OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 9, 2017

लवणजलं पानाय परिवर्तनं कृत्वा - भारतीयः विद्यार्थी।
सान्-फान्सिस्को > लवणजलं लघुव्ययेन पानीयं कर्तुं नूतनया विद्यया चैतन्यः नामकः विद्यार्थी । यू एस् साम्राज्यस्य विख्याताः विश्वविद्यालयाः प्रमुखाः वैज्ञानिकसंस्थाः च अस्य अनुसन्धाने तत्परतां प्रकाशिता सन्ति।
पोर्ट्लाण्डस्य  ओरिगनिल् जे स्यूट् उच्च विद्यालयस्य विद्यार्थी चैतन्यः करंचेदु एव कुशलः अयं बालकः । एषः कक्ष्यायां परीक्षणप्रदर्शनेन लवण २०-२० क्रिडायां भारतेन जय: प्राप्त:युक्तं जलं पानयोग्यम् अकरोत्। शुद्घजलाभावेन पीडितः आसीत् इत्यनेन अनुसन्धानाय प्रेरणाम् अलभत इति सः कथितवान् ।
भूभागेषु प्रतिशतं सप्तति (७०%) भागाः समुद्रजलमेव- किन्तु लवणजलमेव। यावत्कालं लवणांशनिवारणाय समीचीन मार्गाय वैज्ञानिकः श्रमम् अकुर्वन्। तथापि अल्पव्ययेन तत् असाघ्यमासीत् । इदानीं चैतन्यस्य प्रयत्नेन तत् साध्यमभवत् । सागरजले  प्रतिशतं दश अंशाः एव लवणः । चैतन्यः पोलिमर् द्वारा लवणांशः निवारितवान्।

 भारतीया क्रिक्कट् क्रीडा। 
दृक्साक्षिविवरणं संस्कृतभाषया
वाराणसी> धर्मशालायां नूतनरीत्या क्रिक्कट् क्रीडा आयोजिता। परम्परागतवैदेशिकवस्त्राणां स्थाने भारतीयसंस्कृतिद्योतकं वस्त्रधारणं - धोत्ती कुर्ता च - स्वीकृतम्। विशिष्य दृक्साक्षिविवरणमपि संस्कृतभाषायामेव कृतम्।

२०-२० क्रिडायां भारतेन जय: प्राप्त:
अधुनाsपि अस्माकं भारतदेशे तादृशा: बहव: जना: सन्ति ये च दिव्यांगानामुपरि हसन्ति। परञ्च अस्माकम् भारतीय-दिव्यांग-क्रिकेट् क्रिडकदलेन प्रस्तुति कृतं यत् वयं अपि पृष्ठे न स्म इति। न्यूसिलन्ड् देशं विरुद्ध्य क्रीडन्त: भारतीयदलेन जयं प्राप्य सेमीफाइनल मध्ये स्व स्थानं सुरक्षीकृतम्। न्यूसिलन्ड् दलस्य पक्षत: १३७ अंकानां लक्ष्यं लब्धमासीत् परञ्च भारतस्य पक्षत: अजयकुमार रेड्डी इत्याख्येन क्रिडकेन २८ कन्दुकक्षेपणे ७५ अंका: प्राप्ता: अनेन भारतेन सारल्येन जय: प्राप्त:।

Wednesday, February 8, 2017

 ऐ एस् शिबिरे शताधिकाः भारतीयाः।
करिप्पूर्> अफ्गानिस्थानस्थे नाङ्गर् हार् ऐ एस् भीकरसंस्थायाः शिबिरे शताधिकाः भारतीययुवकाः परिशीलनं कुर्वन्तः सन्तीति देशीय अन्वीक्षणविभागाय ( एन् ऐ ए) सूचना लब्धा। अफ्गानराष्ट्रस्य  रहस्यान्वेषण विभागेनैव एतदधिकृत्य वृत्तान्तः भारतविभागाय दत्तः।
      ऐ एस् संस्थया सह मेलितुं देशं त्यक्तवन्तः द्वाविंशतिः केरलीयाः अन्ये बहवश्च नाङ्गर् हार् प्राप्तवन्तः इति पूर्वमेव एन् ऐ ए विभागेन प्रत्यभिज्ञातमासीत्। किन्तु त्रिंशदधिकं केरलीयाः शिबिरं प्राप्ताः इति सूचना अस्ति।

चतुर्वयस्कः शिशुः अपि शिस्त्राणं धर्तव्यः।
नवदिल्ली> द्विचक्रिकया यात्रासन्दर्भै शिशवः अपि सुरक्षिताः भवन्तु इति सुचिन्तया एव ईदृशः नियमनिर्माणः क्रियते। यान्त्रिकवाहननियमानां परिवर्तनाय संस्थापिता विधानसभायाः सुस्थिरसमित्या एव सर्वकारः आदिष्टा। शिशुनां तथा प्रौढानां च शिरस्त्राणस्य उत्तमोपयोगक्षमता आवश्यकम् इति च समित्या निर्दिष्टः। तथा वेगपरिधिना सह वाहननिर्माणः भवतु। क्षमतारहिताः शिरस्त्राणनिर्माणः दण्डनीयः भवितव्यः इति च समितिना दत्ते निर्देशे प्राधान्यत्वेन उल्लिखितम्।

