OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 1, 2017

Episod 31, Sreelakshmi G, Bhavans Varuna Vidyalaya,Thrikkakkara, Ernakulam.

Tuesday, January 31, 2017

परीक्षा उत्सववत् आघोषयतु - प्रधानमन्त्री नरेन्द्रमोदिः
नव दिल्ली > आगामि मासाः परीक्षायाः कालः। परीक्षा सोत्साहं उत्सववत् करणीया। तदर्थं छात्राः पितरः च अद्युक्ताः भवन्तु इति च प्रधानमन्त्रिणा नरेन्द्रमोदिना मन् की बात् नाम प्रतिमास-कार्यक्रमे अवोचत्। संवत्सरं यावत् कृतप्रयत्नस्य मूल्य निर्णयस्य समयः। अतः मनःक्लेशंविना परीक्षा लेखनीया। शान्ति युक्तात् चित्तात् एव उत्तराणि स्वच्छतया प्रवहेत् इति च मोदिना उच्यते। परीक्षा केन्द्रीकृत-शिक्षा प्रणालिः क्लेशमुद्पादयन्ति। एतदधिकृत्य सर्वेषाम् अभिमतानि ज्ञातुम् अभिलाषामि इति च तेन महोदयेन उक्तम्।
अद्य महात्मा गान्धिनः रक्त-साक्षित्व दिनमेव। निमेषद्वयं मौनमवलम्ब्य राष्ट्रस्य कृते जीवान् त्यक्तान् सर्वानपि स्मरणीयम् इति च मन् की बात् कार्यक्रमे तेन उक्तम्  ।

मन् की बात्- आकाशवाणी अभिनन्दिता ।
नव दिल्ली>मन् की बात् नाम कार्यक्रमस्य नवीनया रीत्या प्रसारणाय आकाशवाणी प्रयत्नं कुर्वन्ती अस्ति। गतमासात् आरभ्य प्रादेशिकभाषासु अपि अनुवादः प्रसार्यते इति अभिनन्दनार्हः एव। प्रधानमन्त्रिणा उच्यते। स्वप्रेरणया एव एतादृशाः कार्यक्रमाः आयोजिताः इत्यस्मात् कारणात्  अभिनन्दनार्हा इति मोदि महोदयेन उक्तम्।

केन्द्रायव्ययपत्रावतारणं श्वः। 
कोच्ची> नरेन्द्रमोदीसर्वकारस्य चतुर्थम् आयव्ययपत्रं फेब्रु. प्रथमदिनाङ्के केन्द्रवित्तमन्त्रिणा अरुणजेय्ट्ली वर्येण लोकसभायां अवतारयिष्यते। मुद्रपत्रकनिरासानन्तरं अवतार्यमाणम् आयव्ययपत्रम् इत्यतः सामान्यजनाः तथा उद्योगभीमाश्च अत्यन्तं प्रतिक्ष्यमाणाः वर्तन्ते।

Monday, January 30, 2017

राष्ट्रेण स्थगायिताः इतरदेशीयाभयार्थिनः कनडा स्वीकर्तुं सन्नद्धा ।
टोरन्टो > यू एस् राष्ट्रपतिना डोणाल्ड ट्रम्पेन निवारितापि कानडायाः प्रधानमन्त्रिणा जस्टिन् ट्रूडो महाशयेन इतरदेशीयाभयार्थिनः स्वागतीकृताः। सप्तानां इस्लामिकराष्ट्राणां  जनानां तथा अभयार्थिनं च स्वराष्ट्रे प्रवेशं  निरुघ्य कृतः निर्णय: राष्ट्रे राष्ट्रान्तरे च विचार-विमर्शानां कारणत्वेन अभवत् । एवं स्थिते सति कानडायाः अभयार्थिनयं सर्वेषां सुविचाराय भविष्यति। ट्विट्टर द्वारा आसीत् स्वागतवचनम्। भिन्न धर्मानुयायिनः चेदपि स्वागतं करोमि इति जस्टिन् ट्रूडो अवदत्। वैविध्यमेव अस्माकं शक्तिरिति च सः अवदत्।

 ऐ एस् भीकरदलंविरुद्ध्य यूस् रष्ययोः मिथः सन्धिः।
वाषिङ्टण् > ऐ एस् नामकं भीकर दलंविरुद्ध्य योद्धुं यू एस् राष्ट्रपतिना डोणाल्ड् ट्रम्पेन तथा रष्यायाः राष्ट्रपतिना व्लाडिमिर् पुटिनेन च कृतयोः संभाषणे निर्णयः स्वीकृतः। द्वयोः राष्ट्रयोः मध्ये सुदृढबन्धाय सार्थक: पदक्षेपः भवति इदम्  इति वैट् हौस्  वक्ता वदति। दूरवाणीद्वारा एकघण्डा-पर्यन्तमासीत् भाषणम्। सिरिया युक्रैन् संघर्षाणाम् अनुबन्धतया एव उभययोः राष्ट्रयोः मध्ये विदूरबन्धः जातः आसीत्। दूरवाणीभाषणं गुणदायकम् इति रष्यापक्षीयाणां अभिप्रायः। नैकाः राष्ट्रान्तर-समस्याः संभाषणे प्रतिपादिताः आसन्।

