OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 15, 2017

Episode 33- Sanskrit News
Archana ER, Saraswati Vidyaniketan HS, Chengamanad, Ernakulam, Kerala.

Tuesday, February 14, 2017

मदिरा,बियर्,वैन् इत्यादीनि मद्यमिति न व्यवहर्तव्यानि इति केरलराज्यम्।
नवदेहली >राजवीथीपार्श्वस्थाः मद्यशालाः मार्च् ३१ पूर्वमेव बन्धनीयाः इति सर्वोच्चन्यायालयःविधिमयच्छत्। तस्मिन् केचन भेदाः राज्यसर्वकारेण आवेदयत्। तेन सह बियर्,वैन्,इत्यादीनि मद्यरूपेण न व्यवहर्तव्यानि इति सर्वकारः न्यवेदयत्। मद्यशालानां रोधनं २०१८ एप्रिल् प्रथम दिनपर्यन्तं न भवेदिति राज्यसर्वकारः अवेदनमदात्।
शशिकलायाः शिबिरात् पुनरपि बहिर्गमनम्। द्वाै अपि पनीर् सेल्वस्य पक्षे लग्नौ।
चेन्नै > अनियमेन धनसम्पादन -व्यवहारे विधिप्रस्तावः समागते सति शशिकलायाः पक्षतः द्वाै अपि पुनरपिनिर्गतौ। मधुर एम् पी गोपालकृष्णः दक्षिणमधुरायाः एम् एल् ए शरवणः च एतौ अनुकूलिनौ। तौ स्वयमेव अनुकूलतांवक्तुं मुख्यमन्त्रिणः पनीर् सेल्वस्य गृहं प्राप्तौआस्ताम्। एवं अष्टविधानसभाङ्गाः पनीर्सेल्वस्य पार्श्वे सन्ति। अण्णा डि एम् के दलस्य पञ्चाशत् विधानसभाङ्गेषु त्रयोदशः पनीर्सेल्वम् अनुगच्छन्ति। दलस्य ३७ संसदङ्गेषु ४/१ अङ्गाः विरुद्धपक्षे स्थिताः इत्यनेन शशिकलायाः पक्षे भयाशङ्काः उद्पाद्यन्ते ।

यू पि, उत्तराखण्ड् - प्रचारणं समाप्तं, श्वः मतदानप्रक्रिया। 
लख्नौ >यू पि राज्ये द्वितीयसोपानस्य तथा उत्तराखण्डे च निर्वाचनप्रचारणस्य समाप्तिः। बुधवासरे मतदानप्रक्रिया भविष्यति। उत्तराखण्ड राज्ये एकोनसप्ततिषु प्रविश्यासु निर्वाचनं भविष्यति।बि एस् पि दलस्य स्थानाशी मार्गदुर्घटनायां हत इत्यतः  एकस्याः प्रविश्यायाः निर्वाचनं परवर्तितम्।
      उत्तरप्रदेशे तु एकादशजनपदस्थासु सप्तषष्टिप्रविश्यासु विधिनिर्णयः भविष्यति।

Monday, February 13, 2017

इन्टर् सेप्टर् बाणः- परीक्षणे विजयः।
बालसोर्(ओडीषा)> द्वितल बालिस्टिक् मिसैल् प्रतिरोध संविधानस्य विकासदशायां सुप्रधान केन्द्रशिला रूपेण भारतस्य युद्धबाणस्य परीक्षणविजयः। ओडीषातीरस्प समीपे विद्यमाने अब्दुल्कलां द्वीपतः ह्यः प्रातः ७.४५ वादने  आसीत् बाणस्य प्रयोगः तीरं प्रति समागतं प्रतीकात्मकं शत्रुबाणं भौमान्तरीक्षात् बहिः एव भञ्ज्य  परीक्षणे विजयं अवाप।  भारतस्य पृथ्वी नाम बाणवेधायुध दौत्यस्य भागः आसीत् परीक्षणम्।  २००० कि.मी दूरतः शत्रु राज्य स्य इति कल्पयित्वा वङ्ग समुद्रस्थ महानौकातः बाणस्य प्रयोगः कृतः। स्वयं नियन्त्रित प्रतिध्वनिग्राहि(RADAR)द्वारा शत्रुबाणं संवीक्ष्य सञ्चार-पथमधिकृत्य सज्ञा स्वीकृत्य शत्रु बाणे लक्ष्यं निधाय बाणः प्रेषितः आसीत्।