20-20 क्रिकेट् विश्व-कप् स्पर्धा
दृष्टिबाधितजनानां 20-20 क्रिकेट् विश्व-कप् स्पर्धायां  भारतेन  न्यूजीलैंड् दलं नवक्रीडकाणां सुरक्षापूर्वकं पराभूतम्। न्यूजीलैंडदलेन  निर्धारित 20 क्षेपचक्रेषु  6 क्रीडकाणां हानौ 136 धावनांकाः समर्जिताः प्रत्युत्तरे  भारतीयदलेव  9 क्षेपचक्रेष्वेव विजयोधिगतः। शृंखलायामद्य भारत-नेपालयोर्मध्ये  स्पर्धा भविष्यति।

राज्यद्वये नैर्वाचनिकोष्णता विवर्धतेतराम्।
 उत्तरप्रदेशोत्तराखण्योः विधानसभेयनिर्वाचनानि आलक्ष्य राज्यद्वये नैर्वाचनिकोष्णता विवर्धतेतराम्।  बहुजनसमाजदलप्रमुखया  मायावत्या  गाजियाबादे सपादलं भृशमालोचितम्। तयोक्तं यत्  सपाप्रशासनेन तस्याः योजनानां नाम परिवर्त्य श्रेयोधिग्रहणस्य प्रयासः क्रियते इति उत्तराखण्डे भाजपाध्यक्षेण अमितशामहोदयेनोक्तम्।  कांग्रेसशासने भ्रष्टाचारस्य अराजकतायाश्च स्थितिः समुत्पन्ना।
Episode 32- Sanskrit News
Sneha MV, Std 9, RK Mission HSS. Meenchanda, Kozhikkodu-18.
Episod 32, Sneha M V, R K M HSS, Kozhikkodu, Kerala.

Tuesday, February 7, 2017

यू पि निर्वाचनं - स्थानाशिनेषु प्रतिशतं विंशतिः अपराधिनः।
 नवदिल्ली> उत्तरप्रदेशनिर्वाचने प्रथमसोपाने स्पर्धमाणेषु स्थानाशिनेषु प्रतिशतं विंशतिपरिमिताः अपराधिन इति ए डि आर् (Association for democratic)नामिकया संस्थया प्रकाशितः अन्वीक्षणवृत्तान्तः। एवमस्ति तस्याः प्रवादः - पत्रिकासमर्पणं कृतवत्सु स्थानाशिनेषु भाजपा दलीयेषु प्रतिशतं चत्वारिंशत् परिमिताः विविधेषु विषयेषु अपराधित्वेन उद्घोषिताः सन्ति। त एव पट्टिकायां प्रथमस्थानमावहन्ति। द्वितीयस्थाने तु प्रतिशतम् अष्टत्रिंशत् परिमितैः स्थानाशिभिः बि एस् पि दलं वर्तते। राष्ट्रिय लोक दलं ३३% , तथा एस् पि दलं २९%इति यथाक्रमं तृतीय चतुर्थ स्थानमावहतः च।

तुर्क्कीराष्ट्रे चतुःशतम् ऐ एस् प्रवर्तकाः गृहीताः।
इस्ताम्बूल्>रविवासरे आराष्ट्रं कृते अन्वीक्षणे विदेशिसहिताः उपचतुश्शतं इस्लामिक स्टेट् प्रवर्तकाः गृहीताः इति तुर्क्किराष्ट्रेण निगदितम्। मासात्पूर्वं इस्ताम्बूल् नगरे संवृत्तस्य भीकराक्रमणस्यानन्तरं कृतम् ऊर्जितान्वेषणमासीदिदम्। नववत्सरदिने इस्ताम्बूल् नगरस्थे निशालये सम्पन्ने आक्रमणे ३९ जनाः मृताः आसन्।