Sunday, January 29, 2017

विंशतिः प्रतिविंशतिः क्रिकेटस्पर्धा-
भारतेन पञ्चधावनाकैः विजितः। 
नवदिल्ली>भारत इंग्लैडयोः मध्ये ह्यः नागपुरे समायोजितः विंशतिः प्रतिविंशतिः क्रिकेटस्पर्धायाः द्वितीयो द्वन्द्वः भारतेन पञ्चधावनाकैः  विजितः, बुमराह: क्रीडापुरुषः समुद्घोषितः। अनेनैव श्रृंखलायां दलद्वयमपि समत्वं भजते।  श्रृंखलायाः निर्णायकद्वन्द्वः बुधवासरे  बैंग्लूरुनगरे भविष्यति।

Saturday, January 28, 2017

ब्रिट्टन् साम्राज्ये वासाय स्वकीयं स्थाननं नास्ति - ४०००
लन्टण्‌ > विकसित राष्ट्रमिति केवलं  ख्यातिः एव ।   ब्रिट्टन् साम्राज्ये वासाय स्वकीयं स्थानमेव येषां नास्ति, ते चतुसहस्राधिकाः। तेषां संख्या गतसंवत्सरात्  प्रतिशतं षोडश इति संवर्धिता। समाजक्षेममन्त्रालयस्य गणनानुसारं  इदानीं ४००० जनाः रथ्यायां स्वापं कुर्वन्ति।  एतादृशानां संख्या प्रतिसंवत्सरं वर्धते। अतिशैत्ये एतेषाम् अवस्था दुरितपूर्णा इति अन्वीक्षणं कुर्वता संस्थया उक्तम्। एते जनाः आपण द्वारेषु, रयिल् निस्थानेषु, हीनानां वस्तूनां निक्षेपार्थं स्थापितासु पेटिकासु च शयिताः वर्तन्ते। इयं दुरवस्था परिहाराय सर्वकारेण ५५० मिल्यन् पौण्टस्य नूतना योजना आयोजिता अस्ति इति सर्वकारीय जनाः वदन्ति।

 सैनिकानां समस्यापरिहाराय सेनाधिपस्य वाड्स् आप् संख्या। 
नवदिल्ली> सामाजिकवार्तामाध्यमद्वारा सैनिकाः अर्धसैनिकाः च सैनिकानां क्लेशान् प्रकाशिताः इत्यतः दुरितानुभूतानां परिहाराय  एव नूतनं वाट्स् आप् संख्या प्रकाशिता  +९१९६४३३००००८ एव संख्या। स्थल - सैनिकानाम् अधिपः जनरल् बिबिन् रावतेन एतादृशश्चयः स्वीकृतः। किन्तु संख्याधिकानां सैनिकानां याचिकापरिहाराय  एक स्य संख्या न पर्याप्ता इति सैनिकाः वदन्ति।
समुद्रान्तर्भागे परिणयः ।
अनन्तपुरी>परिणयः न केवलं भूमौ , समुद्रान्तर्भागे अपि कर्तुं शक्यते। कोवलं प्रदेशस्थे समुद्रे सज्जीकृते विवाहमण्डपे गतदिने कश्चन विवाहः सम्पन्नः। स्लोवेनिया स्वदेशिन्याः युणीक्का पोग्रान् नामिकायाः महाराष्ट्रास्वदेशीयस्य निखिल् पवार् नामकस्य च विवाहः एव गणतन्त्रदिने एतादृशरीत्या सम्पन्नः। 
    "स्कूबाडैविंग्" नामिकायां जलक्रीडायां निष्णातौ एतौ वधूवरौ विवाहवस्त्रैः साकं गाहनवस्त्रं च धृत्वा प्लवनपरिशीलकैः साह्येन वरणमाल्यम् अङ्गुलीयकं च परस्परं धारितवन्तौ। स्वकीयविवाहः चिरस्मरणीयः भवितव्यः इति चिन्तया एव तौ कमितारौ समुद्रान्तःस्थितं विवाहमण्डपं प्रापयितौ।

Friday, January 27, 2017

विश्वस्य सुशक्तेषु अष्टराष्ट्रेषु भारतम् षष्टस्थाने।
वाषिङ्टण् > २०१७ संवत्सरारंभे विश्वस्य अष्टराष्ट्रेषु भारतम् षष्टस्थानमावहति इति यू एस् मास पत्रिकायाः रिप्पोर्ट्। यू.एस्‌ . राष्ट्रस्य वैदेशिक नय कार्याणां अनुबन्धतया प्रकाश्यमाना इयं पत्रिका। यू एस् प्रथमस्थाने वर्तमानायां पट्टिकायां द्वितीय स्थाने चीना एव। जापान्, रष्य, जर्मनी, भारतम् इत्यस्ति क्रमः। इरान्, इस्रेल् च भारतस्य पृष्टतः च स्तः। विश्वेवे बृहत्तमं जनतन्त्रराष्ट्रं भवति भारतम्। आङ्गलेय भाषायाः ज्ञाने द्वितीय स्थाने एव, साम्पत् व्यवस्थायामपि वर्धमानं भवति  भारतम् इति च पत्रिका अभिप्रेति।