सीमा सैनिकेभ्यः व्याजपत्ररुप्यकाणां प्रत्यभिज्ञानाय परिशीलनम्।
कोल्क्कत्त >२००० मूल्यकानां पत्ररुप्यकाणां व्याजपत्राणि प्रत्यभिज्ञानाय सीमारक्षा-भटानां प्रतिज्ञानं दातुं आलोच्यते।
एतदर्थं केन्द्र वित्तकोशधिकारिणा साकम् उपवेशनम् आरब्धम्।
भारत बङ्गलादेशयोः सीमाद्वारा एवा व्याजपत्ररुप्यकाणि आगच्छन्ति इति ज्ञायन्ते। अर्धसैनिकेभ्यः बौद्धिक दलेभ्यः च द्विसहस्रकमूल्यस्य रूप्यकाणि  निन्द्राभङ्गं प्रदास्यन्ति। सुरक्षा संविधानयुक्तंभवति नूतनं रुप्यकपत्रम्। सप्तदशविध विशेषताः सन्ति अस्मिन्। किन्तु अस्याः अर्धांशः अपि सम्पूर्या अगताः भवन्ति नूतनानि पत्ररुप्यकाणि। अतः सत्यं तत्यं च प्रत्यभिज्ञातुं क्लेशः भवति । गतसप्ताहे २००० पत्ररुप्यकाणां ४० व्याजरुप्यकाणि बंगलादेशस्य मुर्षिदाबाद् जनपदात् एकस्य युवकस्य पार्श्वतः गृहीतानि सन्ति।

 काश्मीरे संघट्टनं - चत्वारः भीकराः हताः, द्वयोः सैनिकयोः वीरमृत्युः।
श्रीनगरम्> जम्मु काश्मीरस्य कुल्हाम् जनपदे भीकरैः सह रविवासरे उषसि संवृत्ते संघट्टने चत्वारः हिस्बुल् मुजाहिदीन् भीकराः मृताः। द्वौ सैनिकौ वीरमृत्युं प्राप्तवन्तौ। द्वौ प्रदेशवासिनौ च मृतौ।
     कुल्हाम् जनपदे नगबाल् ग्रामे कस्मिंश्चित् भवने भीकराः निलीयमानाः वर्तन्ते इति सूचनानुसारं सैन्य-अर्धसैन्य-रक्षिपुरुषविभागानां संयुक्तान्वेषणस्य अन्ते भुषुण्डिप्रयोगः कृतः।

 दृष्टिबाधितजनानां २०-२०
विश्वक्रिकेट्चषकक्रिडायां भारतेन जय: प्राप्त:
दृष्टिबाधितजनानां विंशति-प्रतिविंशति क्षेपचक्रीय विश्वक्रिकेटचषकस्पर्धायां भारतीय क्रीडकदलेन पाक्किस्थानं विरुद्ध्य द्वितीयवारं विजयोSधिगत:। पाक्किस्थानस्य नवक्रीडकाणां हानिपुरस्सरं सप्तनवत्युत्तरैकशतं धावनांकानां लक्ष्यमनुसरता भारतेन नवक्रीडकाणां सुरक्षापूर्वकं स्पर्धेयं विजिता। भारतस्य प्रकाशजयरमैया इत्यनेन  ९९ धावनांकाः समार्जिताः।


Sunday, February 12, 2017

अष्टवयस्का ऑण्लैन् वार्तावतारिका समादृता।
कोच्‍ची >अल्पवयस्का वार्तावतारिका अहल्या मरोहरः ५०० रुप्यकाणां धनपारितोषिकत्वेन सम्मानिता । एषा तृतीयकक्ष्यायां छात्रा एव। वाग्भटसरण्या आयोजिते शास्त्रमथनं नाम राष्ट्रियकार्यक्रमे आसीत् एतादृशम् अनुमोदनम्। अनया सुव्यक्तया रीत्या कृतं वार्तावाचनं दृष्ट्वा प्रेक्षकाः अद्‌भुतस्तब्धाः अभवन्। तदा सम्प्रीतेन डॉ जे आर् प्रसाद् वर्येण मुद्रापत्रद्वारा बालिका समादृता आसीत्। हैदराबाद् विश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्षः भवति प्रसाद् वर्यः। सम्प्रतिवार्तायाः वार्तावतारकेषु लघुतमा बालिका भवति अहल्या। ऑण्लैन् वार्तामाध्यमेषु विद्यालय-छात्राणां वार्तावतरणम्  विश्वे प्रप्रथममेव। आयुर्वेदभिषग्भिः आयुर्वेदसरण्याः प्रचाराय आयोज्यमानं दलं भवति वाग्भटसरणी।

 पृष्ठासनस्थैरपि शिरस्त्राणं धर्तव्यम्!
हरिप्पाट् > केरले द्विचक्रिकायानेषु पृष्ठासनस्थानां यात्रिकाणामपि शिरस्त्राणधारणम् आवश्यकमिति यन्त्रयानाधिकारिणां निर्देशः। शिरस्त्राणं विना यात्रायै यन्त्रयाननियमम् १२८अनुसृत्य यानचालकं  शतरूप्यकाण्येव दण्डनम्।
      द्विचक्रिकाचालकैः पृष्ठभागस्थितैश्च शिरस्त्राणं धर्तव्यमिति व्यवस्था अस्त्यपि प्रायोगिकदुष्करेण कर्कशा नासीत्। किन्तु द्विचक्रिकादुर्घटनानाम् आधिक्यः पुनर्विचिन्तनाय अधिकृतान् प्रेरयति स्मः।