न्यायाधिपस्य विज्ञापनं परिहास्यमिति ड्रंप्।
वाषिड्टण्>स्वविज्ञापनस्य निरोधकं न्याधिपं प्रति यू एस् राष्ट्रपतिः डोणाल्ट् ट्रंप्। न्यायाधिपस्य मतं परिहास्यं भवति। राष्ट्रस्य नीतिपालनप्रतिरोधकं तत् निष्कासयिष्यतीति तेन ट्विट्टर माध्यमेन उक्तम्। न्यायलयविज्ञापनं प्रति यू एस् नीतिविभागः झटित्येव आवेदनं दद्मः इति वैट् हौस् ज्ञापयति। पूर्वं आगतानि विज्ञापनानि केवलम् आवेदकानां बाधकानि आसन्। परन्तु इदानीन्तन विज्ञापनं पूर्णं राष्ट्रं बाधकं भवति।
   भीकराक्रमणस्य निरोधनाय सप्तराष्ट्राणां ईरनमिति ट्रंपस्य विज्ञापने व्यक्तीकृतम्। २००१ सेप्टंबर एकादशे दिने जातं न्यू योर्क भीकराक्रमणं निदर्शनतया साक्षीकृतम्। किन्तु तदनन्तरं तादृशं आक्रमणं निरोधितस्य सप्तराष्ट्राणां जनैः न कृतमिति न्यायाधिपः जयिंस् रोबर्ट् संस्थापितम्। ट्रंपस्य विज्ञापनं वस्तुताधिष्ठितं स्यात् न तु भावनाधिष्ठितम् इति न्यायशाला समर्पितम्।

Monday, February 6, 2017

तमिळ् नाट् राज्ये शशिकला मन्त्रिमुख्या भविष्यति। 
चेन्नै>तमिळनाट् राज्यस्य विधानसभायां शासनपक्षस्य ए ऐ ए डि एम् के दलस्य नेतृस्थाने यशश्शरीरिण्याः मुख्यमन्त्रिण्याः जयललितायाः प्रियसखी शशिकला नटराजः चिता।
    ह्यः सम्पन्ने शासनपक्षदलस्य समावेशने मुख्यमन्त्री ओ. पनीर् शेल्वं शशिकलायाः नाम निरदिशत्। सभया ऐककण्ठ्येन तदङ्गीकृतम्। तदनन्तरं पनीर् शेल्वं  मुख्यमन्त्रिस्थानं परित्यक्तवान्। आगामिगुरुवासरे नियुक्तमन्त्रिमुख्यायाः स्थानारोहणं भविष्यति। राज्यपालः विद्यासागररावः राज्यस्य नवीनघटनाविशेषान् केन्दसर्वकाराय न्यवेदयितुं दिल्लीं गतवान्।

लक्षत्रयादधिकसंख्याकानां मुद्रापत्रस्य विनिमयाय प्रतिशतं शतं रुप्यकाणि दण्डः ।
नव दिल्ली > केन्द्र -बड्जट् निर्देशे लक्षत्रयाधिकानां रुप्यकाणां मुद्रापत्रक-विनिमयस्य निरोधः। नियमलंघनाय प्रतिशतं शतं रुप्यकाणां दण्डः च । उदाहरणतया मुद्रापत्रेण लक्षचतुष्टयस्य विनिमयः भविष्यति चेत् चतुर्लक्षं रुप्यकाणि दण्डवत् निभृतम् भविष्यति। नियमः एप्रिल् मासादारभ्य प्रबलः भविष्यति इति केन्द्र आयकर विभागास्य सेक्रट्टरि 'हस् मुक् आदिय' अवदत् ।
 मुद्रापत्र निरोधनेन व्याजधनस्य अनुमानं भविष्यति। भाविनिकाले एतावत् स्थितिः अनुवर्तनीयः इति मत्वा एव निरोधः I बाङ्गिङ्‌ पोस्टोफीस्, सहकृत वित्तकोशा च नियमात् बहिः संरक्षितः वर्तते।

Sunday, February 5, 2017

पञ्चाब् - ७२ , गोवा ७३  मतदानं सम्पन्नम्।
कोच्ची >पञ्चाब् गोवा राज्ययोः विधानसभानिर्वाचनार्थं मतदानं सम्पूर्णम्। पञ्चाबराज्ये प्रतिशतं द्विसप्तति जनैः सम्मतिदानं विनियुक्तम्। एतत् गतनिर्वाचनात् न्यूनं भवति। २०१२ तमे ७८.५७ आसीत् मतदानमानम्।
    गोवायां तु मतदानमानं वर्धितम्। गतनिर्वाचने प्रतिशतं ८१.७ इत्येतत् अस्मिन् समये प्रतिशतं त्र्यशीति इति वर्धितमभवत्।  मतगणना मार्च् एकादशदिनाङ्के भविष्यति।

ऑण् लैन् धनविनिमयाय सेवाशुल्कः न भविष्यति।
नव दिल्ली > वित्तकोशद्वारा क्रियमाणः ऑण् लैन् धनविनिमयः सेवनशुल्कं विना कर्तुं केन्द्र-वित्तमन्त्रालयेन प्रक्रिया आरब्धा। मुद्रपत्र रहित सम्पद्व्यवस्था इति लक्ष्यप्रप्तेः बाधा रूपेण वर्तते सेवाशुल्कः। तस्य निरासाय वित्तमन्त्रालयस्य उन्नताधिकारिणः वित्तकोशाधिकारिणा साकं चर्चा आरब्धाधा। सर्वकारसेवासु अपि ऑण्लैन् द्वारा वित्तविनिमयाय शुल्कनिरासं कर्तुं प्रक्रिया विना विलम्बं भविष्यति। राजनैतिकदलेभ्यः धनस्वीकरणाय कृतायां 'इलक्ट्रल् बोण्ड्' व्यवस्थायां कालपरिधि  योजयितुमपि सर्वकारेण चिन्त्यते।