भारत-इंग्लैण्डयोः प्रथमः २०-२० द्वन्द्वः
नवदिल्भाली > भारत-इंग्लैण्डयोः मिथः गतदिने कानपुरे संवृत्ते प्रथमे विंशतिः विंशतिः क्षेपचक्रीयेक्रिकेटद्वन्द्वे इंग्लैण्डेन सप्तक्रीडकानां सुरक्षापुरस्सरं विजयोsधिगतः | विजेतृदलस्य इयोन-मोर्गनः स्पर्धापुरुषः  प्रचितः |

 मौनी-अमावस्या
इलाहबाद्>प्रदेशस्य इलाहाबादस्थे प्रयागसंगमे अद्य मौनी-अमावस्या- पर्वावसरे श्रद्धालवः पुण्यावगाहनं कुर्वन्ति | एतदर्थं प्रशासनेन दृढसुरक्षोपायाः विधीयन्ते, अष्टदश-स्नानघट्टेषु  सुरक्षाव्यवस्थायां त्रिसहस्राधिक-अारक्षिणः अर्धसैन्यबलस्य भटाश्च नियुक्ताः सन्ति | ध्यातव्यमिदं यत् अवसरोSयं धार्मिकदृष्ट्या महत्त्वपूर्णमस्ति |

Thursday, January 26, 2017

निर्वाचनानि युगपत् कर्तव्यानि। - राष्ट्रपति। 
 नवदिल्ली>लोकसभा - विधानसभा निर्वाचनानि युगपत् कर्तुं तथा राष्ट्रे समग्रं निर्वाचनपरिष्करणं चालयितुं च कालः समागत इति राष्ट्रपतिः प्रणब् मुखर्जी । राष्ट्रस्य गणतन्त्रदिनस्य पूर्वस्मिन् दिने राष्ट्रं प्रति कृते सन्देशे आसीत् राष्ट्रपतेः निरीक्षणम्। राष्ट्रे वर्तमानानि राजनैतिकदलानि सम्मन्त्र्य निर्वाचनसमित्या एव अनन्तरपदक्षेपाः स्वीकर्तव्याः इति तेनोक्तम्।

यू एस्  सैनिकाः बहिर्गन्तव्याः- ट्रम्बम् उद्दिश्य तालिबान् 
काबूल् >यू एस्  सैनिकाः अफ़्गानिस्थानम् परित्यज्य गन्तुम् समयः समागतः इति तलिबानस्य वक्ता लेखं प्रेषितवान् । लेखस्य प्रतिलिपयः वार्ताहाराणाम् अपि लब्धाःधाः। अफ़्गानिस्थानस्य प्रतिष्ठितस्य प्रशासनस्य नाम्नि आङ्गलेये चतुर्षु पुटेषु लिखितम् अस्ति पत्रम्। वैदेशिकाः सैनिकाः राष्ट्रे यावत्कालं सन्ति तावत्पर्यन्तं शान्तिः असाध्याया भविष्यति इति लेखः वदति। अफ़्गानिस्थानस्य चरित्रे अधिवेशितैः पराजयः इत्यनुभवः एव अस्ति। समकालीनस्य अलीकस्य सूचनाः च लेखे सन्ति । अफ़्गानस्य भाषासु अपि लेखस्य अनुवादाः प्रकाशिताः सन्ति।

Wednesday, January 25, 2017

संस्कृतभाषा प्रचारकाय चमू कृष्णशास्त्रिवर्याय पद्मश्री पुरस्काकारः।
अनेन पुरस्कारेण संस्कृतमाता समादृता। संस्कृत भाषायाः सुप्रचाराय अविरामं परिश्रमं कुर्वत्सु  प्रातःस्मरणीयः भवति चमू कृष्णशास्त्रिवर्यः। संस्कृतभाषा प्रचाराय नूतनाशयान् प्रवृत्तिपथमानीतवानयम्। च मू कृष्ण शास्त्री समस्तविश्व स्मिन् सर्वत्र संस्कृतभाषानुरागस्य पुनर्जागरणाय अन्यैः संस्कृतानुरागिभिः मिलित्वा संस्कृतभारती इत्येतां संस्थाम् स्थापयत् ।

Padma Awards 2017 Winners List:
Virat Kohli, chef Sanjeev Kapoor, Sakshi Malik get Padma Shri; MM Joshi, Sharad Pawar get Padma Vibhushan

 Indian cricket captain Virat Kohli has been rewarded for his consistent performance as he has been conferred with Padma Shri on Wednesday. Olympic hero Sakshi Malik, singer Kailash Kher, singer Anuradha Paudwal have also been rewarded for their contributions in their respective fields.

NCP leader Sharad Pawar, BJP leader Murli Manohar Joshi, classical singer KJ Yesudas, former MP CM SL Patwa have been awarded Padma Vibhushan. In total, 89 people have got the Padma awards this year. Here is the complete list of Padma awardees.