Saturday, February 11, 2017

 उत्तरप्रदेशे निर्वाचनस्य प्रथमचरणम् अद्य।
लख्नौ> उत्तरप्रदेशराज्ये विधानसभानिर्वाचनस्य प्रथमचरणे त्रिसप्ततीनां नियोजकस्थानानां जननिर्णयः शनिवासरे भविष्यति। राज्यस्य पश्चिममण्डलान्तर्गतेषु पञ्चदशजनपदेष्वेव अद्य मतदानं प्रचलति। तत्र धर्मसंघर्षैः कुप्रसिद्धिमार्जितौ मुसाफिर् षंलि जनपदे च अन्तर्भवतः।
   प्रथमसोपाने २.५९कोटि जनाः विधिकर्तारः भविष्यन्ति। तेषु २४ लक्षं मतदातारः प्रप्रथमतया एव मतविनियोगं कुर्वन्ति। आहत्य चरणसप्तकेनैव यू पि राज्ये निर्वाचनं पूर्णताम् प्राप्स्यति।

 मङ्गलयानस्य भ्रमणपथः परिवर्तितः, आयुरपि वर्धितम्।
मङ्गलुरु> भारतस्य प्रथममङ्गलग्रहपर्यवेषणोपग्रहस्य मङ्गलयानस्य प्रवर्तनं सजीवं कर्तुं भ्रमणपथः परिवर्तितः। अनेन अस्य आयुरपि संवत्सरत्रयं वर्धितम्।
    जनुवरि १७तमे दिनाङ्के मङ्गलयानं नवीनं भ्रमणपथं प्राप्तम्।



राज्यपालस्य समक्षं मुख्यमन्त्रिस्थानाय अर्हतां समर्पितवती शशिकला
चेन्नै >गुरुवासरे AIADMK दलस्य महासचिव पदे आरुढा शशिकला नटराजन् तमिलनाडु राज्यस्य राज्यपालेन सी विद्यासागर रावु महोदयेन सह मिथो भाषणं कृतवती। परं राज्यपाल महोदयेन अस्मिन् विषये स्पष्टरुपेण नोक्तम्। वर्तमान मुख्यमंत्री ओ पनीरसेल्वम् महोदयेनोक्तं जना: शशिकलायै विश्वासघातस्य फलं अवश्यमेव यच्छन्ति। अनन्तरं तेनोक्तं शशिकला दिवंगतया: मुख्यमंत्रीण्या: जयललिताया: साकमपि विश्वासघातं कृतवति इति। तस्मिन् सन्दर्भे ओ पनीरसेल्वम् कश्चन् पुरातनं पत्रमपि वाचितवान्। राज्यपाल सी विद्यासागर राव महोदयेनोक्तं यत् अस्मिन सन्दर्भे अहं विधि विशेषज्ञानां परामर्शानन्तरमेव अग्रे किमपि वदामि।

Friday, February 10, 2017

दूरवाणी उपयोगिनां प्रत्यभिज्ञानमावश्यकम् इति नीतिपीठम्।
एकवर्षाभ्यन्तरे कर्यान्वयनमिति सर्वकारः।
नवदेहली-राष्ट्रस्य १०० कोटि दूरवाणी उपयोगिनां तथा तथा भाविनि उपयोगिनां चअभिज्ञानानि संशोधयितुं सफला उपाधिः एकवर्षाभ्यन्तरे निर्मातव्या इति परमोन्नत नीतिपीठं केन्द्रसर्वकारं निरदिशत्।
 आधाराधिष्ठित के वै सी उपाधिना एतत् शक्यते इति केन्द्रसर्वकारः अवदत्।इदानीं उपयोगिषु ९० प्रतिशतं पूर्वव्ययीनः(prepaid)सन्ति।
  दूरवाणी पुनःपूरणाय  (recharge)आगमनावसरे अभिज्ञानानि स्वीकर्तुं शक्यतेति नीतिपीठं अभिप्रैति।