आपघाते पतितः युवकः प्राणान् याचितवान्।
जनाः सेल्फि गृहीतवन्तः
बेङ्गलूरु > आधुनिकानां जनानां निर्दयत्वं प्रमाणीकृत्य पुनरपि दुःखवार्ता। अपघाते पतितः अष्टादशवर्षीयः युवकः स्वप्राणरक्षणाय अयाचत। केचन विगण्य गताः, केचन सेल्फीग्रणं कृतवन्तः, केचन चलनचित्रग्रहणरताः च आसन्। अन्ते रुधिरस्रावेन परिक्षीणितस्य युवकस्य सहायार्थं मृत्यु: आगतः।
कर्णाटक राज्यस्य हूबल्ली समीपे कोप्पालि देशे एव दुरन्तः जातः। अन्वर् अलि नामकः अष्टादशवयस्काय युवकाय एव सहजीविनां मनुष्याणां कारुण्यहीनतया जीवः नष्टः। भूपत्र (Tiles)विक्रयणशालायां कर्मकरः आसीनः एषः प्रातः अष्टवादने द्विचक्रिकया आपणं प्रति गच्छन्नासीत् । तदा कर्णाटक सर्वकारीय-लोकयानम् तस्योपरि घट्टितम्। तस्य ऊरुः भग्नः । समीपे आतुरालयः आसीत् तथापि कोऽपि तं रक्षितुं नोद्युक्ताः अन्ते आगतः श्रीधरः नाम स्नातकबिरुदविद्यार्थी ओट्टो रिक्षाचालकानां सहायं प्रार्थयत। किन्तु चालकैः निर्दयं याचना निरस्ताः, अन्ते तं आम्बुलन्स् आहूय आतुरालयं प्रेषितवान् । श्रीधरस्य आगमनसमये बहवः जनाः युवकं परितः स्थित्वा छायाग्रहणं कुर्वन्तः सन्ति इति सः अवदत्। मध्याह्ने द्विवादने युवकः मृतः ।

संस्कृताध्यापकानां संस्कृतप्रणयिनाञ्च सहकारिता आवश्यकी- 'संस्कृतध्वनिः'
कोष़िक्कोट् >संस्कृतिः संस्कृतेन, संस्कृतं मम जीवितायनम् इति सन्देशद्घुष्य प्रवर्तमानस्य केरल-संस्कृताध्यापक फेडरेषन् संघस्य मुखपत्रिका संस्कृतध्वनिः प्रकाशिता। शिक्षा क्षेत्रे विद्यमानानां द्विसहस्राधिकानाम् अध्यापकानां षष्टा पत्रिका भवत्येषा। सङ्घस्य ३९तम राज्यस्तरीय वार्षिकमेलनसभायां केरळस्य प्रशस्तसाहित्यकारः यू के कुमारः पत्रिकायाः प्रकाशनमकरोत् । पत्रिकायाः सम्पादकः श्री रमेश् नम्पीशन् उपदेशक-समित्यङ्गानि वेणु चोव्वल्लूर्, पी जी अजित्त् प्रसाद्‌, टी के सन्तोष्‌ कुमार्, सि सुरेष् कुमार्, सङ्घस्य प्राक्तनाध्यक्षः क्रष्णन् नायर् च सन्निहितानि आसन् ।
केरळेषु प्रथमकक्ष्यातः आरभ्य संस्कृतकक्ष्या प्रचलति। तत्र च समस्या बह्वयः च वर्तन्ते। ताः परिहर्तुं संस्कृताध्यापकानां संस्कृतप्रणयिनाञ्च सहकारिता सख्यश्च आवश्यकी भवतीति 'संस्कृतध्वनिः' उद्‌घोषयति।

