात् जयललितां प्रति कार्यक्रमाः समापिताः। १९९१- ९६ काले ६६.६५ कोटिरूप्यकाणां द्रव्यं सम्पादितवन्तः इत्यासीत् अपराधपत्रम्।
Episode 33- Sanskrit News
Archana ER, Saraswati Vidyaniketan HS, Chengamanad, Ernakulam, Kerala.

Tuesday, February 14, 2017

मदिरा,बियर्,वैन् इत्यादीनि मद्यमिति न व्यवहर्तव्यानि इति केरलराज्यम्।
नवदेहली >राजवीथीपार्श्वस्थाः मद्यशालाः मार्च् ३१ पूर्वमेव बन्धनीयाः इति सर्वोच्चन्यायालयःविधिमयच्छत्। तस्मिन् केचन भेदाः राज्यसर्वकारेण आवेदयत्। तेन सह बियर्,वैन्,इत्यादीनि मद्यरूपेण न व्यवहर्तव्यानि इति सर्वकारः न्यवेदयत्। मद्यशालानां रोधनं २०१८ एप्रिल् प्रथम दिनपर्यन्तं न भवेदिति राज्यसर्वकारः अवेदनमदात्।
शशिकलायाः शिबिरात् पुनरपि बहिर्गमनम्। द्वाै अपि पनीर् सेल्वस्य पक्षे लग्नौ।
चेन्नै > अनियमेन धनसम्पादन -व्यवहारे विधिप्रस्तावः समागते सति शशिकलायाः पक्षतः द्वाै अपि पुनरपिनिर्गतौ। मधुर एम् पी गोपालकृष्णः दक्षिणमधुरायाः एम् एल् ए शरवणः च एतौ अनुकूलिनौ। तौ स्वयमेव अनुकूलतांवक्तुं मुख्यमन्त्रिणः पनीर् सेल्वस्य गृहं प्राप्तौआस्ताम्। एवं अष्टविधानसभाङ्गाः पनीर्सेल्वस्य पार्श्वे सन्ति। अण्णा डि एम् के दलस्य पञ्चाशत् विधानसभाङ्गेषु त्रयोदशः पनीर्सेल्वम् अनुगच्छन्ति। दलस्य ३७ संसदङ्गेषु ४/१ अङ्गाः विरुद्धपक्षे स्थिताः इत्यनेन शशिकलायाः पक्षे भयाशङ्काः उद्पाद्यन्ते ।

यू पि, उत्तराखण्ड् - प्रचारणं समाप्तं, श्वः मतदानप्रक्रिया। 
लख्नौ >यू पि राज्ये द्वितीयसोपानस्य तथा उत्तराखण्डे च निर्वाचनप्रचारणस्य समाप्तिः। बुधवासरे मतदानप्रक्रिया भविष्यति। उत्तराखण्ड राज्ये एकोनसप्ततिषु प्रविश्यासु निर्वाचनं भविष्यति।बि एस् पि दलस्य स्थानाशी मार्गदुर्घटनायां हत इत्यतः  एकस्याः प्रविश्यायाः निर्वाचनं परवर्तितम्।
      उत्तरप्रदेशे तु एकादशजनपदस्थासु सप्तषष्टिप्रविश्यासु विधिनिर्णयः भविष्यति।

Monday, February 13, 2017

इन्टर् सेप्टर् बाणः- परीक्षणे विजयः।
बालसोर्(ओडीषा)> द्वितल बालिस्टिक् मिसैल् प्रतिरोध संविधानस्य विकासदशायां सुप्रधान केन्द्रशिला रूपेण भारतस्य युद्धबाणस्य परीक्षणविजयः। ओडीषातीरस्प समीपे विद्यमाने अब्दुल्कलां द्वीपतः ह्यः प्रातः ७.४५ वादने  आसीत् बाणस्य प्रयोगः तीरं प्रति समागतं प्रतीकात्मकं शत्रुबाणं भौमान्तरीक्षात् बहिः एव भञ्ज्य  परीक्षणे विजयं अवाप।  भारतस्य पृथ्वी नाम बाणवेधायुध दौत्यस्य भागः आसीत् परीक्षणम्।  २००० कि.मी दूरतः शत्रु राज्य स्य इति कल्पयित्वा वङ्ग समुद्रस्थ महानौकातः बाणस्य प्रयोगः कृतः। स्वयं नियन्त्रित प्रतिध्वनिग्राहि(RADAR)द्वारा शत्रुबाणं संवीक्ष्य सञ्चार-पथमधिकृत्य सज्ञा स्वीकृत्य शत्रु बाणे लक्ष्यं निधाय बाणः प्रेषितः आसीत्।