Thursday, February 9, 2017

लवणजलं पानाय परिवर्तनं कृत्वा - भारतीयः विद्यार्थी।
सान्-फान्सिस्को > लवणजलं लघुव्ययेन पानीयं कर्तुं नूतनया विद्यया चैतन्यः नामकः विद्यार्थी । यू एस् साम्राज्यस्य विख्याताः विश्वविद्यालयाः प्रमुखाः वैज्ञानिकसंस्थाः च अस्य अनुसन्धाने तत्परतां प्रकाशिता सन्ति।
पोर्ट्लाण्डस्य  ओरिगनिल् जे स्यूट् उच्च विद्यालयस्य विद्यार्थी चैतन्यः करंचेदु एव कुशलः अयं बालकः । एषः कक्ष्यायां परीक्षणप्रदर्शनेन लवण २०-२० क्रिडायां भारतेन जय: प्राप्त:युक्तं जलं पानयोग्यम् अकरोत्। शुद्घजलाभावेन पीडितः आसीत् इत्यनेन अनुसन्धानाय प्रेरणाम् अलभत इति सः कथितवान् ।
भूभागेषु प्रतिशतं सप्तति (७०%) भागाः समुद्रजलमेव- किन्तु लवणजलमेव। यावत्कालं लवणांशनिवारणाय समीचीन मार्गाय वैज्ञानिकः श्रमम् अकुर्वन्। तथापि अल्पव्ययेन तत् असाघ्यमासीत् । इदानीं चैतन्यस्य प्रयत्नेन तत् साध्यमभवत् । सागरजले  प्रतिशतं दश अंशाः एव लवणः । चैतन्यः पोलिमर् द्वारा लवणांशः निवारितवान्।

 भारतीया क्रिक्कट् क्रीडा। 
दृक्साक्षिविवरणं संस्कृतभाषया
वाराणसी> धर्मशालायां नूतनरीत्या क्रिक्कट् क्रीडा आयोजिता। परम्परागतवैदेशिकवस्त्राणां स्थाने भारतीयसंस्कृतिद्योतकं वस्त्रधारणं - धोत्ती कुर्ता च - स्वीकृतम्। विशिष्य दृक्साक्षिविवरणमपि संस्कृतभाषायामेव कृतम्।

२०-२० क्रिडायां भारतेन जय: प्राप्त:
अधुनाsपि अस्माकं भारतदेशे तादृशा: बहव: जना: सन्ति ये च दिव्यांगानामुपरि हसन्ति। परञ्च अस्माकम् भारतीय-दिव्यांग-क्रिकेट् क्रिडकदलेन प्रस्तुति कृतं यत् वयं अपि पृष्ठे न स्म इति। न्यूसिलन्ड् देशं विरुद्ध्य क्रीडन्त: भारतीयदलेन जयं प्राप्य सेमीफाइनल मध्ये स्व स्थानं सुरक्षीकृतम्। न्यूसिलन्ड् दलस्य पक्षत: १३७ अंकानां लक्ष्यं लब्धमासीत् परञ्च भारतस्य पक्षत: अजयकुमार रेड्डी इत्याख्येन क्रिडकेन २८ कन्दुकक्षेपणे ७५ अंका: प्राप्ता: अनेन भारतेन सारल्येन जय: प्राप्त:।

Wednesday, February 8, 2017

 ऐ एस् शिबिरे शताधिकाः भारतीयाः।
करिप्पूर्> अफ्गानिस्थानस्थे नाङ्गर् हार् ऐ एस् भीकरसंस्थायाः शिबिरे शताधिकाः भारतीययुवकाः परिशीलनं कुर्वन्तः सन्तीति देशीय अन्वीक्षणविभागाय ( एन् ऐ ए) सूचना लब्धा। अफ्गानराष्ट्रस्य  रहस्यान्वेषण विभागेनैव एतदधिकृत्य वृत्तान्तः भारतविभागाय दत्तः।
      ऐ एस् संस्थया सह मेलितुं देशं त्यक्तवन्तः द्वाविंशतिः केरलीयाः अन्ये बहवश्च नाङ्गर् हार् प्राप्तवन्तः इति पूर्वमेव एन् ऐ ए विभागेन प्रत्यभिज्ञातमासीत्। किन्तु त्रिंशदधिकं केरलीयाः शिबिरं प्राप्ताः इति सूचना अस्ति।

चतुर्वयस्कः शिशुः अपि शिस्त्राणं धर्तव्यः।
नवदिल्ली> द्विचक्रिकया यात्रासन्दर्भै शिशवः अपि सुरक्षिताः भवन्तु इति सुचिन्तया एव ईदृशः नियमनिर्माणः क्रियते। यान्त्रिकवाहननियमानां परिवर्तनाय संस्थापिता विधानसभायाः सुस्थिरसमित्या एव सर्वकारः आदिष्टा। शिशुनां तथा प्रौढानां च शिरस्त्राणस्य उत्तमोपयोगक्षमता आवश्यकम् इति च समित्या निर्दिष्टः। तथा वेगपरिधिना सह वाहननिर्माणः भवतु। क्षमतारहिताः शिरस्त्राणनिर्माणः दण्डनीयः भवितव्यः इति च समितिना दत्ते निर्देशे प्राधान्यत्वेन उल्लिखितम्।

20-20 क्रिकेट् विश्व-कप् स्पर्धा
दृष्टिबाधितजनानां 20-20 क्रिकेट् विश्व-कप् स्पर्धायां  भारतेन  न्यूजीलैंड् दलं नवक्रीडकाणां सुरक्षापूर्वकं पराभूतम्। न्यूजीलैंडदलेन  निर्धारित 20 क्षेपचक्रेषु  6 क्रीडकाणां हानौ 136 धावनांकाः समर्जिताः प्रत्युत्तरे  भारतीयदलेव  9 क्षेपचक्रेष्वेव विजयोधिगतः। शृंखलायामद्य भारत-नेपालयोर्मध्ये  स्पर्धा भविष्यति।