Saturday, February 4, 2017

महाकविः "जि" विश्वमानवकल्पः - एस् के वसन्तः। 
कोच्ची - भारतस्य प्रथमज्ञानपीठपुरस्कारजेता केरलीयः महाकविः जि. शङ्करक्कुरुप्प् वर्यः विश्वमानवकल्पः भारतीयः आसीदिति प्रशस्तः साहित्यनिरूपकः एस् के वसन्तः अवदत्। महाकवेः एकोनचत्वारिंशत्तमे चरमसंवत्सरदिने तस्य जन्मग्रामे नायत्तोट् प्रदेशे आयोजिते सम्मेलने अनुस्मरणप्रभाषणं कुर्वन्नासीत् सः।
     भारतस्य विश्वपौरः इति प्रसिद्धस्य रवीन्द्रनाथ ठक्कुरस्य विश्वदर्शनपर्यन्तं जि वर्यस्यापि विश्वदर्शनम् औन्नत्यमावहतीति वसन्तमहोदयेन समर्थितम्। किन्तु नवीनपरम्परया महाकविः तस्य काव्यानि  तथा काव्यदर्शनं च सम्यगवगन्तव्यानीति तेनोक्तम्।
    प्रसिद्धकविना चलनचित्रगानरचयित्रा कैतप्रं दामोदरन् नम्पूतिरि वर्येण अनुस्मरणसम्मेलनस्य उद्घाटनं कृतम्।केरलविधानसभायाः अङ्कमाली सदस्यः रोजी एम्  जोण् भूतपूर्वसदस्यः जोस् तेट्टयिल् नगरसभाध्यक्षा एम् ए ग्रेसी  इत्यादयः आशंसाः समर्पितवन्तः।
    अनुस्मरणदिनमनुबद्ध्य छात्रेभ्यः आयोजितानां रचनास्पर्धानां पुरस्कारदानमपि सम्पन्नम्।  तदनन्तरं महाकवेः "चन्दनक्कट्टिल्" नामकस्य काव्यस्य मोहिनियाट्टनृत्ताविष्कार अपि सम्पन्नः।

 राष्ट्रपतेः अभिभाषणस्योपरि धन्यवादप्रस्तावः 
नवदिल्ली >केन्द्रीयमन्त्री रविशंकरप्रसादेन राष्ट्रपतेः अभिभाषणस्य उपरि धन्यवादप्रस्तावावसरे परिचर्चां कुर्वता प्रोदीरितं यत् जनशक्तेः विकासोन्मुखराष्ट्रशक्तित्वेन परिवर्तनार्थं केन्द्रप्रशासनेन भूरि पदक्षेपाः समुत्थापिताः, येषु निर्धन-वञ्चित-दलित-पीडित-दिव्यांगजनानां कृते प्रारब्धाः प्राशासनिकयोजनाः प्रामुख्यं भजन्ते | अपि च एदर्थं रविशंकरप्रसादेन प्रधानमंत्री श्रीमोदी श्लाघितः |

Friday, February 3, 2017

संस्कृतशैक्षिक सम्मेलनम् केरलस्य गतागमन्त्री ए के शशीद्रः उद्‌घाटनं करोति।
लोकभाषायाः जननी संस्कृतम् - पुरुषन् कटलुण्डि। 
कोष़िक्कोट्> संस्कृतभाषायाः महत्वः ज्ञेयः । तद् अज्ञात्वा वयं अत्र जीवनं कुर्मः । लोकभाषायाः माता संस्कृतमेव। अतः संस्कृत भाषायाः प्रचारः आवश्यकः इति साहित्यकारः तथा केरलविधानसभाङ्गः पुरुषन् कटलुण्डि महोदयः अवदत् । केरल - संस्कृताध्यापक फेडरेषन् संस्थायाः प्रतिनिधिसम्मेलनम् उद्घाट्य भाषमाणः आसीत् सः। अध्यापकः आदरणीयः तथापि संस्कृताध्यापकानां पि एफ् सुविधा न लप्स्यते। पि एफ् लब्ध्यर्थं यत् शक्यते तत् साध्यं कर्तुं प्रत्नं करिष्ये इति तेन उच्यते।


एकाभिनयेन प्रशोभितं मेघायनम्
कोष़िकोट्> कालिदासस्य मेघसन्देशस्य रङ्गभाष्यं मेघायनं कालास्वादकानं हृदयानि आकर्षयन् ।  केरळ संस्कृताध्यापक फेडरेषन् संस्थायाः एकोनचत्वारिशे वार्षिकसमेलने प्रवृत्ते कला-कार्यक्रमे एव एकाभिनयोयं सम्पन्नः ।
कला मण्डलं प्रशोभ् वर्येण एव यक्षस्य  विरहदुःखमिदं रङ्गमञ्चे अभिनीतम् । एकपात्राभिनयः इति नामयुक्तः नाट्यरूपः इदानीम् आस्वादकलोके प्रसिद्धः अभवत् । संस्कृत भाषा सरला इति भावना समुद्पादयितुं नाट्यमिदम् उपकृतम् ।
डिजिटल् परिवर्तनस्य ग्रामीणमण्डलस्य च प्राधान्येन भारतस्य आयव्ययपत्रकम्।
नवदिल्ली >मुद्रारूप्यकनिरासेन सञ्जातं मान्द्यं तर्तुं ग्रामीण कार्षिकमण्डलेभ्यः यथेष्टं दत्वा मोदिसर्वकारस्य चतुर्थम् आयव्ययपत्रकं वित्तमन्त्रिणा अरुण् जेट्लिवर्येण लोकसभायाम् अवतारितम्। व्याजधनं तथा करस्य छलापहरणं च निवारयितुं मुद्रारूप्यकरहित विनिमयान् [डिजिटल] प्रोत्साहयितुं निर्देशाः सन्ति।