सीमा सैनिकेभ्यः व्याजपत्ररुप्यकाणां प्रत्यभिज्ञानाय परिशीलनम्।
कोल्क्कत्त >२००० मूल्यकानां पत्ररुप्यकाणां व्याजपत्राणि प्रत्यभिज्ञानाय सीमारक्षा-भटानां प्रतिज्ञानं दातुं आलोच्यते।
एतदर्थं केन्द्र वित्तकोशधिकारिणा साकम् उपवेशनम् आरब्धम्।
भारत बङ्गलादेशयोः सीमाद्वारा एवा व्याजपत्ररुप्यकाणि आगच्छन्ति इति ज्ञायन्ते। अर्धसैनिकेभ्यः बौद्धिक दलेभ्यः च द्विसहस्रकमूल्यस्य रूप्यकाणि  निन्द्राभङ्गं प्रदास्यन्ति। सुरक्षा संविधानयुक्तंभवति नूतनं रुप्यकपत्रम्। सप्तदशविध विशेषताः सन्ति अस्मिन्। किन्तु अस्याः अर्धांशः अपि सम्पूर्या अगताः भवन्ति नूतनानि पत्ररुप्यकाणि। अतः सत्यं तत्यं च प्रत्यभिज्ञातुं क्लेशः भवति । गतसप्ताहे २००० पत्ररुप्यकाणां ४० व्याजरुप्यकाणि बंगलादेशस्य मुर्षिदाबाद् जनपदात् एकस्य युवकस्य पार्श्वतः गृहीतानि सन्ति।

 काश्मीरे संघट्टनं - चत्वारः भीकराः हताः, द्वयोः सैनिकयोः वीरमृत्युः।
श्रीनगरम्> जम्मु काश्मीरस्य कुल्हाम् जनपदे भीकरैः सह रविवासरे उषसि संवृत्ते संघट्टने चत्वारः हिस्बुल् मुजाहिदीन् भीकराः मृताः। द्वौ सैनिकौ वीरमृत्युं प्राप्तवन्तौ। द्वौ प्रदेशवासिनौ च मृतौ।
     कुल्हाम् जनपदे नगबाल् ग्रामे कस्मिंश्चित् भवने भीकराः निलीयमानाः वर्तन्ते इति सूचनानुसारं सैन्य-अर्धसैन्य-रक्षिपुरुषविभागानां संयुक्तान्वेषणस्य अन्ते भुषुण्डिप्रयोगः कृतः।

 दृष्टिबाधितजनानां २०-२०
विश्वक्रिकेट्चषकक्रिडायां भारतेन जय: प्राप्त:
दृष्टिबाधितजनानां विंशति-प्रतिविंशति क्षेपचक्रीय विश्वक्रिकेटचषकस्पर्धायां भारतीय क्रीडकदलेन पाक्किस्थानं विरुद्ध्य द्वितीयवारं विजयोSधिगत:। पाक्किस्थानस्य नवक्रीडकाणां हानिपुरस्सरं सप्तनवत्युत्तरैकशतं धावनांकानां लक्ष्यमनुसरता भारतेन नवक्रीडकाणां सुरक्षापूर्वकं स्पर्धेयं विजिता। भारतस्य प्रकाशजयरमैया इत्यनेन  ९९ धावनांकाः समार्जिताः।