राज्यद्वये नैर्वाचनिकोष्णता विवर्धतेतराम्।
 उत्तरप्रदेशोत्तराखण्योः विधानसभेयनिर्वाचनानि आलक्ष्य राज्यद्वये नैर्वाचनिकोष्णता विवर्धतेतराम्।  बहुजनसमाजदलप्रमुखया  मायावत्या  गाजियाबादे सपादलं भृशमालोचितम्। तयोक्तं यत्  सपाप्रशासनेन तस्याः योजनानां नाम परिवर्त्य श्रेयोधिग्रहणस्य प्रयासः क्रियते इति उत्तराखण्डे भाजपाध्यक्षेण अमितशामहोदयेनोक्तम्।  कांग्रेसशासने भ्रष्टाचारस्य अराजकतायाश्च स्थितिः समुत्पन्ना।
Episode 32- Sanskrit News
Sneha MV, Std 9, RK Mission HSS. Meenchanda, Kozhikkodu-18.
Episod 32, Sneha M V, R K M HSS, Kozhikkodu, Kerala.

Tuesday, February 7, 2017

यू पि निर्वाचनं - स्थानाशिनेषु प्रतिशतं विंशतिः अपराधिनः।
 नवदिल्ली> उत्तरप्रदेशनिर्वाचने प्रथमसोपाने स्पर्धमाणेषु स्थानाशिनेषु प्रतिशतं विंशतिपरिमिताः अपराधिन इति ए डि आर् (Association for democratic)नामिकया संस्थया प्रकाशितः अन्वीक्षणवृत्तान्तः। एवमस्ति तस्याः प्रवादः - पत्रिकासमर्पणं कृतवत्सु स्थानाशिनेषु भाजपा दलीयेषु प्रतिशतं चत्वारिंशत् परिमिताः विविधेषु विषयेषु अपराधित्वेन उद्घोषिताः सन्ति। त एव पट्टिकायां प्रथमस्थानमावहन्ति। द्वितीयस्थाने तु प्रतिशतम् अष्टत्रिंशत् परिमितैः स्थानाशिभिः बि एस् पि दलं वर्तते। राष्ट्रिय लोक दलं ३३% , तथा एस् पि दलं २९%इति यथाक्रमं तृतीय चतुर्थ स्थानमावहतः च।

तुर्क्कीराष्ट्रे चतुःशतम् ऐ एस् प्रवर्तकाः गृहीताः।
इस्ताम्बूल्>रविवासरे आराष्ट्रं कृते अन्वीक्षणे विदेशिसहिताः उपचतुश्शतं इस्लामिक स्टेट् प्रवर्तकाः गृहीताः इति तुर्क्किराष्ट्रेण निगदितम्। मासात्पूर्वं इस्ताम्बूल् नगरे संवृत्तस्य भीकराक्रमणस्यानन्तरं कृतम् ऊर्जितान्वेषणमासीदिदम्। नववत्सरदिने इस्ताम्बूल् नगरस्थे निशालये सम्पन्ने आक्रमणे ३९ जनाः मृताः आसन्।

न्यायाधिपस्य विज्ञापनं परिहास्यमिति ड्रंप्।
वाषिड्टण्>स्वविज्ञापनस्य निरोधकं न्याधिपं प्रति यू एस् राष्ट्रपतिः डोणाल्ट् ट्रंप्। न्यायाधिपस्य मतं परिहास्यं भवति। राष्ट्रस्य नीतिपालनप्रतिरोधकं तत् निष्कासयिष्यतीति तेन ट्विट्टर माध्यमेन उक्तम्। न्यायलयविज्ञापनं प्रति यू एस् नीतिविभागः झटित्येव आवेदनं दद्मः इति वैट् हौस् ज्ञापयति। पूर्वं आगतानि विज्ञापनानि केवलम् आवेदकानां बाधकानि आसन्। परन्तु इदानीन्तन विज्ञापनं पूर्णं राष्ट्रं बाधकं भवति।
   भीकराक्रमणस्य निरोधनाय सप्तराष्ट्राणां ईरनमिति ट्रंपस्य विज्ञापने व्यक्तीकृतम्। २००१ सेप्टंबर एकादशे दिने जातं न्यू योर्क भीकराक्रमणं निदर्शनतया साक्षीकृतम्। किन्तु तदनन्तरं तादृशं आक्रमणं निरोधितस्य सप्तराष्ट्राणां जनैः न कृतमिति न्यायाधिपः जयिंस् रोबर्ट् संस्थापितम्। ट्रंपस्य विज्ञापनं वस्तुताधिष्ठितं स्यात् न तु भावनाधिष्ठितम् इति न्यायशाला समर्पितम्।