भारत-इंग्लैण्डयोः २०-२० क्रिकेटशृंखला भारतेन विजिता
विंशतिः-विंशतिक्षेपचक्रीयक्रिकेटस्पर्धां पञ्चसप्ततिधावनांकैः विजित्य शृंखलेयं भारतीयदलेन स्वायत्तीकृता यजुवेन्द्रचहलः सर्वश्रेष्ठक्रीडाप्रदर्शनाय शृंखलापुरुषत्वेन प्रचितः |

प्रधानमंत्रिणा मोदिना अरुणजेटली वर्धापितः
प्रधानमंत्रिणा मोदिना समीचीन-आयव्ययपत्रक-प्रस्तुतिमालक्ष्य वित्तमन्त्री अरुणजेटली वर्धापितः प्रोक्तं च यत् अनेन आयव्ययपत्रक़ेण देशस्य- अर्थव्यवस्था सुदृढा, निर्धनानां स्थितिः च समुचिता भविष्यति
 ।

Thursday, February 2, 2017

बड्जट्ट् -२०१७
लक्षत्रयाधिकं मुद्रापत्रकविनिमयानि निरुद्ध्य आयकरव्यवस्थायां लाघावं कृत्वा च केन्द्रसर्वकारस्य 'बड्जट्'।
नवदिल्ली>भवन रहितानां कोटिमितम् भवनानि, वर्षद्वयाभ्यन्तरेण दरिद्रतानिर्मार्जनमुद्धिश्य अन्त्योदयमिषन्, कृषके भ्यः अधिकं धनं ऋणरूपेण, राजनैतिकदलेभ्यः आर्थिक साहाये सुतार्यता क्रमनिर्माणः निर्वाचनात् पूर्वम्, एते धनमन्त्रिणा अरुण्जैटिलिना प्रस्तुते बड्जट् निर्देशे प्रमुखाः।
अपरनामबद्धः कोटिसंख्याकानां संपदः गृहीताः। 
सप्ताशीति जनान् प्रति गरीयसी सूचना।
नवदिल्ली> व्याजधनस्य स्वाधीनताग्रहणस्य अनुबन्धतया आयकर-विभागेन सप्ताशीति जनान् प्रति तर्जनात्मिका सूचना प्रेषिता। कोटिशः रूप्यकाणां मूल्यवती सम्पत् कूटरीत्या सम्पादितवतां गूढेतरनाम्नि स्थापितानां च अवद्यां संपदं सर्वकारेण स्वायत्तीकर्तुं नियमाः सज्जाः ।
सेवानिवृत्तानां कर्मकराणां, यान्त्रिक स्वामिनां शैक्षिकसंस्थानां च एवं विध अलीक धनसञ्चयः दृष्टाः यन्त्रशालायाः ७८० कर्मकराणां  वित्तलेखेषु तदधिकारिणा गुप्तधनानि निभृतानि। शैक्षिक संस्थया ४० कर्मकराणां वित्तलेखेषु पूरितम् आसीत्। हरियाना स्वदेशी  निवृत्तः ऐ ए एस् कर्मकरः अट्टसमुच्चयाः गृहीताः। एतानि सर्वाणि आयकरविभागेन नियमानुसारम् अधीनतामकरोत्।

 केरल संस्कृताध्यापक फेडरेषनस्य राज्यस्थरीयमेलनं अद्य आरभते।
कोष़िक्कोट्> केरलस्य विद्यालयस्तरीय शिक्षकानां अङ्गीकृतं सेवादलं भवति के एस् टि एफ्। अस्य दलस्य एकोन चत्वारिशत्तमं मेलनं अद्य आरभते। कोषिक्कोटे नलन्दा नाम सभागारे आयोज्यमाने मेलने विधानसभाङ्गः पुरुषन् कटलुण्डिः उद्‌घाटकः भविष्यति। विधानसभाङ्गः ए प्रदीप् कुमारः संस्कृत विश्वविद्यालयस्य उपकुलपतिः डॉ धर्मराज् अटाट्टः च, डॉ सि जी विजयकुमारः सुरेन्द्रन् कटक्कोट् प्रभृतयः प्रमुखाः भागभाजः भविष्यन्ति।