Sunday, February 12, 2017

अष्टवयस्का ऑण्लैन् वार्तावतारिका समादृता।
कोच्‍ची >अल्पवयस्का वार्तावतारिका अहल्या मरोहरः ५०० रुप्यकाणां धनपारितोषिकत्वेन सम्मानिता । एषा तृतीयकक्ष्यायां छात्रा एव। वाग्भटसरण्या आयोजिते शास्त्रमथनं नाम राष्ट्रियकार्यक्रमे आसीत् एतादृशम् अनुमोदनम्। अनया सुव्यक्तया रीत्या कृतं वार्तावाचनं दृष्ट्वा प्रेक्षकाः अद्‌भुतस्तब्धाः अभवन्। तदा सम्प्रीतेन डॉ जे आर् प्रसाद् वर्येण मुद्रापत्रद्वारा बालिका समादृता आसीत्। हैदराबाद् विश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्षः भवति प्रसाद् वर्यः। सम्प्रतिवार्तायाः वार्तावतारकेषु लघुतमा बालिका भवति अहल्या। ऑण्लैन् वार्तामाध्यमेषु विद्यालय-छात्राणां वार्तावतरणम्  विश्वे प्रप्रथममेव। आयुर्वेदभिषग्भिः आयुर्वेदसरण्याः प्रचाराय आयोज्यमानं दलं भवति वाग्भटसरणी।

 पृष्ठासनस्थैरपि शिरस्त्राणं धर्तव्यम्!
हरिप्पाट् > केरले द्विचक्रिकायानेषु पृष्ठासनस्थानां यात्रिकाणामपि शिरस्त्राणधारणम् आवश्यकमिति यन्त्रयानाधिकारिणां निर्देशः। शिरस्त्राणं विना यात्रायै यन्त्रयाननियमम् १२८अनुसृत्य यानचालकं  शतरूप्यकाण्येव दण्डनम्।
      द्विचक्रिकाचालकैः पृष्ठभागस्थितैश्च शिरस्त्राणं धर्तव्यमिति व्यवस्था अस्त्यपि प्रायोगिकदुष्करेण कर्कशा नासीत्। किन्तु द्विचक्रिकादुर्घटनानाम् आधिक्यः पुनर्विचिन्तनाय अधिकृतान् प्रेरयति स्मः।

Saturday, February 11, 2017

 उत्तरप्रदेशे निर्वाचनस्य प्रथमचरणम् अद्य।
लख्नौ> उत्तरप्रदेशराज्ये विधानसभानिर्वाचनस्य प्रथमचरणे त्रिसप्ततीनां नियोजकस्थानानां जननिर्णयः शनिवासरे भविष्यति। राज्यस्य पश्चिममण्डलान्तर्गतेषु पञ्चदशजनपदेष्वेव अद्य मतदानं प्रचलति। तत्र धर्मसंघर्षैः कुप्रसिद्धिमार्जितौ मुसाफिर् षंलि जनपदे च अन्तर्भवतः।
   प्रथमसोपाने २.५९कोटि जनाः विधिकर्तारः भविष्यन्ति। तेषु २४ लक्षं मतदातारः प्रप्रथमतया एव मतविनियोगं कुर्वन्ति। आहत्य चरणसप्तकेनैव यू पि राज्ये निर्वाचनं पूर्णताम् प्राप्स्यति।

 मङ्गलयानस्य भ्रमणपथः परिवर्तितः, आयुरपि वर्धितम्।
मङ्गलुरु> भारतस्य प्रथममङ्गलग्रहपर्यवेषणोपग्रहस्य मङ्गलयानस्य प्रवर्तनं सजीवं कर्तुं भ्रमणपथः परिवर्तितः। अनेन अस्य आयुरपि संवत्सरत्रयं वर्धितम्।
    जनुवरि १७तमे दिनाङ्के मङ्गलयानं नवीनं भ्रमणपथं प्राप्तम्।