Monday, February 6, 2017

तमिळ् नाट् राज्ये शशिकला मन्त्रिमुख्या भविष्यति। 
चेन्नै>तमिळनाट् राज्यस्य विधानसभायां शासनपक्षस्य ए ऐ ए डि एम् के दलस्य नेतृस्थाने यशश्शरीरिण्याः मुख्यमन्त्रिण्याः जयललितायाः प्रियसखी शशिकला नटराजः चिता।
    ह्यः सम्पन्ने शासनपक्षदलस्य समावेशने मुख्यमन्त्री ओ. पनीर् शेल्वं शशिकलायाः नाम निरदिशत्। सभया ऐककण्ठ्येन तदङ्गीकृतम्। तदनन्तरं पनीर् शेल्वं  मुख्यमन्त्रिस्थानं परित्यक्तवान्। आगामिगुरुवासरे नियुक्तमन्त्रिमुख्यायाः स्थानारोहणं भविष्यति। राज्यपालः विद्यासागररावः राज्यस्य नवीनघटनाविशेषान् केन्दसर्वकाराय न्यवेदयितुं दिल्लीं गतवान्।

लक्षत्रयादधिकसंख्याकानां मुद्रापत्रस्य विनिमयाय प्रतिशतं शतं रुप्यकाणि दण्डः ।
नव दिल्ली > केन्द्र -बड्जट् निर्देशे लक्षत्रयाधिकानां रुप्यकाणां मुद्रापत्रक-विनिमयस्य निरोधः। नियमलंघनाय प्रतिशतं शतं रुप्यकाणां दण्डः च । उदाहरणतया मुद्रापत्रेण लक्षचतुष्टयस्य विनिमयः भविष्यति चेत् चतुर्लक्षं रुप्यकाणि दण्डवत् निभृतम् भविष्यति। नियमः एप्रिल् मासादारभ्य प्रबलः भविष्यति इति केन्द्र आयकर विभागास्य सेक्रट्टरि 'हस् मुक् आदिय' अवदत् ।
 मुद्रापत्र निरोधनेन व्याजधनस्य अनुमानं भविष्यति। भाविनिकाले एतावत् स्थितिः अनुवर्तनीयः इति मत्वा एव निरोधः I बाङ्गिङ्‌ पोस्टोफीस्, सहकृत वित्तकोशा च नियमात् बहिः संरक्षितः वर्तते।

Sunday, February 5, 2017

पञ्चाब् - ७२ , गोवा ७३  मतदानं सम्पन्नम्।
कोच्ची >पञ्चाब् गोवा राज्ययोः विधानसभानिर्वाचनार्थं मतदानं सम्पूर्णम्। पञ्चाबराज्ये प्रतिशतं द्विसप्तति जनैः सम्मतिदानं विनियुक्तम्। एतत् गतनिर्वाचनात् न्यूनं भवति। २०१२ तमे ७८.५७ आसीत् मतदानमानम्।
    गोवायां तु मतदानमानं वर्धितम्। गतनिर्वाचने प्रतिशतं ८१.७ इत्येतत् अस्मिन् समये प्रतिशतं त्र्यशीति इति वर्धितमभवत्।  मतगणना मार्च् एकादशदिनाङ्के भविष्यति।

ऑण् लैन् धनविनिमयाय सेवाशुल्कः न भविष्यति।
नव दिल्ली > वित्तकोशद्वारा क्रियमाणः ऑण् लैन् धनविनिमयः सेवनशुल्कं विना कर्तुं केन्द्र-वित्तमन्त्रालयेन प्रक्रिया आरब्धा। मुद्रपत्र रहित सम्पद्व्यवस्था इति लक्ष्यप्रप्तेः बाधा रूपेण वर्तते सेवाशुल्कः। तस्य निरासाय वित्तमन्त्रालयस्य उन्नताधिकारिणः वित्तकोशाधिकारिणा साकं चर्चा आरब्धाधा। सर्वकारसेवासु अपि ऑण्लैन् द्वारा वित्तविनिमयाय शुल्कनिरासं कर्तुं प्रक्रिया विना विलम्बं भविष्यति। राजनैतिकदलेभ्यः धनस्वीकरणाय कृतायां 'इलक्ट्रल् बोण्ड्' व्यवस्थायां कालपरिधि  योजयितुमपि सर्वकारेण चिन्त्यते।