Padma Vibhushan
1. Shri K J Yesudas Art-Music Kerala
2. Sadhguru Jaggi Vasudev, Spiritualism, Tamil Nadu
3. Shri Sharad Pawar, Public Affairs, Maharashtra
4. Shri Murli Manohar Joshi, Public Affairs, Uttar Pradesh
5. Prof. Udipi Ramachandra Rao Science & Engineering Karnataka
6. Late Shri Sunder Lal Patwa, (Posthumous), Public Affairs Madhya Pradesh
7. Late Shri PA Sangma, (Posthumous), Public Affairs Meghalaya

Padma Bhushan
8. Shri Vishwa Mohan Bhatt Art-Music Rajasthan
9. Prof. (Dr.) Devi Prasad Dwivedi, Lit, rature & Education, Uttar Pradesh
10. Shri Tehemton Udwadia Medicine, Maharashtra
11. Shri Ratna Sundar Maharaj Others-Spiritualism, Gujarat
12. Swami Niranjana Nanda Saraswati, Yoga, Bihar
13. H.R.H. Princess Maha Chakri Sirindhorn (Foreigner), Literature & Education, Thailand
14. Late Shri Cho Ramaswamy (Posthumous) Literature & Education – Journalism Tamil Nadu

Padma Shri
15. Smt. Basanti Bisht, Art-Music, Uttarakhand
16. Shri Chemanchery Kunhiraman Nair, Art-Dance, Kerala
17. Smt. Aruna Mohanty Art-Dance, Odisha
18. Smt. Bharathi Vishnuvardhan Art-Cinema Karnataka
19. Shri Sadhu Meher Art-Cinema Odisha
20. Shri T K Murthy Art-Music Tamil Nadu
21. Shri Laishram Birendrakumar Singh Art-Music, Manipur
22. Shri Krishna Ram Chaudhary Art-Music, Uttar Pradesh
23. Smt. Baoa Devi Art-Painting, Bihar
24. Shri Tilak Gitai Art-Painting, Rajasthan
25. Dr. Prof. Aekka Yadagiri Rao Art-Sculpture, Telangana
26. Shri Jitendra Haripal Art-Music, Odisha
27. Shri Kailash Kher Art-Music, Maharashtra
28. Smt. Parassala B Ponnammal Art-Music, Kerala
29. Smt. Sukri Bommagowda Art-Music, Karnataka
30. Shri Mukund Nayak Art-Music, Jharkhand
31. Shri Purushottam Upadhyay Art-Music, Gujarat
32. Smt. Anuradha Paudwal Art-Music, Maharashtra
33. Shri Wareppa Naba Nil Art-Theatre, Manipur
34. Shri Tripuraneni Hanuman Chowdary Civil Service, Telangana
35. Shri T.K. Viswanathan Civil Service, Haryana
36. Shri Kanwal Sibal Civil Service, Delhi
37. Shri Birkha Bahadur LimbooMuringla, Literature & Education, Sikkim
38. Smt. Eli Ahmed Literature & Education Assam
39. Dr. Narendra Kohli Literature & Education Delhi
40. Prof. G. Venkatasubbiah Literature & Education Karnataka
41. Shri Akkitham Achyuthan Namboothiri Literature & Education Kerala
42. Shri Kashi Nath Pandita Literature & Education Jammu &Kashmir
43. Shri Chamu Krishna Shastry Literature & Education Delhi
44. Shri Harihar Kripalu Tripathi Literature & Education Uttar Pradesh
45. Shri Michel Danino Literature & Education Tamil Nadu
46. Shri Punam Suri Literature & Education Delhi
47. Shri VG Patel Literature & Education Gujarat
48. Smt. V Koteswaramma Literature & Education Andhra Pradesh
49. Shri Balbir Dutt Literature & EducationJournalismJharkhand
50. Smt. Bhawana Somaaya Literature & EducationJournalism Maharashtra
51. Shri Vishnu Pandya Literature & EducationJournalism Gujarat
52. Dr. Subroto Das Medicine Gujarat
53. Dr. (Smt.) Bhakti Yadav Medicine Madhya Pradesh
54. Dr. Mohammed Abdul Waheed Medicine Telangana
55. Dr. Madan Madhav Godbole Medicine Uttar Pradesh
56. Dr. Devendra Dayabhai Patel Medicine Gujarat
57. Prof. Harkishan Singh Medicine Chandigarh
58. Dr. Mukut Minz Medicine Chandigarh
59. Shri Arun Kumar Sharma Others-Archaeology Chhattisgarh
60. Shri Sanjeev Kapoor Others-Culinary Maharashtra
61. Smt. Meenakshi Amma Others-Martial Art Kerala
62. Shri Genabhai Dargabhai Patel Others-Agriculture Gujarat
63. Shri Chandrakant Pithawa Science & Engineering Telangana
64. Prof. Ajoy Kumar Ray Science & Engineering West Bengal
65. Shri Chintakindi Mallesham Science & Engineering Andhra Pradesh
66. Shri Jitendra Nath Goswami Science & Engineering Assam
67. Shri Daripalli Ramaiah Social Work Telangana
68. Shri Girish Bhardwaj Social Work Karnataka
69. Shri Karimul Hak Social Work West Bengal
70. Shri Bipin Ganatra Social Work West Bengal
71. Smt. Nivedita Raghunath Bhide Social work Tamil Nadu
72. Shri Appasaheb Dharmadhikari Social Work Maharashtra
73. Baba Balbir Singh Seechewal Social Work Punjab
74. Shri Virat Kohli Sports-Cricket Delhi
75. Shri Shekar Naik Sports-Cricket Karnataka
76. Shri Vikasa Gowda Sports-Discus Throw Karnataka
77. Smt. Deepa Malik Sports-Athletics Haryana
78. Shri Mariyappan Thangavelu Sports-Athletics Tamil Nadu
79. Smt. Dipa Karmakar Sports-Gymnastics Tripura
80. Shri P R Shreejesh Sports-Hockey Kerala
81. Smt. Sakshi Malik Sports-Wrestling Haryana
82. Shri Mohan Reddy Venkatrama Bodanapu Trade & Industry Telangana
83. Shri Imrat Khan
84. Shri Anant Agarwal (NRI/PIO) Literature & Education USA
85. Shri H.R. Shah (NRI/PIO) Literature & EducationJournalism
USA
86. Late (Smt.) Suniti Solomon (Posthumous) Medicine Tamil Nadu
87. Shri Asoke Kumar Bhattacharyya (Posthumous) Others-Archaeology West Bengal
88. Dr. Mapuskar (Posthumous) Social Work Maharashtra
89. Smt. Anuradha Koirala (Foreigner) Social Work Nepal