राज्यपालस्य समक्षं मुख्यमन्त्रिस्थानाय अर्हतां समर्पितवती शशिकला
चेन्नै >गुरुवासरे AIADMK दलस्य महासचिव पदे आरुढा शशिकला नटराजन् तमिलनाडु राज्यस्य राज्यपालेन सी विद्यासागर रावु महोदयेन सह मिथो भाषणं कृतवती। परं राज्यपाल महोदयेन अस्मिन् विषये स्पष्टरुपेण नोक्तम्। वर्तमान मुख्यमंत्री ओ पनीरसेल्वम् महोदयेनोक्तं जना: शशिकलायै विश्वासघातस्य फलं अवश्यमेव यच्छन्ति। अनन्तरं तेनोक्तं शशिकला दिवंगतया: मुख्यमंत्रीण्या: जयललिताया: साकमपि विश्वासघातं कृतवति इति। तस्मिन् सन्दर्भे ओ पनीरसेल्वम् कश्चन् पुरातनं पत्रमपि वाचितवान्। राज्यपाल सी विद्यासागर राव महोदयेनोक्तं यत् अस्मिन सन्दर्भे अहं विधि विशेषज्ञानां परामर्शानन्तरमेव अग्रे किमपि वदामि।

Friday, February 10, 2017

दूरवाणी उपयोगिनां प्रत्यभिज्ञानमावश्यकम् इति नीतिपीठम्।
एकवर्षाभ्यन्तरे कर्यान्वयनमिति सर्वकारः।
नवदेहली-राष्ट्रस्य १०० कोटि दूरवाणी उपयोगिनां तथा तथा भाविनि उपयोगिनां चअभिज्ञानानि संशोधयितुं सफला उपाधिः एकवर्षाभ्यन्तरे निर्मातव्या इति परमोन्नत नीतिपीठं केन्द्रसर्वकारं निरदिशत्।
 आधाराधिष्ठित के वै सी उपाधिना एतत् शक्यते इति केन्द्रसर्वकारः अवदत्।इदानीं उपयोगिषु ९० प्रतिशतं पूर्वव्ययीनः(prepaid)सन्ति।
  दूरवाणी पुनःपूरणाय  (recharge)आगमनावसरे अभिज्ञानानि स्वीकर्तुं शक्यतेति नीतिपीठं अभिप्रैति।

Thursday, February 9, 2017

लवणजलं पानाय परिवर्तनं कृत्वा - भारतीयः विद्यार्थी।
सान्-फान्सिस्को > लवणजलं लघुव्ययेन पानीयं कर्तुं नूतनया विद्यया चैतन्यः नामकः विद्यार्थी । यू एस् साम्राज्यस्य विख्याताः विश्वविद्यालयाः प्रमुखाः वैज्ञानिकसंस्थाः च अस्य अनुसन्धाने तत्परतां प्रकाशिता सन्ति।
पोर्ट्लाण्डस्य  ओरिगनिल् जे स्यूट् उच्च विद्यालयस्य विद्यार्थी चैतन्यः करंचेदु एव कुशलः अयं बालकः । एषः कक्ष्यायां परीक्षणप्रदर्शनेन लवण २०-२० क्रिडायां भारतेन जय: प्राप्त:युक्तं जलं पानयोग्यम् अकरोत्। शुद्घजलाभावेन पीडितः आसीत् इत्यनेन अनुसन्धानाय प्रेरणाम् अलभत इति सः कथितवान् ।
भूभागेषु प्रतिशतं सप्तति (७०%) भागाः समुद्रजलमेव- किन्तु लवणजलमेव। यावत्कालं लवणांशनिवारणाय समीचीन मार्गाय वैज्ञानिकः श्रमम् अकुर्वन्। तथापि अल्पव्ययेन तत् असाघ्यमासीत् । इदानीं चैतन्यस्य प्रयत्नेन तत् साध्यमभवत् । सागरजले  प्रतिशतं दश अंशाः एव लवणः । चैतन्यः पोलिमर् द्वारा लवणांशः निवारितवान्।

 भारतीया क्रिक्कट् क्रीडा। 
दृक्साक्षिविवरणं संस्कृतभाषया
वाराणसी> धर्मशालायां नूतनरीत्या क्रिक्कट् क्रीडा आयोजिता। परम्परागतवैदेशिकवस्त्राणां स्थाने भारतीयसंस्कृतिद्योतकं वस्त्रधारणं - धोत्ती कुर्ता च - स्वीकृतम्। विशिष्य दृक्साक्षिविवरणमपि संस्कृतभाषायामेव कृतम्।