आपघाते पतितः युवकः प्राणान् याचितवान्।
जनाः सेल्फि गृहीतवन्तः
बेङ्गलूरु > आधुनिकानां जनानां निर्दयत्वं प्रमाणीकृत्य पुनरपि दुःखवार्ता। अपघाते पतितः अष्टादशवर्षीयः युवकः स्वप्राणरक्षणाय अयाचत। केचन विगण्य गताः, केचन सेल्फीग्रणं कृतवन्तः, केचन चलनचित्रग्रहणरताः च आसन्। अन्ते रुधिरस्रावेन परिक्षीणितस्य युवकस्य सहायार्थं मृत्यु: आगतः।
कर्णाटक राज्यस्य हूबल्ली समीपे कोप्पालि देशे एव दुरन्तः जातः। अन्वर् अलि नामकः अष्टादशवयस्काय युवकाय एव सहजीविनां मनुष्याणां कारुण्यहीनतया जीवः नष्टः। भूपत्र (Tiles)विक्रयणशालायां कर्मकरः आसीनः एषः प्रातः अष्टवादने द्विचक्रिकया आपणं प्रति गच्छन्नासीत् । तदा कर्णाटक सर्वकारीय-लोकयानम् तस्योपरि घट्टितम्। तस्य ऊरुः भग्नः । समीपे आतुरालयः आसीत् तथापि कोऽपि तं रक्षितुं नोद्युक्ताः अन्ते आगतः श्रीधरः नाम स्नातकबिरुदविद्यार्थी ओट्टो रिक्षाचालकानां सहायं प्रार्थयत। किन्तु चालकैः निर्दयं याचना निरस्ताः, अन्ते तं आम्बुलन्स् आहूय आतुरालयं प्रेषितवान् । श्रीधरस्य आगमनसमये बहवः जनाः युवकं परितः स्थित्वा छायाग्रहणं कुर्वन्तः सन्ति इति सः अवदत्। मध्याह्ने द्विवादने युवकः मृतः ।

संस्कृताध्यापकानां संस्कृतप्रणयिनाञ्च सहकारिता आवश्यकी- 'संस्कृतध्वनिः'
कोष़िक्कोट् >संस्कृतिः संस्कृतेन, संस्कृतं मम जीवितायनम् इति सन्देशद्घुष्य प्रवर्तमानस्य केरल-संस्कृताध्यापक फेडरेषन् संघस्य मुखपत्रिका संस्कृतध्वनिः प्रकाशिता। शिक्षा क्षेत्रे विद्यमानानां द्विसहस्राधिकानाम् अध्यापकानां षष्टा पत्रिका भवत्येषा। सङ्घस्य ३९तम राज्यस्तरीय वार्षिकमेलनसभायां केरळस्य प्रशस्तसाहित्यकारः यू के कुमारः पत्रिकायाः प्रकाशनमकरोत् । पत्रिकायाः सम्पादकः श्री रमेश् नम्पीशन् उपदेशक-समित्यङ्गानि वेणु चोव्वल्लूर्, पी जी अजित्त् प्रसाद्‌, टी के सन्तोष्‌ कुमार्, सि सुरेष् कुमार्, सङ्घस्य प्राक्तनाध्यक्षः क्रष्णन् नायर् च सन्निहितानि आसन् ।
केरळेषु प्रथमकक्ष्यातः आरभ्य संस्कृतकक्ष्या प्रचलति। तत्र च समस्या बह्वयः च वर्तन्ते। ताः परिहर्तुं संस्कृताध्यापकानां संस्कृतप्रणयिनाञ्च सहकारिता सख्यश्च आवश्यकी भवतीति 'संस्कृतध्वनिः' उद्‌घोषयति।

Saturday, February 4, 2017

महाकविः "जि" विश्वमानवकल्पः - एस् के वसन्तः। 
कोच्ची - भारतस्य प्रथमज्ञानपीठपुरस्कारजेता केरलीयः महाकविः जि. शङ्करक्कुरुप्प् वर्यः विश्वमानवकल्पः भारतीयः आसीदिति प्रशस्तः साहित्यनिरूपकः एस् के वसन्तः अवदत्। महाकवेः एकोनचत्वारिंशत्तमे चरमसंवत्सरदिने तस्य जन्मग्रामे नायत्तोट् प्रदेशे आयोजिते सम्मेलने अनुस्मरणप्रभाषणं कुर्वन्नासीत् सः।
     भारतस्य विश्वपौरः इति प्रसिद्धस्य रवीन्द्रनाथ ठक्कुरस्य विश्वदर्शनपर्यन्तं जि वर्यस्यापि विश्वदर्शनम् औन्नत्यमावहतीति वसन्तमहोदयेन समर्थितम्। किन्तु नवीनपरम्परया महाकविः तस्य काव्यानि  तथा काव्यदर्शनं च सम्यगवगन्तव्यानीति तेनोक्तम्।
    प्रसिद्धकविना चलनचित्रगानरचयित्रा कैतप्रं दामोदरन् नम्पूतिरि वर्येण अनुस्मरणसम्मेलनस्य उद्घाटनं कृतम्।केरलविधानसभायाः अङ्कमाली सदस्यः रोजी एम्  जोण् भूतपूर्वसदस्यः जोस् तेट्टयिल् नगरसभाध्यक्षा एम् ए ग्रेसी  इत्यादयः आशंसाः समर्पितवन्तः।
    अनुस्मरणदिनमनुबद्ध्य छात्रेभ्यः आयोजितानां रचनास्पर्धानां पुरस्कारदानमपि सम्पन्नम्।  तदनन्तरं महाकवेः "चन्दनक्कट्टिल्" नामकस्य काव्यस्य मोहिनियाट्टनृत्ताविष्कार अपि सम्पन्नः।