Captain of Indian cricket team of blind Shekhar Naik and Paralympian MariyappanThangavelu got Padma Shri. Dipa Karmakar also got Padma Shri.

History of Padma Awards
Padma Awards were first instituted in 1954. The government only instituted two awards–Bharat Ratna and Padma Vibhushan. The Bharat Ratna was to be the highest civilian award of the country. The Padma Vibhushan was to have three categories–Pahela Varg, Dusra Varg and Tisra Varg. In 1955, there three categories were rechristened Padma Vibhushan, Padma Bhushan, and Padma Shri respectively.

Episode 30- Ahalya Manoharan, St. Mary's U P School, Thevara Kochi 13.
कार्षिक-ऋणानां ६६० कोटि रूप्यकाणां समाश्वासः।
  प्रत्‍यर्पितानाम् ऋणमूल्येषु समाश्वासः वित्तलेखेषु पूर्यते।

नवदेहली > मुद्रापत्र निर्मूल्यीकरणेन ऋणं प्रत्यर्पितुं क्लेशितानां कृषकाणाम् आश्वासं विज्ञाप्य केन्द्रसर्वकारः। सहकरण वित्तकोशात् गृहीतेषु ऋणेषु नवंबर् दिसंबर् मासयोः ऋणमूल्यं सर्वकारेण दातुं  निश्चितम्। हृस्वकालीन धान्यकर्षकाणामेव आश्वासः लभ्यते। प्रधानमन्त्रिणः नरेन्द्र मोदिनः आध्यक्ष्ये सम्पन्ने उन्नतल-उपवेशने आसीत् अयं निर्णयः जातः। प्रत्‍यर्पितानाम् ऋणमूल्येषु समाश्वासः सर्वकारेण कृषकाणां वित्तलेखेषु पूर्यते। ६६०.५० कोटि रूप्यकाणि एतदर्थं सर्वकारेण निक्षिप्तानि। एतत् विहाय ४०० कोटि रूप्यकाणि नबार्डाय दास्यति। योजनेयं पूर्वमेव विज्ञापिता इत्यनेन निर्वाचननियमानां परिधौ न अन्तर्भवति इति अभिज्ञाः अभिप्रयन्ति।

अबुदाबी उत्तराधिकारिणे स्वीकरणम्।
नवदिल्ली> अबुदाबिराष्ट्रस्य उत्तराधिकारी तथाच यू ए ई सायुधसेनायाः उपसर्वसैन्याधिपः षैख् मुहम्मद् बिन् साइद् अल् नह्यानः भारतं प्राप्तः। राष्ट्रस्य गणतन्त्रदिनाघोषे विशिष्टातिथिरूपेण सम्प्राप्तं तं प्रधानमन्त्री नरेन्द्रमोदी दिल्ली विमाननिलयं प्रति साक्षादागत्य स्वीकृतवान्। भारत-यू ए ई सौहृदे नूतनतलम् आविष्कर्तुं सहायकः भवति अयं पदक्षेपः।