२०-२० क्रिडायां भारतेन जय: प्राप्त:
अधुनाsपि अस्माकं भारतदेशे तादृशा: बहव: जना: सन्ति ये च दिव्यांगानामुपरि हसन्ति। परञ्च अस्माकम् भारतीय-दिव्यांग-क्रिकेट् क्रिडकदलेन प्रस्तुति कृतं यत् वयं अपि पृष्ठे न स्म इति। न्यूसिलन्ड् देशं विरुद्ध्य क्रीडन्त: भारतीयदलेन जयं प्राप्य सेमीफाइनल मध्ये स्व स्थानं सुरक्षीकृतम्। न्यूसिलन्ड् दलस्य पक्षत: १३७ अंकानां लक्ष्यं लब्धमासीत् परञ्च भारतस्य पक्षत: अजयकुमार रेड्डी इत्याख्येन क्रिडकेन २८ कन्दुकक्षेपणे ७५ अंका: प्राप्ता: अनेन भारतेन सारल्येन जय: प्राप्त:।

Wednesday, February 8, 2017

 ऐ एस् शिबिरे शताधिकाः भारतीयाः।
करिप्पूर्> अफ्गानिस्थानस्थे नाङ्गर् हार् ऐ एस् भीकरसंस्थायाः शिबिरे शताधिकाः भारतीययुवकाः परिशीलनं कुर्वन्तः सन्तीति देशीय अन्वीक्षणविभागाय ( एन् ऐ ए) सूचना लब्धा। अफ्गानराष्ट्रस्य  रहस्यान्वेषण विभागेनैव एतदधिकृत्य वृत्तान्तः भारतविभागाय दत्तः।
      ऐ एस् संस्थया सह मेलितुं देशं त्यक्तवन्तः द्वाविंशतिः केरलीयाः अन्ये बहवश्च नाङ्गर् हार् प्राप्तवन्तः इति पूर्वमेव एन् ऐ ए विभागेन प्रत्यभिज्ञातमासीत्। किन्तु त्रिंशदधिकं केरलीयाः शिबिरं प्राप्ताः इति सूचना अस्ति।

चतुर्वयस्कः शिशुः अपि शिस्त्राणं धर्तव्यः।
नवदिल्ली> द्विचक्रिकया यात्रासन्दर्भै शिशवः अपि सुरक्षिताः भवन्तु इति सुचिन्तया एव ईदृशः नियमनिर्माणः क्रियते। यान्त्रिकवाहननियमानां परिवर्तनाय संस्थापिता विधानसभायाः सुस्थिरसमित्या एव सर्वकारः आदिष्टा। शिशुनां तथा प्रौढानां च शिरस्त्राणस्य उत्तमोपयोगक्षमता आवश्यकम् इति च समित्या निर्दिष्टः। तथा वेगपरिधिना सह वाहननिर्माणः भवतु। क्षमतारहिताः शिरस्त्राणनिर्माणः दण्डनीयः भवितव्यः इति च समितिना दत्ते निर्देशे प्राधान्यत्वेन उल्लिखितम्।

20-20 क्रिकेट् विश्व-कप् स्पर्धा
दृष्टिबाधितजनानां 20-20 क्रिकेट् विश्व-कप् स्पर्धायां  भारतेन  न्यूजीलैंड् दलं नवक्रीडकाणां सुरक्षापूर्वकं पराभूतम्। न्यूजीलैंडदलेन  निर्धारित 20 क्षेपचक्रेषु  6 क्रीडकाणां हानौ 136 धावनांकाः समर्जिताः प्रत्युत्तरे  भारतीयदलेव  9 क्षेपचक्रेष्वेव विजयोधिगतः। शृंखलायामद्य भारत-नेपालयोर्मध्ये  स्पर्धा भविष्यति।

राज्यद्वये नैर्वाचनिकोष्णता विवर्धतेतराम्।
 उत्तरप्रदेशोत्तराखण्योः विधानसभेयनिर्वाचनानि आलक्ष्य राज्यद्वये नैर्वाचनिकोष्णता विवर्धतेतराम्।  बहुजनसमाजदलप्रमुखया  मायावत्या  गाजियाबादे सपादलं भृशमालोचितम्। तयोक्तं यत्  सपाप्रशासनेन तस्याः योजनानां नाम परिवर्त्य श्रेयोधिग्रहणस्य प्रयासः क्रियते इति उत्तराखण्डे भाजपाध्यक्षेण अमितशामहोदयेनोक्तम्।  कांग्रेसशासने भ्रष्टाचारस्य अराजकतायाश्च स्थितिः समुत्पन्ना।
Episode 32- Sanskrit News
Sneha MV, Std 9, RK Mission HSS. Meenchanda, Kozhikkodu-18.
Episod 32, Sneha M V, R K M HSS, Kozhikkodu, Kerala.