 राष्ट्रपतेः अभिभाषणस्योपरि धन्यवादप्रस्तावः 
नवदिल्ली >केन्द्रीयमन्त्री रविशंकरप्रसादेन राष्ट्रपतेः अभिभाषणस्य उपरि धन्यवादप्रस्तावावसरे परिचर्चां कुर्वता प्रोदीरितं यत् जनशक्तेः विकासोन्मुखराष्ट्रशक्तित्वेन परिवर्तनार्थं केन्द्रप्रशासनेन भूरि पदक्षेपाः समुत्थापिताः, येषु निर्धन-वञ्चित-दलित-पीडित-दिव्यांगजनानां कृते प्रारब्धाः प्राशासनिकयोजनाः प्रामुख्यं भजन्ते | अपि च एदर्थं रविशंकरप्रसादेन प्रधानमंत्री श्रीमोदी श्लाघितः |

Friday, February 3, 2017

संस्कृतशैक्षिक सम्मेलनम् केरलस्य गतागमन्त्री ए के शशीद्रः उद्‌घाटनं करोति।
लोकभाषायाः जननी संस्कृतम् - पुरुषन् कटलुण्डि। 
कोष़िक्कोट्> संस्कृतभाषायाः महत्वः ज्ञेयः । तद् अज्ञात्वा वयं अत्र जीवनं कुर्मः । लोकभाषायाः माता संस्कृतमेव। अतः संस्कृत भाषायाः प्रचारः आवश्यकः इति साहित्यकारः तथा केरलविधानसभाङ्गः पुरुषन् कटलुण्डि महोदयः अवदत् । केरल - संस्कृताध्यापक फेडरेषन् संस्थायाः प्रतिनिधिसम्मेलनम् उद्घाट्य भाषमाणः आसीत् सः। अध्यापकः आदरणीयः तथापि संस्कृताध्यापकानां पि एफ् सुविधा न लप्स्यते। पि एफ् लब्ध्यर्थं यत् शक्यते तत् साध्यं कर्तुं प्रत्नं करिष्ये इति तेन उच्यते।


एकाभिनयेन प्रशोभितं मेघायनम्
कोष़िकोट्> कालिदासस्य मेघसन्देशस्य रङ्गभाष्यं मेघायनं कालास्वादकानं हृदयानि आकर्षयन् ।  केरळ संस्कृताध्यापक फेडरेषन् संस्थायाः एकोनचत्वारिशे वार्षिकसमेलने प्रवृत्ते कला-कार्यक्रमे एव एकाभिनयोयं सम्पन्नः ।
कला मण्डलं प्रशोभ् वर्येण एव यक्षस्य  विरहदुःखमिदं रङ्गमञ्चे अभिनीतम् । एकपात्राभिनयः इति नामयुक्तः नाट्यरूपः इदानीम् आस्वादकलोके प्रसिद्धः अभवत् । संस्कृत भाषा सरला इति भावना समुद्पादयितुं नाट्यमिदम् उपकृतम् ।
डिजिटल् परिवर्तनस्य ग्रामीणमण्डलस्य च प्राधान्येन भारतस्य आयव्ययपत्रकम्।
नवदिल्ली >मुद्रारूप्यकनिरासेन सञ्जातं मान्द्यं तर्तुं ग्रामीण कार्षिकमण्डलेभ्यः यथेष्टं दत्वा मोदिसर्वकारस्य चतुर्थम् आयव्ययपत्रकं वित्तमन्त्रिणा अरुण् जेट्लिवर्येण लोकसभायाम् अवतारितम्। व्याजधनं तथा करस्य छलापहरणं च निवारयितुं मुद्रारूप्यकरहित विनिमयान् [डिजिटल] प्रोत्साहयितुं निर्देशाः सन्ति।

भारत-इंग्लैण्डयोः २०-२० क्रिकेटशृंखला भारतेन विजिता
विंशतिः-विंशतिक्षेपचक्रीयक्रिकेटस्पर्धां पञ्चसप्ततिधावनांकैः विजित्य शृंखलेयं भारतीयदलेन स्वायत्तीकृता यजुवेन्द्रचहलः सर्वश्रेष्ठक्रीडाप्रदर्शनाय शृंखलापुरुषत्वेन प्रचितः |

प्रधानमंत्रिणा मोदिना अरुणजेटली वर्धापितः
प्रधानमंत्रिणा मोदिना समीचीन-आयव्ययपत्रक-प्रस्तुतिमालक्ष्य वित्तमन्त्री अरुणजेटली वर्धापितः प्रोक्तं च यत् अनेन आयव्ययपत्रक़ेण देशस्य- अर्थव्यवस्था सुदृढा, निर्धनानां स्थितिः च समुचिता भविष्यति
 ।