Tuesday, January 24, 2017

ट्रम्पं विरुध्य महान् महिलाप्रतिषेधः।
वाषिङ्टण्> अमेरिक्कायाः राष्ट्रपतिं डोणाल्ड् ट्रम्पं विरुध्य विश्वस्य नानाभागेभ्यः वनितानां प्रतिषेधः प्रसार्यते।
     वाषिङ्टणे सम्पन्ने प्रतिषेधसञ्चलने दशसहस्रशः वनिताः भागभागित्वं कृतवत्यः। ट्रम्पस्य स्थानारोहणवेलायां अधिकाः महिलाः प्रतिषेधसञ्चलने आसन्निति निरीक्ष्यते। निर्वाचन वेलायां ट्रंपेण कृतं स्त्रीविरुद्धपरामर्शं विरुद्ध्य  एव वनिताप्रतिषेधः। अमेरिक्कानगरेभ्यः ऋते सिड्नी , लण्टन् ,टोकियो  दिल्ली इत्यादिषु नगरेष्वपि प्रतिषेधः संवृत्तः।

कोच्ची मेट्रो रयिल् मार्च् मासे आरप्स्यते।
कोच्ची > मेट्रो रयिल् यानस्य धावनं मार्च् मासे आरप्स्यते इति ई एम् श्रीधरः अवदत्। आलुवा-पालारिवट्टम् रेल् निस्थानयोः मध्ये सूक्ष्मान्वेषणं कृत्वा भाषमाणः आसीत् सः। निर्माण प्रवर्तनेषु  संतृप्तिः अस्ति इति सः अवदत्।

Monday, January 23, 2017

तमिळ्नाट् राज्ये जेल्लिक्केट् नाम वृषभक्रीडा सन्दर्भे द्वाै हतौ
पुतुक्कोट्टा> तमिळ्नाट् राज्यस्य पुतुक्कोट्ट जनपदे सम्पद्यमाने वृषभ क्रीडायामेव दुर्घटनेयं जाता। अपि च मधुरायां सम्पद्यमाने जेलिक्केट्‌ अनुकूल-नियमनिर्माणस्य आवश्यकताम् उन्नीत्य क्रियमाणे अन्तोलने अपि एकः मृतः। २०१४तमे  सर्वोच्चन्यायालयेन क्रीडेयं निरस्ता। अधुना ओर्डिनन्स् द्वारा क्रीडा आयोजिता आसन्।

कौमारकलाकेलिः समाप्ता ; कनककिरीटपुरस्कारः कोष़िक्कोट् जनपदाय। 
कण्णूर्> एष्याभूखण्डस्य बृहत्तमा महत्तमा च कौमारकलास्पर्धारूपः केरलविद्यालय-कलोत्सवः- समाप्तिं प्राप। प्रथमस्थानं प्राप्यमाणेभ्यः दीयमानं ११७.५ पवन् परिमितं सुवर्णचषकं कोष़िक्कोट् जनपदेन संपादितम् । इतःपूर्वं दशवारं कोषिक्कोट् जिल्लया प्रथमस्थानं सुवर्णपुरस्कारं च समासादितमस्ति।
   ९३९ अङ्कैः कोष़िक्कोटे प्रथमस्थाने प्राप्ते कलोत्सवस्य आद्यन्तं पदानुपदं स्पर्धां प्रदर्शितवान् पालक्काट् जनपदः अङ्कत्रयस्य न्यूनत्वेन द्वितीयस्थानं प्राप्तवान्। आतिथेयः कण्णूर् जनपदः तृतीयस्थानेन तृप्तिमवाप। आगामिनि संवत्सरे तृश्शूर् जनपदः आतिथेयत्वं वक्ष्यति।

Sunday, January 22, 2017

मदिरानिरोधाय - बीहारे विश्वस्य दैर्घ्यतमा मानवश्रृङ्खला।
नवदिल्ली> नितीष् कुमारसर्वकारस्य मदिरानिरोधनीतिं प्रति सहयोगं कृत्वा बीहारराज्ये द्विनवत्यधिक द्विशतोत्तर एकादशसहस्रं किलोमीटर् (११,२९२) दूरे मानवश्रृङ्खला कृता। शासनपक्ष-विपक्षभेदं विना राजनैतिकदलप्रवर्तकाः नेतारः महिलाः बालकाः इत्यादयसहिताः द्विकोट्यधिकं जनाः भागभाक्भूताः।
     विश्वस्य दैर्घ्यतमा मानवश्रृङ्खला भवत्येषा इति बीहारस्य मुख्यकार्यदर्शिना अञ्जनिकुमार् सिंहेन अभियोगः कृतः। मध्याह्ने १२.१५ वादनस्य एकवादनस्य च मध्ये एव श्रृङ्खला कारिता। पट्नायां गान्धिक्रीडाङ्कणे मुख्यमन्त्रिणा नितीष्कुमारेण विभिन्नवर्णयुक्तेषु वायुगोलकेषु उड्डायितेषु मानवश्रृङ्खलायाः प्रारम्भः जातः। २०१६ एप्रिल् पञ्चमदिनाङ्के आसीत् बीहारे मदिरानिरोधः कृतः।