Tuesday, February 7, 2017

यू पि निर्वाचनं - स्थानाशिनेषु प्रतिशतं विंशतिः अपराधिनः।
 नवदिल्ली> उत्तरप्रदेशनिर्वाचने प्रथमसोपाने स्पर्धमाणेषु स्थानाशिनेषु प्रतिशतं विंशतिपरिमिताः अपराधिन इति ए डि आर् (Association for democratic)नामिकया संस्थया प्रकाशितः अन्वीक्षणवृत्तान्तः। एवमस्ति तस्याः प्रवादः - पत्रिकासमर्पणं कृतवत्सु स्थानाशिनेषु भाजपा दलीयेषु प्रतिशतं चत्वारिंशत् परिमिताः विविधेषु विषयेषु अपराधित्वेन उद्घोषिताः सन्ति। त एव पट्टिकायां प्रथमस्थानमावहन्ति। द्वितीयस्थाने तु प्रतिशतम् अष्टत्रिंशत् परिमितैः स्थानाशिभिः बि एस् पि दलं वर्तते। राष्ट्रिय लोक दलं ३३% , तथा एस् पि दलं २९%इति यथाक्रमं तृतीय चतुर्थ स्थानमावहतः च।

तुर्क्कीराष्ट्रे चतुःशतम् ऐ एस् प्रवर्तकाः गृहीताः।
इस्ताम्बूल्>रविवासरे आराष्ट्रं कृते अन्वीक्षणे विदेशिसहिताः उपचतुश्शतं इस्लामिक स्टेट् प्रवर्तकाः गृहीताः इति तुर्क्किराष्ट्रेण निगदितम्। मासात्पूर्वं इस्ताम्बूल् नगरे संवृत्तस्य भीकराक्रमणस्यानन्तरं कृतम् ऊर्जितान्वेषणमासीदिदम्। नववत्सरदिने इस्ताम्बूल् नगरस्थे निशालये सम्पन्ने आक्रमणे ३९ जनाः मृताः आसन्।

न्यायाधिपस्य विज्ञापनं परिहास्यमिति ड्रंप्।
वाषिड्टण्>स्वविज्ञापनस्य निरोधकं न्याधिपं प्रति यू एस् राष्ट्रपतिः डोणाल्ट् ट्रंप्। न्यायाधिपस्य मतं परिहास्यं भवति। राष्ट्रस्य नीतिपालनप्रतिरोधकं तत् निष्कासयिष्यतीति तेन ट्विट्टर माध्यमेन उक्तम्। न्यायलयविज्ञापनं प्रति यू एस् नीतिविभागः झटित्येव आवेदनं दद्मः इति वैट् हौस् ज्ञापयति। पूर्वं आगतानि विज्ञापनानि केवलम् आवेदकानां बाधकानि आसन्। परन्तु इदानीन्तन विज्ञापनं पूर्णं राष्ट्रं बाधकं भवति।
   भीकराक्रमणस्य निरोधनाय सप्तराष्ट्राणां ईरनमिति ट्रंपस्य विज्ञापने व्यक्तीकृतम्। २००१ सेप्टंबर एकादशे दिने जातं न्यू योर्क भीकराक्रमणं निदर्शनतया साक्षीकृतम्। किन्तु तदनन्तरं तादृशं आक्रमणं निरोधितस्य सप्तराष्ट्राणां जनैः न कृतमिति न्यायाधिपः जयिंस् रोबर्ट् संस्थापितम्। ट्रंपस्य विज्ञापनं वस्तुताधिष्ठितं स्यात् न तु भावनाधिष्ठितम् इति न्यायशाला समर्पितम्।