Wednesday, February 1, 2017

व्याजधनान् विरुद्ध्य कृतः प्रतिरोधः प्रशंसनीयः - भारतस्य राष्ट्रपतिः।
 नवदिल्ली > राष्ट्रपति प्रणाब् मुखर्जी वर्यस्य प्राप्यतत्त्वोपोद्घातभाषणेन वर्षीयायव्ययनिर्णायकस्य सत्रस्य बड्जट् नामकस्य आरम्भः अभवत्। ऐतिहासिकाभूतपूर्वमेलनं इत्युक्त्वा असीत् राष्ट्रपतेः भाषणस्य आरंभः। अलीकस्य तथा व्याजधनस्य पुरतः सुशक्तया रीत्या प्रतिरोधं कृत्वा एव भारतसर्वकारः प्रशासनं कुर्वन्ति इत्येतत् प्रशंसार्हं भवति इति राष्ट्रपतिना प्रणाब् मुखर्जिवर्येण उच्यते । धनमुद्रिकायाः निर्मुल्यीकरण-निर्णयः चरित्रे लेखनीयः इति उक्तवान् राष्ट्रपतिः। हस्तगतधनं विना धनविनिमयः प्रोत्साहं अर्हतीति अवोचत्। स्वच्छभारत योजना जनानां सहकारितया वृद्धिम् अवाप। भारतभूमिं प्रति गूढरूपेण निलुण्ठन् अन्तरागतानां वैरिणां कृते पर्याप्तं दण्डं  दातुं प्रभवाम: वयम्। सैनिकैः तेषां मूलमेव चूर्णयित्वा अतिप्रहारः कृतः इति प्रवर्तितसाहसक्रियां सूचयित्वा राष्ट्रपतिवर्येण उक्तम्।

केन्द्रायव्ययपत्रावतारणम् अद्य ।
कोच्ची> नरेन्द्रमोदीसर्वकारस्य चतुर्थम् आयव्ययपत्रं फेब्रु. प्रथमदिनाङ्के केन्द्रवित्तमन्त्रिणा अरुण् जेट्लिमहोदयेन लोकसभायां अवतारयिष्यते। मुद्रारूप्यकनिरासानन्तरम्  अवतार्यमाणम् आयव्ययपत्रम् इत्यतः सामान्यजनाः तथा उद्योगभीमाश्च अत्यन्तम् उत्कण्ठाभरिताः वर्तन्ते।

विनोद् राय् बि सि सि ऐ नेता।
नवदिल्ली>भारत क्रिक्कट् नियन्त्रण समित्याः दैनन्दिनकार्यनिर्वहणाय सर्वोच्चन्यायालयेन चतुरङ्गसमितिः नियुक्ता। भूतपूर्वः सि ए जी विनोदराय् वर्यस्य नेतृत्वे रूपवत्कृतायां समित्यां चरित्रकारः रामचन्द्रगुहा, ऐ डि एफ् सि संस्थायाः मुख्यनिदेशकः विक्रम लिमाये , भारतस्य महिला क्रिक्कट् दलस्य भूतपूर्वनेत्री डयाना एडुल्जी इत्येते अङ्गाः। सन्ति।
     निर्वाचनद्वारा यावत्  नवीनाः धुरन्धराः अवरोधितव्याः भवेयुः तावत् लोधासमित्याः निर्देशानुसारं दैनिकप्रवर्तनानि करणीयानि।

ई अहम्मद् दिवंगतः।
नवदिल्ली>भूतपूर्वः केन्द्रमन्त्री, मुस्लीं लीग् राजनैतिकदलस्य देशीयाध्यक्षः, अधुनातनलोकसभासदस्यश्च ई अहम्मदः दिवंगतः। गतदिने लोकसभायां राष्ट्रपतेः तन्त्रप्रख्यापनवेलायां हृदयाघातः अभवत्। झटित्येव सः राम् मनोहर् लोह्य आतुरालये प्रवि शितः अपि प्रातः २.४५ वादने मृत्युमुपगतः। मन्मोहन् सिंहस्य मन्त्रिसभायां विदेशकार्यसहमन्त्रिपदं वहन् स्तुत्यर्हसेवनमकरोत् । अन्त्योपचारक्रियाः श्वः कण्णूर् जनपदे स्वभवने भविष्यति।
Episod 31, Sreelakshmi G, Bhavans Varuna Vidyalaya,Thrikkakkara, Ernakulam.

Tuesday, January 31, 2017

परीक्षा उत्सववत् आघोषयतु - प्रधानमन्त्री नरेन्द्रमोदिः
नव दिल्ली > आगामि मासाः परीक्षायाः कालः। परीक्षा सोत्साहं उत्सववत् करणीया। तदर्थं छात्राः पितरः च अद्युक्ताः भवन्तु इति च प्रधानमन्त्रिणा नरेन्द्रमोदिना मन् की बात् नाम प्रतिमास-कार्यक्रमे अवोचत्। संवत्सरं यावत् कृतप्रयत्नस्य मूल्य निर्णयस्य समयः। अतः मनःक्लेशंविना परीक्षा लेखनीया। शान्ति युक्तात् चित्तात् एव उत्तराणि स्वच्छतया प्रवहेत् इति च मोदिना उच्यते। परीक्षा केन्द्रीकृत-शिक्षा प्रणालिः क्लेशमुद्पादयन्ति। एतदधिकृत्य सर्वेषाम् अभिमतानि ज्ञातुम् अभिलाषामि इति च तेन महोदयेन उक्तम्।
अद्य महात्मा गान्धिनः रक्त-साक्षित्व दिनमेव। निमेषद्वयं मौनमवलम्ब्य राष्ट्रस्य कृते जीवान् त्यक्तान् सर्वानपि स्मरणीयम् इति च मन् की बात् कार्यक्रमे तेन उक्तम्  ।