Saturday, January 21, 2017

गृहीतानि मुद्रारूप्यकाणि निर्व्याजानि।
नवदिल्ली> मुद्रपत्रनिरसनानन्तरं आराष्ट्रं कृते अन्वीक्षणे व्याजरूप्यकाणि अधिकृतैः न गृहीतानीति केन्द्रसर्वकारेण उक्तम्। पब्लिक् अक्कौण्ट् समित्याः समक्षं  दत्ते  केन्द्रवित्तमन्त्रालयस्य राजस्वं मन्त्रालयस्य च लिखितप्रतिवचने अस्ति अयं वृत्तान्तः। मुद्रानिरसनानन्तरं गृहीतानां पञ्चाशत् , सहस्ररूप्यकाणां विशदांशाः , तेषु रूप्यकेषु आतङ्कवादिनां चाराणां च मुद्रापत्रकाणि कियदित्यादयः प्रशनाः समित्या उन्नीताः आसन्।

अमेरिक्कायां ट्रम्प् युगः आरब्धः।
क्यापिटल् हिल्  (अमेरिक्का) - अमेरिक्काराष्ट्रस्य पञ्चचत्वारिंशत् तमे राष्ट्रपतिपदे डोणाल्ड् ट्रम्पः अवरोधितः। मुख्यन्यायाधिपस्य जोण् रोबर्ट् वर्यस्य समक्षे शपथवचनं कृतवान्।
     उपराष्ट्रपतिरूपेण मैक् पेन्स् वर्यः शपथवचनं कृत्वा स्थानारोहणं कृतवान्। ट्रम्प् वर्यस्य स्थानारोहणं पुरस्कृत्य राष्ट्रे सर्वत्र महती सुरक्षा आयोजिता आसीत्।

कोलकातायां ऐषमः बंगाल-वैश्विक-व्यापार-सम्मेलनस्योद्घाटनम्
राष्ट्रपतिः प्रणबमुखर्जी  कोलकातायां ऐषमः बंगालवैश्विकव्यापारसम्मेलनस्य  उद्घाटनं कृतवान् । असौ औद्घाटनिकाभिभाषण प्रावोचत् यत् पश्चिमबंगालः आधमर्ण्यं वहति परं  उदारनीतिभिः सह अग्रगमित्वं भजते येन निवेशकान्  अनुकूलवातावरणस्योपलब्धिः भवेत् । राष्ट्रपतिना स्थिरतापूर्णन्यूनकुसीदमितेः  आवश्यकता सबलं प्रतिपादिता ।

इट्टलीदेशे हिमगिरिपातेन त्रिंशत् जनाः मृताः।
अमाट्रैस्> इट्टलीराष्ट्रे फारिन् डोलाप्रदेशे पथिकालयस्य उपरि हिमगिरिः पतित्वा त्रिंशत् जनाः मृताः। गतदिने सञ्जातं भूचलनम् एव हिमपातस्य कारणम्। मृतेषु बालकाः अपि सन्ति। मध्यइट्टल्यां ग्रान् सासो पर्वतस्य समीप एव गोपियानो नामकः पथिकालयः वर्तते। तत्र आगताः विनोदसञ्चारिणः एव दुर्घटनायाम् अन्तर्भूताः।

Friday, January 20, 2017

ट्रम्पः अद्य अमेरिक्कायाः राष्ट्रपतिस्थानमारोहतिI 
 वाषिङ्टन् > अमेरिक्कायाः पञ्च चत्वारिंशत्तम राष्ट्रपति पदमारोहति डोणाल्ट् ट्रम्पः। अद्य प्रतिज्ञास्वीकारकर्मः भविष्यति। सर्वोच्च-न्यायालयस्य मुख्य न्यायाधीशः जोण् रोबर्ट्वर्यस्य प्रतिज्ञावाक्योश्चारणं स्वाधीनतायां उच्चार्य एव स्थानारोहणम्। ७० वयस्कः ट्रम्पः एव वयोधिकः प्रथमराष्ट्रपतिः । भूतपूर्वराष्ट्रपतिः डोणाल्ड रैगस्य प्रतिज्ञाकरणसमये ६९ वयः आसीत् ।

मदिरापानं न मौलिकाधिकारः - उच्चन्यायालयः।
कोच्ची> मदिरापानं कदापि पौराणां मौलिकाधिकारः नास्तीति केरलस्य उच्चन्यायालयेन स्पष्टीकृतम्। जीवनाधारभूताः अघिकाराः एव भारतीयशासनसंविधानेन दृढीक्रियते, न तु मदिराधिकारः। मदिराविक्रयशालानां संख्यान्यूनीकरणं विरुध्य समर्पिताः पुनर्याचिकाः निरस्य एव खण्डन्यायपीठस्य आदेशः।
    राज्ये सम्पद्यमानेषु अपराधेषु प्रतिशतं षष्ट्यधिकाः मद्यसंबद्धः इति कानिचन अन्वीक्षणानि पुरस्कृत्य उच्चन्यायालयेन स्पष्टीकृतम्। आतुरालयान् प्रविष्टमानेषु आतुरेषु प्रतिशतं १९-२० जनाः मद्यपानाधिष्ठिताः भवन्ति। एतादृशानां चिकित्सार्थं परिवारार्थिकायस्य भूरिभागं व्ययं करोति। एवं विधनिरीक्षणेनैव न्यायालयेन पुनर्याचिकाः निरस्ताः

कौमारकलामेला उत्तेजनस्य उत्तुङ्गश्रृङ्गे।
ChaakyaarKooth-Sreehari 
कण्णूर् >एष्याभूखण्डस्य बृहत्तमा कौमारकलामेला उत्सवोद्दीपनस्य उत्तुङ्गश्रृङ्गपदं प्रविष्टा। केरलानां नदीनामिकासु पञ्चदशवेदिकासु मनोरञ्जकानि कर्णानन्दकराणि नयनमोहनानि च कलाकार्यक्रमाः कौमारप्रतिभाभिः अवतारयन्तः वर्तन्ते।
     सामान्यकलोत्सवादृते संस्कृतोत्सवः अरबिक् कलोत्सवश्च आयोजितः। संस्कृतोत्सवे १९ विभागेषु स्पर्धाः सन्ति। केरल संस्कृताध्यापक फेडरेषन् सङ्घेन संस्कृतोत्सवः प्रचाल्यते। (Photo- Sree Hari . The student of NSS HSS Parakkadavu, Aluva)



बाबा रामदेवस्य सारथ्ये लक्षं जनानं योगासन प्रदर्शनम्।
नवसंख्याकानां विश्वप्रमाणानि।
नव देहली >स्वामि विवेकानन्दस्य चतु पञ्चाशदधिक शतततमे जयन्तिमहोत्सवे नवानि नवविश्वप्रमाणानि (world record) प्राप्तानि । भिलई जयन्ती नाम क्रीड़ाक्षेत्रे त्रयश्चत्वारिषु चत्वरेषु योगासनमवतारितम् । जन निबिडानाम् असङ्ख्यानां सूर्य नमस्काराणं आचरणं , कपालभाति प्राणायामं, अनुलोमविलोम प्राणायामम् ; लक्षशानां योगासन पठनवर्गः , उन्मेषदायका प्रतिज्ञा निमिषाभ्यन्तरेण पतनोत्पदनम् (Push up) ५०,००० जनानानां सर्वाङ्गासनं, हलासनं इत्येतेषु विश्व-प्रमाणं प्राप्तम्। इतोपि राजस्थानीयस्य जयपालस्य १४१ निमेषस्य शीर्षासनं च विश्व-प्रमाणस्य सुवर्णपुस्तके स्थान प्राप्तेः सन्दर्भः अभवत्। छत्तीस् गढ्स्य मुख्यमन्त्री डॉ. रमण् सिंहः, मन्त्री प्रेंप्रकाश पाण्डेयः च सन्निहितौ आस्ताम् ।

Thursday, January 19, 2017

कान्पुर् रेल् यानदुर्घटना भीकराक्रमणहेतुभूता?
मोतिहारी (बीहार्)> गतसंवत्सरस्य नवम्बर् मासस्य विंशे दिनाङ्के, उत्तरप्रदेशे कान्पूरे संवृत्ता रेल् यानदुर्घटना भीकराक्रमणहेतुभूता इति बीहारस्य आरक्षकदलेन उक्तम्। बीहारराज्ये पूर्वचम्पारन् जनपदे आरक्षकैः गृहीतेभ्यःत्रिभ्यः, दुर्घटनां कर्तुं पाकिस्थान् चारसंस्थायाः ऐ एस् ऐ नामिकायाः साहाय्यं लब्धमिति अवगतमस्ति। मोट्टी पस्वान्, उमाशङ्करपट्टेलः, मुकेष् यादवः एते त्रयः एव आरक्षकबद्धाः अभवन्निति आरक्षकाणां जनपदाधिकारिणा जितेन्द्र राणावर्येण उक्तम्।
    एतेषां त्रयाणां ऐ एस् ऐ संस्थया सह सम्बन्धभूतेन ब्रजेष् गिरिनामकेन समं परस्परव्यवहारः आसीदिति आरक्षकाधिकारिणा निगदितम्। एतान् त्रीन् विना द्वावपि एतत्सम्बन्धौ निगृहीतव्यौ तौ निलीयमानौ वर्तत इति च आरक्षकवृत्तैरुच्यते।


डालिया अराना वाचनाविश्वे लघ्वी मेधावी।
वाषिड्टण्>विश्वस्य बृहत्तम ग्रन्थशालायाः यु एस् कोण्ग्रस् ग्रन्थशालायाः (नाषणल् ग्रन्थशालायाः)एकदिनस्य ग्रन्थालयाध्यक्षरूपेण चतुर्वयस्का बालिका नियुक्ता।सहस्राणां ग्रन्थानां वाचनानन्तरं एषः बहुमतिः सा प्राप्ता।जोर्जिया गयिन्व्विन्स् वासी डालिया अराना अस्ति सा बालिका।तृतीये वयसि चित्रकथापुस्तकानां वाचनेनासीत् तस्याः आरम्भः।पुनः के जी कक्ष्याः पूर्वं १००० ग्रन्थाः वाचितुं तस्याः माता प्रोत्साहनं दत्तवती।छात्राणां केषाञ्चन ग्रन्थानां वाचनं शक्यतेति परीक्षणार्थमासीत् एषः।