मन् की बात्- आकाशवाणी अभिनन्दिता ।
नव दिल्ली>मन् की बात् नाम कार्यक्रमस्य नवीनया रीत्या प्रसारणाय आकाशवाणी प्रयत्नं कुर्वन्ती अस्ति। गतमासात् आरभ्य प्रादेशिकभाषासु अपि अनुवादः प्रसार्यते इति अभिनन्दनार्हः एव। प्रधानमन्त्रिणा उच्यते। स्वप्रेरणया एव एतादृशाः कार्यक्रमाः आयोजिताः इत्यस्मात् कारणात्  अभिनन्दनार्हा इति मोदि महोदयेन उक्तम्।

केन्द्रायव्ययपत्रावतारणं श्वः। 
कोच्ची> नरेन्द्रमोदीसर्वकारस्य चतुर्थम् आयव्ययपत्रं फेब्रु. प्रथमदिनाङ्के केन्द्रवित्तमन्त्रिणा अरुणजेय्ट्ली वर्येण लोकसभायां अवतारयिष्यते। मुद्रपत्रकनिरासानन्तरं अवतार्यमाणम् आयव्ययपत्रम् इत्यतः सामान्यजनाः तथा उद्योगभीमाश्च अत्यन्तं प्रतिक्ष्यमाणाः वर्तन्ते।

Monday, January 30, 2017

राष्ट्रेण स्थगायिताः इतरदेशीयाभयार्थिनः कनडा स्वीकर्तुं सन्नद्धा ।
टोरन्टो > यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेन निवारितापि कानडायाः प्रधानमन्त्रिणा जस्टिन् ट्रूडो महाशयेन इतरदेशीयाभयार्थिनः स्वागतीकृताः। सप्तानां इस्लामिकराष्ट्राणां  जनानां तथा अभयार्थिनं च स्वराष्ट्रे प्रवेशं  निरुघ्य कृतः निर्णय: राष्ट्रे राष्ट्रान्तरे च विचार-विमर्शानां कारणत्वेन अभवत् । एवं स्थिते सति कानडायाः अभयार्थिनयं सर्वेषां सुविचाराय भविष्यति। ट्विट्टर द्वारा आसीत् स्वागतवचनम्। भिन्न धर्मानुयायिनः चेदपि स्वागतं करोमि इति जस्टिन् ट्रूडो अवदत्। वैविध्यमेव अस्माकं शक्तिरिति च सः अवदत्।

 ऐ एस् भीकरदलंविरुद्ध्य यूस् रष्ययोः मिथः सन्धिः।
वाषिङ्टण् > ऐ एस् नामकं भीकर दलंविरुद्ध्य योद्धुं यू एस् राष्ट्रपतिना डोणाल्ड् ट्रम्पेन तथा रष्यायाः राष्ट्रपतिना व्लाडिमिर् पुटिनेन च कृतयोः संभाषणे निर्णयः स्वीकृतः। द्वयोः राष्ट्रयोः मध्ये सुदृढबन्धाय सार्थक: पदक्षेपः भवति इदम्  इति वैट् हौस्  वक्ता वदति। दूरवाणीद्वारा एकघण्डा-पर्यन्तमासीत् भाषणम्। सिरिया युक्रैन् संघर्षाणाम् अनुबन्धतया एव उभययोः राष्ट्रयोः मध्ये विदूरबन्धः जातः आसीत्। दूरवाणीभाषणं गुणदायकम् इति रष्यापक्षीयाणां अभिप्रायः। नैकाः राष्ट्रान्तर-समस्याः संभाषणे प्रतिपादिताः आसन्।

Sunday, January 29, 2017

विंशतिः प्रतिविंशतिः क्रिकेटस्पर्धा-
भारतेन पञ्चधावनाकैः विजितः। 
नवदिल्ली>भारत इंग्लैडयोः मध्ये ह्यः नागपुरे समायोजितः विंशतिः प्रतिविंशतिः क्रिकेटस्पर्धायाः द्वितीयो द्वन्द्वः भारतेन पञ्चधावनाकैः  विजितः, बुमराह: क्रीडापुरुषः समुद्घोषितः। अनेनैव श्रृंखलायां दलद्वयमपि समत्वं भजते।  श्रृंखलायाः निर्णायकद्वन्द्वः बुधवासरे  बैंग्लूरुनगरे भविष्यति।